
伊湿伐罗指出北方一处与“那罗迦伊湿伐罗”(Narakeśvara)相应的圣地,称其为能灭罪障的林伽,并继而讲述一则出自摩图罗的譬喻。婆罗门提婆舍尔曼(Devaśarman,阿迦斯提耶族系)因贫困而受苦,却因阎摩使者奉命去拘另一位同名者而误被牵连。阎摩纠正此错,并宣示自己为法王(Dharma-rāja)之职:死亡不会早于应至之时,即便受伤亦然;众生无有“非时而死”。 婆罗门遂请求对可见之地狱界(那罗迦,naraka)作技术性说明:其数目与招感之业因。阎摩列举诸那罗迦(称为二十一处),并将之与诸恶业相系:背弃信托、作伪证、粗暴欺诳之语、通奸、盗窃、伤害持戒守誓者、加害于牛、敌视天神与婆罗门、侵夺寺庙/婆罗门财物,以及其他社会与宗教层面的越轨。 教说最终归于预防性的解脱之道:阎摩言,凡至普罗婆娑(Prabhāsa)并以虔敬瞻礼那罗迦伊湿伐罗者,便不复见地狱。此林伽据说由阎摩以湿婆信爱(Śiva-bhakti)所建立,宜作为受护持之密教而传。章末并给出仪轨与果报颂:终身供奉得“至上成就”;于阿湿伐瑜阇月之黑半月十四日(Kṛṣṇa Caturdaśī)行施罗陀(śrāddha)得如马祭(Aśvamedha)之功德;以黑鹿皮施与通晓吠陀之婆罗门,得天界荣誉,随芝麻(tila)粒数而增。
Verse 1
ईश्वर उवाच । ततोगच्छेन्महादेवि देवं चाऽनरकेश्वरम् । तस्मादुत्तरदिग्भागे सर्वपातकनाशनम् । तन्माहात्म्यं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये
自在天(Īśvara)说道:“随后,伟大的女神啊,应前往阿那罗迦伊湿伐罗(Anarakeśvara)神处。其地之北有一处圣境,能灭除一切罪业。如今我将宣说其伟大功德——亲爱的,请一心谛听。”
Verse 2
मथुरानाम विख्याता नगरी धरणीतले । तत्र विप्रोऽभवत्पूर्वं देवशर्मेति विश्रुतः । अगस्त्यगोत्रो विद्वान्वै स तु दारिद्र्यपीडितः
在大地之上,有一座闻名的城邑名为摩图罗(Mathurā)。昔日那里有一位婆罗门,名声远播,号德瓦舍尔曼(Devaśarman);他出自阿迦斯底耶(Agastya)族系,学识渊博,却为贫困所逼。
Verse 3
अथापरोऽभवत्तत्र तादृग्रूपवयोऽन्वितः । तन्नाम गोत्रो देवेशि ब्राह्मणो वेदपारगः
随后在那城中又有另一位婆罗门,形貌与年岁皆相仿。噢,诸天之主母啊,他同名同族,且通达吠陀,堪称吠陀大师。
Verse 4
अथ प्राह यमो दूतं रौद्रमूर्धशिरोरुहम् । गच्छ भो मथुरां शीघ्रं देवशर्माणमानय
于是阎摩(Yama)对他的使者说道,那使者头颅与发髻狰狞可怖:“去吧,速往摩图罗,将德瓦舍尔曼带来。”
Verse 5
अथागत्य ततो दूतो गृहीत्वा तत्र वै गतः । तं दृष्ट्वाथ यमो नत्वा प्राह दूतं क्रुधान्वितः
使者随即前往彼处,擒住(那人)而归。阎摩见到他,先依礼致敬一拜,继而怒意满怀,对使者说道。
Verse 6
नायमानेतुमादिष्टो देवशर्मां मया तव । अन्योस्ति देवशर्मा यस्त मानय गतायुषम् । एनं विप्रं च दीर्घायुं नय तत्राविलंबितम्
“此人并非我命你带来的提婆舍摩。另有一位提婆舍摩——把那位寿命已尽者带来。至于这位寿命绵长的婆罗门,当即送回彼处,不得迟延。”
Verse 7
ईश्वर उवाच । अथाब्रवीद्ब्राह्मणो वै नाहं यास्ये गृहं विभो । दारिद्र्येणातिनिर्विण्णो यावज्जीवं सुरेश्वर । इहैव क्षपयिष्यामि शेषमायुस्तवांतिके
自在天说道。于是那婆罗门禀白:“至上之主啊,我不回家了。我一生为贫困所磨损,天神之主啊,我愿就在此地,在你近旁,度尽余下的寿命。”
Verse 8
यम उवाच । अकाले नात्र चायाति कश्चिद्ब्राह्मणसत्तम । मुहूर्तमपि नो जीवेत्पूर्णकालेन वै भुवि
阎摩说道:“婆罗门中的至善者啊,无人会在未到时辰之前来到此处。确然,在人间,任何众生在其定数圆满之刻之后,连一瞬的牟呼尔多也不能多活。”
Verse 9
अत एव हि मे नाम धर्मराजेति विश्रुतम्
“正因如此,我的名号才闻名为法王(Dharmarāja),即正法之王。”
Verse 10
न मे सुहृन्न मे द्वेष्यः कश्चिदस्ति धरातले । विद्धः शरशतेनापि नाऽकाले म्रियते यतः
“在人世间,我既无友亦无敌。因为纵使一人被百箭贯穿,也不会在其命定之时之前死去。”
Verse 11
कुशाग्रेणापि विद्धः सन्काले पूर्णे न जीवति । तस्माद्गच्छ द्विजश्रेष्ठ यावद्गात्रं न दह्यते
即使仅被库沙草尖刺伤,若大限已至,亦无法存活。因此,再生族中最优秀者啊,趁你的身体尚未被焚烧之前,离去吧。
Verse 12
अथाब्रवीद्ब्राह्मणोऽसौ यदि प्रेषयसे प्रभो । प्रश्नमेकं मया पृष्टो यथावद्वक्तुमर्हसि
那时,那位婆罗门说道:‘主啊,如果您要遣我离开,请您如实回答我提出的一个问题。’
Verse 13
न वृथा जायते देव साधूनां दर्शनं क्वचित् । युष्माकं च विशेषेण तस्मादेतद्ब्रवीम्यहम्
天神啊,得见圣者绝非徒劳。尤其是见到您;因此我才对您说这番话。
Verse 14
एते ये नरका रौद्रा दृश्यन्ते च सुदारुणाः । कर्मणा केन कं गच्छेन्मानवो नरकं यम
阎摩啊,眼前这些地狱——恐怖且极其可怕——人类究竟因何种业力而堕入哪一个特定的地狱?
Verse 15
कति संख्याः स्युरेते च नरकाः किंप्रमाणतः । एतत्सर्वं सुरश्रेष्ठ यथावद्वक्तुमर्हसि
这些地狱有多少?它们的规模或范围又是如何?众神中最优秀者啊,请您如实解释这一切。
Verse 16
यम उवाच । शृणु देव प्रवक्ष्यामि यावन्तो नरकाः स्थिताः । कर्मणा येन गच्छेत मानवो द्विजसत्तम । एकविंशत्समाख्याता नरका मम मन्दिरे
阎摩王说道:“听着,尊者;我将宣说地狱有多少处,以及人因何等业行而堕入其中,噢,最胜婆罗门。在我的居处,地狱被宣称共有二十一种。”
Verse 17
यानेतान्प्रेक्षसे विप्र यंत्र मध्ये व्यवस्थितान् । पीड्यमानान्किंकरैर्मे कृतघ्नान्पा पसंयुतान्
“婆罗门啊,你所见那些被安置在刑具之中、受我使者折磨者,皆是不知恩德之人,被罪业所缚。”
Verse 18
लोहास्यवायसा येषां नेत्रोद्धारं प्रकुर्वते । एतैर्निरीक्षितान्येव कलत्राणि दुरात्मभिः
那些恶人曾以罪欲之心窥视他人之妻——铁喙乌鸦撕啄其眼,以为业报。
Verse 19
परेषां द्विजशार्दूल सरागैः पापि भिः सदा । कुम्भीपाकगतानेतानथ पश्यसि पापिनः
“婆罗门中之虎啊,你如今所见这些罪人,恒常执著于欲染与恶行,已堕入名为‘俱毗波迦’(Kumbhīpāka)的地狱。”
Verse 20
कूटसाक्ष्यरता ह्येते कटुवाङ्निरतास्तथा । एते लोहमयास्तम्भान्संतप्तान्पावकप्र भान्
这些人喜作伪证,又执著于刻薄恶语;他们被迫拥抱烧得通红的铁柱,炽亮如火。
Verse 21
आलिंगंति दुरात्मानः परदाररतास्तु ये । एते वैतरणीमध्ये पूयशोणितसंकुले
那些心性邪恶、贪恋他人妻室的男子,被迫在酷刑中相互拥抱;他们居于吠多罗尼河中央,那河充塞脓液与血污。
Verse 22
ये तिष्ठंति द्विजश्रेष्ठ सर्वे विश्वासघातकाः । असिपत्रवने घोरे भिद्यन्ते ये तु खण्डशः । ते नष्टाः स्वामिनं त्यक्त्वा संग्रामे समुपस्थिते
噢,最尊贵的婆罗门啊,一切背弃信任者,皆在可怖的阿西帕特罗森林中被裂成碎片;同样,战事既起而弃其主帅者,亦必败亡。
Verse 23
अंगारराशीन्वै दीप्तान्ये गाहन्ते नराधमाः । स्वामिद्रोहरता ह्येते तथा हेतुप्रवादकाः
那些最卑劣之人,投身于炽燃的炭火堆中者,正是专事背叛其主之徒,以及捏造借口、编织诽谤“理由”之人。
Verse 24
लोहशंकुभिराकीर्णमाक्रमन्ति नराधमाः । क्रन्दमाना द्विजश्रेष्ठ उपानद्दानवर्जिताः
噢,最尊贵的婆罗门啊,那些最下劣之人哀号哭喊,被迫踏行于遍布铁刺之地——因为他们吝于施舍鞋履之布施。
Verse 25
अधोमुखा निबद्धा ये वृक्षाग्रे पावकोपरि । ब्रह्महत्यान्विताः सर्व एते चैव नराधमाः
那些被倒悬捆缚于树梢、置于火焰之上的人——这些最下劣者皆染有杀害婆罗门之罪(梵杀,brahmahatyā)。
Verse 26
मशकैर्मत्कुणैः काकैर्ये भक्ष्यंते विहंगमैः । व्रतभंगरता ह्येते व्रतिना चैव हिंसकाः
被蚊虫、臭虫、乌鸦及诸鸟啄食者,乃是乐于破戒毁誓、并伤害持誓修行之人的众生。
Verse 27
कुठारकण्ठिता ह्येते भूयः संति तथाविधाः । गोहन्तारो दुरात्मानो देवब्राह्मणानिंदका
这些众生如同颈上加斧;此类甚多——心性邪恶,杀牛害生,并诋毁诸天与婆罗门者。
Verse 28
ये भक्ष्यंते शृगालैश्च वृकैर्लोहमयैर्मुखैः । परस्वानां च हर्तारः परस्त्रीणां च हर्तृकाः । आत्ममांसानि ये पापा भक्षयंति बुभुक्षिताः
凡盗取他人财物、掳夺他人妻室之罪人,必为豺狼所噬,其口如铁;因饥渴逼迫,竟被迫吞食自身之肉。
Verse 29
न दत्तमन्नमेतैस्तु कदाचिद्वै द्विजोत्तम । रुधिरं ये पिबंत्येते वसापूयपरिप्लुतम् । ब्राह्मणानां विनाशाय गवामेते सदा स्थिताः
噢,最胜之二次生者!此辈从未施食布施;他们被迫饮血,血中浸满脂膏与脓秽——常怀毁灭婆罗门与牛之恶念者。
Verse 30
कूटशाल्मलिबद्धाश्च तीक्ष्णकण्टकपीडिताः । छिद्रान्वेषणसंयुक्ताः परेषां नित्यसंस्थिताः
他们被缚于多刺的娑罗摩梨树上,受锐刺折磨;恒常搜寻他人过失,心念总系于他人弱点。
Verse 31
क्रकचेन तु छिद्यन्ते य इमे द्विजसत्तम । अभक्ष्यनिरता ह्येते स्वधर्मस्य विदूषकाः
婆罗门中最优秀者啊!这些人正被锯子锯断,因为他们沉溺于禁食之物,玷污了自己的法(Dharma)。
Verse 32
कन्याविक्रयकर्त्तारः कन्यानां जीवभंजकाः । पुरीषमध्यगा ह्येते पच्यंते मम किंकरैः
那些贩卖少女、摧毁少女生命的人,正在污秽中被烹煮,受我侍从的折磨。
Verse 33
संदेशैर्दारुणैर्जिह्वा येषामुत्पाट्यते मुहुः । वाग्लोपनिरता ह्येते मृषावादपरायणाः
在可怕的命令下,他们的舌头被反复拔出;这些人致力于败坏言语,沉溺于虚妄之中。
Verse 34
ये शीतेन प्रबाध्यंते वेप माना मुहुर्मुहुः । देवस्वानां च हर्तारो ब्राह्मणानां विशेषतः
那些受严寒折磨、一次又一次颤抖的人,是盗窃神庙财物者,尤其是掠夺婆罗门财富的人。
Verse 35
तेषां शिरसि निक्षिप्तो भूरिभारो द्विजोत्तम । अतोऽमी ब्राह्मणश्रेष्ठ पूत्का रयन्ति भैरवम्
婆罗门中最优秀者啊!巨大的重负压在他们的头上;因此,婆罗门中的佼佼者啊,他们发出可怕的惨叫。
Verse 36
यम उवाच । एवमेतत्समाख्यातं तव सर्वं द्विजोत्तम । नरकाणां स्वरूपं तु कर्मणां वै यथाक्रमम्
阎摩说道:“如是,我已向你尽皆宣说,噢最胜的二生者——诸地狱之相,以及依次招致其果的诸业行。”
Verse 37
गच्छ शीघ्रं महाभाग यावत्कायो न दह्यते
速速前去,噢有福者,在此身尚未被火葬之火焚尽之前。
Verse 38
ब्राह्मण उवाच । कथय त्वं सुरश्रेष्ठ मम सर्वं समाहितः । न गच्छेत्कर्मणा येन नरकं मानवः क्वचित्
婆罗门说道:“噢诸天中最胜者,请在我专心摄受你言教之时,将一切告知我——凭何等行持,人因其所作之业,永不堕入地狱?”
Verse 39
सतां सप्तपदं मैत्रमित्याहुर्बुद्धिकोविदाः । मित्रतां च पुरस्कृत्य समासाद्वक्तुमर्हसि
智者说:在善人之间,友谊以同走“七步”而结为盟誓。故当尊重此友契,请你以信任之心,慈然对我密语。
Verse 40
यम उवाच । प्रभासं क्षेत्रमासाद्या नरकेश्वरमुत्तमम् । यः पश्यति नरो भक्त्या नरकं स न पश्यति
阎摩说道:“凡至圣地普罗婆娑,怀敬信瞻礼至上那罗迦伊湿伐罗者,此人不复见地狱——得脱于见那罗迦之苦。”
Verse 41
स्थापितं यन्मया लिंगं शिवभक्त्या युतेन च । एतद्गुह्यं मया प्रोक्तं तव प्रीत्यै द्विजोत्तम
我所安立的林伽,亦与对湿婆的虔敬相应——此一秘要,我为令你欢喜而宣说,噢,最胜的二生者。
Verse 42
गोपनीयं प्रयत्नेन मम वाक्यादसंशयम् । एवमुक्तस्तदा विप्रः स्वयमेवावनिं ययौ
当竭力守秘,依我之言,毫无疑虑。婆罗门既受此教诲,便于其时独自返回人间大地。
Verse 43
लब्ध्वा कलेवरं सोऽथ विस्मयं परमं गतः । तत्स्मृत्वा वचनं सर्वं धर्मराजस्य धीमतः
他重得其身,心中生起至大的惊异;并忆念智者法王(Dharmarāja)所说的一切言辞。
Verse 44
गत्वा तत्र स नित्यं वै पूजयामास तं प्रभुम् । यावज्जीवं वरारोहे ततः सिद्धिं परां गतः
他前往彼处,确实终其一生日日礼敬那位主宰;其后便证得至上的成就。
Verse 45
तस्मात्सर्वप्रयत्नेन भक्त्या तमवलोकयन् । अपि पातकयुक्तोऽपि न याति नरके नरः
因此,当以一切努力、以虔敬观见彼主——即便罪业缠身之人,也不堕地狱。
Verse 46
आश्वयुक्कृष्णपक्षे तु चतुर्दश्यां विधानतः । यस्तत्र कुरुते श्राद्धं सोऽश्वमेधफलं लभेत्
在阿湿婆瑜阇月的黑半月,于第十四月日,凡依仪轨在彼处行施罗陀(śrāddha)者,得与马祭(Aśvamedha)同等之功德。
Verse 47
कृष्णाजिनं तत्र देयं ब्राह्मणे वेदपारगे । यावत्तिलानां संख्यानं तावत्स्वर्गे महीयते
在彼处,当以黑羚羊皮(kṛṣṇājina)布施于通达吠陀的婆罗门;所数芝麻之数有多少,便在天界受尊崇如是之久。