
第278章以对话展开:苏多向诸仙人解释,为何天上所见日轮似为一体,而在哈塔凯湿瓦罗圣域(Hāṭakeśvara-kṣetra)却依仪轨安立十二种太阳形相。叙事先将此处的日神安置与耶若那伐迦(Yājñavalkya)的灌顶加持相连,继而讲述因萨维特丽(Sāvitrī)之诅咒而致梵天(Brahmā)下临人间,由此引发关于婚姻秩序与祭仪正当性的种种法义张力。 随后章节转入耶若那伐迦与其师沙迦利耶(Śākalya)的冲突:国王屡次请求举行息灾(śānti)仪式,终致失礼、拒绝与师徒争执,并以被迫“吐出”所学经典为结局,象征对旧有教受的舍离。为求复归,耶若那伐迦以严谨苦行与虔敬奉事苏利耶(Sūrya),造立并安置十二尊日神圣像,依正统名目逐一命名,以供品礼拜。日神显现,赐予恩愿,并以奇特的传授方式——在太阳神骏马之耳旁受学——再度传下吠陀之智,重新印可耶若那伐迦的吠陀资格。章末宣示此教法的制度化传承,陈述朝圣功德(灭罪、升进与解脱,尤利于诵读与讲解者),并强调周日瞻礼(darśana)最为灵验,使该圣地的日神崇拜兼具仪式与教化的圣统。
Verse 1
सूत उवाच । ये चान्ये भास्करा स्तत्र संति ब्राह्मणसत्तमाः । हाटकेश्वरजे क्षेत्रे याज्ञवल्क्यप्रतिष्ठिताः
苏多说道:诸位最胜婆罗门啊,在那里亦有其他婆娑迦罗(太阳神)的形相,乃由雅若那伐尔迦在哈塔凯湿伐罗圣域中所安立。
Verse 2
यस्तान्पूजयते भक्त्या हृदि कृत्वाऽभिवांछितान् । सप्तम्यां चैव सप्तम्यां लभते नात्र संशयः
凡以虔敬礼拜彼等,心中怀持所愿之目标者——于萨普塔弥(第七日)便得遂其愿;对此毫无疑惑。
Verse 3
ऋषय उचुः । एक एव स्थितः सूर्यो दृश्यते च नभस्तले । तत्कथं द्वादशैते च तत्र क्षेत्रे प्रतिष्ठिताः । कस्मिन्काले तथा कृत्ये किमर्थं सूतनन्दन
诸仙人说道:太阳在天穹中所见唯是一轮。为何在那神圣之地却安立了十二位(日轮之相)?在何时、因何缘起、为达何目的,哦苏多之子?
Verse 4
सूत उवाच । आसीत्पूर्वं कृतिर्नाम शुनःशेपसमुद्भवः
苏多说道:往昔有一人名为克利提(Kṛti),出自舒那舍波(Śunaḥśepa)的族系。
Verse 5
तस्य पुत्रः शुनः पुत्रो बभूव मुनिसत्तमः । चारायणः सुतस्तस्य वभूव मुनिसत्तमः
由他生下一子,即“舒那之子”,成为最卓越的牟尼;而其子迦罗耶那(Cārāyaṇa)亦成诸见者中最为上首者。
Verse 6
कस्यचित्त्वथ कालस्य ब्रह्मा लोक पितामहः । सावित्रीशापनिर्दग्धो ह्यवतीर्णो धरातले
其后在某一时刻,梵天——诸世界之祖父——为萨维特丽(Savitrī)的诅咒所灼,遂降临于大地。
Verse 7
गायत्री च यदा विप्रास्तेनोढा यज्ञकर्मणि । प्राक्स्थितां च परित्यज्य सर्वदेवसमागमे । कालात्ययो भवेन्नैव सावित्र्यागमने स्थिरे
婆罗门啊,当为成就祭祀之业而迎娶伽耶特丽(Gāyatrī)之时——将先行离去的萨维特丽(Savitrī)暂且搁置——在诸天大会之中,纵然仍在等待萨维特丽到来,也绝不容许丝毫时刻的延误。
Verse 8
ततस्तस्य समादेशाद्गायत्री गोपकन्यका । शक्रेण च समानीता दिव्यलक्षणलक्षिता
随后,奉其命令,伽耶特丽化现为牧牛少女,由释迦罗(因陀罗)迎来,具足种种天界瑞相。
Verse 9
गोपकन्यां च तां ज्ञात्वा गोश्च वक्त्रेण पद्मजः । प्रवेश्याकर्षयामास गुह्येन च ततः परम्
认出她正是那位牧牛少女后,莲生者(梵天)令她由牛口而入,继而以隐秘之法将她牵引至自身。
Verse 10
ब्राह्मणानां गवां चैव कुलमेकं द्विधा स्थितम् । एकत्र मन्त्रास्तिष्ठंति हविरेकत्र संस्थितम्
婆罗门与牛之族系本为一体,却分成两种形态而立:一处安住诸咒(曼陀罗),另一处则安立祭供之供品(havis)。
Verse 11
तेन तां ब्राह्मणीं कृत्वा पश्चात्तस्याः परिग्रहम् । गृह्योक्तविधिना चक्रे पुरःस्थोऽपि पितामहः
由此,他使她成为婆罗门女子;随后,祖父神(梵天)虽端坐在前,仍依《居家仪轨》(Gṛhya)所传之法,行纳受为妻之礼。
Verse 12
पत्नीशालोपविष्टायां ततस्तस्यां द्विजोत्तमाः । सावित्री समनुप्राप्ता देवपत्नीभिरावृता
噢,最胜的再生者!当她安坐于妻室之亭时,萨维特丽随即到来,周围簇拥着诸天之妻。
Verse 13
ततस्तां सा समालोक्य रशनासमलंकृताम् । दौर्भाग्यदुःखमापन्ना शशाप च विधिं ततः
随后,她看见那女子系着华美腰带;萨维特丽被不幸之苦所压,便当即诅咒维提(梵天,Brahmā)。
Verse 14
सावित्र्युवाच । यस्मात्त्वया परित्यक्ता निर्दोषाहं पितामह । पितामहोऽसि मे नूनमद्यप्रभृति संगमे
萨维特丽说道:“因你舍弃了无过的我,噢祖父之神;故自今日起,在合一之事上,你于我唯是‘祖父’而已。”
Verse 15
मनुष्याणां भवेत्कृत्यमन्यनारीपरिग्रहः । एतत्त्वया कृतं यस्मान्मा नुषस्त्वं भविष्यसि
“对世人而言,夺取他人之妻乃是招致毁灭之业。既然你做了此事,因此你将化为人身。”
Verse 16
कामार्तश्च विशेषेण मम वाक्यादसंशयम्
“并且你将尤为受欲望所煎迫——对此无有疑惑,凭我此言。”
Verse 17
एवमुक्त्वा तु सावित्री त्यक्त्वा तं यज्ञमंडपम् । गिरेः शिखरमारूढा तपश्चक्रे महत्ततः
说罢,萨维特丽离开祭祀的坛亭;登上山巅,遂修行广大苦行(tapas)。
Verse 18
पितामहोऽपि तच्छापाच्चारायणनिवेशने । अवतीर्णो धरापृष्ठे कालेन महता ततः
即便是毗多摩诃(梵天 Brahmā),也因那诅咒,在恰罗耶那的住处,历经漫长岁月之后降临于大地之上。
Verse 19
स यदा यौवनं भेजे मानुषं च पुरा स्थितः । तथातथा च तापेन कामोत्थेन प्रपीड्यते
当他得享人身之青春之时,虽往昔本非如此安住,却仍一次又一次被欲望所生的灼热之火所折磨。
Verse 20
ततोऽसौ वीक्षते नारीं कन्यां वाथ तपस्विनीम् । अविकल्पमना भेजे रूपसौभाग्यगर्वितः
随后他看见一位女子——或为少女,或为女苦行者——心念不加节制,便屈从于她;因自恃容貌与福运而生骄慢。
Verse 21
ततस्तं ब्यसनार्तं च दृष्ट्वा चारायणो मुनिः । स्वयं निःसारयामास प्रकोपेन निजाश्रमात्
见他为厄运所困而痛苦,牟尼圣者恰罗耶那怒起,亲自将他逐出自己的道场。
Verse 22
स च पित्रा परित्यक्तो भ्रममाणस्ततस्ततः । चमत्कारपुरं प्राप्तः शाकल्यो यत्र तिष्ठति
他被父亲遗弃,四处漂泊,终于来到奇迹城Camatkārapura,那里正是舍迦利耶(Śākalya)所居之处。
Verse 23
नाम्ना ब्राह्मणशार्दूलो नागरो वेदपारगः । वृतः शिष्य सहस्रेण वेदविद्यां प्रचारयन्
彼处有一位那伽罗婆罗门,名曰“婆罗门狮虎”(Brāhmaṇaśārdūla),通达诸吠陀;为千名弟子环绕,弘传吠陀之学。
Verse 24
अथ तं स प्रणम्योच्चैः शिष्यत्वं समुपागतः । वेदाध्ययनसंपन्नो बभूवाथ चिरादपि
随后他恭敬顶礼,投入门下为弟子;经年之后,他亦在研习吠陀之道上臻于成就。
Verse 25
एतस्मिन्नेव काले नु आनर्ताधिपतिः स्वयम् । आगतस्तिष्ठते यत्र जलशायी हरिः स्वयम्
正当其时,阿那尔塔之主亲自到来,驻于哈利——以“卧水之主”(Jalaśāyī)显现、安住其处——的圣地。
Verse 26
चातुर्मास्यव्रतं तेन गृहीतं तत्पुरस्तदा । प्रार्थितस्तु ततो विप्राः शाकल्यस्तैन भूभुजा
在那里,于主前他受持“四月斋戒”(Cāturmāsya)之誓。随后国王请求诸婆罗门,尤以沙迦利耶(Śākalya)为首,举行所需的仪式。
Verse 27
शांतिकं पौष्टिकं नित्यं त्वया कार्यं ममालये । यावत्तिष्ठाम्यहं चात्र प्रसादः क्रियतामिति
国王说道:“在我宫中,你当日日修行息灾(śāntika)与增益(pauṣṭika)之仪;只要我仍驻此地,愿赐我此恩允。”
Verse 28
बाढमित्येव स प्रोक्त्वा दाक्षिण्येन द्विजोत्तमाः । एकैकं प्रेषयामास स्वशिष्यं तस्य मंदिरे
他说“如是”,那位最上婆罗门出于慈惠,便将自己的弟子一一遣往国王的居所,令其履行应尽之法事。
Verse 29
स शांतिकं विधायाथ दत्त्वाशीः पार्थिवस्य च । संप्राप्य दक्षिणां तस्मात्पुनरेति च तं द्विजम्
他行毕息灾(śānti)之仪,并为国王赐福;从王处受得达克希那(dakṣiṇā)供养,随后又回到那位婆罗门师长身边。
Verse 30
शाकल्याय च तां दत्त्वा दक्षिणां निजमंदिरे । जगाम नित्यमेवं हि व्यवहारो व्यवस्थितः
他将那份达克希那(dakṣiṇā)在自家交付给沙迦利耶(Śākalya),随后离去。于是日复一日,此等供事之规便稳固确立。
Verse 31
अन्यस्मिन्नहनि प्राप्ते शाकल्येन विसर्जितः । शांत्यर्थं याज्ञवल्क्यस्तु पार्थिवस्यनिवेशनम्
又一日,阇若婆迦(Yājñavalkya)奉沙迦利耶(Śākalya)之命,为行息灾(śānti)之事,前往国王的居所。
Verse 32
तस्य भूपस्य रूपाढया मंथरास्ति विलासिनी । रात्रौ च कामिता तेन कामाढयेन सुकामिनी
那位国王有一位好乐的女子,名为曼塔罗(Mantharā),容色殊丽;夜间,情欲炽盛的国王渴慕于她,而她亦是求爱之人。
Verse 33
भावैर्वात्स्यायनप्रोक्तैः समालिंगनपूर्वकैः । स तया विविधैः कृत्तो मयूरपदकादिभिः । शरीरे चाधरे चैव तथा मणिप्रवालकैः
她依循筏蹉耶那所说的情爱技艺,以拥抱为始,在他身上留下种种印记——如孔雀足纹等——遍及其躯体,乃至双唇;又以珠宝与珊瑚压印其痕。
Verse 34
संप्राप्तोऽध्ययनार्थाय यावच्छाकल्यसन्निधौ । तावत्संप्रेषितस्तेन शांत्यर्थं भूपमंदिरे
当他为求学而来到沙迦利耶面前时,就在那一刻,沙迦利耶遣他前往王宫,为行息灾安宁的“商提”(śānti)仪轨。
Verse 35
सोऽपि संप्रेषितस्तेन गत्वा तं पार्थिवालयम् । शांतिकं च ततश्चक्रे यथोक्तविधिना द्विजाः
奉其差遣,那位婆罗门前往王的居所;在那里,诸位“二生者”啊,他依照所说的仪则,如法完成了息灾安宁的商提(śānti)仪式。
Verse 36
शांतिकस्यावसाने तु प्रगृह्य कलशोदकम् । पंचांगैः कल्पितं रुद्रैः स्वयमेवाभिमंत्रितैः
当商提(śānti)仪式结束时,他捧起坛瓶(kalaśa)之水——以五种要具调制,并以鲁陀罗真言自请加持,令其具足灵威。
Verse 37
साक्षतं सुमनोयुक्तं समादाय गतस्ततः । संतिष्ठते नृपो यत्र आनर्तो त्रतसंयुतः
随后他携带阿克沙塔(akṣata,净米粒)与花鬘,前往阿那尔塔(Ānarta)之王所立之处;王身旁侍从随行。
Verse 38
द्यामालेखीति मंत्रं स प्रोच्चार्य विधिपूर्वकम् । छंदर्षिसहितं चैव यावत्क्षिपति मस्तके । तावन्निरीक्षितस्तेन नखलेखाविकर्तितः
他依仪轨诵出以“dyāmālekhī…”开头的真言,并连同其韵律(chandas)与圣见者(ṛṣi)一并宣说,遂将其加持投向王者之顶。就在那一刻,人们察觉到他——其唇如被指甲划割般破损。
Verse 39
खंडितेनाधरेणैव ततोऽभूद्दुर्मना नृपः
于是国王深深沮丧,因为他的嘴唇确已裂开,形容受损。
Verse 40
विटप्रायं तु तं दृष्ट्वा मलिनांबरधारिणम् । तं प्रोवाच विहस्योच्चै देहि विप्राऽक्षताञ्जलम्
见他形容凄惫、衣衫污秽,有人放声而笑,高声说道:“婆罗门啊,给我一把阿克沙塔(未碎之米)!”
Verse 41
मंदुरायां स्थितं यच्च काष्ठमेतत्प्रदृश्यते । याज्ञवल्क्यस्ततो दृष्ट्वा सकोपस्तमुपाद्रवत्
“还有那块躺在马厩里的木头……”——雅吉那瓦尔迦(Yājñavalkya)一见此景,怒火顿起,便冲向那人。
Verse 42
क्षिप्त्वा तत्र जलं विप्राः साक्षतं गृहमागमत् । अगृह्य दक्षिणां तस्य पार्थिवस्य यथास्थिताम्
在那处洒下净水之后,诸婆罗门携带阿克沙塔归家——并未接受国王预备的达克希纳(dakṣiṇā,供养酬礼)。
Verse 43
एतस्मिन्नंतरे तस्य धवकाष्ठस्य सर्वतः । निष्क्रांता विविधाः शाखाः पल्लवैः समलंकृताः
就在此时,那段檀婆(dhava)木从四面八方生出种种枝条,点缀着新芽嫩叶,庄严而秀美。
Verse 44
तद्दृष्ट्वा विस्मितः सोऽथ आनर्ताधिपतिर्नृपः । पश्चात्तापं परं चक्रे धिङ्मयैवमनुष्ठितम्
见此情景,阿那尔塔之王大为惊异;继而生起深切悔恨,说道:“我竟如此行事,真是可耻!”
Verse 45
स नूनं विबुधः कोऽपि विप्ररूपेण संगतः । येनेदृशः प्रभावोऽयं तस्य मंत्रस्य संस्थितः
必定是某位天界神灵化作婆罗门来到此处;由他安立,此咒方具如此非凡威力。
Verse 46
यद्यहं प्रतिगृह्णामि तस्य मन्त्रोदितं जलम् । जरामरणहीनस्तु तद्भवाभि न संशयः
若我领受那由其真言加持的圣水,便可脱离衰老与死亡;对此我心中毫无疑惑。
Verse 47
एवं चिंतयतस्तस्य तद्दिनं विस्मितस्य च । पार्थिवस्य द्विजश्रेष्ठा जातं वर्षशतोपमम्
当国王如此思量、仍在惊异之中时,噢最胜婆罗门啊,他那一日竟仿佛漫长如百年。
Verse 48
दिवसे तु समाक्रांते कथंचित्तस्य भूपतेः । विभावरी क्षयं याति कथंचिन्नैव शारदी
当白昼终于临到那位国王之时,黑夜不知何故走向终结;然而它并未如寻常的秋夜那般消逝。
Verse 49
ततः प्रभातसमये समुत्थाय महीपतिः । आह्वयामास शाकल्यं पुरुषैराप्तकारिभिः
随后在黎明时分,国王起身,命可信的侍从去召请圣者沙迦利耶(Śākalya)。
Verse 50
ततः प्रोवाच विनयात्सादरं प्रांजलिः स्थितः । कल्ये शिष्यः समायातो यस्त्वदीयो ममांतिकम्
随后他合掌恭立,恳敬而言:“今晨,您的弟子已来到我近前——那位属于您的门人。”
Verse 51
शांत्यर्थं प्रेषणीयस्तु सोऽद्यापि च द्विजोत्तम । तस्योपरि परा भक्तिर्मम जाताऽद्य केवलम्
“为求息灾安宁(śānti),他仍当被遣行,噢最胜婆罗门。确然,今日我至高的虔敬唯独向他而生。”
Verse 53
गच्छ वत्स त्वमद्यैव पार्थिवस्य निवेशनम् । शांत्यर्थं तेन भूयोऽपि त्वमेवाशुनिमंत्रितः
“去吧,孩子,就在今日前往国王的居所。为求息灾安宁(śānti),他又急召你前去——速速。”
Verse 54
याज्ञवल्क्य उवाच । नाहं यास्यामि तद्धर्म्ये शांत्यर्थं द्विजपुंगव । अनादरेण दृष्टोऽहं नाशीर्मे च समाहृता
耶若若婆迦说道:“噢,婆罗门中最尊者,为了那安息之仪,我不去那里。我曾被以轻慢之眼相待,也无人向我致以应有的敬礼。”
Verse 55
काष्ठोपरि मया दत्ता तस्य वाक्यादसंशयम् । तस्मात्प्रेषय चान्यं त्वं गुरो शिष्यं विचक्षणम् । आनर्तं रंजयेद्यस्तु विवेकेन समन्वितम्
“毫无疑问,因他的一句话,我竟被安置在一段木头之上。故而,你当另遣师尊的一位明慧弟子,具足辨别之智(viveka),使那位君王得以安适,并受正当引导。”
Verse 56
शाकल्य उवाच । राजाऽदेशः सदा कार्यः पुरुषैर्देशवासिभिः । योगक्षेमविधानाय तथा लाभाय केवलम्
沙迦利耶说道:“国中王命,当由境内之人恒常奉行;因为此命旨在成就瑜伽克舍摩(yogakṣema)——安稳与护持——并且也为兴盛富足。”
Verse 57
प्रतिकूलो भवेद्यस्तु पाथिवानां स मन्दधीः । न तस्य जायते सौख्यं कथंचिद्द्विजसत्तम
“凡与诸王为敌者,皆是愚钝之人。噢,最上之二次生者,对他而言,幸福无论如何都不会生起。”
Verse 58
ये जात्यादि महोत्सेकान्न नरेंद्रानुपासते । तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम्
“那些因出身等而自负,不敬不事诸王者——为他们所宣示的忏悔法(prāyaścitta),乃是乞食至死。”
Verse 59
एवं तयोर्विवदतोस्तदा वै गुरुशिष्ययोः । भूयोऽपि तत्र संप्राप्ताः पुरुषाः पार्थिवेरिताः
当师徒二人仍在争辩之时,奉国王差遣的人们又一次来到那里。
Verse 60
प्रोचुश्च त्वरया युक्ताः शाकल्यं प्रांजलिस्थिताः । शिष्यं तं प्रेषय क्षिप्रं राजा मार्गं प्रतीक्षते
他们匆匆赶来,合掌恭立,对沙迦利耶说道:“快派那位弟子去吧,国王正在路上等候。”
Verse 61
असकृत्प्रोच्यमानोऽपि यदा गच्छति नैव सः । तदा संप्रेषयामास उद्दालकमथारुणिम्
虽屡次催促他仍不肯前往,于是沙迦利耶便派遣阿鲁尼之子优陀罗迦前去。
Verse 62
शिष्यं विनयसंपन्नं कृतांजलिपुटं स्थितम् । गच्छ वत्स समादेशात्सांप्रतं नृपमंदिरम्
他对那位谦恭守礼、合掌而立的弟子说道:“去吧,孩子,遵我之命,此刻前往王宫。”
Verse 63
शांतिकर्म विधायाथ स्वाध्यायं च ततः कुरु
行毕息灾安宁之仪(śānti-karman)后,便当修持自诵自学(svādhyāya),诵读研习吠陀。
Verse 64
स तथेति प्रतिज्ञाय गत्वा तं पार्थिवालयम् । चकार शांतिकं कर्म विधिदृष्टेन कर्मणा
他应诺道:“如是。”遂往王宫而去;在那里依照法则所规定的仪轨,修行息灾安宁之仪(śāntika)。
Verse 65
ततः कलशतोयं स साक्षतं सुमनोन्वितम् । गृहीत्वोपाद्रवत्तत्र यत्र राजा व्यवस्थितः
随后他取出仪瓶(kalaśa)之水,连同不碎米粒(akṣata)并以花鬘庄严,急速奔向国王所在之处。
Verse 66
राजोवाच । स्वकीयमन्त्रलिंगेन अभिषेकं तु यच्छ भोः । काष्ठस्यास्य यदग्रे ते प्रोत्थितं तिष्ठते द्विज
国王说道:“尊者啊,请以你自持之真言与灵相(liṅga)为之行灌顶沐浴(abhiṣeka)。婆罗门啊,就为这段木头施作;在它前端,那显现已生起并屹立不动。”
Verse 67
ततस्तेन शुभं मंत्रं प्रोच्याभीष्टं जलं स्वयम् । अभिषिच्य च तत्काष्ठं ततश्च स्वगृहं ययौ
于是他诵出吉祥真言,亲自取来所需之水;以灌顶沐浴(abhiṣeka)为那木段作了圣化,随后便回到自家。
Verse 68
तावद्रूपं च तत्काष्ठं दृष्ट्वाऽनर्तो महीपतिः । विषादसहितश्चैव पश्चात्तापसमन्वितः
国王见那形相显于木段之上,便心神不宁——满怀忧伤,且为悔恨所重压。
Verse 69
भूयस्तु प्रेषयामास याज्ञवल्क्यकृते तदा । अन्यं दूतं विदग्धं च शाकल्यस्य द्विजाश्रयम्
随后他又因耶若那伐迦之事,遣出另一位使者——机敏而能干——前往沙迦利耶,那位婆罗门的依怙者。
Verse 70
वेदना कायसंस्था मे वर्तते द्विजसत्तम । शांत्यर्थं प्रेषया क्षिप्रं तं शिष्यं पूर्वसंचितम्
“噢,婆罗门中的至上者,我身有剧痛缠身。为求安息,请速遣那位预先备好的弟子前来。”
Verse 71
अपमानं कृतं तस्य मया कल्ये द्विजोत्तम । तेन मे सहसा व्याधिराशीर्वादमनिच्छतः
“噢,最上婆罗门,我昨日曾侮辱于他。因而我忽然染上疾病——尽管他并无意赐下任何祝福。”
Verse 72
तस्मात्प्रेषय मे शीघ्रं येन मे स्वस्थता भवेम् । असकृत्प्रोच्यमानोऽपि यदा नैव स गच्छति
“因此请速遣他来我处,使我得以复安。纵然一再恳请,若他仍旧不来……”
Verse 73
याज्ञवल्क्यस्ततः शिष्यमन्यं प्रोवाच सादरम् । ततस्तं मधुकं पैग्यं प्रेषयामास तद्गृहे
于是耶若那伐迦恭敬地嘱咐另一位弟子;随后便遣摩度迦·派吉耶前往那所宅邸。
Verse 74
तेनापि विहितं तच्च यथोद्दालकनिर्मितम् । आशीर्वादो नृपोद्देशाद्दत्तः काष्ठस्य तस्य च
他也依照乌达罗迦(Uddālaka)先前所行的方式照做。并应国王之请,赐下祝福——连那块木头也蒙受加持。
Verse 76
असकृत्प्रोच्यमानोऽपि याज्ञवल्क्यो व्रजेन्न हि । यदा तदा बहुगुणमन्यं शिष्यं प्रदिष्टवान्
纵使一再被请求,雅吉那瓦尔迦(Yājñavalkya)也未前往。其时,他改而指派另一位弟子——具足多种德行者。
Verse 77
प्रचूडं भागवित्तिं च सोऽपि गत्वा यथा पुरा । चकार शांतिकं कर्म यथा ताभ्यां पुरा कृतम्
他也如先前一般前往普罗楚达(Pracūḍa)与婆伽维提(Bhāgavitti)处,并依照那二人从前所行,圆满施行息灾安宁之仪(śānti-karman)。
Verse 78
ततः शांत्युदकं तस्मिन्प्राक्षिपच्चैव दारुणि । मंत्रवच्च तथाप्येव तद्रूपं च व्यवस्थितम्
随后,他将加持的息灾安宁之水(śānty-udaka)洒向那可怖之物;然而即便伴以真言,其形相仍旧凝定不变。
Verse 79
तद्रूपमपि तत्काष्ठं दृष्ट्वा भूयोऽपि पार्थिवः । अन्यं संप्रेषयामास याज्ञवल्क्यकृते नरम्
国王见那块木头仍保持原来的形相,便再次派遣另一人——这一次是去迎请雅吉那瓦尔迦(Yājñavalkya)。
Verse 80
प्रणम्य स द्विजश्रेष्ठः शाकल्यं च द्विजोत्तमम् । शांत्यर्थं मम हर्म्ये त्वं कल्ये शिष्यं समादिश । येन मे जायते शांतिः शरीरस्य द्विजोत्तम
他顶礼之后,那位最尊贵的婆罗门对沙迦利耶、最上等的再生者说道:“为求息灾安抚,请你明晨派一位弟子到我宫中来;愿由他使我此身得安宁与舒解,噢,卓越的婆罗门。”
Verse 81
ततः प्रोवाच शाकल्यो याज्ञवल्क्यं द्विजोत्तमाः । भूयोऽपि शृण्वतस्तस्य आनर्तस्य महीपतेः
随后,卓越的婆罗门沙迦利耶对耶若阇那伐迦说道;阿那尔塔之王又一次在旁聆听。
Verse 82
याज्ञवल्क्य द्रुतं गच्छ ममादेशान्नृपालयम् । राज्ञोस्य रोगनाशाय शांतिकं कुरु पुत्रक
“耶若阇那伐迦,速速前往——奉我之命——到王宫去。为除灭此王之病,当行息灾安宁之仪(Śānti),我儿。”
Verse 83
याज्ञवल्क्य उवाच । नाहं तत्र गमिष्यामि गुरो मैवं ब्रवीहि माम् । अपमानः कृतोऽनेन गुरो मम महीभुजा
耶若阇那伐迦说道:“师尊,我不去那里;请不要这样对我说。那位国王侮辱了我,噢,老师。”
Verse 84
तस्य तद्वचनं श्रुत्वा स कोपं परमं गतः । अब्रवीद्भर्त्समानस्तु याज्ञवल्क्यं ततः परम्
听到他这番话,他勃然大怒;随即厉声斥责耶若阇那伐迦,并继续说道。
Verse 85
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत्
即使上师只向弟子传授一个音节,世间也没有任何财物,能以布施而偿尽此恩债。
Verse 86
यस्मात्त्वं शिष्यतां गत्वा मम वाक्यं करोषि न । तस्मात्त्वां योजयिष्यामि ब्रह्म शापेन सांप्रतम्
既然你虽已为弟子,却不遵行我之言,如今我将以婆罗门之诅咒束缚你。
Verse 87
याज्ञवल्क्य उवाच । अन्यायेन हि चेच्छापं गुरो मम प्रदास्यसि । अहमप्येव दास्यामि प्रतिशापं तवाधुना
阎若婆迦说道:“若师长欲以不义加诅于我,我亦当于此刻对你宣说反诅。”
Verse 88
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथे वर्तमानस्य परित्यागो विधीयते
即便是师长,若傲慢自矜,不知所当为与不当为,又行于邪道,也应当被舍离;此种舍离为经法所制。
Verse 89
तस्मात्त्वं हि मया त्यक्तः सांप्रतं हि न मे गुरुः । अविशषेण शिष्यार्थं यदादेशं प्रयच्छसि
因此我已舍弃于你;如今你不再是我的师长。然而仍请你不加分别,赐下为弟子之益而应授的教诲。
Verse 90
यावंतस्ते स्थिताः शिष्यास्तावद्भिर्दिवसैरहम् । तवादेशं करिष्यामि नोचेद्यास्यामि दूरतः
“只要你的弟子仍随侍在你身边,有多少日子,我便遵行你的教命多少日子;否则,我将远远离去。”
Verse 91
शाकल्य उवाच । यदि गच्छसि चान्यत्र तत्त्वं विद्यां परित्यज । यां मया पाठितः पाप व्रज पश्चात्कुशिष्य भोः
沙迦利耶说道:“若你要去别处,就舍弃我所教你的圣智及其真实义理。走吧——罪人啊,劣徒啊——退到后面,远远离去!”
Verse 92
मयाभिमंत्रितं तोयं क्षुरिकामुण्डसंभवम् । पिब तस्याः प्रभावेण शीघ्रमेव त्यजिष्यसि । जठरान्मामकीं विद्यां त्वयाधीता पुरा तु या
“饮下这水吧;此水已被我以真言加持,源自‘刃首(Kṣurikāmuṇḍa)’那如刀锋般凶烈的法。凭其威力,你将迅速从腹中吐弃那属于我的学识——你昔日从我处所学者。”
Verse 93
एवमुक्त्वा स चामंत्र्य मंत्रैराथर्वणैर्जलम् । पानाय प्रददौ तस्मै वांत्यर्थं सद्विजोत्तमः
说罢,那位最胜的再生者以《阿闼婆》真言加持此水,递给他饮用,为使其呕吐。
Verse 94
याज्ञवल्क्योऽपि तत्पीत्वा जलं तेनाभिमंत्रितम् । वांतिं कृत्वा सहान्नेन तद्विद्यां तां परित्यजत्
耶若那伐迦也饮下那被加持之水;随后呕吐,连同所食之物一并吐出,遂舍弃了那所受之学。
Verse 95
ततो मूढत्वमापन्नो विश्वामित्रह्रदं शुभम् । गत्वा स्नातो विधानेन शुचि र्भूत्वा समाहितः
随后,他陷入迷惘,前往吉祥的毗湿瓦密多罗圣湖。依正法仪轨沐浴后,身心清净,意念安住而专一。
Verse 96
चकार मूर्तीस्ता भक्त्या रवेर्द्वादशसंख्यया । प्रतिष्ठाप्य ततः सर्वाः पूजयामास भक्तितः
他以虔敬之心塑造了十二尊罗毗(太阳神)的圣像。将其一一安置奉立后,又以至诚的奉爱(bhakti)礼敬供养。
Verse 97
धाता मित्रोऽर्यमा शक्रो वरुणः सांब एव च । भगो विवस्वान्पूषा च सविता दशमस्तथा । एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते
达塔(Dhātā)、密多罗(Mitra)、阿利耶曼(Aryaman)、释迦罗(Śakra)、伐楼那(Varuṇa)与三婆(Sāṃba);婆伽(Bhaga)、毗婆斯梵(Vivasvān)、补善(Pūṣan),以及作为第十的娑毗特利(Savitṛ);第十一为特瓦什特利(Tvaṣṭṛ);而毗湿奴(Viṣṇu)被宣说为第十二——此即此处所说太阳的十二形相。
Verse 98
एवं द्वादशधा सूर्यः स्थापितोऽत्र विपश्चिता । आराधितस्ततो नित्यं गन्धपुष्पानुलेपनैः
如此,这位智者在此安立太阳神的十二重形相。此后他日日以香、花与涂香膏等供品恒常礼敬供养。
Verse 99
ततः कालेन महता गत्वा प्रत्यक्षतां रविः । प्रोवाच सुन्दरं प्रीत्या वाक्यमेतन्मुनिं प्रति
经过漫长岁月,罗毗(太阳神)亲自显现于前。祂心生欢喜,向那位牟尼说出这番温雅而慈悦的话语。
Verse 100
याज्ञवल्क्य प्रतुष्टोऽहं तव ब्राह्मणसत्तम । इष्टं ददामि ते ब्रूहि यद्यत्संप्रति वांछितम्
“雅若阇那伐迦呀,婆罗门中最胜者,我已悦纳于你。我将赐予你所愿之恩赐——如今说出你所求吧。”
Verse 101
याज्ञवल्क्य उवाच । वरं ददासि चेन्मह्यं वेदपाठे नियोजय । मां विभो येन शिष्यत्वं तव गच्छामि सांप्रतम्
雅若阇那伐迦说道:“若您要赐我恩赐,至尊之主啊,请令我专注于吠陀的诵读与研习,使我如今得以在您座下成就弟子之位。”
Verse 102
आदित्य उवाच । मया पर्यटनं कार्यं सदैव द्विजसत्तम । मेरोः प्रदक्षिणार्थाय लोकालोककृते द्विज
阿底提耶说道:“二生中最胜者啊,我必须恒常行于我的运行之道——为诸世界及其界限之故,绕行须弥山,以安立光明与黑暗的秩序,婆罗门啊。”
Verse 103
तत्कथं योजयामि त्वां वेदपाठेन स द्विज
“既如此,二生者啊,我又如何能使你从事吠陀诵读呢?”
Verse 104
तस्मात्त्वं लघुतां गत्वा मम मुख्यहयस्य च । श्रवणे तिष्ठ मद्वाक्यात्तेजसा चैव येन मे
“因此,你当变得微细,进入我首要神马的耳中;依我之命令,并凭我之炽盛光辉而住于彼处。”
Verse 105
न दह्यसि महाभाग तत्र स्थोऽध्ययनं कुरु । स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः
“有福之人,你不会被焚烧;住在那里,勤修诵学吠陀。”他应允立誓“如是”,遂进入阿底提耶的神骏之马中。
Verse 106
कर्णेऽपठत्ततो वेदांश्चतुरोऽपि च तन्मुखात् । अंगोपांगसमोपेतान्परिशिष्टसमन्वितान्
随后,他由耳而受,从那口中学得四部吠陀——并具诸支分(aṅga)、诸辅学(upāṅga),以及诸附录(pariśiṣṭa)。
Verse 107
ततः समाप्ते स प्राह प्रार्थयस्व विभो हि माम् । प्रदास्यामि न सन्देहस्तवाद्य गुरुदक्षिणाम्
学业圆满后,他说道:“尊者啊,请向我有所求。毫无疑虑,今日我必奉上你的师资供养(guru-dakṣiṇā)。”
Verse 108
आदित्य उवाच । यानि सूक्तानि ऋग्वेदे मदीयानि द्विजोत्तम । सावनानि यजुर्वेदे सामानि च तृतीयके
阿底提耶说道:“噢,诸二生中最胜者,凡《梨俱吠陀》中属于我的诸颂(sūkta),《夜柔吠陀》中的萨瓦那仪轨真言(Sāvana),以及第三吠陀《娑摩吠陀》中的娑摩歌咏(Sāman)——”
Verse 110
ये द्विजास्तानि सर्वाणि कीर्तयिष्यंति मे पुरः । ते सर्वे पाप निर्मुक्ताः प्रयास्यंति दिवालयम्
凡诸二生在我面前诵念这一切者——皆得脱离罪垢,终将抵达天界之居所。
Verse 111
व्याख्यास्यंति पुनर्ये च मम भक्तिपरायणाः । ते यास्यंति द्विजा मुक्तिं सत्यमेतन्मयोदितम्
凡诸二生者,若以对我虔敬之心再度阐释此教法——必得解脱。此乃我亲口所说的真实之言。
Verse 112
सूत उवाच । एवं वेदान्पठित्वा स प्रदत्त्वा गुरुदक्षिणाम् । सूर्यायाभ्यागतो भूयश्चमत्कारपुरं प्रति
苏多说道:“如此,他诵习诸吠陀,并奉献师资供养(guru-dakṣiṇā)之后,又再度来到苏利耶之前,随后启程前往奇迹之城——Camatkārapura。”
Verse 113
ततः शाकल्यमभ्येत्य गुरुस्त्वं प्राङ् मम स्थितः । प्रार्थयस्व महाभाग दास्यामि गुरुदक्षिणाम्
随后他走近沙迦利耶(Śākalya)说道:“您是我的师长,正立于我前。噢有福者,请开口所求——我必奉上师资供养(guru-dakṣiṇā)。”
Verse 114
ज्येष्ठो भ्राता पिता चैव माता चैव गुरुस्तथा । वैरुद्ध्येनापि वर्तंते यद्येते द्विजसतम । तथापि पूजनीयाश्च पुरुषेण न संशयः
长兄、父亲、母亲,以及同样的师长——噢二生中之最胜者——纵使他们以违逆之态行事,人亦当敬奉礼拜;对此毫无疑惑。
Verse 115
सांगोपांगा मयाधीता वेदाश्चत्वार एव च । अधीताश्चैव सर्वेषां तेषामर्थोऽवधारितः
我已学习四部吠陀,并兼修其支分(aṅga)与附支(upāṅga)等诸辅学;既尽学一切,亦已领会其义旨。
Verse 116
तत्त्वं वद महाभाग कां ते यच्छामि दक्षिणाम्
请说出真理,尊贵者;我当奉献何种达克希那(供养之礼)给你?
Verse 117
शाकल्य उवाच । यानि वेदरहस्यानि सूर्येण कथितानि ते
沙迦利耶说道:“那些由苏利耶(日神)向你宣说的吠陀秘奥教诲——”
Verse 118
यैः स्यात्पापप्रणाशश्च व्याख्यातैः पठितैस्तथा । तानि मे कीर्तय क्षिप्रमेषा मे गुरुदक्षिणा
“请速为我宣说那些教诲——它们若被研读并加以阐释,便能灭除罪业。这就是我献给师长的师礼(guru-dakṣiṇā)。”
Verse 119
याज्ञवल्क्य उवाच । तदागच्छ मया सार्धं यत्र सूर्याः प्रतिष्ठिताः । मया द्वादश तेषां च कीर्तयिष्यामि चात्रतः
耶若阇婆迦说道:“那么随我来,到安立苏利耶圣像之处。在那里,我将当下为你述说那十二尊。”
Verse 120
तच्छ्रुत्वा शिष्यसंयुक्तः शाकल्यस्तैश्च सद्द्विजैः । शिष्यैस्तिष्ठन्ति ये तत्र स्थापितास्तेन भास्कराः
听罢此言,沙迦利耶与弟子们同往,并与那些可敬的婆罗门相伴,来到他所安立的婆娑迦罗(苏利耶诸相)所在之处;诸弟子亦在场侍立。
Verse 121
ततस्तु कीर्तयामास व्याख्यानं तत्पुरः स्थितः । वेदान्तानां च सर्वेषां यथोक्तं रविणा पुरा
随后,他立于众人之前,宣说一切《吠檀多》的义理,正如古时太阳神罗毗(Ravi)所传授。
Verse 122
अवसाने च तेषां तु चतुश्चरणसंभवैः । ब्राह्मणैर्याज्ञवल्क्यस्तु वेदान्तज्ञैः प्रतोषितः
而在讲说终了之时,通晓吠檀多的婆罗门们——所谓“由四足而生”,即安住于四重吠陀传统者——令耶若那伐迦大为欢喜。
Verse 123
प्रोक्तस्तव प्रसादेन वेदांतज्ञा वयं स्थिताः । श्रुताध्ययनसंपन्ना याचस्व गुरुदक्षिणाम्
他们说道:“承蒙尊师恩泽,我等得闻教诲,今已安住为吠檀多知者,具足闻与学。请师尊索取师资供养(guru-dakṣiṇā)。”
Verse 124
याज्ञवल्क्य उवाच । एतेषां भास्कराणां च मदीयानां पुरो द्विजाः । कीर्तयिष्यंति ये विप्रास्तेषां युष्मत्प्रसादतः । भूया स्वर्गगतिर्विप्रा एषा मे गुरु दक्षिणा
耶若那伐迦说道:“诸位二次生者,承你们慈允,愿那些在你们面前称颂我所安立之诸‘婆娑迦罗’(Bhāskara,日辉圣像)功德的婆罗门,得以不断增上,趋向天界。此即我所求之师资供养(guru-dakṣiṇā)。”
Verse 125
ये पुनर्भक्तिसंयुक्ताः करिष्यंति विचारणम् । तेषां तुर्यपदं यच्च जरामरणवर्जितम्
然而,凡具足虔敬(bhakti)而行省察思惟者,于彼等则有“第四境”(turya),远离衰老与死亡。
Verse 126
ब्राह्मणा ऊचुः । भविष्यति कलौ विप्रा दौस्थ्यभावसमन्विताः । पठने नैव शक्ताश्च व्याख्यानस्य च का कथा
婆罗门众说道:“在迦梨时代,婆罗门将为贫困与艰难所压,连诵学吠陀都无力;更何况讲解其义呢?”
Verse 127
तस्मात्सारस्वतं ब्रूहि वेदानां द्विजसत्तम । अपि दौस्थ्यसमायुक्ता येन ते कीर्तयंति च
“因此,哦二次生中最胜者,请宣说吠陀的娑罗湿伐多(Sārasvata)诵法,使即便受困厄者也能诵读并宣扬吠陀。”
Verse 129
चित्रं देवानामिति च तथान्यत्तस्य वल्लभम् । हंसः शुचिषदित्युक्तं ततश्चापि प्रहर्षदम्
“‘Citraṃ devānām’——以及另一首为祂所喜爱的赞歌;‘Haṃsaḥ śuciṣad’如所宣说;其后还有赐予欢喜者——(这些吠陀赞颂应在此处诵念)。”
Verse 130
पावमानं तथा सूक्तं ये पठिष्यंति बह्वृचः । इत्येषामाद्यमेवं तु ते यास्यंति परां गतिम्
“而那些诵持《梨俱吠陀》的诵者(Bahvṛca),若诵读《Pāvamāna Sūkta》——如此作为开端——便将证得至上归趣。”
Verse 131
एकविंशतिसामानि आदित्येष्टानि यानि च । सामगाः कीर्तयिष्यंति येऽत्रस्थाः शुचयः स्थिताः
“而在此处的《娑摩吠陀》歌咏者——清净而安住——将歌唱为礼敬阿底提耶(苏利耶,日神)所规定的二十一首娑曼。”
Verse 132
निश्चयं तु परं धृत्वा येऽपि स्तोष्यंति भास्करम् । ततस्तेऽपि प्रयास्यंति निर्भिद्य रविमंडलम्
即便是怀持坚定而至高决心、赞颂婆斯迦罗(太阳神)者,他们也将继续前行,仿佛穿透那太阳之圆轮。
Verse 133
क्षुरिकासंपुटं चैव सूर्यकल्पं तथैव च । शांतिकल्पसमायुक्तं कीर्तयिष्यंति ये द्विजाः
而诸位二生者(婆罗门等)若诵持《刹利迦三补吒》、 《苏利耶劫法》以及与《善提劫法》相应之文,亦将获得所说功德。
Verse 134
अथर्वपाठकास्तेऽपि प्रयास्यंति परां गतिम् । मूर्खा अपि समागत्य संप्राप्ते सूर्यवासरे
那些诵读《阿闼婆吠陀》者也将抵达至上的归趣。即便愚昧之人,只要在太阳之日(星期日)到来时前来……
Verse 135
प्रणामं ये करिष्यंति श्रद्धया परया युताः । सप्तरात्रकृतात्पापान्मुक्तिं प्राप्संति ते द्विजाः
凡二生者若以至诚至上的信心行顶礼叩拜,便能从七夜(近七日)所造诸罪中得解脱。
Verse 136
सूत उवाच । तथेति तैः प्रतिज्ञाते चतुश्चरणसंभवैः । ब्राह्मणैर्याज्ञवल्क्यस्तु विज्ञातो येन केन तु
苏多说道:“当那些婆罗门——出自吠陀四‘足’者——应允誓诺,说‘如是’之后,耶若那伐迦便以某种方式为国王所知。”
Verse 137
विदेहेन ततः प्राप्तः श्रवणार्थं नराधिपः । वेदांतानां च सर्वेषां रत्नाख्येन महीभुजा
随后,维提诃之王、众人之主名为“宝(Ratna)”者,为聆听一切吠檀多之教而来。
Verse 138
तेनापि च परिज्ञाय माहात्म्यं सूर्यसं भवम् । ततः संस्थापितः सूर्यस्तस्मिन्स्थाने द्विजोत्तमाः
他亦已了悟由苏利耶(Sūrya)而生之大威德,遂于彼处安立苏利耶,噢,最胜之二生者。
Verse 139
तं चापि सूर्यवारेण यः प्रपश्यति मानवः । सप्तरात्रकृतात्पापान्मुच्यते नात्र संशयः
凡人在主日(太阳日)瞻礼彼圣相者,必脱离七夜所作之罪;此无疑也。
Verse 140
एतद्वः कथितं सर्वं माहात्म्यं सूर्यसंभवम् । यः शृणोति नरो भक्त्या अश्वमेधफलं लभेत्
此即我已为汝等尽说由苏利耶之力所生的伟大功德。若有人以虔敬聆听,必得阿湿婆弥陀(马祭)之果报。
Verse 191
संक्रांतौ यत्प्रदानेन सूर्ये वा श्रवणेन तु । तत्फलं समवाप्नोति श्रुत्वा माहात्म्यमुतमम्
无论于桑克兰提(Saṅkrānti)所施之布施,或于主日聆听者,但闻此最上摩诃阿特米亚(Māhātmya),即得同等之果。
Verse 278
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये द्वादशार्कोत्पत्तिरत्नादित्योत्पत्तिमाहात्म्ये याज्ञवल्क्यवृत्तांतवर्णनं नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः
至此,《圣·斯坎达大往世书》之《八万一千颂集》(Ekāśītisāhasrī Saṃhitā)第六部《那伽罗分部》(Nāgara-khaṇḍa)中,《室利哈塔凯湿瓦罗圣域功德》(Śrīhāṭakeśvara-kṣetra Māhātmya)之“十二日神显现与宝日神(Ratnāditya)显现功德”篇,名为《阐述耶若那伐迦(Yājñavalkya)事迹》的第二百七十八章圆满结束。
Verse 582
स तथेति प्रतिज्ञाय गत्वाऽथ निजमन्दिरम् । प्रोवाच याज्ञवल्क्यं च शांत्यर्थं श्लक्ष्णया गिरा
他应允道:“就如此吧。”随后回到自己的住处;为求和解,他以柔和之语对耶若那伐迦说道。
Verse 1293
याज्ञवल्क्य उवाच । रथं युञ्जंति सूक्तं यत्प्रथमं वित्तलक्षणम् । त्रिष्टुभेति च यत्सूक्तं तथाद्यं ब्राह्मणोत्तमाः
耶若那伐迦说道:“以‘他们驾轭战车’开头的颂歌为第一首,其相标示为关乎财富;而以‘在特里什图布(Triṣṭubh)’开头的颂歌亦同为第一首,噢,最胜的婆罗门们。”