Adhyaya 22
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 22

Adhyaya 22

第22章叙述月神苏摩(Soma)在普拉婆娑(Prabhāsa)圣地的祭仪版图中,由苦厄走向复原的历程。虽已得达克沙(Dakṣa)许可,苏摩仍忧伤不已,抵达普拉婆娑后瞻仰著名的克利塔斯摩罗山(Kṛtasmar[a])。经文以吉祥草木、群鸟、天界乐师,以及苦行者与吠陀通达者的会集,细致描绘其殊胜景象。 继而转入苏摩的奉爱修持:他在海滨与“斯帕尔沙”(Sparśa,触遇/相逢)相关的林伽(liṅga)前,反复绕行并专注礼拜;又以果与根为食,长期行苦行(tapas),并献上结构严整的赞颂,称扬湿婆(Śiva)超越形相的本体与诸多圣号,其中包含贯穿宇宙诸劫期的神名次第。湿婆欢喜赐福:苏摩的亏损与增长将按两半月交替进行,既不废达克沙之咒言,又缓其严酷。 经文并以较长的伦理论述强调婆罗门权威与宇宙安定、祭仪灵验密不可分。章末说明海中隐秘林伽及其安置之法,并解释“普拉婆娑”之名:此地使曾失光辉的苏摩重获光明(prabhā)。

Shlokas

Verse 1

ईश्वर उवाच । दक्षेणैवमनुज्ञातः शोचन्कर्म स्वकं तदा । दुःखशोकपरीतात्मा प्रभासं क्षेत्रमागतः

自在天(Īśvara)曰:既蒙达克沙如此允可,他当时哀叹自身所作;心为痛苦与忧悲所覆,遂来到普拉婆娑(Prabhāsa)之神圣圣域。

Verse 2

स गत्वा दक्षिणं तीरं सागरस्य समीपतः । ददर्श पर्वतं तत्र कृतस्मरमिति श्रुतम्

他来到临近大海的南岸,在那里见到一座名闻遐迩的山,号称“克利塔斯玛拉”(Kṛtasmarā)。

Verse 3

यक्षविद्याधराकीर्णं किन्नरैरुपशोभितम् । चंदनागुरुकर्पूरैरशोकैस्तिलकैः शुभैः

此山群集夜叉与持明者(Vidyādhara),又为紧那罗所增辉;檀香、沉香(agaru)与樟脑芬芳弥漫,并以吉祥的阿输迦树与提拉迦树点缀。

Verse 4

कल्हारैः शतपत्रैश्च पुष्पितैः फलितैः शुभैः । आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा

其上以吉祥草木为饰——睡莲(kalhāra)与百瓣莲华——花开果结皆美;又有芒果、阎浮(jambu)、木苹果(kapittha)、石榴与菠萝蜜树。

Verse 5

निंबुजम्बीरनागैश्च कदलीखंडमंडितैः । क्रमुकैर्नागवल्ल्याद्यैः शालैस्तालैस्तमालकैः

又以香橼与柠檬之树、成簇的蕉林而更显秀丽;并有槟榔树与如蒌叶藤(nāgavallī)等蔓生之物,以及娑罗树、糖棕(tāla)与多摩罗树(tamāla)。

Verse 6

बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः । बिल्वचंपकतिंद्वाद्यैः कदंबककुभैस्तथा

其间亦遍布香橼(bījapūraka)与海枣树,葡萄藤、甘甜之木与帕塔拉花(pāṭala);又有毕尔瓦与瞻波迦,提姆度(tiṃdu)等诸树,并有迦檀婆(kadamba)与库婆(kubha)之木。

Verse 7

धवाशोकशिरीषाद्यैर्नानावृक्षैश्च शोभितम् । कामं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभैः

彼处以种种树木庄严——如达婆树、阿输迦树、尸利沙树等;更有如意满愿之树,吉祥殊胜,花开繁盛,果实累累。

Verse 8

हंसकारंडवाकीर्णं चक्रवाकोपशोभितम् । कोकिलाभिः शुकैश्चैव नानापक्षिनिनादि तम्

其间群集天鹅与迦兰陀婆鸟,又以成双的遮迦罗婆迦鸟增其华美;四方回响着鸠鸟、鹦鹉及诸多鸟类的鸣声。

Verse 9

जातिस्मराः पक्षिणश्च व्याजह्रुर्मानुषीं गिरम् । गंधर्वकिंनरयुगैः सिद्धविद्याधरोरगैः

有些鸟具宿命之忆,竟能吐出人语;其地又为成双的乾闼婆与紧那罗所往来,并有悉达、持明者与那伽常来游集。

Verse 10

क्रीडद्भिर्विविधैर्दिव्यैः शोभितं पर्वतोत्तमम् । देवगंधर्वनृत्यैश्च वेणुवीणानिनादितम्

那座殊胜之山因种种天界嬉游者而更显庄严;又蒙诸天与乾闼婆之舞所增辉,笛声与维那琴声充满其间。

Verse 11

वेदध्वनितघोषेण यज्ञहोमाग्निहोत्रजैः । समावृतं सर्वमाज्यगंधिभिरुच्छ्रितम्

彼处一切皆为吠陀诵音的回响所笼罩;由祭祀(yajña)、护摩(homa)与阿耆尼霍多罗(agnihotra)诸仪所起,酥油的馨香遍满四方。

Verse 12

शोभितं चर्षिभिर्दिव्यैश्चातुर्विद्यैर्द्विजोत्तमैः । अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः

此处为诸天圣仙所庄严——精通四种圣学的最上二生者——如阿特里(Atri)、婆悉吒(Vasiṣṭha)、普罗娑底耶(Pulastya)、普罗诃(Pulaha)与克罗图(Kratu)。

Verse 13

भृगुश्चैव मरीचिश्च भरद्वाजोऽथ कश्यपः । मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ

又有婆利古(Bhṛgu)与摩利支(Marīci)、婆罗陀婆阇(Bharadvāja)与迦叶(Kaśyapa);摩奴(Manu)与阎摩(Yama)、安祇罗(Aṅgiras)与毗湿奴(Viṣṇu);并有沙塔塔帕(Śātātapa)与波罗舍罗(Parāśara)同在。

Verse 14

आपस्तंबोऽथ संवर्तः कात्यः कात्यायनो मुनिः । गौतमः शंखलिखितौ तथा वाचस्पतिर्मुनिः

彼处亦有阿帕斯坦婆(Āpastamba)与三婆尔多(Saṃvarta);迦底耶(Kātya)与圣者迦底耶耶那(Kātyāyana);乔多摩(Gautama);商佉(Śaṅkha)与利弃多(Likhita);以及圣仙婆遮斯帕提(Vācaspati)。

Verse 15

जामदग्न्यो याज्ञवल्क्य ऋष्यशृंगो विभांडकः । गार्ग्यशौनकदाल्भ्याश्च व्यास उद्दालकः शुकः

阇摩达格尼之子(Jāmadagnya,即帕罗修罗摩 Paraśurāma)亦在其间,并有耶若那伐迦(Yājñavalkya);利湿耶室陵伽(Ṛṣyaśṛṅga)与毗般陀迦(Vibhāṇḍaka);又有伽尔吉耶(Gārgya)、首那迦(Śaunaka)与达尔毗耶(Dālbhyā);以及毗耶娑(Vyāsa)、优陀罗迦(Uddālaka)与舒迦(Śuka)。

Verse 16

नारदः पर्वतश्चैव दुर्वासा उग्रतापसः । शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा

那罗陀(Nārada)与帕尔瓦塔(Parvata)亦在彼处,杜尔婆娑(Durvāsā)这位严烈苦行者也同在;同样还有沙迦利耶(Śākalya)与伽罗婆(Gālava),以及阇婆利(Jābāli)与牟陀伽罗(Mudgala)。

Verse 17

विश्वामित्रः कौशिकश्च जह्नुर्विश्वावसुस्तथा । धौम्यश्चैव शतानन्दो वैशंपायनजिष्णवः

彼处有毗湿瓦密多与考希迦;亦有阇诃奴与毗湿瓦婆苏;并有陀乌弥耶、舍多难陀、毗舍ṃ帕耶那,以及吉施努。

Verse 18

शाकटायनवार्द्धिक्यावग्निको बादरायणः । वालखिल्या महात्मानो ये च भूमण्डले स्थिताः

彼处有沙迦吒耶那、瓦尔陀陀迦、阿瓦格尼迦与婆达罗耶那;又有大心的瓦拉奇利耶诸仙,以及居于大地之上的其他尊胜者。

Verse 19

ते सर्वे तत्र तिष्ठंति पर्वते तु कृतस्मरे । तेजस्विनो ब्रह्मपुत्रा ऋषयो धार्मिकाः प्रिये

他们全都住在那里,在名为“克利塔斯摩罗”的山上——光辉灿然的仙圣,梵天之子,坚住于法,卿所爱者啊。

Verse 20

ज्वलंतस्तपसा सर्वे निर्द्धूमा इव पावकाः । मासोपवासिनः केचित्केचित्पक्षोपवासिनः

他们皆以苦行之力炽然如焰,宛若无烟之火。有的守斋一月,有的守斋半月。

Verse 21

त्रैरात्रिकाः सांतपना निराहारास्तथा परे । केचित्पुष्प फलाहाराः शीर्णपर्णाशिनस्तथा

有的修持三夜之行;有的行“桑塔帕那”苦行;另有的绝食不食。有的以花与果为食,有的唯食落叶。

Verse 22

केचिद्गोमयभक्षाश्च जलाहारास्तथा परे । साग्निहोत्राः सुविद्वांसो मोक्षमार्गार्थचिन्तकाः

有些人甚至食用晒干的牛粪,另一些人则唯以清水为食。那些博学的圣贤守持阿耆尼火供(Agnihotra),思惟通往解脱(mokṣa)之道的深义。

Verse 23

इति हासपुराणादिश्रुतिस्मृतिविशारदाः । एते चान्ये च बहवो मार्कंडेयपुरोगमाः

如是,那些圣贤精通《伊提哈萨》与《普拉那》,又通达天启圣典(Śruti)与传承圣法(Smṛti)。他们以及许多其他人,皆以马尔坎德耶(Mārkaṇḍeya)为首,齐聚于彼处。

Verse 24

प्रभासं क्षेत्रमासाद्य संस्थिता कृतपर्वते । एवं कृतस्मरस्तत्र सर्वदेवनिषेवितः । मन्वंतरेस्मिन्यो देवि निर्दग्धो वडवाग्निना

抵达圣域普拉婆娑(Prabhāsa)后,他安立于圣山克利塔帕尔瓦塔(Kṛtapārva­ta)之上。在那里,他为诸天所敬奉、所侍从,遂得“心识复明”。而就在此一摩奴劫(Manvantara)中,噢女神,他曾被瓦达瓦阿耆尼(Vaḍavāgni)——马面海底火——所焚烧。

Verse 25

तं दृष्ट्वा पर्वतं रम्यं दृष्ट्वा चैव महोदधिम् । प्रदक्षिणं ततश्चक्रे सप्तकृत्वो निशाकरः । गिरेः प्रदक्षिणां कृत्वा गतो यत्र महेश्वरः

见到那可爱之山,又遥望浩瀚大海,尼沙迦罗(Niśākara,月神)遂行右绕礼(pradakṣiṇā)七匝。绕山毕,便前往大自在天(Maheśvara)所在之处。

Verse 26

समीपे तु समुद्रस्य स्पर्शलिंगस्वरूपवान् । प्रसादयामास विभुं प्रसन्नेनांतरात्मना

在海边,他以(礼敬)触灵林伽(Sparśa-liṅga)之相,怀着澄明清净的内心,祈求遍一切处的主宰垂赐欢喜与恩泽。

Verse 27

मरणं वेति संध्याय शरणं वा महेश्वरम् । वरं शापाभिघातार्थं मृत्युं वा शंकरान्मम

他沉思道:“这是死亡吗——还是应当归依大自在天摩诃湿伐罗?”遂断言:“若能止息诅咒之击,即便由商羯罗赐我死亡,于我亦胜过一切。”

Verse 28

इति सोमो मतिं कृत्वा तपसाऽराधयञ्छिवम् । यावद्वर्षसहस्रं तु फलमूलाशनोऽभवत्

于是,苏摩立定心志,以苦行奉事湿婆;整整一千年间,他唯以果实与根茎为食而住。

Verse 29

पूर्णे वर्षसहस्रे तु चतुर्थे वरवर्णिनि । तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह

当第四个千年圆满之时,哦容色姝丽者,圣尊鲁陀罗心生欢喜,便宣说如下言辞。

Verse 30

परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत । किं ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम्

“我对你甚为欢喜,哦月神旃陀罗。持善誓者啊,择取一愿吧。今日你欲我成就何愿?说来——纵是最难得之事亦可。”

Verse 31

एवं प्रत्यक्षमापन्नं दृष्ट्वा देवं वृषध्वजम् । प्रणम्य तं यथाभक्त्या स्तुतिं चक्रे निशाकरः

见到牛旗之神弗利沙陀伐阇(即旗帜绘牛之湿婆)如此亲现于前,尼沙迦罗依其虔敬而顶礼,并作颂赞之偈。

Verse 32

चंद्र उवाच । ॐ नमो देवदेवाय शिवाय परमात्मने । अप्रमेयस्वरूपाय ब्यक्ताव्यक्तस्वरूपिणे

月神旃陀罗说道:“唵——顶礼湿婆,诸神之神,至上真我;其体性不可测量,具显相与不显相之双重形态。”

Verse 33

त्वं पतिर्योगिनामीश त्वयि सर्वं प्रतिष्ठितम् । त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः प्रजापतिः

“你是瑜伽行者之主,噢伊湿;万有皆安立于你。你即是祭祀本身;你即是‘vaṣaṭ’的献供呼声;你即是唵音(Oṃkāra);你即是众生之主般若波提(Prajāpati)。”

Verse 34

चतुर्विंशत्यधिकं च भुवनानां शतद्वयम् । तस्योपरि परं ज्योतिर्जागर्ति तव केवलम्

“超越两百世界——又更超越二十四界——在一切之上辉耀着至上之光;唯有那光常觉常醒,而那正是你。”

Verse 35

कल्पांत आदिवाराहमुक्तब्रह्मांडसंस्थितौ । आधारस्तंभभूताय तेजोलिंगाय ते नमः

“顶礼于你,光焰灵伽(Tejo-liṅga)——炽烈辉煌之柱;当劫尽之时,原初野猪神瓦拉哈释放宇宙卵,你即为支撑万有的擎天柱。”

Verse 36

नमोऽनामयनाम्ने ते नमस्ते कृत्तिवाससे । नमो भैरवनाथाय नमः सोमेश्वराय ते

“顶礼于你,名为无病无垢者(Anāmaya);顶礼于你,披皮衣者(Kṛttivāsa)。顶礼怖畏主(Bhairavanātha);顶礼于你,月主自在者(Someśvara)。”

Verse 37

इति संज्ञाभिरेताभिः स्तुत्याभिरमृतेश्वरः । भूतैर्भव्यैर्भविष्यैश्च स्तूयसे सुरसत्तमैः

因此,凭借这些名号与赞颂之歌,噢阿蜜利特伊湿伐罗(Amṛteśvara),你为诸天中最胜者所赞叹——为过去、现在与未来的一切所称颂。

Verse 38

आद्यो विरंचिनामाभूद्ब्रह्मा लोकपितामहः । मृत्युञ्जयेति ते नाम तदाऽभूत्पार्वतीपते

在最初的时代,当梵天被称为毗然支(Virañci)、诸世界之祖父之时——噢帕尔瓦蒂之主——你的名号便成为“摩利提耶温阇耶”(Mṛtyuñjaya),战胜死亡者。

Verse 39

द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः । तदा कालाग्निरुद्रेति तव नाम प्रकीर्तितम्

在第二阶段,当梵天以莲华所生的“莲生者”(Padmabhū)而闻名之时,你的名号被宣说为“迦罗阿伽尼鲁陀罗”(Kālāgnirudra)——时间之火的鲁陀罗。

Verse 40

तृतीयोऽभूद्यदा ब्रह्मा स्वयंभूरिति विश्रुतः । अमृतेशेति ते नाम कीर्तितं कीर्तिवर्द्धनम्

在第三阶段,当梵天以自生者(Svayaṃbhū)而著称之时,你的名号被歌咏为“阿蜜利特伊沙”(Amṛteśa)——增长名声与吉祥之名。

Verse 41

चतुर्थोऽभूद्यदा ब्रह्मा परमेष्ठीति विश्रुतः । अनामयेति देवेश तव नाम स्मृतं तदा

在第四阶段,当梵天以“至上安住者”(Parameṣṭhī)而闻名之时——噢诸天之主——你的名号被忆念为“阿那摩耶”(Anāmaya),无病无恼者。

Verse 42

पंचमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति श्रुतः । कृत्तिवासेति ते नाम बभूव त्रिपुरांतक

在第五阶段,当梵天被传闻称为“苏罗耶什塔”(Surajyeṣṭha)之时,您的圣名便成为“克里蒂瓦萨”(Kṛttivāsa)——噢,三城毁灭者特里普兰塔卡(Tripurāntaka)。

Verse 43

षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति स्मृतः । तदा भैरवनाथेति तव नाम प्रकीर्तितम्

而在第六阶段,当梵天被追念为“赫摩伽尔婆”(Hemagarbha)之时,您的圣名被宣扬为“怖畏主”(Bhairavanātha),即拜罗婆之主。

Verse 44

अधुना वर्त्तते योऽसौ शतानंद इति श्रुतः । आदिसोमेन यश्चासौ वामनेत्रोद्भवेन ते

“那位直至如今仍然存在者,被尊称为‘室多难陀’(Śatānanda);而他正是‘阿底·苏摩’(Ādi-Soma),从您左眼化生的本初苏摩。”

Verse 45

प्रतिष्ठार्थं तु लिंगस्य आनीतश्चाष्टवार्षिकः । बालरूपी तदा तेन सोमनाथेति कीर्तितम्

“为使林伽得以安立加持,便迎来一位八岁童子;他以童身当时宣称其名为‘苏摩那他’(Somnātha)。”

Verse 46

सहस्रद्वितयं चैव शतं चैव षडुत्तरम्

“两千,又一百,再加六。”

Verse 47

सप्तमोऽहं महादेव आत्रेय इति विश्रुतः । प्राचेतसेन दक्षेण शप्तस्त्वां शरणं गतः । रक्ष मां देवदेवेश क्षयिणं पापरोगिणम्

噢,大自在天(Mahādeva)!我乃其中第七位,世称阿特雷耶(Ātreya)。因普罗切塔斯之子达克沙(Dakṣa)降咒于我,我前来归依于你。求你护佑我,诸天之主——我日渐消瘦,受罪业之病所苦。

Verse 48

इति संस्तुवतस्तस्य चंद्रस्य करुणाकरः । तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह

当月神旃陀罗(Candra)如此赞颂时,慈悲的主鲁陀罗(Rudra)心生欢喜,遂开口说道:

Verse 49

परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत । कि ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम्

我对你甚为欢喜,噢旃陀罗(Candra)。噢持善誓者,选择一项恩赐吧。今日你愿我为你成就何愿?尽管说来,即便是最难得之事。

Verse 50

मम नामानि गुह्यानि मम प्रियतराणि च । पठिष्यंति नरा ये तु दास्ये तेषां मनोगतम्

凡诵念我隐秘之名——我最为珍爱的圣名——我必赐予他们心中所愿。

Verse 51

अतीता ये चंद्रमसो भविष्यंति च येऽधुना । तेषां पूज्यमिदं लिंगं यावदन्योऽष्टवार्षिकः

对于已逝的诸月神(Candra)、将来的诸月神,以及现今存在的诸月神——他们都应礼拜此灵伽(liṅga),直至另一位八岁之相再度显现。

Verse 52

आः परं चतुर्वक्त्रो ब्रह्मा यो भविता यदा । प्राणनाथेति देवस्य तदा नाम भविष्यति

并且:当四面梵天出现之时,此天神之名将称为“普拉那那他”(Prāṇanātha,生命气息之主)。

Verse 53

प्राणास्तु वायवः प्रोक्तास्तदाराधननाम तत् । प्राणनाथेति संप्रोक्तं मेऽधुना तद्भविष्यति

所谓“普拉那”(prāṇa)即诸生命之气;这确实成为礼拜之名。既已宣说为“普拉那那他”(Prāṇanātha),从今以后这将是我奉祀之名。

Verse 54

तस्मादग्नीशनामेति कालरुद्रेत्यनंतरम् । तारकेति ततो नाम भविष्यत्येव कीर्तितम्

因此,祂的名将被颂扬为“阿格尼沙”(Agnīśa,火之主);继而为“迦罗鲁陀罗”(Kālarudra);其后为“塔拉卡”(Tāraka)——未来名号的次第如是宣告。

Verse 55

मृत्युञ्जयेति देवस्य भविता तदनंतरम् । त्र्यंबकेशस्त्वितीशेति भुवनेशेत्यनन्तरम्

其后,这位神祇将被称为“姆利提云阇耶”(Mṛtyuñjaya,胜死者);继而为“特里扬巴凯沙”(Tryambakeśa);再为“Itīśa”;随后为“布瓦内沙”(Bhuvaneśa)。

Verse 56

भूतनाथेति घोरेति ब्रह्मेशेत्यथ नामकम् । भविष्यं पृथिवीशेति आदिनाथेत्यनंतरम्

随后,祂的名将为“布胡塔那他”(Bhūtanātha,众灵之主);继而为“可怖者”(Ghore);再为“梵主”(Brahmeśa)。未来又将称为“普利提维沙”(Pṛthivīśa,大地之主),其后为“阿迪那他”(Ādinātha,本初之主)。

Verse 57

कल्पेश्वरेति देवस्य चंद्रनाथेत्यनन्तरम् । नाम देवस्य यद्भावि सांप्रतं ते प्रकाशितम्

随后,这位神将被称为“劫主(Kalpeśvara)”,其后又称“月主(Candranātha)”。将来应现的神圣名号,如今已向你揭示。

Verse 58

इत्येवमादि नामानि स्वसंख्यातानि षोडश । गतानि संभविष्यंति कालस्यानंतभावतः

如是从此而始,共有十六个名号——各依其所定之数次而现——有的已逝,有的将生起,因为时间的本性无有穷尽。

Verse 59

एकैकं वर्तते नाम ब्रह्मणः प्रलयावधि । ततोन्यज्जायते नाम यथा नामानुरूपतः

每一个名号都延续至一劫梵天之期的终了,直至大毁灭;其后又生起另一名号,正与该名号所含之德相相应。

Verse 60

अथ किं बहुनोक्तेन रहस्यं ते प्रकाशितम् । वत्स यत्कारणेनेह तपस्तप्तं त्वयाऽखिलम् । तन्मे निःशेषतो ब्रूहि दास्ये तुष्टोऽस्मि ते वरम्

又何必多言?奥秘已向你显露。爱子啊——请如实尽述:你为何在此修行圆满苦行?我已欢喜,当赐你一愿。

Verse 61

चन्द्र उवाच । अहं शप्तस्तु दक्षेण कस्मिंश्चित्कारणांतरे । यक्ष्मणा च क्षयं नीतस्तस्मात्त्वं त्रातुमर्हसि

月神(Candra)说道:我因某种缘故被达克沙(Dakṣa)诅咒,又被痨病(yakṣmā)所逼而日渐消瘦。故此,愿你救护于我。

Verse 62

शंभुरुवाच । अधुना भोः समं पश्य सर्वास्ता दक्षकन्यकाः । क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति

湿婆(Śaṃbhu)说道:如今,噢你,当平等观照达克沙的诸位女儿。于你而言,一半月将渐亏,下一半月将渐盈——半月复半月。

Verse 63

पूर्वोचितां प्रभां सोम प्राप्स्यसे मत्प्रसादतः । प्राचेतसस्य दक्षस्य तपसा हतपाप्मनः

噢苏摩(Soma),凭借我的恩赐,你将重得昔日属于你的光辉;此乃因普罗切塔斯之子达克沙以苦行(tapas)焚尽罪垢之力而成。

Verse 64

तस्यान्यथा वचः कर्तुं शक्यं नान्यैः सुरैरपि । ब्राह्मणाः कुपिता हन्युर्भस्मीकुर्युः स्वतेजसा

即便诸天他神,也不能使他的话语变成别样的结果。若婆罗门震怒,他们能以自身的提阇斯(tejas,灵性威光)击灭,使人化为灰烬。

Verse 65

देवान्कुर्युरदेवांश्च नाशयेयुरिदं जगत् । ब्राह्मणाश्चैव देवाश्च तेज एकं द्विधा कृतम्

他们能使诸神变为非神,甚至能毁灭此世。婆罗门与诸天确实同具一体之提阇斯(tejas),只是分作两种形态。

Verse 66

प्रत्यक्षं ब्राह्मणा देवाः परोक्षं दिवि देवताः । न विना ब्राह्मणा देवैर्न देवा ब्राह्मणैर्विना

婆罗门是可见的天神(在人间);天界诸神是不可见的天神。无婆罗门则诸神之事不成;无诸神则婆罗门之道亦不圆满。

Verse 67

एकत्र मन्त्रा स्तिष्ठन्ति तेज एकत्र तिष्ठति । ब्राह्मणा देवता लोके ब्राह्मणा दिवि देवताः । त्रैलोक्ये ब्राह्मणाः श्रेष्ठा ब्राह्मणा एव कारणम्

诸咒语同住一处;诸光威(tejas)亦住一处。此世间,婆罗门为神;在天界,婆罗门亦为神。三界之中,婆罗门最为尊胜——唯婆罗门是圣法秩序之决定因。

Verse 68

पितुर्नियुक्ताः पितरो भवंति क्रियासु दैवीषु भवंति देवाः । द्विजोत्तमा हस्तनिषक्ततोयास्तेनैव देहेन भवंति देवाः

由父命所遣——以孝道与仪轨为凭——诸祖灵(Pitṛ)便现为受供者。在神圣仪式中,诸天神亦现前。最胜之二生者,手捧净水以作供献,凭此身于仪式中宛如化为诸神。

Verse 69

षट्क र्मतत्त्वाभिरतेषु नित्यं विप्रेषु वेदार्थकुतूहलेषु । न तेषु भक्त्या प्रविशंति घोरं महाभयं प्रेतभवं कदाचित्

凡以信敬依止常住于六业要义、并乐求吠陀义理之婆罗门者,永不堕入那可怖的大恐惧——成为饿鬼般的漂泊之灵(preta)。

Verse 70

यद्ब्राह्मणाः स्तुत्यतमा वदन्ति तद्देवता कर्मभिराचरंति । तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः

至可赞颂之婆罗门所宣说者,诸天神皆以其行事而成就之。可见之神——婆罗门——若得欢喜,则不可见之神亦恒常欢喜。

Verse 71

यथा रुद्रा यथा देवा मरुतो वसवोऽश्विनौ । ब्रह्मा च सोमसूर्यौ च तथा लोके द्विजोत्तमाः

正如有鲁陀罗众、诸天神、摩鲁特众、婆苏众与阿湿毗尼双神;同样,在此世间亦有最胜二生者(dvijottama),其尊严可比诸神之众。

Verse 72

देवाधीनाः प्रजाः सर्वा यज्ञाधीनाश्च देवताः । ते यज्ञा ब्राह्मणाधीनास्तस्माद्देवा द्विजोत्तमाः

一切众生依于诸天,诸天又依于祭祀(yajña)。诸祭祀依于婆罗门;因此婆罗门——大地上的真实天神——乃二次生者中最为尊胜。

Verse 73

ब्राह्मणानर्चयेन्नित्यं ब्राह्मणांस्तर्पयेत्सदा । ब्राह्मणास्तारका लोके ब्राह्मणात्स्वर्गमश्नुते

应当日日礼敬婆罗门,并常以恭敬与供养使婆罗门欢喜。婆罗门是世间的引导之星;由婆罗门而得升天界。

Verse 75

शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा । अपि वज्र सहस्रेण ब्राह्मणाशीः सुदुर्भिदा

甲胄固然可被刺穿——或以钢尖之箭,或以利矢;然而婆罗门的祝福极难破坏,即使以千道金刚雷霆(vajra)亦不能摧折。

Verse 76

हुतेन शाम्यते पापं हुतमन्नेन शाम्यति । अन्नं हिरण्यदानेन हिरण्यं ब्राह्मणाशिषा

罪业由投入圣火的供献而得平息;所供之食亦随之成吉祥。食物因布施黄金而得净化,而黄金自身则因婆罗门的祝福而得净化。

Verse 77

य इच्छेन्नरकं गंतुं सपुत्रपशुबांधव । देवेष्वधिकृतं कुर्याद्ब्राह्मणेषु च गोषु च

凡欲堕入地狱者——并携其子嗣、牲畜与亲族同往——当对诸天、对婆罗门、对母牛造作罪过。

Verse 78

ब्राह्मणान्द्वेष्टि यो मोहाद्देवान्गाश्च मखान्यदि । नैव तस्य परो लोको नाऽयं लोको दुरात्मनः

若有人因迷妄而憎恨婆罗门,又轻蔑诸天、圣牛与祭祀,此人既无来世,亦失今世;此等之人实为恶徒。

Verse 79

अभेद्यमच्छेद्यमनादिमक्षयं विधिं पुराणं परिपालयन्ति । महामतिस्तानभिपूज्य वै द्विजान्भवेदजेयो दिवि देवराडिव

他们守护那古老的法则——不可破、不可断、无始而不灭。智者若如法敬奉二次生者,便在天界无可战胜,如同天帝因陀罗,诸天之王。

Verse 80

अग्रं धर्मस्य राजानो मूलं धर्मस्य ब्राह्मणाः । तस्मान्मूलं न हिंसीत मूले ह्यग्रं प्रतिष्ठितम्

诸王是法(达摩)显现于世的前端,而婆罗门是法的根本。因此不可伤根;因为最上之处正建立在根上。

Verse 81

फलं धर्मस्य राजानः पुष्पं धर्मस्य ब्राह्मणाः । तस्मात्पुष्पं न हिंसीत पुष्पात्संजायते फलम्

诸王是法的果实,婆罗门是法的花朵。因此不可伤花;因为由花方能结成果。

Verse 82

राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः । तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः

国王如树,婆罗门为其根,百姓为其叶,群臣为其枝。故国王当护持婆罗门;根得守护,则树不致毁亡。

Verse 83

आसन्नो हि दहत्यग्निर्दूराद्दहति ब्राह्मणः । प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति

火须近方能灼烧;而婆罗门之神圣威力,虽在远处亦能焚灼。被火焚者尚可再生;被梵力(梵之圣威)所焚者,则永不复长。

Verse 84

ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः । समुद्रश्चाप्यपेयस्तु विफलश्च पुरंदरः

因婆罗门之诅咒,连火神也成了不择而噬的吞食者;大海亦变得不可饮;就连破城者因陀罗(Purandara)也失其威能,诸般作为尽成徒劳。

Verse 85

त्वं चन्द्र राजयक्ष्मी च पृथिव्यामूषराणि च । सूर्याचन्द्रमसोः पातः पुनरुद्धरणं तयोः

汝即是月轮,是王者之福祚,亦是大地上荒瘠之境。汝能致日月之坠落——亦复能使二者再度复起。

Verse 86

वनस्पतीनां निर्यासो दानवानां पराजयः । नागानां च वशीकारः क्षत्रस्योत्सादनं तथा । देवोत्पत्ति विपर्यासो लोकानां च विपर्ययः

由此而出者:树木之汁与渗液;达那婆之败亡;那伽之降伏;亦有傲横刹帝利势力之倾覆;乃至诸天出生之次序亦被颠倒——诸世界亦随之动荡翻覆。

Verse 87

एवमादीनि तेजांसि ब्राह्मणानां महात्मनाम् । तस्माद्विप्रेषु नृपतिः प्रणमेन्नित्यमेव च

如是等种种威力,乃大心婆罗门之力,尚有无量。是故国王当于婆罗门之前恒常稽首礼敬,确乎不怠。

Verse 88

परा मप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम्

即使陷入最深重的灾厄,也不应激怒婆罗门;因为他们一旦发怒,便能立刻毁灭此人——连同其军队与坐骑车乘。

Verse 89

प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् । एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत्

正如火无论是否依仪轨点燃,皆为伟大的神性;同样,婆罗门不论有学或无学,亦是伟大的神性。

Verse 90

श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्द्धते

即便在火葬场,光辉的火亦不受玷污;而在祭祀中倾注供品于其中时,它反而愈加增长炽盛。

Verse 91

एवं यद्यप्य निष्टेषु वर्त्तते सर्वकर्मसु । सर्वेषां ब्राह्मणः पूज्यो दैवतं परमं महत्

因此,即使他在各类事务中出入于不当之行,对一切众生而言,婆罗门仍应受敬奉礼拜——如至上而伟大的神性。

Verse 92

क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणानां प्रभावतः । ब्राह्मं हि परमं पूज्यं क्षत्रं हि ब्रह्मसंभवम्

即使王权(刹帝利之力)膨胀过甚,也仍赖婆罗门的威德所成。因为婆罗门之理(梵,brahman)最堪尊崇,而刹权本亦由梵而生。

Verse 93

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

由水生火;由梵(Brahman)生刹帝利之力(kṣatra);由石生铁。然而那能遍及四方的光威,一旦归返自身本源,便归于寂静。

Verse 94

यान्समाश्रित्य तिष्ठन्ति देवलोकाश्च सर्वदा । ब्रह्मैव वचनं येषां को हिंस्यात्ताञ्जिजीविषुः

连诸天世界也恒常依止于其上的那些人——其言语本身即是梵(Brahman)——谁若希求生存,敢去伤害他们呢?

Verse 95

म्रियमाणोऽप्याददीत न राजा ब्राह्मणात्करम् । न च क्षुधा ऽस्य संसीदेद्ब्राह्मणो विषये वसन्

纵使临终之际,国王也不应向婆罗门(Brāhmaṇa)征税;而居于王境之内的婆罗门,也绝不可任其因饥饿而困顿衰败。

Verse 96

यस्य राज्ञश्च विषये ब्राह्मणः सीदति क्षुधा । तस्य तच्छतधा राष्ट्रमचिरादेव सीदति

凡在某王之境内,若有婆罗门因饥饿而受苦,则该王之国土不久便将百倍地衰败崩坏。

Verse 97

यद्राजा कुरुते पापं प्रमादाद्यच्च विभ्रमात् । वसन्तो ब्राह्मणा राष्ट्रे श्रोत्रियाः शमयन्ति तत्

国王因疏忽或迷妄所造的一切罪业,居于国中的博学婆罗门——通达闻传之学的室罗底利耶(śrotriya)——皆能使之平息、化解。

Verse 98

पूर्वरात्रांतरात्रेषु द्विजैर्यस्य विधीयते । स राजा सह राष्ट्रेण वर्धते ब्रह्मतेजसा

若有国王,夜之初更与中更由诸二生者(婆罗门等)为其修行仪轨;此王与其国土,皆以梵(Brahman)之灵威光辉而兴盛。

Verse 99

ब्राह्मणान्पूजयेन्नित्यं प्रातरुत्थाय भूमिपः । ब्राह्मणानां प्रसादेन दीव्यन्ति दिवि देवताः

国王当晨起常恒礼敬婆罗门;由婆罗门之恩泽与欢喜,诸天在天界亦皆欣悦。

Verse 100

अथ किं बहुनोक्तेन ब्राह्मणा मामकी तनुः । ये केचित्सागरांतायां पृथिव्यां कीर्तिता द्विजाः । तदूपं देवदेवस्य शिवस्य परमात्मनः

又何须多言?婆罗门即是吾之自身。凡此大地四海环绕之中,所称扬的一切二生者,皆是天中天湿婆(Śiva)、至上我(Paramātman)之真形。

Verse 101

एतान्द्विषंति ये मूढा ब्राह्मणान्संशितव्रतान् । ते मां द्विषंति वै नूनं पूजनात्पूजयन्ति माम्

愚迷之人若憎恨这些持戒坚固的婆罗门,实则必定是在憎恨我;而凡礼敬供养他们者,正以此礼敬而礼拜我。

Verse 102

न प्रद्वेषस्ततः कार्यो ब्राह्मणेषु विजानता । प्रद्वेषेणाशु नश्यन्ति ब्रह्मशापहता नराः

是故明达之人不应对婆罗门怀恨;以恨为因,人便迅速败亡,遭梵力所生之诅咒所击。

Verse 103

इत्येवं कथितश्चन्द्र ब्राह्मणानां गुणार्णवः । कुरुष्वानन्तरं कार्य्यं यद्ब्रवीम्यहमेव ते

如是,噢月神旃陀罗,婆罗门之德如海,已为汝宣说。今当行其后事,依我亲口所告而作。

Verse 104

शापस्यानुग्रहो दत्तो मया तव निशाकर । न चान्यथा वचः कर्त्तुं शक्यं तेषां द्रिजन्मनाम्

噢尼沙迦罗,我已赐你脱离诅咒之恩;然二生者(婆罗门等)的言语,终不可令其变异。

Verse 106

क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति । अथान्यद्वचनं चन्द्र शृणु कार्यं यथा त्वया

汝将半月而亏,半月而盈。今复听我一命,噢旃陀罗:汝当如何行事。

Verse 107

इदं यत्सागरोपांते तिष्ठते लिंगमुत्तमम् । धरामध्यगतं तच्च देवानां दृष्टिगोचरम्

此至上灵伽立于海滨,虽安置于大地之中,仍在诸天之目与觉知之内。

Verse 108

कुक्कुटांडसमप्रख्यं सर्पमेखलमंडितम् । ममाद्यं परमं तेजो न चान्यो वेद कश्चन

其光辉如鸡卵,复以蛇为带而庄严。此乃我本初至上的光明——除我之外,实无他者能真知。

Verse 109

इतः सागरमध्ये तु धनुषां च शतत्रये । तिष्ठते तत्र लिंगं तु सुगुप्तं लक्षणान्वितम्

从此处起,在大海中央——相距三百弓长之处——有一尊林伽安立其间,深藏不露,却具足其特有的标相。

Verse 110

आदिकल्पे महर्षीणां शापेन पतितं मम । लिंगं सागरमध्ये तु तत्त्वं शीघ्रं समानय

在最初的劫中,由大圣仙(ṛṣi)之诅咒,我的林伽坠入大海中央。速速将那神圣的真实带出。

Verse 111

स्पर्शाख्यं यत्र मे लिंगं तत्र स्थाने निवेशय । निवेश्य तु प्रयत्नेन सहितो विश्वकर्मणा

将我的林伽安置于名为“触”(Sparśa)之地。以殷勤之力安立之后——并与毗湿瓦羯磨同在——

Verse 112

ततो ब्रह्माणमाहूय समेतं तु मुनीश्वरैः । प्रतिष्ठां कारय विभो इष्ट्वा तत्र महामखैः

随后召请梵天,与诸大牟尼同来。噫,大能者,在彼处以大祭祀奉敬之后,当令举行安立灌顶之礼(pratiṣṭhā)。

Verse 113

एवमुक्त्वा स भगवांस्तत्रैवांतरधीयत । ततः प्रभां पुनर्लेभे रात्रिनाथो वरानने

如是言毕,那位世尊即于彼处隐没不现。于是夜之主——月神——复得其光辉,噫,容颜姝丽者。

Verse 114

ततः प्रभृति तत्क्षेत्रं प्रभासमिति विश्रुतम् । निष्प्रभस्य प्रभा दत्ता प्रभासं तेन चोच्यते

自此以后,那片神圣之地便以“普罗婆娑(Prabhāsa)”之名闻于世。因将光辉赐予曾失其光者,故称为普罗婆娑。

Verse 115

दक्षस्य तु वृथा शापो न कृतस्तेन लांछनम् । सोमः प्रभासते लोकान्वरं प्राप्य महेश्वरात् । व्यक्तीभूतः स देवेशः सोमस्यैव महात्मनः

因此,达克沙(Dakṣa)的诅咒并未落空,也不只是徒然的污名。苏摩(Soma)得大自在天(Maheśvara)赐福,遂照耀诸世界。并且,诸天之主也为这位大心的苏摩而显现。

Verse 1085

शापानुग्रहदैः सर्वै देवैरपि सवासवैः । तस्माच्चन्द्र त्वया शोको नैव कार्यो विजानता

即便诸天——连同因陀罗(Indra)——也都能施予诅咒与恩典。故而,噢月神旃陀罗(Candra),既知此理,切莫悲伤。