Adhyaya 274
Nagara KhandaTirtha MahatmyaAdhyaya 274

Adhyaya 274

本章以苏多(Sūta)与诸仙(ṛṣi)的对话展开:先指出由圣者杜尔瓦萨(Durvāsas)所建立的“三眼”湿婆林伽(Trinetra-liṅga),继而铺陈一则兼具戒德与仪轨意义的故事。一位寺院住持虽常行林伽礼拜,却贪恋由交易往来所得之财,将黄金锁藏于箱中。盗贼杜赫希拉(Duḥśīla)假装出离,潜入寺中,受持湿婆派灌顶(Śaiva dīkṣā),伺机而动。 旅途中,众人停驻于圣河穆拉拉(Muralā)附近,师长信任渐增,箱匣一时可近,杜赫希拉遂盗金逃遁。后来他成家为居士,在朝圣之地遇见杜尔瓦萨,并目睹信众于林伽前以歌舞奉献的虔敬(bhakti)。杜尔瓦萨说明:正因大自在天(Maheśvara)欢喜此类至诚奉爱,故立此林伽;并为其开示忏悔与修德之法:布施黑羚皮(kṛṣṇājina),常以器皿奉施芝麻(tilapātra)并配以黄金,且以完成未竟的殿堂(prāsāda)作为师资供养(guru-dakṣiṇā),并持续以供品、花鬘与奉爱之艺敬事神明。 章末以果报偈(phalaśruti)明示功德:于恰伊特拉月(Chaitra)瞻礼可除一年之罪;如法沐浴与净礼可除数十年之罪;在神前歌舞礼赞,能消尽一生之罪,并积集趋向解脱之福德。

Shlokas

Verse 1

। सूत उवाच । तथान्यदपि तत्रास्ति दुर्वासःस्थापितं पुरा । तल्लिंगं देवदेवस्य त्रिनेत्रस्य महात्मनः

苏多说道:此外,彼处尚有另一圣物,乃古时由杜尔瓦萨所建立——即诸神之神、伟大的三眼主之林伽。

Verse 2

चैत्रमासि नरो यस्तु तमाराधयते द्विजाः । नृत्यगीतप्रवाद्यैश्च त्रिकालं विहितक्षणः । स नूनं तत्प्रसादेन गन्धर्वाधिपतिर्भवेत् १

噢,二次生者啊:凡于恰伊特罗月礼敬彼神者,日三时如法修持,并以舞、歌与诸乐器供奉;承彼主恩,必定成为乾闼婆之主。

Verse 3

ऋषय ऊचुः । दुर्वासा नामकश्चायं केनायं स्थापितो हरः । कस्मिन्काले महाभाग सर्वं नो विस्तराद्वद

诸仙人说道:“此灵伽名为‘杜尔瓦萨’——此哈罗(湿婆)由谁安立?此事发生于何时,噢有福者?请为我们详尽宣说一切。”

Verse 4

सूत उवाच । आसीत्पुरा निंबशुचो वैदिशे च पुरोत्तमे

苏多说道:“往昔,在殊胜的毗底沙城中,住着一人,名为宁婆舒迦。”

Verse 5

स च पूजयते लिंगं किंचिन्मठपतिः स्थितः । स यत्किंचिदवाप्नोति वस्त्राद्यं च तथा परम्

他乃一位住持僧院(maṭha)之人,常礼拜灵伽。凡他所得——衣服等物,乃至更多之财——

Verse 6

माहेश्वरस्य लोकस्य विक्रीणीते ततस्ततः । ततो गृह्णाति नित्यं स हेम मूल्येन तस्य च

——他便屡屡“售卖”得入大自在天(摩诃湿伐罗)世界之许诺,并日日以黄金为其价而取之。

Verse 7

न करोति व्ययं तस्य केवलं संचये रतः । ततः कालेन महता मंजूषाऽस्य निरर्गला । जाता हेममयी विप्राः कार्पण्यनिरतस्य च

他毫不支出,只以囤积为乐。经年累月之后,噢婆罗门们,他所藏的箱匣——甚至无锁——竟充满黄金,因为他沉溺于吝啬之行。

Verse 8

अथ संस्थाप्य भूमध्ये मंजूषां तां प्रपूरिताम् । करोति व्यवहारं स कक्षां तां नैव मुंचति

随后他把那装得满满的箱匣安置在地板中央,照常办理诸般交易,却从不离开那间屋子。

Verse 9

कदाचिद्देवपूजायां सोऽपि ब्राह्मणसत्तमाः । विश्वासं नैव निर्याति कस्यचिच्च कथंचन

有时即便在礼拜神明之际,那人——噢最上婆罗门——也绝不以任何方式信任任何人。

Verse 10

कस्यचित्त्वथ कालस्य परवित्तापहारकः । अलक्षद्ब्राह्मणस्तच्च दुःशीलाख्यो व्यचिंतयत्

后来在某个时候,一位掠夺他人财物的婆罗门,名叫杜赫希拉(Duḥśīla),察觉此事,便开始筹谋。

Verse 11

ततः शिष्यो भविष्यामि विश्वासार्थं दुरात्मनः । सुदीनैः कृपणैर्वाक्यैश्चाटुकारैः पृथग्विधैः

“那么我就做他的弟子,以博取那恶人的信任——用可怜卑微的话语、吝啬的辞令,以及种种谄媚奉承。”

Verse 12

आलस्यं च दिवानक्तं साधयिष्याम्यसंशयम् । अन्यस्मिन्नहनि प्राप्ते दृष्ट्वा तं मठमध्यगम्

“我必昼夜滋养懒惰,毫无疑虑。”随后在另一天,他看见那位尊者身处僧院的院落之中,

Verse 13

ततः समीपमगमद्दंडाकारं प्रणम्य च । अब्रवीत्प्रांजलिर्भूत्वा विनयावनतः स्थितः

于是他走近前来,身如杖直,五体投地而礼拜;继而合掌,谦恭俯身站立而说道:

Verse 14

भगवंस्ते प्रभावोऽद्य तपसा वै मया श्रुतः

噢,吉祥的世尊!今日我由闻说您所行苦行之事,得知您灵性威德的真实广大。

Verse 15

यदन्यस्तापसो नास्ति ईदृशोऽत्र धरातले । तेनाहं दूरतः प्राप्तो वैराग्येण समन्वितः

因为在这大地之上,再无如您这般的苦行者,我便怀抱离欲之心,自远方而来,愿求您的开示与引导。

Verse 16

संसारासारतां ज्ञात्वा जन्ममृत्युजरात्मिकाम् । अर्थात्स्वप्नप्रतीकाशं यौवनं च नृणा मिह

既已了知轮回世间的空虚——由生、死与衰败所构成——又觉悟此间人之青春,实亦如梦中一现的幻影……

Verse 17

यद्वत्पर्वतसंजाता नदी च क्षणभंगुरा । पुत्राः कलत्राणि च वा ये चान्ये बांधवादयः

正如发源于群山的河流转瞬即逝、脆弱易断,儿女、妻室以及一切亲族与执著之系亦复如是,皆不恒常。

Verse 18

ते सर्वे च परिज्ञेया यथा पाप समागमाः । तत्संसारसमुद्रस्य तारणार्थं ब्रवीहि मे

这一切都应当了知:不过是世间缠缚,犹如招致罪业的因缘。因此,请告诉我如何得以渡越这轮回(saṃsāra)之海。

Verse 19

उपायं कंचिदद्यैव उपदेशे व्यवस्थितम् । तरामि येन संसारं प्रसादात्तव सुव्रत

愿你就在今日,于教诲中安立一条可行之道,使我得以渡越轮回(saṃsāra)——凭借你的慈恩,噢,持善誓者。

Verse 20

तस्य तद्वचनं श्रुत्वा रोमांचित तनूरुहः । ज्ञात्वा माहेश्वरः कोऽयं चिंतावान्समुपस्थितः

闻其言,苦行者欢喜战栗,毛发竖立;他思忖道:“此人究竟是谁,竟是大自在天(Maheśvara)的虔诚奉者?”遂怀思而近前。

Verse 21

यथा ब्रवीषि धन्योऽसि यस्य ते मतिरीदृशी । तारुण्ये वर्तमानस्य सुकुमारस्य चैव हि

依你所言,你实为有福之人;因为如此的觉悟竟在你心中生起,纵然你尚在青春年少、柔和而充满生机之时。

Verse 22

तारुण्ये वर्तमानो यः शांतः सोऽत्र निगद्यते । धातुषु क्षीयमाणेषु शमः कस्य न जायते

若有人尚在青春而心常寂静,此处称其为真正卓异;当身中诸界渐渐衰耗时,又有谁不生安宁之心?

Verse 23

यद्येवं सुविरक्तिः स्यात्संसारोपरि संस्थिता । समाराधय देवेशं शंकरं शशिशेखरम्

若已生起坚固的离欲,超然立于世间生死之上,则当以圆满虔敬礼拜诸天之主——商羯罗,顶戴月冠者。

Verse 24

नान्यथा घोरजाप्येन तीर्यते भवसागरः । मया सम्यक्परिज्ञातमेतच्छास्त्रसमागमात्

世间生有之海,除以猛烈的持诵(japa)之外,别无他法可渡。我已从诸经相应一致的证言中,如实了知此义。

Verse 25

शूद्रो वा यदि वा विप्रो म्लेछो वा पापकृन्नरः । शिवदीक्षासमोपेतः पुष्पमेकं तु यो न्यसैत्

无论是首陀罗或婆罗门,无论是弥勒叉,乃至造罪之人——若已受持湿婆灌顶(dīkṣā),并在供奉中安放哪怕一朵花,

Verse 27

यो ददाति प्रभक्त्या च शिवदीक्षान्विताय च । वस्त्रोपानहकौपीनं स यज्ञैः किं करिष्यति

若有人以至诚信爱,施与受持湿婆灌顶者衣服、鞋履与缠腰布,此人又何必再以祭祀求取功德?

Verse 28

तच्छ्रुत्वा चरणौ तस्य दुःशीलोऽसौ तदाऽददे । विन्यस्य स्वशिर स्ताभ्यां ततोवाक्यमुवाच ह

听闻此言,杜希拉便抓住他的双脚。将头置于其上,随即说道。

Verse 29

शिवदीक्षाप्रमाणेन प्रसादं कुरु मे प्रभो । शुश्रूषां येन ते नित्यं प्रकरोमि समाहितः

主啊,请按照湿婆灌顶的仪轨赐予我恩典,以便我能心神专注,永远侍奉您。

Verse 30

ततोऽसौ तापसो विप्राश्चिंतयामास चेतमि । दक्षोऽयं दृश्यते कोऽपि पुमांश्चैव समागतः

那位苦行婆罗门心中暗想:“这位来到此地的人看起来既能干又有才干。”

Verse 31

ममास्ति नापरः शिष्यस्तस्मादेनं करोम्यहम् । ततोऽब्रवीत्करे गृह्य यद्येवं वत्स मे समम् । समयं कुरु येन त्वां दीक्षयाम्यद्य चैव हि

“我没有其他弟子,所以我将收下他。”于是,他拉着他的手说道:“既是如此,孩子啊,你要答应遵守戒律,这样我今日便可为你灌顶。”

Verse 32

त्वया कुटीरकं कार्यं मठस्यास्य विदूरतः । प्रवेशो नैव कार्यस्तु ममात्रास्तं गते रवौ

你必须在这个修道院远处建一座小茅屋。只要我在场,你就不得进入此地,直到日落之后。

Verse 33

दुःशील उवाच । तवादेशः प्रमाणं मे केवलं तापसोत्तम । किं मठेन करिष्यामि विशेषाद्रा त्रिसंगमे

杜赫希拉说道:“噢,最胜苦行者,唯有您的命令是我唯一的凭据。我何必再求寺院——尤其在这三流圣水汇合之处?”

Verse 34

यः शिष्यो गुरुवाक्यं तु न करोति यथोदितम् । तस्य व्रतं च तद्व्यर्थं नरकं च ततः परम्

凡弟子不依师尊所言而行者,其誓愿便成空无,随后堕入地狱。

Verse 35

तच्छ्रुत्वा तुष्टिमापन्नः शिवदीक्षां ततो ददौ । तस्मै विनययुक्ताय तदा निंबशुचो मुनिः

听罢此言,圣者宁巴舒迦心生欢喜;随即赐予那谦恭守礼之人以湿婆灌顶入门(Śivadīkṣā)。

Verse 36

ततःप्रभृति सोऽतीव तस्य शुश्रूषणे रतः । रंजयामास तच्चित्तं परिचर्यापरायणः

自此以后,他极其专注于侍奉师长;恒常勤于随侍与供养,使师尊之心欢悦。

Verse 37

मनसा चिन्तयानस्तु तन्मात्रार्थं दिनेदिने । न च्छिद्रं वीक्षते किंचिद्वीक्षमाणोऽपि यत्नतः

日复一日,他心中唯念那唯一的目标;即使竭力细察,也寻不见丝毫破绽——毫无空隙可乘。

Verse 38

शैवोऽपि च स कक्ष्यां तां तां मात्रां हेमसंभवाम् । कथंचिन्मोक्षते भूमौ भोज्ये देवार्चनेऽपि न

尽管他身带湿婆派行者的标记,却从不把那贴身侧挂的金囊/金量具放到地上——无论进食之时,乃至礼拜神明之际亦然。

Verse 39

ततोऽसौ चिन्तयामास दुःशीलो निजचेतसि । मठे तावत्प्रवेशोऽस्ति नैव रात्रौ कथंचन

随后,那性情恶劣之人心中盘算道:“入寺尚且只能到某个程度;可到了夜里,无论如何都进不去。”

Verse 40

सूर्यास्तमानवेलायां यत्प्रयच्छति तत्क्षणात् । परिघं सुदृढं पापस्तत्करोमि च किं पुनः

“到日落之时,他一合上门,那罪人立刻横上一道极其坚固的门闩——我还能做什么呢?”

Verse 41

मठोऽयं सुशिलाबद्धो नैव खातं प्रजायते । तुंगत्वान्न प्रवेशः स्यादुपायैर्विविधैः परैः

“这座寺院以良石牢固砌就,绝无可能凿出缺口;又因其高峻,即便施展种种计谋,也无法入内。”

Verse 42

तत्किं विषं प्रयच्छामि शस्त्रैर्व्यापादयामि किम् । दिवापि पशुमारेण पंचत्वं वा नयामि किम्

“那么,我该下毒吗?还是用兵刃杀他?抑或甚至在白日里,以如屠兽者般的凶暴手段送他赴死?”

Verse 43

एवं चिन्तयतस्तस्य प्रावृट्काल उपस्थितः । श्रावणस्यासिते पक्षे कर्कटस्थे दिवाकरे

当他如此思惟之时,雨季已至——在室罗伐那月的黑半月,太阳行至巨蟹宫之际。

Verse 44

प्राप्तो महेश्वरस्तस्य कोऽपि तत्र धनी द्रुतम् । तेनोक्तं प्रणिपत्योच्चैः करिष्यामि पवित्रकम्

随后,一位富人迅速来到那里,来到大自在天(摩诃湿伐罗,即湿婆)之前;他俯首顶礼,高声说道:“我将奉行帕维特拉迦(净化之仪)。”

Verse 45

चतुर्द्दश्यामहं स्वामिन्यद्यादेशो भवेत्तव । यद्यागच्छसि मे ग्रामं प्रसादेन सम न्वितः

“噢,尊贵的圣母,愿你今日在月之第十四日赐我敕命。若你怀着慈恩降临我村……”

Verse 46

सूत उवाच । तच्छ्रुत्वा तुष्टिमापन्नस्ततो निंबशुचो मुनिः । तथेति चैवमुक्त्वा तं प्रेषयामास तत्क्षणात्

苏多说道:听了这话,牟尼尼姆巴舒迦心生欢喜;说了声“如是”,便当即遣他离去。

Verse 47

आगमिष्याम्यहं काले स्वशिष्येण समन्वितः । करिष्यामि परं श्रेयस्तव वत्स न संशयः

“我将于适时而来,并携我弟子同行。我必为你成就至上的福祉,亲爱的孩子——毫无疑虑。”

Verse 48

अथ काले तु संप्राप्ते चिन्तयित्वा प्रभातिकम् । प्रभातसमये प्राप्ते स शैवः प्रस्थितस्तदा । दुःशीलेन समायुक्तः संप्रहृष्टतनूरुहः

待到约定之时,他思量并完成清晨的准备;黎明到来,那位奉事湿婆的行者便启程——与杜赫希拉同行——欢喜激动,汗毛皆竖。

Verse 49

ततो वै गच्छमानस्य तस्य मार्गे व्यवस्थिता । पुण्या नदी सुविख्याता मुरला सागरंगमा

他继续前行时,路上有一条功德清净、名闻遐迩的河流——穆拉拉河——奔流入海。

Verse 50

स तां दृष्ट्वाऽब्रवीद्वाक्यं वत्स शिष्य करोम्यहम् । भवता सह देवार्चां मुरलायां स्थिरो भव

见到那条河,他说道:“孩子啊,我将收你为弟子。你当在穆拉拉河畔安住不动,与我一同礼敬诸天。”

Verse 51

बाढमित्येव स प्रोक्त्वा संस्थितोऽस्यास्तटे शुभे । सोऽपि निंबशुचस्तस्य रंजितः सर्वदा गुणैः

他答道“善哉”,便住在那河的吉祥岸边。尼姆巴舒迦也常因他的德行而欢喜。

Verse 52

सुशिष्यं तं परिज्ञाय विश्वासं परमं गतः । स्थगितां तां समादाय हेममात्रासमुद्भवाम्

知其为善弟子,他便生起圆满的信任;随即取出那被隐藏之物,其所现之量,等同一份黄金。

Verse 53

जागेश्वरसमोपेतां स कन्थां व्याक्षिपत्क्षितौ । पुरीषोत्सर्गकार्येण ततस्तोकांतरं गतः

他将与阇伽伊湿伐罗(Jāgeśvara)相连的斗篷掷于地上;随后借口解手,走开了不远。

Verse 54

यावच्चादर्शनं प्राप्तो वेतसैः परिवारितः । तावन्मात्रां समादाय दुःशीलः प्रस्थितो द्रुतम् । उत्तरां दिशमाश्रित्य प्रहृष्टेनांतरात्मना

他一离开视线,被芦苇遮蔽之时,杜赫西罗(Duḥśīla)便夺取仅那一份,立刻疾走而去——趋向北方,内心欢喜。

Verse 55

अथासौ चागतो यावद्दुःशीलं नैव पश्यति । केवलं दृश्यते कन्था जागेश्वरसमन्विता

随后他赶到时,竟全然不见那恶人杜赫西罗;只见那件斗篷——仍带着阇伽伊湿伐罗的印记与相系。

Verse 56

षडक्षरेण मंत्रेण लिंगस्योपरि भक्तितः । स तां गतिमवाप्नोति यांयां यांतीह यज्विनः

他以虔敬之心在林伽之上持诵六字真言,由此获得此地诸行祭者与清净礼拜者所证得的同等吉祥归趣。

Verse 57

यावन्मात्राविहीनां च ततो ज्ञात्वा च तां हृताम् । तेन शिष्येण मूर्च्छाढ्यो निपपात महीतले

随后他察觉自己的“摩多罗”(mātrā,所托之量)已然缺失并被盗走,那弟子因昏厥而倒伏在地。

Verse 58

ततश्च चेतनां प्राप्य कृच्छ्राच्चोत्थाय तत्क्षणात् । शिलायां ताडयामास निजांगानि शिरस्तथा

随后,他恢复了知觉,在那一刻艰难地起身,将自己的四肢甚至头部撞向岩石。

Verse 59

हा हतोऽस्मि विनष्टोऽस्मि मुष्टस्तेन दुरात्मना । किं करोमि क्व गच्छामि कथं तं वीक्षयाम्यहम्

“唉,我完了;我被毁了——被那个恶毒的人抢劫了!我该怎么办?我该去哪里?我怎么才能找到他?”

Verse 60

ततस्तु पदवीं वीक्ष्य तस्य तां चलितो ध्रुवम् । वृद्ध भावात्परिश्रांतो वावृत्य स मठं गतः

随后,看到那人的足迹,他坚定地追了上去;但因年老体衰,疲惫不堪,只得折返,回到了修道院。

Verse 61

दुःशीलोऽपि समादाय मात्रां स्थानांतरं गतः । ततस्तेन सुवर्णेन व्यवहारान्करोति सः

那个恶人拿走了财物,去了另一个地方;随后,他用那笔黄金进行交易和买卖。

Verse 62

ततो गृहस्थतां प्राप्तः कृतदारपरिग्रहः । वृद्धभावं समापन्नः संतानेन विवर्जितः

此后,他娶妻成家,过上了居士的生活;虽然活到了老年,却始终没有子嗣。

Verse 63

कस्यचित्त्वथ कालस्य तीर्थयात्रापरायणः । भार्यया सहितो विप्रश्चमत्कारपुरं गतः

过了一段时日,那位专心朝礼诸圣渡口(tīrtha)的婆罗门,偕同妻子前往奇迹之城——Camatkārapura。

Verse 64

स्नात्वा तीर्थेषु सर्वेषु देवतायतनेषु च । भ्रममाणेन संदृष्टो दुर्वासा नाम सन्मुनिः

他在诸处圣地与众神庙宇中悉皆沐浴净身,漫游之间,得见名为杜尔瓦萨(Durvāsā)的贤圣牟尼。

Verse 65

निजदेवस्य सद्भक्त्या नृत्यगीतपरायणः । तं च दृष्ट्वा नमस्कृत्य वाक्यमेतदुवाच सः

他以至诚敬爱所奉之本尊,沉浸于舞与歌;见到那位圣者,便恭敬顶礼,继而说道:

Verse 66

केनैतत्स्थापितं लिंगं निर्मलं शंकरोद्भवम् । किं त्वं नृत्यसि गीतं च पुरोऽस्य प्रकरोषि च । मुनीनां युज्यते नैव यदेतत्तव चेष्टितम्

“此清净林伽,出自商羯罗(Śaṅkara),是谁所安立?你为何在其前起舞歌唱?你这般举止,实不相称于牟尼圣者。”

Verse 67

दुर्वासा उवाच । मयैतत्स्थापितं लिंगं देवदेवस्य शूलिनः । नृत्यगीतप्रियो यस्माद्देवदेवो महेश्वरः

杜尔瓦萨说道:“此林伽乃我为持三叉之主(Śūlin)、诸神之神而安立。因为大自在天(Maheśvara)、天众之主,确实喜爱舞与歌。”

Verse 68

न मेऽस्ति विभवः कश्चिद्येन भोगं करोम्यहम्

我毫无财物,无法凭此沉溺于享乐。

Verse 69

एतस्मिन्नंतरे प्राप्तश्चिर्भटिर्नाम योगवित् । तेन पृष्टः स दुर्वासा वेदांतिकमिदं वचः

其间,一位通晓瑜伽、名为齐尔巴蒂者来到。被他请问时,杜尔瓦萨宣说了这段吠檀多之教言。

Verse 70

असूर्या नाम ते लोका अंधेन तमसा वृताः । तांस्ते प्रेत्याऽभिगच्छंति ये केचात्महनो जनाः

那些世界确实无日之光,被令人目盲的黑暗所裹覆;凡戕害自我者,死后皆趋往彼处。

Verse 71

उपविश्य ततस्तेन तस्य दत्तस्तु निर्णयः । दुःशीलेनापि तत्सर्व विज्ञातं तस्य संस्तुतम्

随后他坐下,那位导师便赐予他明晰的决断。即便是品行不端之人,也尽皆领悟,并称赞其教诲。

Verse 72

ततो विशेषतो जाता भक्तिस्तस्य हरं प्रति । तं प्रणम्य ततश्चोच्चैर्वाक्यमेतदुवाच ह

此后,他对哈拉(湿婆)的虔敬尤为炽盛而起。向其顶礼后,他高声说道:

Verse 74

भगवन् ब्राह्मणोऽस्मीति जात्या चैव न कर्मणा । न कस्यचिन्मया दत्तं कदाचिन्नैव भोजनम् । केवलं देवविप्राणां वंचयित्वा धनं हृतम् । व्यसनेनाभिभूतेन द्यूतवेश्योद्भवेन च

噢,至福的世尊!我被称为婆罗门,只因出身,并非因行持。我从未在任何时候施食于人。反而我连诸天与婆罗门都加以欺诳而夺取财物;我被由赌博与狎妓结交所生的恶习所压倒。

Verse 75

तथा च ब्राह्मणेनापि मया शैवो गुरुः कृतः । वंचितश्च तथानेकैश्चाटुभिर्विहृतं धनम्

因此,虽为婆罗门,我竟以一位湿婆派导师为托辞而欺骗了他。同样地,我也被许多谄媚之徒所蒙蔽,财物遂被挥霍耗散。

Verse 76

तस्य सक्तं धनं भूयः साधुमार्गेण चाहृतम् । स चापि च गुरुर्मह्यं परलोकमिहागतः

其后,我循正道又取回了那被束缚而失落的财物。而那同一人——曾成为我的上师——如今已从彼世来到此处。

Verse 77

पश्चात्तापेन तेनैव प्रदह्यामि दिवानिशम् । पुरश्चरणदानेन तत्प्रसादं कुरुष्व मे

正因那悔恨,我昼夜如焚。愿以与“补罗舍遮罗那”(puraścaraṇa)相应之布施,为我成就那份恩典。

Verse 78

अस्ति मे विपुलं वित्तं न संतानं मुनीश्वर । तन्मे वद मुने श्रेयस्तद्वित्तस्य यथा भवेत् । इह लोके परे चैव येन सर्वं करोम्यहम्

我有丰厚的财宝,噢大牟尼圣者,却无子嗣。请告知我,圣仙啊,何为最善——如何使此财真正结成福果——使我能圆满应作之事,既在此世,亦在彼世。

Verse 79

दुर्वासा उवाच । कृत्वा पापसहस्राणि पश्चाद्धर्मपरो भवेत् । यः पुमान्सोऽतिकृच्छ्रेण तरेत्संसारसागरम्

杜尔瓦萨说道:纵使一人曾造下千般罪业,后来亦可归依正法;然而要渡越轮回世间之海,唯有历经极大艰难方能成就。

Verse 80

दिनेनापि गुरुर्योऽसौ त्वया शैवो विनिर्मितः । अधर्मेणापि संजातः स गुरुस्तेन संशयः

即便只在一日之间由你塑成那位湿婆派“上师”,纵然他以不义之法而生,他仍是你的上师——对此毫无疑问。

Verse 81

ब्राह्मणो ब्रह्मचारी स्याद्ग्रहस्थस्तदनंतरम् । वानप्रस्थो यतिश्चैव तत श्चैव कुटीचरः

婆罗门当先为梵行者(brahmacārin);其后当为居家者。再后(可为)林居者(vānaprastha)与遁世者(yati);其后确然为“库提恰罗”(kuṭīcara),隐居茅庵之人。

Verse 82

बहूदकस्ततो हंसः परमश्च ततो भवेत् । ततश्च मुक्तिमायाति मार्गमेनं समाश्रितः

继而成为“多水者”(bahūdaka);其后为“天鹅行者”(haṁsa);再后为“至上者”(parama)。依止此道,便得解脱(mukti)。

Verse 83

त्वया पुनः कुमार्गेण यद्व्रतं ब्राह्मणेन च । शैवमार्गं समास्थाय तन्महापातकं कृतम्

然而你却又循恶道,与一位婆罗门一同立下誓戒,依从湿婆之道而行;此事遂成“摩诃波多迦”(mahāpātaka),大罪业。

Verse 84

दुःशील उवाच । सर्वेष्वेव हि वेदेषु रुद्रः संकीर्त्यते प्रभुः । तत्किं दोषस्त्वया प्रोक्तस्तस्य दीक्षासमुद्भवः

杜赫希罗说道:确实,在一切吠陀中,鲁陀罗被颂扬为主宰。那么,你所说由他的灌顶(dīkṣā)而生的过失,究竟是什么?

Verse 85

दुर्वासा उवाच । सत्यमेतत्त्वया ख्यातं वेदे रुद्रः प्रकीर्तितः । बहुधा वासुदेवोऽपि ब्रह्मा चैव विशेषतः

杜尔瓦萨说道:你所说确实为真——在吠陀中,鲁陀罗被宣说称颂。同样,婆苏提婆也以多种方式被赞美,梵天亦尤其被推崇。

Verse 86

परं विप्रस्य या दीक्षा व्रतवंधसमुद्भवा । गायत्री परमा जाप्ये गुरुर्व्रतपरो हि सः । वैष्णवीं चाथ शैवीं च योऽन्यां दीक्षां समाचरेत्

对婆罗门而言,至上的灌顶是由严持誓戒之约(vrata)所生的灌顶。在持诵(japa)中,最上咒是伽雅特丽(Gāyatrī);而他真正的上师,是专志于誓戒者。但若有人既已受过毗湿奴派或湿婆派的灌顶,却又因心志摇动而再求另一种灌顶——

Verse 87

ब्राह्मणो न भवेत्सोऽत्र यद्यपि स्यात्षडंगवित् । अपरं लिंगभेदस्ते संजातः कपटादिषु

在此他便不算真正的婆罗门——纵然通晓吠陀六支(ṣaḍaṅga)。而且,对你而言又生起了进一步的“堕落之相”:欺诳等诸恶。

Verse 88

व्रतत्यागान्न संदेहस्तत्र ते नास्ति किंचन । प्रायश्चित्तं मया सम्यक्स्मृतिमार्गेण चिंतितम्

由于舍弃誓戒,毫无疑问:对你而言,此事已无任何不明。我已依循诸《忆念书》(Smṛti)之道,周详思量了相应的忏悔赎罪(prāyaścitta)。

Verse 89

दुःशील उवाच । सतां सप्तपदीं मैत्रीं प्रवदंति मनीषिणः । मित्रतां तु पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु

杜赫希拉说:“智者宣说:在善人之间,同走七步,友谊便坚固。为尊重此友谊,我将略说数语——请听。”

Verse 90

अस्ति मे विपुलं वित्तं यदि तेन प्रसिद्ध्यति । तद्वदस्व महाभाग येन सर्वं करोम्यहम्

“我有丰厚的财财—若能凭此获得名声或成就。请告知我,吉祥者啊,以何方法我才能成办一切所需?”

Verse 91

दुर्वासा उवाच । एक एव ह्युपायोऽस्ति तव पातकनाशने । तं चेत्करोषि मे वाक्याद्विशुद्धः संभविष्यसि

杜尔瓦萨说:“确有唯一之法可灭除你的罪业。若依我之言而行,你必得清净。”

Verse 92

तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च । द्वापरे तीर्थयात्रां च दानमेव कलौ युगे

在克利多时代,苦行受赞;在特雷塔时代,唯有智慧之知;在德瓦帕拉时代,朝礼诸圣地(tīrtha);而在迦利时代,唯有布施为最胜。

Verse 93

सांप्रतं कलिकालोऽयं वर्तते दारुणाकृतिः । तस्मात्कृष्णाजिनं देहि सर्वपापविशुद्धये

“如今迦利时代正盛行,形相可怖。故当施与黑羚羊皮(kṛṣṇājina),以净除一切罪垢。”

Verse 94

तथा च ते घृणाऽप्यस्ति गुरुवित्तसमुद्भवा । तदर्थं कुरु तन्नाम्ना शंकरस्य निवेशनम्

而你亦有厌离之心,乃由贪著师长之财而生。故为此缘故,当以圣名为凭,为圣者商羯罗(Śaṅkara)建立居所。

Verse 95

येन तस्मादपि त्वं हि आनृण्यं यासि तत्क्षणात् । अन्यत्रापि च तद्वित्तं यत्किंचिच्च प्रपद्यते

由此行持,你将当下脱离债负,乃至对他亦复如是。并且那份财物中,凡以任何他途归入你手的部分,

Verse 96

ब्राह्मणेभ्यो विशिष्टेभ्यो नित्यं देहि समाहितः । तिलपात्रं सदा देहि सहिरण्यं विशेषतः

当以摄心专注,恒常布施于殊胜婆罗门。常以盛芝麻之器作施,尤当与黄金同施为胜。

Verse 97

येन ते सकलं पापं देहान्नाशं प्रगच्छति । अपरं चैत्रमासेऽहं सदाऽगच्छामि भक्तितः

由此,你的一切罪垢皆离身而去,尽被摧灭。并且在凯特罗月(Caitra),我常以虔敬之心来到此处。

Verse 98

कल्पग्रामात्सुदूराच्च प्रासादेऽत्र स्वयं कृते । पुनर्यामि च तत्रैव व्रतमेतद्धि मे स्थितम्

我自遥远的劫波村(Kalpagrāma)而来,至此我亲手建立的殿宇。随后我又回到原处——此即我所持守之誓愿(vrata)。

Verse 99

तस्माच्चिंत्यस्त्वयाह्येष प्रासादो यो मया कृतः । चिंतनीयं सदैवेह स्नानादिभिरनेकशः

因此,你应当铭记我所建造的这座圣殿。在此处,应当常常忆念,反复不辍,并行沐浴等诸般神圣行持。

Verse 100

दुःशील उवाच । करिष्यामि वचस्तेऽहं यथा वदसि सन्मुने

杜赫希罗说道:“噢,尊贵的牟尼圣者,我必依你所言而行,完全照你所吩咐的去做。”

Verse 101

दुर्वासा उवाच । सर्वपापविशुद्ध्यर्थं दत्ते कृष्णाजिने द्विजः । प्रयच्छ तिलपात्राणि गुप्तपापस्य शुद्धये

杜尔瓦萨说道:“为净除一切罪业,当婆罗门施与黑羚羊皮时,也应供献盛芝麻之器皿,以清净乃至隐秘之罪。”

Verse 102

सूत उवाच । तस्य तद्वचनं श्रुत्वा दत्तं तेन महात्मना । ततः कृष्णाजिनं भक्त्या ब्राह्मणायाहिताग्नये

苏多说道:听闻其言,那位大心之人便依教而施。随后他以虔敬之心,将黑羚羊皮供奉给一位守持圣火的婆罗门。

Verse 103

दुर्वाससः समा देशाद्यथोक्तविधिना द्विजाः । यच्छतस्तिलपात्राणि तस्य नित्यं प्रभक्तितः

随后,诸婆罗门依杜尔瓦萨所说之法,从那片地方将盛芝麻的器皿赐与他,恒常不断,并以深厚的虔敬之心行之。

Verse 104

गतपापस्य दीक्षां च ददौ निर्वाणसंभवाम् । तथासौ गतपापस्य दीक्षां दत्त्वा यथाविधि

对那罪业已除之人,他赐予导向解脱的灌顶(dīkṣā)。于是,他依正法仪轨如法授予清净者灌顶之后,

Verse 105

ततः प्रोवाच मधुरं देहि मे गुरुदक्षिणाम्

随后他温和地说道:“把师礼(guru-dakṣiṇā)献给我吧。”

Verse 106

दुःशील उवाच । याचस्व त्वं प्रभो शीघ्रं यां ते यच्छामि दक्षिणाम् । तां प्रदास्यामि चेच्छक्तिर्वित्तशाठ्यविवर्जिताम्

杜赫希拉说道:“主啊,请速速提出我愿奉上的师礼(guru-dakṣiṇā)。若我有能力,必当奉献,绝无在财物上丝毫欺诈。”

Verse 107

दुर्वासा उवाच । कल्पग्रामं गमिष्यामि सांप्रतं वर्तते कलिः । नाहमत्रागमिष्यामि यावन्नैव कृतं भवेत्

杜尔瓦萨说:“我如今将前往迦尔帕村(Kalpagrāma),因为此时正是迦梨(Kali)盛行之世。我不会回到这里,直到此事确已完成。”

Verse 108

अर्धनिष्पादितो ह्येष प्रासादो यो मया कृतः । परिपूर्तिं त्वया नेय एषा मे गुरुदक्षिणा

“我所兴建的这座殿堂(prāsāda)尚只完成一半。你须使其圆满竣工——这便是我所要的师礼(guru-dakṣiṇā)。”

Verse 109

नृत्यगीतादिकं यच्च तथा कार्यं स्वशक्तितः । पुरतोऽस्य बलिर्देयस्तथान्यत्कुसुमादिकम्

其余诸事——如舞蹈、歌咏等——当随自身能力而筹办。于此神祠之前,应献上巴利供(祭献),并再奉献花等诸供物。

Verse 110

एवमुक्त्वा गतः सोऽथ कल्पग्रामं मुनीश्वरः । दुःशीलोऽपि तथा चक्रे यत्तेन समुदाहृतम्

说罢,那位诸牟尼之主便前往劫村(Kalpagrāma)。而杜赫希拉也照他所宣示的教诲,一一如法实行。

Verse 111

सूत उवाच । एवं तस्य प्रभक्तस्य तत्कार्याणि प्रकुर्वतः । तन्नाम्ना कीर्त्यते सोऽथ दुःशील इति संज्ञितः

苏多说道:“当他以虔敬与信诚完成那些功行之后,便因那名字而为人称颂,遂被称为‘杜赫希拉’。”

Verse 112

चैत्रमासे च यो नित्यं तं च देवं प्रपश्यति । क्षणं कृत्वा स पापेन वार्षिकेण प्रमुच्यते

凡于蔡特罗月(Caitra)日日瞻礼彼神者,纵仅一瞬,亦能解脱一年所积之罪。

Verse 113

यः पुनः स्नपनं तस्य सर्वं चैव करोति च । त्रिंशद्वर्षोद्भवं पापं तस्य गात्रात्प्रणश्यति

又凡为彼神圆满行沐浴仪(snapana)者,诸环节悉皆具足,则三十年所生之罪,必自其身而灭。

Verse 114

यः पुनर्नृत्यगीताद्यं कुरुते च तदग्रतः । आजन्ममरणात्पापात्सोऽपि मुक्तिमवाप्नुयात्

此外,凡在祂面前奉献舞蹈、歌咏及诸如此类供养者,亦能解脱自出生至死亡所积诸罪,并得究竟解脱(mokṣa)。