
本章开篇于凯拉萨山:鲁陀罗(湿婆)与乌玛同坐,周围环列无数伽那,其名号被逐一列举,呈现出一种礼仪化、宇宙性的神圣朝会。春季来临时,描写了感官之美与嬉戏所引起的骚动;湿婆告诫伽那们收敛轻佻,转而修持苦行(tapas)。 帕尔瓦蒂见到湿婆手中的念珠(mālā),便问他在持诵(japa)什么:既为本初之主,又在观想何等超越之境?湿婆答曰,他恒常观修哈利(Hari)千名之精髓,并层层开示真言法门:以普拉那瓦(Om)与十二音节真言(dvādaśākṣara)为吠陀之精要,清净、能解脱,尤在四月斋期(Cāturmāsya)最为灵验,能摧灭积聚甚巨的罪业。 随后又谈及适用之道:对被说为不使用普拉那瓦者,另强调“罗摩之名”(Rāma-nāma)为至上二音节真言。全章以持续赞颂“罗摩”作结:能除怖畏与疾病、赐予胜利、普遍净化;依止圣名可减轻障碍,并消弭来世惩罚之果,尤其在四月斋期更为殊胜。
Verse 1
गालव उवाच । एकदा भगवान्रुद्रः कैलासशिखरे स्थितः । दधार परमां लक्ष्मीमुमया सहितः किल
伽罗婆(Gālava)说道:曾有一次,吉祥的鲁陀罗(Rudra)安住于凯拉萨(Kailāsa)之巅;他确实与乌玛(Umā)同在,摄受了至上的吉祥女神拉克什米(Lakṣmī)。
Verse 2
गणानां कोटयस्तिस्रस्तं यदा पर्यवारयन् । वीरबाहुर्वीरभद्रो वीरसेनश्च भृङ्गिराट्
当湿婆(Śiva)的三俱胝(koṭi)眷属众(gaṇa)从四面环绕他时,其中有毗罗婆呼(Vīrabāhu)、毗罗跋陀罗(Vīrabhadra)、毗罗军(Vīrasena)与毗楞伽罗特(Bhṛṅgirāṭ)。
Verse 3
रुचिस्तुटिस्तथा नन्दी पुष्पदन्तस्तथोत्कटः । विकटः कण्टकश्चैव हरः केशो विघंटकः
又有鲁支(Ruci)、图提(Tuṭi)、难提(Nandī)、普湿波檀多(Puṣpadanta)以及乌特卡塔(Utkaṭa);并有毗卡塔(Vikaṭa)与坎塔卡(Kaṇṭaka);还有哈罗(Hara)、凯沙(Keśa)与毗伽罕塔卡(Vighaṃṭaka)——皆在众眷属之列。
Verse 4
मालाधरः पाशधरः शृङ्गी च नरनस्तथा । पुण्योत्कटः शालिभद्रो महाभद्रो विभद्रकः
亦有鬘持者(Mālādhara)、绳索持者(Pāśadhara)与施楞吉(Śṛṅgī),以及那罗那斯(Naranas);福猛者(Puṇyotkaṭa)、舍利贤者(Śālibhadra)、大贤者(Mahābhadra)与毗贤者(Vibhadraka)也都在场。
Verse 5
कणपः कालपः कालो धनपो रक्तलोचनः । विकटास्यो भद्रकश्च दीर्घजिह्वो विरोचनः
迦那婆、迦罗婆、迦罗、檀那婆与赤眼者;又有维迦塔阿斯亚、吉祥者婆陀罗迦、长舌者迪尔伽吉诃婆与毗罗遮那,皆在其列。
Verse 6
पारदो घनदो ध्वांक्षी हंसक्री नरकस्तथा । पंचशीर्षस्त्रिशीर्षश्च क्रोडदंष्ट्रो महाद्भुत
帕罗陀、伽那陀、陀梵叉伊、汉萨克里以及那罗迦;五首者与三首者;又有獠牙如野猪者克罗陀檀什特罗——真是奇异非凡。
Verse 7
सिंहवक्त्रो वृषहनुः प्रचण्डस्तुंडिरेव च । एते चान्ये च बहवस्तदा भवसमीपगाः
狮面者辛哈瓦克特罗、牛颚者弗里沙哈努、暴烈者普罗旃陀,以及通迪——这些与许多其他众生,当时都侍立在婆伐(湿婆)近旁。
Verse 8
महादेव जयेत्युच्चैर्भद्रकालीसमन्विताः । भूतप्रेतपिशाचानां समूहा यस्य वल्लभाः
在吉祥黑天女(婆陀罗迦梨)相随之下,他们高声呼喊:“胜利归于大天尊(摩诃提婆)!”——那位为诸部众:部多、饿鬼(preta)与毗舍遮所爱戴、所归依者。
Verse 9
अस्तुवंस्तं समीपस्था वसन्ते समुपागते । वनराजिर्विभाति स्म नवकोरकशोभिता
他们侍立在他近旁而赞颂不已;当春时来临,林野连绵处熠熠生辉,新芽初绽,增其庄严之美。
Verse 10
दक्षिणानिलसंस्पर्शः कवीनां सुखकृद्बभौ । वियोगिहृदयाकर्षी किंशुकः पुष्पशोभितः
南风轻拂,成了诗人之乐;花开烂漫的金舒迦树(kiṃśuka)牵引着因离别而痛的人们的心。
Verse 11
द्वन्द्वादिविक्रियाभावं चिक्रीडुश्च समंततः । तस्मिन्विगाढे समये मनस्युन्मादके तथा
四方皆然,他们嬉戏游乐,仿佛脱离了由对待之相(如乐与苦)所生的扰动;在那沉浸至深的时刻——亦能令心神微醉。
Verse 12
नंदी दंडधरः संज्ञां दृष्ट्वा चक्रे हरो परः । अलं चापलदोषेण तपः कुर्वंतु भो गणाः
见到难提(Nandī)与执杖侍从示意,至上的诃罗(湿婆)下令道:“够了这躁动之过!噢诸伽那,当修苦行(tapas)!”
Verse 13
तदा सर्वे वनमपि भूकांडजमभूत्पुनः । गणास्ते तप आतस्थुर्दृष्ट्वा कान्तिंवसन्तजाम्
那时,连整片森林也仿佛再度从大地新生;诸伽那见到如春时所生的光辉,便安住于苦行之中。
Verse 14
ततः सा विश्वजननी पार्वती प्राह शंकरम् । इयं ते करगा नित्यमक्षमाला महेश्वर
随后,宇宙之母帕尔瓦蒂对商羯罗说道:“大自在天啊,这串念珠(akṣamālā)常在你手中。”
Verse 15
त्वया किं जप्यते देव संदेहयति मे मनः । त्वमेकः सर्व भूतानामादिकृत्सकलेश्वरः
“噢,天神啊,你在持诵(japa)什么?我心中充满疑惑——因为唯有你是万有众生的本初造作者,是一切的主宰。”
Verse 16
न माता न पिता बंधुस्तव जातिर्न कश्चन । अहं तव परं किंचिद्वेद्मि नास्तीति किंचन
“对你而言,无母、无父、无亲族,也无任何受限的出生与族系。然而我知道关于你这一点:在你之上,绝无一物。”
Verse 17
श्रमेण त्वं समायुक्तो श्वासोच्छ्वासपरायणः । जपन्नपि महाभक्त्या दृश्यसे त्वं मया सदा
“然而你在我眼前却仿佛正勤修用功,专注于吸与呼;并且以大虔敬之心,即使在持诵japa之时,我也常常见你如是。”
Verse 18
त्वत्तःपरतरं किचिद्यत्त्वं ध्यायसि चेतसा । तन्मे कथय देवेश यद्यहं दयिता तव
“若有任何高于你者为你心中所观所念,请告诉我吧,噢,诸天之主——若我确为你所爱。”
Verse 19
इति स्पृष्टस्तदा शंभुरुवाच हरिसेवकः । हरेर्नामसहस्राणां सारं ध्यायामि नित्यशः
如是被问时,侍奉哈利的商布答道:“我恒常观想哈利千名之精髓。”
Verse 20
जपामि रामनामांकमवातरं ससप्तमम् । चतुर्विशतिसंख्याकान्प्रादुर्भावान्हरेर्गुणान्
我以持诵(japa)反复念诵罗摩之名——其第七化身(avatāra)——并观想哈利(Hari)所显现的德性与示现,共二十四种。
Verse 21
एतेषामपि यत्सारं प्रणवाख्यं महत्फलम् । द्वादशाक्षरसंयुक्तं ब्रह्मरूपं सना तनम्
而这一切的精髓,是普拉那瓦(Pranava,唵 Oṃ),能结大果报——与十二音节真言相应——乃是以梵(Brahman)为体的永恒实相。
Verse 22
अक्षरत्रयसंबद्धं ग्रामत्रयसमन्वितम् । सबिंदुं प्रणवं शश्वज्जपामि जपमालया
我以念珠恒常持诵具足“点”(bindu)的普拉那瓦(Oṃ)——与三音节相连——并具三种“grāma”(发声形态)。
Verse 23
वेदसारमिदं नित्यं द्व्यक्षरं सततोद्यतम् । निर्मलं ह्यमृतं शांतं सदूपममृतोपमम्
此即吠陀之精髓:恒常不变、二音之体,常应奉持。它清净无垢,是不死的甘露;自性寂静,具真实之相,宛如不朽本身。
Verse 24
कलातीतं निर्वशगं निर्व्यापारं महत्परम् । विश्वाधारं जगन्मध्यं कोटिब्रह्मांडबीजकम्
超越一切时间与度量的分判,自在无依、无为寂然,至上而广大——为宇宙之依止、诸世界之心髓,乃无量梵卵(brahmāṇḍa)之种子。
Verse 25
जडं शुद्धक्रियं वापि निरंजनं नियामकम् । यज्ज्ञात्वा मुच्यते क्षिप्रं घोरसंसारबंधनात्
无论将彼观为寂然不变,或为清净之行;为无垢,亦为内在的主宰与调御者——知彼真如者,速得解脱,脱离可怖的轮回(saṃsāra)系缚。
Verse 26
ओंकारसहितं यच्च द्वादशाक्षरबीजकम् । जपतः पापकोटीनां दावाग्नित्वं प्रजायते
又有那与「唵」(Oṃ)相应的十二音节种子真言——若人持诵,亿亿罪业皆如林火之薪,尽被焚尽。
Verse 27
एतदेव परं गुह्यमेतदेव परं महः । एतद्धि दुर्लभं लोके लोकत्रयविभूषणम्
唯此为至上之秘;唯此为最高之光辉。诚然,此在世间极为难得——乃三界之庄严。
Verse 28
प्राप्यते जन्मकोटीभिः शुभाशुभविनाशकम् । एतदेव परं ज्ञानं द्वादशाक्षरचिन्तनम्
唯经亿万生方可得之;它能摧灭善与不善的业余。唯此为至上之智:观念十二音节真言。
Verse 29
चातुर्मास्ये विशेषेण ब्रह्मदं चिंतितप्रदम् । एतदक्षरजं स्तोत्रं यः समाश्रयते सदा
尤其在四月斋期(Cāturmāsya)之中,它赐与梵(至上境界),并成就所观所念。凡恒常归依此由圣音所生之赞颂者——
Verse 30
मनसा कर्मणा वाचा तस्य नास्ति पुनर्भवः । द्वादशाक्षरसंयुक्तं चक्रद्वादशभूषितम्
对他而言——以心、以行、以言——不再有再生轮回。此修持与十二音节真言相应,并以十二轮印(cakra)庄严。
Verse 31
मासद्वादशनामानि विष्णोर्यो भक्तितत्परः । शालग्रामेषु तान्युक्त्वा न्यसेदघहराणि च
凡专注于奉爱(bhakti)者,应诵毗湿奴十二个月名;在圣石娑罗伽罗摩(Śālagrāma)前宣说其名,并作安置(nyāsa),以除罪垢。
Verse 32
दिवसेदिवसे तस्य द्वादशाहफलं लभेत् । द्वादशाक्षर माहात्म्यं वर्णितुं नैव शक्यते
日复一日,他得获如同十二日圣行之果报。十二音节真言的功德伟力,实难尽述。
Verse 33
जिह्वासहस्रैरपि च ब्रह्मणापि न वार्यते । महामन्त्रो ह्ययं लोके जप्यो ध्यातः स्तुतस्तथा
纵有千舌——即使梵天(Brahmā)亲自——也不能穷尽其赞叹。此乃世间大真言,当持诵(japa)、当观想(dhyāna)、亦当以赞颂歌咏。
Verse 34
पापहा सर्वमासेषु चातुर्मास्ये विशेषतः । इदं रहस्यं वेदानां पुराणानामनेकशः
它能于每一月摧灭罪业——尤以神圣的四雨安居期(Cāturmāsya)为甚。此乃《吠陀》与诸多《往世书》屡屡宣说的奥秘。
Verse 35
स्मृतीनामपि सर्वासां द्वादशाक्षरचिन्तनम् । चिंतनादेव मर्त्यानां सिद्धिर्भवति हीप्सिता
即使在一切《斯摩利提》之中,亦推崇对“十二音节真言”的观想。唯以观想,凡人便能获得所求的成就。
Verse 36
पुण्यदानेन याम्येन मुक्तिर्भवति शाश्वती । वर्णैस्तथाश्रमैरेव प्रणवेन समन्वितैः
依照所规定的法则行福德布施,便生起永恒的解脱;此教义为诸种姓与诸人生阶段而说,当与“普拉纳瓦”(唵,Oṃ)相应之时。
Verse 37
जपैर्ध्यानैः शमपरैर्मोक्षं यास्येत निश्चितम । शूद्राणां चापि नारीणां प्रणवेन विवर्जितः
凭借持诵(japa)、禅观(dhyāna)以及以寂静为本的修持,必定趋入解脱。对于首陀罗以及妇女,也说应不加普拉纳瓦(唵,Oṃ)。
Verse 38
प्रकृतीनां च सर्वासां न मन्त्रो द्वादशाक्षरः । न जपो न तपः कार्यं कायक्लेशाद्विशुद्धिता
并且对所有这类人而言,“十二音节真言”不应作为其所用之咒。也不应修持诵念与苦行——以折磨身体并不能获得清净。
Verse 39
विप्रभक्त्या च दानेन विष्णुध्यानेन सिद्ध्यति । तासां मन्त्रो रामनाम ध्येयः कोट्यधिको भवेत्
以敬奉婆罗门之心、以布施之德、以观念毗湿奴之定,便能成就。对他们而言,真言即“罗摩之名”,应当观想;其殊胜超越他咒,逾以千万计。
Verse 40
रामेति द्व्यक्षरजपः सर्वपापापनोदकः । गच्छंस्तिष्ठञ्छयानो वा मनुजो रामकीर्तनात्
两音节的持诵——“罗摩(Rāma)”——能除尽一切罪业。无论行走、站立或卧躺之时,众生皆因称念罗摩圣名而得清净。
Verse 41
इह निर्वर्ततो याति प्रान्ते हरिगणो भवेत् । रामेति द्व्यक्षरो मन्त्रो मंत्रकोटिशताधिकः
在此世圆满此修持者,离身而去,终将成为哈利(Hari)神圣眷属之列。“罗摩(Rāma)”这两音节真言,胜过百亿万种其他真言。
Verse 42
सर्वासां प्रकृतीनां च कथितः पापनाशकः । चातुर्मास्येऽथ संप्राप्ते सोऽप्यनंतफलप्रदः
此法已被宣说为能灭除一切众生、无论何种性情之罪业;而当神圣的四月斋期(Cāturmāsya)来临时,同一修持更能赐予无量果报。
Verse 43
चातुर्मास्ये महापुण्ये लभ्यते भक्तितत्परैः । देववन्निष्फलं तेषां यमलोकस्यसेवनम्
在功德极大的四月斋期(Cāturmāsya)中,唯有专注于奉爱(bhakti)者得以成就;对他们而言,前往阎摩之界已成徒然,不再结成其果。
Verse 44
न रामादधिकं किंचित्पठनं जगतीतले । रामनामाश्रया ये वै न तेषां यमयातना
在大地之上,没有任何诵念胜过“罗摩(Rāma)”圣名。凡依止罗摩之名者,必不受阎摩之苦刑。
Verse 45
ये च दोषा विघ्नकरा मृतका विग्रहाश्च ये । राम नामैव विलयं यांति नात्र विचारणा
凡能造成障碍的诸过失——或如死寂般潜伏的垢染,或敌对的纷争——唯凭“罗摩”(Rāma)圣名即皆归于消融;于此无须疑虑,更不必再议。
Verse 46
रमते सर्वभूतेषु स्थावरेषु चरेषु च । अन्तरात्मस्वरूपेण यच्च रामेति कथ्यते
那在一切众生之中欢悦安住者——于不动与动者之内——以“内在自我”(内我)之形显现者,即名为“罗摩”(Rāma)。
Verse 47
रामेति मत्रराजोऽयं भयव्याधिनिषूदकः । रणे विजयदश्चापि सर्वकार्यार्थसाधकः
此“咒中王”——“罗摩”(Rāma)——能摧灭恐惧与疾病;亦赐战阵胜利,并成就世间一切事业与所求。
Verse 48
सर्वतीर्थफलः प्रोक्तो विप्राणामपि कामदः । रामचन्द्रेति रामेति रामेति समुदाहृतः
经宣说:此圣名赐予一切圣地(tīrtha)之功德果报,亦能满足婆罗门(brāhmaṇa)之愿;故称诵为“罗摩旃陀罗”(Rāmacandra)、“罗摩”(Rāma)、“罗摩”。
Verse 49
द्व्यक्षरो मन्त्रराजोऽयं सर्वकार्यकरो भुवि । देवा अपि प्रगायंति रामनामगुणाकरम्
此二音节之“咒中王”,能成就世间一切事业;即便诸天也歌咏“罗摩”(Rāma)圣名——功德之宝藏。
Verse 50
तस्मात्त्वमपि देवेशि रामनाम सदा वद । रामनाम जपेद्यो वै मुच्यते सर्वकिल्बिषैः
因此,噢女神、诸天之主,你也应当恒常称念“罗摩”之名。凡真诚诵持罗摩圣名者,皆得解脱一切罪垢。
Verse 51
सहस्रनामजं पुण्यं रामनाम्नैव जायते । चातुर्मास्ये विशेषेण तत्पुण्यं दशधोत्तरम्
由诵千名所生之功德,唯由“罗摩”一名而起;尤其在四月斋期(Cāturmāsya)之中,此功德更增至十倍。
Verse 52
हीनजातिप्रजातानां महदह्यति पातकम्
对于生于卑微阶位者,纵然重罪亦能被焚尽(凭此神圣法门)。
Verse 53
रामो ह्ययं विश्वमिदं समयं स्वतेजसा व्याप्य जनांतरात्मना । पुनाति जन्मांतरपातकानि स्थूलानि सूक्ष्माणि क्षणाच्च दग्ध्वा
因为此罗摩以自身光辉,恒时遍满整个宇宙,并住于一切众生之内,作为其内在之我。祂于刹那间焚尽诸罪,从而净化多生多世之业障——无论粗重或微细。
Verse 256
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये रामनाममहिमवर्णनं नाम षट्पंचाशदुत्तरद्विशततमोऽध्यायः
至此,《圣室建陀大往世书》之《八万一千集成》(Ekāśīti-sāhasrī Saṃhitā)第六《城邑部》(Nāgara Khaṇḍa)中,属于《哈塔凯湿瓦罗圣域功德》(Hāṭakeśvara-kṣetra-māhātmya)、《舍沙睡者传》(Śeṣaśāyī-upākhyāna)、梵天与那罗陀对话之《四月斋期功德》(Cāturmāsya-māhātmya)里的第256章——题为《罗摩圣名功德之赞述》——圆满结束。