Adhyaya 298
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 298

Adhyaya 298

本章以对话展开:帕尔瓦蒂请伊湿伐罗说明,为何在普拉婆娑境内、桑伽勒湿伐罗圣所附近,会出现“圣地之王”普拉雅伽,以及恒河、阎牟那与萨拉斯瓦蒂三河。伊湿伐罗解释说,往昔因一段与林伽相关的神圣因缘,诸天大会中无量圣地云集;普拉雅伽隐身其间,遂得名“古普塔”(隐秘的)。 经文继而详述神圣地理:三处主要沐浴池——西方的梵天池(Brahma-kuṇḍa)、东方的毗湿奴池(Vaiṣṇava-kuṇḍa)、居中的鲁陀罗/湿婆池(Rudra/Śiva-kuṇḍa)——以及第四处名为“三汇”(Tri-saṅgama)的区域:恒河与阎牟那相会,而萨拉斯瓦蒂被说成细微幽隐,潜流于两河之间。又规定依历法择时,并阐明层级净化之理:依次沐浴可除心过、语过、身过、关系之过、隐秘之过与诸支末过;反复沐浴与在池中行灌沐(kuṇḍa-abhisheka)被称能洗涤重大垢染。 本章还教人以供品礼敬诸母神(Mātṛ),尤其在黑半月十四日(Kṛṣṇa-pakṣa Caturdaśī)行供,以减轻对其众多随从之畏惧。祖先祭仪(śrāddha)被赞为能提升父系与母系两支家族;欲得朝圣圆满之果者,宜施舍一头公牛。末以果报偈(phalaśruti)作结:聆听并信受此《隐秘普拉雅伽》功德赞,将趋向商羯罗(Śaṅkara)之居处。

Shlokas

Verse 1

ईश्वर उवाच । ऋषितोयापश्चिमे तु तत्र गव्यूतिमात्रतः । संगालेश्वरनामास्ति सर्वपातकनाशनः

自在天(Īśvara)说道:在Ṛṣitoyā之西,仅一伽维优提(gavyūti)之遥,有一圣林伽名为“桑伽勒湿伐罗”(Saṃgāleśvara),能灭除一切罪垢。

Verse 2

गुप्तस्तत्र प्रयागश्च देवो वै माधवस्तथा । जाह्नवी यमुना चैव देवी तत्र सरस्वती

彼处亦有隐秘的普罗耶伽(Prayāga),并有摩陀婆神(Mādhava)。河神女神阇诃那维(即恒河Gaṅgā)与亚穆那(Yamunā)同在,女神萨拉斯瓦蒂(Sarasvatī)亦在其地。

Verse 3

अन्यानि तत्र तीर्थानि बहूनि च वरानने । स्नात्वा दृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः

美颜者啊,彼处亦有众多其他圣渡处(tīrtha)。若能沐浴、瞻礼并供奉,便可解脱一切罪垢。

Verse 4

पार्वत्युवाच । कथय त्वं महेशान सर्वदेवनमस्कृत । तीर्थराजः प्रयागस्तु कथं विष्णुः सनातनः

帕尔瓦蒂说道:请告诉我,噢摩诃伊舍那,受诸天礼敬者——普拉雅伽为何为诸圣渡(tīrtha)之王?永恒的毗湿奴又如何在此显现?

Verse 5

कथं गंगा च यमुना तथा देवी सरस्वती । अन्यान्यपि बहून्येव तीर्थानि वृषभध्वज

恒河与亚穆纳河,以及女神萨拉斯瓦蒂,如何也在此处?噢持牛旗之主(Vṛṣabhadhvaja),又为何还有如此众多其他圣渡(tīrtha)同在?

Verse 6

समायातानि तत्रैव संगालेश्वरसंनिधौ । संगालेशेति किं नाम ह्येतन्मे वद कौतुकम्

它们就在那儿,于桑伽勒湿伐罗(Saṃgāleśvara)之前汇聚而来。那么为何称作“桑伽勒湿”(Saṃgāleśa)?请为我解说,以释我心中好奇。

Verse 7

ईश्वर उवाच । पुरा वै लिंगपतने सर्वदेवसमागमे । सार्धत्रितयकोटीनि पुण्यानि सुरसुन्दरि

自在天(Īśvara)说道:往昔,当林伽坠落之时,诸天齐集——噢天众中最美者——三又半俱胝(koṭi)的圣功德(tīrtha-puṇya)在彼处显现。

Verse 8

तीर्थानि तीर्थराजोऽयं प्रयागः समुपस्थितः । आत्मानं गोपयामास तीर्थकोटिभिरावृतम्

诸圣渡(tīrtha)皆已到齐;而作为圣渡之王的普拉雅伽也来到。被无数俱胝的圣渡所遮覆,它便隐匿了自身。

Verse 9

ततस्तत्र समायाता ब्रह्मविष्णुपुरोगमाः । विबुधास्तीर्थराजं तं ददृशुर्दिव्यचक्षुषा

随后,梵天与毗湿奴偕同诸天来到彼处;以天眼观见那“诸圣渡之王”——普拉雅伽(Prayāga)。

Verse 10

तीर्थकोटिभिराकीर्णं पवित्रं पापनाशनम् । लिंगस्य पतनं श्रुत्वा महादुःखेन संवृताः

彼处遍满亿万圣渡,清净而能灭罪;闻知灵伽坠落之事,诸神皆为大悲所覆。

Verse 11

स्थिताः सर्वे तदा देवि ब्रह्माद्याः सुरसत्तमाः

其时,女神啊,一切最胜诸天,以梵天为首,皆在彼处肃立集会。

Verse 12

एतस्मिन्नेव काले तु देवो रुद्रः सनातनः । निरानंदः समायातो वाक्यमेतदुवाच ह

就在那时,永恒之神鲁陀罗到来,心无欢悦,遂说出如下言辞。

Verse 13

शृणुध्वं वचनं देवा ब्रह्मविष्णुपुरोगमाः । ऋषिशापान्निपतितं मम लिंगमनुत्तमम् । तस्माल्लिंगं पूजयत सर्व कामार्थसिद्धये

“诸天啊,梵天与毗湿奴为首者,听我之言。因仙圣之诅咒,我无上之灵伽坠落于此。故当礼敬供养此灵伽,以成就一切所愿与正当福祉。”

Verse 14

एवमुक्त्वा महादेवो देशे तस्मिन्स्थितः प्रिये । ब्राह्मं च वैष्णवं रौद्रं तत्र कुण्डत्रयं स्मृतम्

说罢此言,摩诃提婆便驻留于彼处,卿我所爱。彼地传忆三座圣池:梵天池(Brāhma)、毗湿奴池(Vaiṣṇava)与鲁陀罗池(Raudra)。

Verse 15

चतुर्थं त्रिसंगमाख्यं नदीनां यत्र संगमः । गंगायाश्च सरस्वत्याः सूर्यपुत्र्यास्तथैव च

第四处圣地名为“三汇处”(Trisaṅgama),乃诸河交会之所——恒河(Gaṅgā)、萨拉斯瓦蒂河(Sarasvatī),以及太阳之女雅穆纳河(Yamunā)。

Verse 16

कोटिरेका च तीर्थानां ब्रह्मकुण्डे व्यवस्थिता । तथा च वैष्णवे कुण्डे कोटिरेका प्रकीर्तिता

在梵天池(Brahmā-kuṇḍa)中,安住着多于一俱胝(koṭi,亿级之数)的诸多圣渡处(tīrtha),不可量计;同样,在毗湿奴池(Vaiṣṇava-kuṇḍa)亦宣说为“俱胝之外更有余”。

Verse 17

सार्धकोटिस्तु संप्रोक्ता शिवकुण्डे प्रकीर्तिता । पश्चिमे ब्रह्मकुण्डं च पूर्वे वै वैष्णवं स्मृतम्

在湿婆池(Śiva-kuṇḍa)中,宣说有一俱胝半的圣渡处(tīrtha)。梵天池被记为在西方,而毗湿奴池被记为在东方。

Verse 18

मध्यभागे स्थितं यच्च रुद्रकुण्डं प्रकीर्तितम् । कुण्डमध्याद्विनिर्गत्य यत्र गंगा वरानने

而居于中央者,被宣称为鲁陀罗池(Rudra-kuṇḍa)。从那池的中心,卿容姝丽,恒河(Gaṅgā)涌现而出。

Verse 19

सूर्यपुत्र्या समेता च तत्त्रिसंगम उच्यते । अनयोरंतरे सूक्ष्मे तत्र गुप्ता सरस्वती

与太阳之女(阎牟那,Yamunā)汇合之处,称为“三汇”(Trisaṅgama)。在这两者之间,以微妙之相,萨拉斯瓦蒂(Sarasvatī)隐秘于彼处。

Verse 20

एषु सन्निहितो नित्यं प्रयागस्तीर्थनायकः । अत्रागत्य नरो यस्तु माघमासे वरानने

在这些圣渡处(tīrtha)之中,普拉雅伽(Prayāga)——诸圣地之主——恒常安住。凡于摩伽月(Māgha)来到此处者,噢,容颜姝丽者,……

Verse 21

स्नायात्प्रभातसमये मकरस्थे रवौ प्रिये । किञ्चिदभ्युदिते सूर्ये शृणु तस्य च यत्फलम्

प्रिय者啊,当太阳行至摩羯(Makara,Capricorn)之时,应于黎明沐浴。待太阳仅微微升起之际,请聆听此浴所生之功德果报。

Verse 22

आद्येनैकेन स्नानेन पापं यन्मनसा कृतम् । व्यपोहति नरः सम्यक्छ्रद्धायुक्तो जितेन्द्रियः

仅以第一次沐浴,若人具足信心、调伏诸根,便能彻底除去心中所造之罪。

Verse 23

वाचिकं तु द्वितीयेन कायिकं तु तृतीयकात् । संसर्गजं चतुर्थेन रहस्यं पञ्चमेन तु

以第二次沐浴,除去口业之罪;以第三次,除去身业之罪;以第四次,除去因交往染著而生之罪;以第五次,除去隐秘潜藏之罪。

Verse 24

उपपातकानि षष्ठेन स्नानेनैव व्यपोहति

仅凭第六次沐浴,诸般次罪(upapātaka)便得消除。

Verse 25

अभिषेकेण कुण्डानां सप्तकृत्वो वरानने । महांति चैव पापानि क्षाल्यंते पुरुषैः सदा

噢,容颜姝丽者,于圣池行灌沐(abhiṣeka)七次,纵是大罪亦常为众人洗净。

Verse 26

यः स्नाति सकलं मासं प्रयागे गुप्तसंज्ञके । ब्रह्मादिभिर्न तद्वक्तुं शक्यते कल्पकोटिभिः

凡于名为“古普塔”的普拉雅伽整月沐浴者,其功德之广大,纵历无数亿劫,连梵天等诸神亦难尽述。

Verse 27

यानि कानि च तीर्थानि प्रभासे संति भामिनि । तेभ्योऽतिवल्लभं तीर्थं सर्वपापप्रणाशनम्

噢,光辉的女子,普拉婆娑所有诸圣渡处(tīrtha)之中,有一处最为可爱,能灭尽一切罪业。

Verse 28

एषां संरक्षणार्थाय मया वै तत्र मातरः । पूजनीयाः प्रयत्नेन नैवेद्यैर्विविधैः शुभैः

为护持这些圣渡处,我在彼处安立诸母神(Mātṛ);当以殷勤之心礼敬,并奉献种种吉祥食供(naivedya)。

Verse 29

कृष्णपक्षे चतुर्दश्यां श्रद्धायुक्तेन चेतसा । तासामनुचरा देवि भूतप्रेताश्च कोटिशः

女神啊,在黑半月的第十四日,怀着具足信心之心——有无数(亿万)部多与饿鬼,作为那些圣母的随从侍者。

Verse 30

तेषां भयविनाशाय ता मातॄश्च प्रपूजयेत् । अस्मिंस्तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति

为消除他们的恐惧,应当善加礼敬供奉那些圣母;而在此圣渡处(tīrtha),人若沐浴,连杀婆罗门之罪(brahmahatyā)亦能除灭。

Verse 31

यः कश्चित्कुरुते श्राद्धं पितॄनुद्दिश्य भक्तितः । उद्धरेच्च पितुर्वर्गं मातुर्वर्गं नरोत्तमः

凡以虔敬之心行施罗达(śrāddha),回向供奉诸祖灵(Pitṛs)者,此至善之人能超拔救度父系与母系两族。

Verse 32

वृषभस्तत्र दातव्यः सम्यग्यात्राफलेप्सुभिः । एवं यः कुरुते यात्रां तस्य फलमनन्तकम्

欲求朝圣(yātrā)圆满果报者,应在彼处如法布施一头公牛(vṛṣabha)。如此行旅者,其功德无量无尽。

Verse 33

एवं गुप्तप्रयागस्य माहात्म्यं कथितं तव । श्रुत्वाभिनन्द्य पुरुषः प्राप्नुयाच्छंकरालयम्

如是,已向你宣说隐秘普拉亚伽(Guptaprayāga)的伟大功德。人若闻之而欢喜赞叹,便得至圣者商羯罗(Śaṅkara)之居处。

Verse 298

इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तप्रया गमाहात्म्यवर्णनंनामाष्टनवत्युत्तरद्विशततमोऽध्यायः

至此,《圣·斯坎达大往世书》“八万一千颂集”(Ekāśīti-sāhasrī Saṃhitā)中,普拉婆娑篇(Prabhāsa Khaṇḍa)之第一《普拉婆娑圣域功德》(Prabhāsakṣetra-māhātmya)里,题为《隐秘普拉雅伽(Guptaprayāga)伟大功德之述》的第二百九十八章圆满结束。