Adhyaya 246
Nagara KhandaTirtha MahatmyaAdhyaya 246

Adhyaya 246

本章以问答体展开:伽罗婆回应关于“誓戒行”(vrata-caryā)的提问。诸天因不得亲近谒见湿婆而忧惧,遂塑造湿婆的象征形相,依湿婆派法门修苦行:持诵六字真言(ṣaḍakṣara),并长期守持四月斋期(cāturmāsya)。经文并非仅作诗意描绘,而是列举此誓行的可识别仪轨特征:涂圣灰(bhasma)、骷髅与杖的标志、半月、五面相(pañcavaktra)等苦行象征。 湿婆因其清净与虔敬而欢喜,赐予“吉祥之慧”(śubhā mati),并说明以有次第之法可令其满足:如法持诵《百鲁陀罗》(Śatarudrīya)之咒、禅观、供灯(dīpa-dāna),以及具足十六支分的供养(pūjā),其完备程度可比毗湿奴派的礼仪。叙事转折处,一位神灵化作鸟形趋近湿婆,引发一连串情节,使帕尔瓦蒂不悦,遂诅咒诸天“如石无生”,不得子嗣。 诸天随即以长篇赞颂(stuti)回向帕尔瓦蒂,称其为宇宙根基(Prakṛti)、真言种子、以及生—住—灭之恒常源泉,并劝修以毕尔瓦叶(bilva)供养,尤以四月斋期中最为殊胜多果。本章因此融汇湿婆—雪克提(Śiva–Śakti)至上与互补之教义、修行伦理(持戒、谦卑、和解),并以四月斋、毕尔瓦供、供灯等作为朝圣叙事的实践要旨。

Shlokas

Verse 1

गालव उवाच । शक्रादयस्तु देवेशा दुःखसंतप्तमानसाः । ईश्वरादर्शनभ्रांतमनः कर्मेंद्रिया रतिम्

伽罗婆说道:“然而,释迦罗(因陀罗)等诸天之主,心为忧苦所灼;因不得见主宰之瞻礼(darśana),意念惶乱,于诸根之行亦不生欢喜。”

Verse 2

न प्रापुर्लोकनाथं ते कृत्वा यः प्रतिमाकृतिम् । तपसाराधयामासुः सर्वभूतहृदिस्थितम्

他们并非仅以塑造一尊形像便能得见世间之主;而是以苦行(tapas)奉事那位安住于一切众生心中的主宰。

Verse 3

कपर्दशिरसं देवं शूलहस्तं पिनाकिनम् । कपालखट्वांगधरं दशहस्तं किरीटिनम्

当观想彼神:顶结髻发(jaṭā),手执三叉戟;为持弓者(Pinākin),佩持毗那迦弓(Pināka);又持骷髅与佉吒缚昂伽杖(khaṭvāṅga)——十臂具足,头戴宝冠。

Verse 4

उमासहितमीशानं पंचवक्त्रं महाभुजम् । कर्पूरगौरदेहाभं सितभूतिविभूषितम्

彼即伊沙那(Īśāna),与乌玛(Umā)相伴:五面威容,巨臂雄健;身色皎洁如龙脑,遍饰白色圣灰(vibhūti)。

Verse 5

नागयज्ञोपवीतेन गजचर्मसमन्वितम् । कृष्णसारत्वचा चापि कृतप्रावरणं विभुम्

当观想遍在之主:以蛇为圣线,披象皮,又以黑羚羊之皮为披覆。

Verse 6

कृतध्यानाः सुरास्तत्र वृक्षाधारे समाश्रिताः । व्रतचर्यां समाश्रित्य प्रचक्रुस्तप उत्तमम्

在那里,诸天安住禅观,依止于树根之下;遵循誓戒之行,修习最上苦行。

Verse 7

षडक्षरेण मंत्रेण शैवेन विहिताः सुराः । शूद्र उवाच । व्रतचर्या त्वया या सा प्रोक्ता संजा यते कथम्

诸天依法受授湿婆六字真言。首陀罗说道:“你所宣说的誓行之律,当如何如法修持?”

Verse 8

ब्रह्मन्विस्तरतो ब्रूहि न तृप्येते वचोऽमृतैः

噢,尊者,请详尽宣说;人对这如甘露般的言辞,终不知足。

Verse 9

गालव उवाच । जपन्भस्म च खट्वांगं कपालं स्फाटिकं तथा । रुंडमालां पंचवक्त्रमर्द्धचंद्रं च मूर्द्धनि

伽罗婆说道:“(行者应具)持诵与圣灰,持卡特瓦昂伽杖,并持如水晶般澄澈的颅钵;佩断首鬘;现五面之相;顶上安半月。”

Verse 10

चित्रकृत्तिपरीधानं कौपीनकुण्डलद्वयम् । घंटायुग्मं त्रिशूलं च सूत्रं चर्यास्वरूपकम्

身披斑斓皮衣,系腰布(kaupīna),佩一对耳环;执双铃与三叉戟——此即修持之仪相外形,亦为行持之准则。

Verse 11

अमीभिर्लक्षणैर्लक्ष्यं मयोक्तं तव शूद्रज । अनेन विधिना सर्वे देवा वह्निपुरोगमाः

凭这些特征,我已向你宣说此修持应具之正相,噢,生于首陀罗者。依此法门,诸天众神——以火神阿耆尼为先导——皆曾修行。

Verse 12

सर्व आराधयामासुः सर्वोपायैर्वरप्रदम् । चातुर्मास्ये च संपूर्णे सपूर्णे कार्तिकेऽमले

他们以一切如法的供奉之道,悉皆敬奉赐愿者;当四月斋戒(Cāturmāsya)圆满完成——确然,当清净的迦尔提迦月臻于圆满——其仪轨遂得成就。

Verse 13

चीर्णव्रतान्सुरान्दृष्ट्वा विशुद्धांश्च महेश्वरः । मतिं तेषां ददौ तुष्टो जीवात्मा सर्वभूतदृक्

见诸天已如法持戒、身心清净,摩诃伊湿伐罗——欢喜,乃内在之我、遍观一切众生者——赐予他们正智正见。

Verse 14

शतरुद्रीयजाप्येन विधानसहितेन च । ध्यानेन दीपदानेन चातुर्मास्ये तुतोष सः

以如仪持诵《百鲁陀罗》(Śatarudrīya),并以禅观与施灯供养,于四月斋期(Cāturmāsya)之中,彼(湿婆)遂得欢喜满足。

Verse 15

पूजनैः षोडशविधैर्यथा विष्णोस्तथा हरे । कुर्वाणान्भक्तिभावेन ज्ञात्वा देवान्समागतान्

他们觉知诸天已齐集,便依十六种规定的礼法行供奉——如同礼敬毗湿奴,也同样礼敬诃罗——以虔诚之心而作。

Verse 16

प्रहृष्टो भगवान्रुद्रो ददौ तेषां शुभा मतिम् । ततः संमंत्र्य ते देवा वह्निं स्तुत्वा यथार्थतः

世尊鲁陀罗欢喜,赐予他们吉祥的决意。随后诸天共相商议,如法如实地赞颂阿耆尼。

Verse 17

प्रसन्नवदनं चक्रुः कार्यसाधनतत्परम् । कर्मसाक्षी महातेजाः कृत्वा पारावतं वपु

他们使他面容安然,专志于成办此事。那位大威光、为业行作证的阿耆尼,化现为鸽之身。

Verse 18

प्रविवेश ततो मध्ये द्रष्टुं देवं महेश्वरम् । चकार गतिविक्षेपं गुंठनैरवगुंठनैः

随后他进入其中,为欲瞻见大神摩醯湿伐罗;并以遮蔽与反遮蔽,施作迷惑的身法与步伐变换。

Verse 19

लुंठनैः सर्पणैश्चैव चारुरूपोऽद्भुतां गतिम् । तं दृष्ट्वा भगवांस्तत्र कारणं समबुद्ध्यत

以翻滚与潜行之势,那形貌娟雅者显现奇妙的步态。主在彼处见之,便洞悉其背后缘由。

Verse 20

ऊर्ध्वरेतास्ततस्तस्मिन्ससर्जादौ दधार तत् । वीर्यं वह्निमुखे चैव सोत्पपात गृहाद्बहिः

于是,那位精种上行之主放出其力;起初他将之持住,而那威能被安置于火神阿耆尼之口。随即,他从屋内跃出,奔向屋外。

Verse 21

गते तस्मिन्पतंगेऽथ पार्वती विफलश्रमा । संक्रुद्धा सर्वदेवानां सा शशाप महेश्वरी

当那有翼者离去后,帕尔瓦蒂——劳作尽成徒然——怒火炽然;大女神遂诅咒诸天众神。

Verse 22

यस्मान्ममेच्छा विहता भवद्भिर्दुष्टबुद्धिभिः । तस्मात्पाषाणतामाशु व्रजंतु त्रिदिवौकसः

既然我的意愿被你们这些恶念之徒所阻挠,那么,天界的居者啊,速速化为石身。

Verse 23

निरपत्या निर्दयाश्च सर्वे देवा भविष्यथ । ततः प्रसादयामासुः प्रणताः शापयंत्रिताः

诸神啊,你们都将无子无嗣,且失却慈悲。于是被诅咒所制,他们俯首顶礼,开始祈求女神的恩赐。

Verse 24

महद्दुःखं संप्रविष्टाः पुनः पुनरथाब्रुवन्

他们被巨大的悲苦所淹没,便一再如此说道。

Verse 25

। । देवा ऊचुः । त्वं माता सर्वदेवानां सर्वसाक्षी सनातनी । उत्पत्तिस्थितिसंहारकारणं जगतां सदा

诸天说道:汝为一切天神之母,为万有之永恒见证者;汝恒为世间生起、住持与坏灭之因。

Verse 26

भूतप्रकृतिरूपा त्वं महाभूतसमाश्रिता । अपर्णा तपसां धात्री भूतधात्री वसुन्धरा

汝即众生本性之形,安住于诸大元素之中。汝为阿帕尔那(Aparṇā),护持苦行;哺育群生;亦即大地女神瓦孙达拉(Vasundharā)。

Verse 27

मंत्राराध्या मन्त्रबीजं विश्वबीजलयस्थितिः । यज्ञादिफलदात्री च स्वाहारूपेण सर्वदा

汝当以真言礼敬;汝即真言之种子。汝为世界之种——其延续与归灭。汝常以“娑婆诃”(Svāhā)之形,赐予祭祀及诸仪轨之果报。

Verse 29

दोषत्रयसमाक्रान्त जननैः श्रेयसप्रदा । महालक्ष्मीर्महाकालीमहादेवी महेश्वरी

对受三种过失所缠的有身众生,汝赐予真实安乐。汝是摩诃拉克希米(Mahālakṣmī)、摩诃迦梨(Mahākālī)、摩诃提毗(Mahādevī),至高女主摩醯湿伐梨(Maheśvarī)。

Verse 30

विश्वेश्वरी महामाया मायाबीजवरप्रदा । वररूपा वरेण्या त्वं वरदात्री वरासुता

汝为宇宙之主母,伟大摩耶(Mahāmāyā),以摩耶之种赐予恩愿。汝即祝福之形,堪为所择、堪受礼敬——施愿者,尊贵之女。

Verse 31

बिल्वपत्रैः शुभैर्ये त्वां पूजयन्ति नराः सदा । तेषां राज्यप्रदात्री च कामदा सिद्धिदा सदा

凡常以吉祥的毕婆罗(bilva)叶供奉礼拜汝者,汝赐其王权与主宰;汝恒常满其所愿,并施与成就与成功。

Verse 32

चातुर्मास्येऽर्चिता यैस्त्वं बिल्वपत्रैर्विशेषतः । तेषां वांछितसिद्ध्यर्थं जाता कामदुघा स्वयम्

凡于四月斋期(Cāturmāsya)中,尤以毕婆罗(bilva)叶供养礼拜汝者——汝亲自化为满愿之牛“迦摩都迦”(Kāmadhenū),为赐其所求成就而现起。

Verse 33

येऽर्चयंति सदा लोके महेश्वरसमन्विताम् । बिल्वपत्रैर्महाभक्त्या न तेषां दुःखदुष्कृती

世间凡恒常礼拜与大自在天(Maheśvara)相应之女神者,以大信奉献毕婆罗(bilva)叶——其人不复留有忧苦与罪业恶行。

Verse 34

चातुर्मास्ये विशेषेण तव पूजा महाफला । अद्यप्रभृति यैर्लोकैर्बिल्वपत्रैस्तु पूजिता

尤在四月斋期(Cāturmāsya)之时,礼拜汝者得大果报;自今日起,凡以毕婆罗(bilva)叶供养礼拜汝之人……

Verse 35

विधास्यसि महेशानि तेषां ज्ञानमनुत्तमम् । चातुर्मास्येऽधिकफलं बिल्वपत्रं वरानने

噢,摩诃舍尼(Maheśānī),汝将赐予他们无上智慧。噢,容颜端丽者,在四月斋期(Cāturmāsya)中,毕婆罗(bilva)叶之功德果报更为增胜。

Verse 36

उमामहेश्वरप्रीत्यै दत्तं विधिवदक्षयम् । यथा श्रीस्तुलसीवृक्षे तथा बिल्वे च पार्वती

凡依正法为取悦乌玛与摩诃湿伐罗而供献者,皆成不坏不尽之福。正如吉祥天女室利住于圣罗勒(tulasī),帕尔瓦蒂亦住于毕尔瓦树(bilva)。

Verse 37

त्वं मूर्त्या दृश्यसे विश्वं सकलाभीष्टदायिनी । चातुर्मास्ये विशेषेण सेवितौ द्वौ महाफलौ

汝以有形之身显现为整个宇宙,能赐予一切所愿之福。尤其在四月斋期(Cāturmāsya)中,恭敬供奉此二者,必得广大殊胜之果报。

Verse 246

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने पार्वत्येन्द्रादीनां शापप्रदानवृत्तान्तवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः

至此,《圣·斯坎达摩诃往世书》八万一千颂本中,第六《那伽罗分部》之《哈塔凯湿伐罗圣域功德》里,《舍沙卧榻》篇章、梵天与那罗陀对话之《四月斋功德》、毗阇瓦那传说中,名为“记述帕尔瓦蒂、因陀罗等受赐诅咒之事”的第一百四十六章圆满结束。

Verse 298

मन्त्रयन्त्रसमोपेता ब्रह्मविष्णुशिवादिषु । नित्यरूपा महारूपा सर्वरूपा निरञ्जना

她具足真言与坛城法器(yantra),于梵天、毗湿奴、湿婆等诸神之中显现;她恒常为体,广大为相,遍一切相,清净无染。