Adhyaya 262
Nagara KhandaTirtha MahatmyaAdhyaya 262

Adhyaya 262

本章以师徒式对话展开:帕尔瓦蒂请求伊湿伐罗开示通往禅那瑜伽(dhyānayoga)之法,由此进至智瑜伽(jñānayoga),获得“无死”的境界。伊湿伐罗以技术性讲解为核心,宣说一则被称为“咒王”(mantrarāja)的十二音节真言,并依吠陀体例标明 ṛṣi(圣仙)、chandas(韵律)、devatā(本尊)与 viniyoga(用途)。随后逐音节细分对应:色相、五大元素的种子音(bīja)、相关圣仙与具体功用。 继而说明身安置(deha-nyāsa):将诸音节安置于足、脐、心、喉、手、舌/口、耳、眼与头顶等处,并提及三种手印(liṅga、yoni、dhenu),作为仪轨与身心合一的“语法”。在此仪式结构之上,教说转入观修理论:禅观被视为灭罪(pāpa-kṣaya)与净化的决定性手段;瑜伽分为两途——依相而观的禅那,导向那罗延那(Nārāyaṇa)之见;以及更高的无所依智瑜伽,趋向无相、不可量的梵(brahman)。 章中强调不二之相:nirvikalpa(无分别)、niranjana(无垢)、sākṣimātra(唯证知者),但仍保留以身观为教化桥梁,尤其以头(śiras)为维持瑜伽专注的要处。又纳入四月斋期 cāturmāsya 的框架,称此期观修功效尤增。伦理门槛亦明确:不可向无纪律或怀恶意者泄露;但可传授给虔敬、克制、清净的修行人,超越社会类别而以信与净为准。结尾重申身体为宇宙缩影:诸神、圣河与行星(graha)各居身中部位,并以持久的音流(nāda)定与毗湿奴(Viṣṇu)为中心的观修,宣示解脱之果。

Shlokas

Verse 1

पार्वत्युवाच । ध्यानयोगमहं प्राप्य ज्ञानयोगमवाप्नुयाम् । तथा कुरुष्व देवेश यथाहममरी भव

帕尔瓦蒂说道:“我既已得禅观之瑜伽,愿亦得真实智之瑜伽。噢,诸天之主,请成就此愿,使我得不死之身。”

Verse 2

प्रत्युक्तोऽयं मंत्रराजो द्वादशाक्षरसंज्ञितः । जप्तव्यः सुकुमारांगि वेदसारः सनातनः

此至尊真言已被宣说,即名为“十二音节真言”。噢,身姿柔美的女神,当以持诵(japa)反复念诵;它是永恒不变的吠陀精髓。

Verse 3

प्रणवः सर्ववेदाद्यः सर्वब्रह्मांडयाजकः । प्रथमः सर्वकार्येषु सर्वसिद्धिप्रदायकः

普罗那瓦(Oṃ)居于一切吠陀之首,净化并祭祀宇宙诸界。凡所作为,皆以它为先;它赐予一切成就(悉地)。

Verse 4

सितवर्णो मधुच्छंदा ऋषिर्ब्रह्मा तु देवता । परमात्मा तु गायत्री नियोगः सर्वकर्मसु

其色为白;其韵律(chandas)为“Madhu”;其见者圣仙(ṛṣi)为梵天,梵天亦为其主宰神。至上我以伽雅特丽之形显现,而其运用遍及一切仪式与诸行。

Verse 5

वेदवेदांग तत्त्वाख्यं सदसदूपमव्ययम्

此被称为吠陀与吠陀支分之“真理本原”——不坏不灭,兼具“有”与“无”之性。

Verse 6

नकारः पीतवर्णस्तु जलबीजः सनातनः । बीजं पृथ्वी मनश्छन्दो विषहा विनियोगतः

音节“na”呈黄色,为水之原理的永恒种子。其种子相应于地;其韵律为“Manas”;依其规定的仪轨运用,则成“Viṣahā”——除毒与解厄者。

Verse 7

मोकारः पृथिवी बीजो विश्वामित्रसमन्वितः । रक्तवर्णो महातेजा धनदो विनियोजितः

音节“mo”被宣说为大地之种(pṛthivī-bīja),与圣仙毗湿瓦密多相应。其色赤红,光辉炽盛,应当作为赐财之用。

Verse 8

भकारः पंचवर्णस्तु जलबीजः सनातनः । मरीचिना समायुक्तः पूजितः सर्वभोगदः

音节“bha”具五色,为水之原理的永恒种子。与圣仙摩利支相合;若加以礼敬供奉,便赐予一切受用与兴盛。

Verse 9

गकारो हेमरक्ताभो भरद्वाजसमन्वितः । वायुबीजो विनिर्योगं कुर्वतामादिभोगदः

音节“ga”呈金红之相,与圣仙婆罗陀婆阇相应,为风之原理的种子。凡依正当仪轨运用者,得赐本初之受用与成就。

Verse 10

वकारः कुन्दधवलो व्योमबीजो महाबलः । ऋषिमंत्रिपुरस्कृत्य योजितो मोक्षदायकः

音节“va”洁白如茉莉,是虚空(以太)原理的强大神种。若依仪轨运用,先安置诸仙圣(ṛṣi)与真言于前,则能成为赐予解脱(mokṣa)者。

Verse 11

तकारो विद्युद्विकारः सोमबीजं महत्स्मृतम् । अंगिरावर्द्धमूलं च वर्जितं कर्मका मिकम् १

音节“ta”闪耀如电,被忆为苏摩(Soma)之大种子。其根植于安吉拉斯(Aṅgiras)之系并增益其基,但对仅为世俗祭仪之欲所驱者,应当回避。

Verse 13

सुकारश्चाक्षरो नित्यं जपाकुसुम भास्वरः । मनो बीजं दुर्विषह्यं पुलहाश्रितमर्थिदम्

音节“su”是恒常不坏之声,灿然如朱槿花。它是心识之种,难以承受;依止于普拉哈(Pulaha)之系,并赐予所求之愿。

Verse 14

सिद्धिबीजं महासत्त्वं क्रतौ क्रतुनियोजितम्

此为成就(siddhi)之种,具大灵性与大威力;于祭祀(yajña)之中当依仪轨安置于其正位而用。

Verse 15

वाकारो निर्मलो नित्यं यजमानस्तु बीजभृत् । प्रचेताश्रियमाश्रेयं मोक्षे मोक्षप्रदायकम्

音节“vā”恒常清净;行祭者(yajamāna)以之为种而持。依止普拉切塔斯(Pracetas)之吉祥福泽,于解脱之道中,它成为赐予解脱(mokṣa)者。

Verse 16

यकारस्य महाबीजं पिंगवर्णश्च खेचरी । भूचरी च महासिद्धिः सर्वदा भूविचिन्तनम्

对于音节“ya”,有一大种子真言:呈黄褐之色,行于虚空,为“空行”(khecarī)。亦能行于大地,是大成就(siddhi)——恒常观想世间与地界。

Verse 17

भृगुयन्त्रे समाश्रांतिनियोगे सर्वकर्मकृत् । गायत्रीछंद एतेषां देहन्यासक्रमो भवेत्

在婆利古(Bhṛgu)坛城/神机(yantra)中,若依既定的安置与施用次第运用这些,便能成办一切仪轨。其韵律(chandas)为伽雅特丽(Gāyatrī),而身部的安置(nyāsa)应按次第如法而行。

Verse 18

ओंकारं सर्वदा न्यस्यन्नकारं पादयोर्द्वयोः । मोकारं गुह्यदेशे तु भकारं नाभिपंकजे

应恒常以安置法(nyāsa)将“唵”(Oṃ)安于自身;将“na”安于双足;将“mo”安于隐秘处;将“bha”安于脐之莲华。

Verse 19

गकारं हृदये न्यस्य वकारः कण्ठ मध्यगः । तेकारं दक्षिणे हस्ते वाकारो वामहस्तगः

以安置法将“ga”安于心中;将“va”安于喉间;将“te”安于右手;将“vā”安于左手。

Verse 20

सुकारं मुखजिह्वायां देकारः कर्णयोर्द्वयोः । वाकारश्चक्षुषोर्द्वन्द्वे यकारं मस्तके न्यसेत्

应将“su”安于口与舌;将“de”安于双耳;将“vā”安于双目;并将“ya”安于头顶。

Verse 21

लिंगमुद्रा योनिमुद्रा धेनुमुद्रा तथा त्रयम् । सकलं कृतमेतद्धि मंत्ररूपे बिजाक्षरम्

林伽印、阴门印,以及同样的牝牛印——此三印。由此,整个仪轨得以圆满,因为种子音节被安立为真言之形。

Verse 22

योजयेत्प्रत्यहं देवि न स पापैः प्रलिप्यते । एतद्द्वादशलिंगारं कूर्मस्थं द्वादशाक्षरम्

女神啊,日日修持此法者,不为罪垢所染。此乃十二音节之真言,具十二林伽之形,安住于库尔玛(龟之承载)之中。

Verse 23

शालग्रामशिलाश्चैव द्वादशैव हि पूजिताः । ताभिः सहाकरैरेभिः प्रत्यक्षैः सह संसदि

并且确实,应当礼拜十二块娑罗伽罗摩圣石。与它们同在——连同这些形相与显现的临在——于礼拜的会众之中。

Verse 24

यथावर्णमनुध्यानैर्मुनिबीजसमन्वितैः । विनियोगेन सहितैश्छन्दोभिः समलंकृतैः

以与每一音节相应的观想,具足圣仙(ṛṣi)与种子(bīja),并与所说的用法(viniyoga)相合,又以相应的韵律(chandas)庄严——应如是运用真言。

Verse 26

अयं हि ध्यानकर्माख्यो योगो दुष्प्राप्य एव हि । ध्यानयोगं पुनर्वच्मि शृणुष्वैकाग्रमानसा

此法门名为“修观之瑜伽”,确实难以证得。故我将再说一遍禅观瑜伽——当以一心专注而听。

Verse 27

ध्यानयोगेन पापानां क्षयो भवति नान्यथा । जपध्यानमयो योगः कर्मयोगो न संशयः

唯由禅观之瑜伽(dhyāna-yoga),诸罪得以消灭——别无他途。由持诵(japa)与禅修所成之瑜伽,确为业瑜伽,毫无疑惑。

Verse 28

शब्दब्रह्मसमुद्भूतो वेदेन द्वादशाक्षरः । ध्यानेन सर्वमाप्नोति ध्यानेनाप्नोति शुद्धताम्

十二音节之真言,出自声梵(Śabda-Brahman),依止于吠陀——由禅观得一切成就;由禅观得清净。

Verse 29

ध्यानेन परमं ब्रह्म मूर्त्तौ योगस्तु ध्यानजः । सावलम्बो ध्यानयोगो यन्नारायणदर्शनम्

由禅观证悟至上梵(Param Brahman);就圣像(mūrti)之显现形相而言,亦宣说由禅观而生之瑜伽。此有依之禅观瑜伽(有所缘)终归于得见那罗延那(Nārāyaṇa)。

Verse 30

द्वितीयो निखिलालम्बो ज्ञानयोगेन कीर्तितः । अरूपमप्रमेयं यत्सर्वकायं महः सदा

第二道被宣说为以智瑜伽(jñāna-yoga)而成的“遍为依持”之道。彼乃常住之大光明——无相、不可量度、遍入一切身。

Verse 31

तडित्कोटिसमप्रख्यं सदोदितमखंडितम् । निष्कलं सकलं वापि निरंजनमयं वियत्

其光如千万道霹雳——恒常升起,圆满不断。或可解为无分,或可解为有分,然终究无垢,如清净虚空。

Verse 32

तत्स्वरूपं भोगरूपं तुर्यातीतमनोपमम् । विभ्रांतकरणं मूर्तं प्रकृतिस्थं च शाश्वतम्

那一实相即其自性真如,亦显现为受用与经验之相(bhoga)。它可比于超越“第四境”(turiya)之心;然而又被称为具相之体,藉诸根器而起用,安住于Prakṛti之中,恒常不灭。

Verse 33

दृश्यादृश्यमजं चैव वैराजं सततोज्ज्वलम् । बहुलं सर्वजं धर्म्यं निर्विकल्पमनीश्वरम्

它既可见亦不可见;不生不灭;具宇宙之威光(vairāja),恒常炽然。广大无边,为万有之源,是法(dharma)之根基——离诸心分别,亦超越世俗所想之“主宰”。

Verse 34

अगोत्रं वरणं वापि ब्रह्मांडशतकारणम् । निरीहं निर्ममं बुद्धिशून्यरूपं च निर्मलम्

它无族姓(gotra),超越一切分类与社会之“围限”;为无量诸宇宙之因。无欲无取,其相超越思智,清净无垢。

Verse 35

तदीशरूपं निर्देहं निर्द्वंद्वं साक्षिमात्रकम् । शुद्धस्फटिकसंकाशं ध्यातृध्येयविवर्जितम् । नोपमेयमगाधं त्वं स्वीकुरुष्व स्वतेजसा

那具主宰威德之实相,无身无形,超越一切对待,唯是纯粹的见证觉知(sākṣī)。它如无瑕水晶——离于能观与所观之分。噢女神啊,愿你以自身内在光明,将那无可比拟、深不可测的真理摄受于己。

Verse 36

पार्वत्युवाच । तत्कथं प्राप्यते सम्यग्ज्ञानं योगिस्वरूपिणम् । नारायणममूर्तं च स्थानं तस्य वद प्रभो

帕尔瓦蒂说道:“那圆满之智——其自性即瑜伽行者之体——当如何如法证得?又请告我,主啊,无相那罗延(Nārāyaṇa)之‘住处’在何处?”

Verse 37

ईश्वर उवाच । शिरः प्रधानं गात्रेषु शिरसा धार्यते महान्

自在天说道:“诸肢之中,头为最尊;伟大的重担——整个人身——皆由头顶承载。”

Verse 38

शिरसा पूजितो देवः पूजितं सकलं जगत् । शिरसा धार्यते योगः शिरसा ध्रियते बलम्

以俯首礼敬神明,则如同礼敬了整个世界。由头而持瑜伽;由头而立力量。

Verse 39

शिरसा ध्रियते तेजो जीवितं शिरसि स्थितम् । सूर्यः शिरो ह्यमूर्त्तस्य मूर्तस्यापि तथैव च

光辉由头承载,生命亦安住于头。太阳确为“无相者”之首,亦同样为“有相者”之首。

Verse 40

उरस्तु पृथिवीलोकः पादश्चैव रसातलम् । अयं ब्रह्मांडरूपे च मूर्त्तामूर्त्तस्वरूपतः

其胸为大地界——Pṛthivī-loka,其足为Rasātala之域。由是他即为梵卵宇宙(Brahmāṇḍa)之形,兼具显与不显两种境相。

Verse 41

विष्णुरेव ब्रह्मरूपो ज्ञानयोगाश्रयः स्वयम् । सृजते सर्वभूतानि पालयत्यपि सर्वशः

毗湿奴自身即是梵天之相,是智瑜伽(jñāna-yoga)的归依处。他创造一切众生,也以种种方式护持他们。

Verse 42

विनाशयति सर्वं हि सर्वदेवमयो ह्ययम् । सर्वमासेष्वाधिपत्यं यस्य विष्णोः सनातनम्

祂确能消融一切,因为祂由诸天众神所成。对一切月份的永恒主权,属于那位毗湿奴。

Verse 43

तस्मात्सर्वेषु मासेषु सर्वेषु दिवसेष्वपि । सर्वेषु यामकालेषु संस्मरन्मुच्यते हरिम्

因此,在一切月份、一切日子,以及时间的每一更中,能忆念哈利者,便得解脱诸缚。

Verse 44

चातुर्मास्ये विशेषेण ध्यानमात्रात्प्रमुच्यते । अमूर्त्तसेवनं गंगातीर्थध्यानाद्वरं परम्

在四雨安居(Cāturmāsya)期间,尤其只凭禅观便可得解脱。奉事无相者(Amūrta)为至上功德,甚至胜过观想恒河圣地(Gaṅgā-tīrtha)。

Verse 45

सर्वदानोत्तरं चैव चातुर्मास्ये न संशयः । सर्वमासकृतं पापं चातुर्मास्ये शुभाशुभम्

在四雨安居(Cāturmāsya)中,其功德胜过一切布施,毫无疑虑。诸月所积之罪,无论由所谓“善”或“恶”之行而起,皆于四雨安居中得以对治。

Verse 46

अक्षय्यं तद्भवेद्देवि नात्र कार्या विचारणा । तस्मात्सर्वप्रयत्नेन ज्ञानयोगो बहूत्तमः

噢,天女(Devī)啊,此功德将成不坏,无须疑虑与争辩。因此当竭尽诸般努力:智瑜伽(jñāna-yoga)最为殊胜。

Verse 48

न कथ्येयं यस्य कस्य सुतस्याप्य परस्य च । अदांतायाथ दुष्टाय चलचित्ताय दांभिके

此法不应随便传授于任何人——即便是自己的儿子也不可,何况他人。不可告于无自制者、恶人、心念飘忽者与伪善者。

Verse 49

स्ववाक्च्युताय निंद्याय न वाच्या योगजा कथा । नित्यभक्ताय दांताय शमादि गुणिने तथा

由瑜伽所生之法语,不可对背离自身誓言与真实者、亦不可对可责之人宣说。却应对恒常虔敬者、自制者,以及具足以寂静等为首诸德者宣说。

Verse 50

विष्णुभक्ताय दातव्या शूद्रायापि द्विजन्मने । अभक्तायाप्यशुचये ब्रह्मस्थानं न कथ्यते

此奥秘教法当授予毗湿奴之 भक्त——纵为首陀罗——若其以灵修戒行而真实成就“再生”。然对无信且不净者,至上的“梵之座”不可宣露。

Verse 51

मद्भक्त्या योगसिद्धिं त्वं गृहाणाशु तपोधने । अभूतं ज्ञानगम्यं तं विद्धि नारायणं परम्

噢苦行之珍宝,由对我之奉爱,速速受取瑜伽成就。当知至上那罗延——超越一切生成——唯以真实智慧而可证达。

Verse 52

नादरूपेण शिरसि तिष्ठंतं सर्वदेहिनाम् । स एव जीवशिरसि वर्त्तते सूर्यबिंबवत्

彼真实以那陀(内在之音)之形,安住于一切有身众生之顶。此同一真实亦在每一生命之顶,如日轮之影映现处处。

Verse 53

सदोदितः सूक्ष्मरूपो मूर्त्तो मूर्त्या प्रणीयते । अभ्यासेन सदा देवि प्राप्यते परमात्मकः

祂恒常升起,形相微妙;具相之主,亦由相而得亲近。噢女神,以恒久修习,得证至上真我。

Verse 54

शरीरे सकला देवा योगिनो निवसंति हि । कर्णे तु दक्षिणे नद्यो निवसंति तथाऽपराः

诚然,一切诸天与瑜伽行者皆住于此身。于右耳之中,亦说有诸河与其他圣流安住。

Verse 55

हृदये चेश्वरः शंभुर्नाभौ ब्रह्मा सनातनः । पृथ्वी पादतलाग्रे जलं सर्वगतं तथा

心中住着自在主商婆(Śambhu);脐中住着永恒的梵天。足底之端为大地;而水亦遍满一切处。

Verse 56

तेजो वायुस्तथाऽकाशं विद्यते भालमध्यतः । हस्ते च पंच तीर्थानि दक्षिणे नात्र संशयः

火、风与虚空,存于额中之处。右手之中具五处圣渡(tīrtha)——对此毫无疑惑。

Verse 57

सूर्यो यद्दक्षिणं नेत्रं चन्द्रो वाममुदाहृतम् । भौमश्चैव बुधश्चैव नासिके द्वे उदाहृते

太阳被宣说为右眼,月亮为左眼。火星与水星被宣说为两鼻孔。

Verse 58

गुरुश्च दक्षिणे कर्णे वामकर्णे तथा भृगुः । मुखे शनैश्चरः प्रोक्तो गुदे राहुः प्रकीर्तितः

古鲁(木星)在右耳;左耳则为婆利古(即金星)。口中被说为善乃湿遮罗(即土星);而罗睺被宣称在肛门处。

Verse 59

केतुरिंद्रियगः प्रोक्तो ग्रहाः सर्वे शरीरगाः । योगिनो देहमासाद्य भुवनानि चतुर्दश

据说计都在诸根之中运行;实则一切行星神(graha)皆住于此身。瑜伽行者以身为修持之田,得以证知十四世界。

Verse 60

प्रवर्त्तंते सदा देवि तस्माद्योगं सदाभ्यसेत् । चातुर्मास्ये विशेषेण योगी पापं निकृन्तति

女神啊,既然世间冲动之流恒常涌起,因此应当时时修习瑜伽。尤其在四月斋期(Cāturmāsya)之时,瑜伽行者能斩除罪业。

Verse 61

मुहूर्त्तमपि यो योगी मस्तके धारयेन्मनः । कर्णै पिधाय पापेभ्यो मुच्यतेऽसौ न संशयः

即便只在一瞬的牟呼尔多(muhūrta)中,若瑜伽行者令心安住于头顶,并闭塞双耳远离外扰,他便从罪业中解脱——毫无疑问。

Verse 62

अंतरं नैव पश्यामि विष्णोर्योगपरस्य वा । एकोऽपि योगी यद्गेहे ग्रासमात्रं भुनक्ति च

我丝毫不见毗湿奴与专志瑜伽者之间有任何差别。即便只有一位瑜伽行者在某家中仅食一口,也能使那处蒙受清净与神圣。

Verse 63

कुलानि त्रीणि सोऽवश्यं तारयेदात्मना सह । यदि विप्रो भवेद्योगी सोऽवश्यं दर्शनादपि

他必定连同自身一并度脱三代宗族。若此瑜伽行者为婆罗门,则仅以一瞻礼(darśana)之见,亦必赐予利益与福德。

Verse 64

सर्वेषां प्राणिनां देवि पापराशि निषूदकः । सक्रियो ब्रह्मनिरतः सच्छूद्रो योगभाग्यदि

女神啊,对一切众生而言,他成为摧灭罪业堆积者:即便是仍勤于世务的首陀罗(居家者),若品行端正、专注于梵(Brahman),并蒙瑜伽之福分,亦复如是。

Verse 65

भवेत्सद्गुरुभक्तो वा सोऽप्यमूर्त्तफलं लभेत् । यो योगी नियताहारः परब्रह्म समाधिमान्

又若有人虔敬于真正的善知识(sadguru),他亦得微妙无相之果。彼瑜伽行者——饮食有度,安住于至上梵(Parabrahman)之三摩地——实为大福之人。

Verse 66

चातुर्मास्ये विशेषेण हरौ स लयभाग्भवेत् । यथा सिद्धकरस्पर्शाल्लोहं भवति कांचनम्

尤其在四月斋期(Cāturmāsya)之中,他得融入于诃利(Hari)。正如经由成就者(siddha)之手一触,铁亦化为黄金。

Verse 67

तथा मूर्त्तं हरिप्रीत्या मनुष्यो लयमाव्रजेत् । यथा मार्गजलं गंगापतितं त्रिदशैरपि

同样地,由于对诃利(Hari)的爱慕,人即使仍在色身之中,也能趋入融入(于主)。正如路旁寻常之水,一旦汇入恒河(Gaṅgā),连诸天亦视之为清净圣化。

Verse 68

सेवितं सर्वफलदं तथा योगी विमुक्तिदः । यथा गोमयमात्रेण वह्निर्दीप्यति सर्वदा

若以虔敬奉事,便能赐予一切果报;同样,瑜伽行者能施与解脱。正如火焰即使只添少许牛粪作燃料,也恒常炽然燃烧。

Verse 69

देवतानां मुखं तद्धि कीर्त्यते याज्ञिकैः सदा । एवं योगी सदाऽभ्यासाज्जायते मोक्षभाजनम्

此物确由行祭者恒常称为“诸天之口”。如是,凭借不间断的修习,瑜伽行者便成为堪受解脱的法器。

Verse 70

योगोऽयं सेव्यते देवि ज्ञानासिद्धिप्रदः सदा । सनकादिभिराचार्यैर्मुमुक्षुभिरधीश्वरैः

噢女神,此瑜伽应当恒常修习,因为它必定赐予真知与灵性成就。它曾为圣师如萨那迦等所修持,为求解脱者所奉行,亦为自制自在的大主所培育。

Verse 71

प्रथमं ज्ञानसंपत्तिर्जायते योगिनां सदा । तेषां गृहीतमात्रस्तु योगी भवति पार्वति

首先,瑜伽行者恒常生起真知之财富。噢帕尔瓦蒂,凡仅仅执持此(道路/戒行)者,便确已成为瑜伽行者。

Verse 72

ततस्तु सिद्धयस्तस्य त्वणिमाद्याः पुरोगताः । भवन्ति तत्रापि मनो न दद्याद्योगिनां वरः

其后,他的诸种悉地——以“微细如尘”(aṇimā)等为首——将现于眼前。然而即便如此,最胜的瑜伽行者也不应将心系于其上,不可贪著。

Verse 73

सर्वदानक्रतुभवं पुण्यं भवति योगतः । योगात्सकलकामाप्तिर्न योगाद्भुवि प्राप्यते

由瑜伽而生功德,等同于一切布施与一切祭祀所生之福。由瑜伽而得诸愿圆满——世间无有不可由瑜伽而达者。

Verse 74

योगान्न हृदयग्रंथिर्न योगान्ममता रिपुः । न योगसिद्धस्य मनो हर्त्तुं केनापि शक्यते

由瑜伽,心之结得以斩断;由瑜伽,名为“我所”的仇敌不复生起。且瑜伽成就者之心,任何事物都不能夺去。

Verse 75

स एव विमलो योगी यच्चित्तं शिरसि स्थितम् । स्थिरीभूतव्यथं नित्यं दशमद्वारसंपुटे

唯有那位瑜伽行者才真为清净:其心安住于头顶,恒常坚住,诸扰动已息,处于“第十门”的围护之中。

Verse 76

कणौं पिधाय मर्त्यस्य नादरूपं विचिन्वतः । तदेव प्रणवस्याग्रं तदेव ब्रह्म शाश्वतम्

对于闭塞双耳而观照音相(那陀 nāda)的凡人而言,那内在之音正是圣音“唵”(Praṇava)的至上精髓;那即是永恒的梵。

Verse 77

तदेवानंतरूपाख्यं तदेवामृतमुत्तमम् । घ्राणवायौ प्रघोषोऽयं जठराग्नेर्महत्पदम्

唯此名为“无量之相”;唯此为至上甘露。此回响之声(可闻)于鼻息之气中,而它亦是腹中火(消化之火)的广大境位。

Verse 78

पंचभूतं निवासं यज्ज्ञानरूपमिदं पदम् । पदं प्राप्य विमुक्तिः स्याज्जन्मसंसारबंधनात्

此境界以五大为依处,以觉知为自性;一旦证得,便得解脱(mokṣa),脱离生死与轮回之系缚。

Verse 79

यदाप्तिर्दुलभा लोके योगसिद्धिप्रदायिका

此成就世间难得,能赐予瑜伽之悉地(yoga-siddhi)。

Verse 80

एवं ब्रह्ममयं विभाति सकलं विश्वं चरं स्थावरं विज्ञानाख्यमिदं पदं स भगवान्विष्णुः स्वयं व्यापकः । ज्ञात्वा तं शिरसि स्थितं बहुवरं योगेश्वराणां परं प्राणी मुंचति सर्पवज्जगतिजां निर्मोकमायाकृतिम्

如是,整个宇宙——动与不动——皆以梵(Brahman)而辉耀。此名为“毗阇那”(vijñāna,证悟之智)的境地,即遍一切处的世尊毗湿奴(Viṣṇu)自身。了知祂至上殊胜,安住于头顶梵穴之冠,超越诸瑜伽自在者,众生便如蛇蜕皮般,脱去由世间而生、由幻力(māyā)所造的外壳。

Verse 112

वाकारो धूम्रवर्णश्च सूर्यबीजं मनोजवम् । पुलस्त्यर्षिसमायुक्तं नियुक्तं सर्वसौख्यदम्

音节“va”呈烟灰之色,是太阳神的种子真言(bīja),疾如意念。与圣仙普拉斯提耶(Pulastya)相应并依法运用时,能赐一切安乐吉祥。

Verse 258

ध्यानैजपैः पूजितैश्च भक्तानां मुनिसत्तम । मोक्षो भवति बन्धेभ्यः कर्मजेभ्यो न संशयः

噢,诸牟尼中最胜者!对以禅观、持诵真言(japa)与供奉礼拜(pūjā)而敬奉的信众而言,解脱(mokṣa)必定生起,使其脱离由业(karma)所生的系缚;此无疑也。

Verse 262

इति श्रीस्कांदे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ज्ञानयोगकथनं नाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः

至此,《圣·斯坎达摩诃往世书》之《八十一千颂集》(Ekāśīti-sāhasrī Saṃhitā)第六《那伽罗分部》(Nāgara-khaṇḍa)中,隶属《哈塔凯湿伐罗圣域功德》(Hāṭakeśvara-kṣetra-māhātmya)、《舍沙卧眠》故事、梵天与那罗陀对话、以及《四月斋期》(Cāturmāsya)赞颂之下,题为《智瑜伽之教》(Jñāna-yoga)的第262章圆满结束。

Verse 407

सेवितो विष्णुरूपेण ब्रह्ममोक्षप्रदायकः । शृणुष्वावहिता भूत्वा मूर्त्तामूर्ते स्थितिं शुभे

当以毗湿奴之形相而礼敬时,祂赐予对梵(Brahman)的证悟与解脱。吉祥者啊,请专心聆听这神圣教法:论祂既具形相、亦超越形相之清净住处。