
梵天提出一则教诲性的事例:首陀罗家主派阇婆那(Paijavana)以正当生计、守真言、善待宾客,并虔敬毗湿奴与婆罗门而著称。其家业被描绘为合乎伦理的秩序:随季节施舍,兴办公益(凿井、筑池、建歇息所),并严守誓戒(vrata),由此奠定“居家行法亦能成就灵益”的叙事基础。 圣者伽罗婆(Gālava)携弟子来访,受其恭敬迎接。派阇婆那认为此行能净化身心,遂请示一门适合无资格诵读吠陀者的解脱法。伽罗婆开示以娑罗伽罗摩(Śālagrāma)为中心的奉爱(bhakti),强调其功德为阿克沙耶(akṣaya,不坏不尽),在四月斋期(Cāturmāsya)尤为灵验,并能使周遭之地成圣。 论述进一步回应资格疑虑:区分“不善之首陀罗(asat-śūdra)”与“善良之首陀罗(sat-śūdra)”,肯定贤善家主与贞德妇女皆可修持,同时警示疑心会损坏成果。并详述供养法:献图拉西(tulasī,胜于花供)、花鬘、灯明、香、以五甘露(pañcāmṛta)沐浴供奉,以及观想忆念以娑罗伽罗摩形相示现之哈利(Hari);所许之果报从净罪清心,至不堕天界,乃至得解脱(mokṣa)。章末提及二十四种娑罗伽罗摩形态的分类,使教法安置于本章层层嵌套的“功德赞”(māhātmya)框架中。
Verse 1
। ब्रह्मोवाच । शूद्रः पैजवनोनाम गार्हस्थ्याच्छुद्धिमाप्तवान् । धर्ममार्गाविरोधेन तन्निबोध महामते
梵天说道:有一位名为派阇婆那的首陀罗,依居士之道而得清净,不违背正法之路。大慧者啊,当如是了知。
Verse 2
आसीत्पैजवनः शूद्रः पुरा त्रेतायुगे किल । स्वधर्मनिरतः ख्यातो विष्णुब्राह्मणपूजकः
往昔在特雷塔纪元,确有一位名为派阇婆那的首陀罗——以安住自分之法而闻名,并常礼敬毗湿奴、尊奉婆罗门。
Verse 3
न्यायागतधनो नित्यं शांतः सर्वजनप्रियः । सत्यवादी विवेकज्ञस्तस्य भार्या च सुन्दरी
他的财富恒由正当之道而来;他常怀寂静,众人皆爱。其言必真,具足明辨;而他的妻子亦端丽可人。
Verse 4
धर्मोढा वेदविधिना समानकुलजा शुभा । पतिव्रता महाभागा देवद्विजहिते रता
她依正法与吠陀仪轨而成婚,出自门第相称的良族,吉祥端正。她守夫妇之贞,福德深厚,乐于为诸天与婆罗门之利益而行。
Verse 5
काश्यां संबंधिता बाला वैजयंत्यां विवाहिता । सा धर्माचरणे दक्षा वैष्णवव्रतचारिणी
那少女在迦尸订亲,于毗阇延提成婚。她善于奉行正法,并持守毗湿奴派的清净誓戒。
Verse 6
भर्त्रा सह तथा सम्यक्चिक्रीडे सुविनीतवत् । सोऽपि रेमे तया काले हस्तिन्येव महागजः
她与夫君和合而居,举止端雅,嬉游亦有分寸。彼时夫君亦因她而欢悦,如大象与其雌侣相依而乐。
Verse 7
अर्थाप्तिः पूर्वपुण्येन जाता तस्य महात्मनः । वाणिज्यं स्वजनैर्नित्यं स्वदेशपरदेशजम्
凭借往昔善业之福,那位大德之人兴起了富足。其族人恒常经商,既行于本国,亦往来于异域。
Verse 8
कारयत्यर्थजातैश्च परकीयस्वकीयजैः । एवमर्थश्च बहुधा संजातो धर्मदर्शिनः
以从他人及自身所得之财,他令诸事工程得以兴办。于是,那位洞见法义者的财富便以多种方式增长。
Verse 9
पुत्रत्रयं च संजातं पितुः शुश्रूषणे रतम् । तस्य पुत्राः पितुर्भक्ता द्रव्यादिमदवर्जिताः
又生了三个儿子,乐于侍奉父亲。其子皆敬爱其父,远离因财物等而起的骄慢。
Verse 10
पितृवाक्यरताः श्रेष्ठाः स्वधर्माचारशोभनाः । पित्रोः शुश्रूषणादन्यन्नाभिनंदंति किंचन
他们皆为上善之子,喜悦父亲之言,并以奉行自身之法而庄严。除侍奉双亲之外,他们于别事皆无所乐。
Verse 11
ते सम्बन्धैः सुसंबद्धाः पित्रा धर्मार्थदर्शिना । तत्पत्न्यो मातृपित्रर्चां कारयंत्यनिवारितम्
他们在通达法与利的父亲安排下,以适当的姻亲盟约紧密相连;其妻子们亦不断为父母设立供奉礼敬,昼夜不辍。
Verse 12
ऋद्धिमद्भवनं तस्य धनधान्यसमन्वितम् । सोऽपि धर्मरतो नित्यं देवतातिथिपूजकः
他的宅邸富足兴盛,财宝与谷粮充盈;然而他恒常安住于法,礼敬诸天,并以敬意款待来客。
Verse 13
गृहागतो न विमुखो यस्य जातु कदाचन । शीतकाले धनं प्रादादुष्णकाले जलान्नदः
凡来到他家的人,从未在任何时候被拒之门外;寒季他施与财物,暑季他施与清水与饮食。
Verse 14
वर्षा काले वस्त्रदश्च बभूवान्नप्रदः सदा । वापीकूपतडागादिप्रपादेवगृहाणि च
雨季他施与衣物,且常常施与饮食;又命人修建水井、阶井、池塘、施水亭,并建立庙宇与行旅歇息之所。
Verse 15
कारयत्युचिते काले शिवविष्णुव्रतस्थितः । इष्टधर्मस्तु वर्णानां समाचीर्णो महाफलः
在适当之时,他令诸仪轨得以举行,安住于奉献给湿婆与毗湿奴的誓戒(vrata)之中。诚然,诸种姓所珍重之法,若如法奉行,必得广大果报。
Verse 16
अन्येषां पूर्तधर्माणां तेषां पूर्तकरः सदा । स बभूव धनाढ्योपि व्यसनैर्न समाश्रितः
对他人所行的公共功德,他常常亲自促成圆满。虽富足,却不为恶习所染,也不为灾厄所困。
Verse 17
एकदा गालवमुनिः शिष्यैर्बहुभिरावृतः
有一次,圣者伽罗婆(Gālava)前来,众多弟子环绕随侍。
Verse 18
विष्णुभक्तिरतो नित्यं चातुर्मास्ये विशेषतः
他恒常安住于对毗湿奴(Viṣṇu)的虔敬,尤其在神圣的四月安居期(Cāturmāsya)更为专注。
Verse 19
स वाग्भिर्मधुभिस्तस्य अभ्युत्थानासनादिभिः । उपचारैः पुनर्युक्तः कृतार्थ इव मानयन्
他恭敬礼遇那位圣者,仿佛自己所求已得圆满——以甘美之言相迎,起身致敬,奉上座位,并一再依礼行诸般侍奉。
Verse 20
अद्य मे सफलं जन्म जातं जीवितमुत्तमम् । अद्य मे सफलो धर्मः कुशलश्चोद्धृतस्त्वया
今日我之出生已得其果,我之生命亦成殊胜。今日我之法(dharma)得以圆满,而我的安乐福祉也由你所提升。
Verse 21
मम पापसहस्राणि दृष्ट्या दग्धानि ते मुने । गृहं मम गृहस्थस्य सकलं पावितं त्वया
噢牟尼圣者,仅凭您的一瞥,我千般罪业已被焚尽。我的整座家宅——我这居家之人——也因您而得以净化。
Verse 22
तस्य भक्त्या प्रसन्नोऽभूद्गतमार्गपरिश्रमः । उवाच मुनिशार्दूलः सच्छूद्रं तं कृतांजलिम्
他以虔敬令圣者欢喜,旅途劳顿亦随之消散。诸仙之虎的牟尼,便对那位德行的首陀罗开口;他合掌恭立。
Verse 23
कच्चित्ते कुशलं सौम्य मनो धर्मे प्रवर्तते । अर्थानुबंधाः सततं बन्धुदारसुतादयः
温和之人啊,你一切安好么?你的心仍在法(dharma)中行持么?而世间的系缚——亲族、妻子、儿女等——是否仍以执著不断牵缠着你?
Verse 24
गोविन्दे सततं भक्तिस्तथा दाने प्रवर्तते । धर्मार्थकाम कार्येषु सप्रभावं मनस्तव
你对戈文达(Govinda)是否恒常怀有信爱,也同样持续乐于布施?在修行与行事之中——法(dharma)、利(artha)、欲(kāma)——愿你的心具足善力,成就正当之效。
Verse 25
विष्णुपादोदकं नित्यं शिरसा धार्यते न वा । पादोद्भवं च गंगोदं द्वादशाब्दफलप्रदम्
你是否日日以头顶承奉那洗涤毗湿奴(Viṣṇu)圣足之水?那从主之足而生的恒河水,能赐予十二年功德之果。
Verse 26
चातुर्मास्ये विशेषेण तत्फलं द्विगुणं भवेत् । हरिभक्तिर्हरिकथा हरिस्तोत्रं हरेर्नतिः
尤其在恰图尔玛西亚(Cāturmāsya)之期,其功德果报加倍。对哈利(Hari)的虔敬、宣说哈利之事、赞颂哈利的圣歌,以及向哈利顶礼——皆为所珍爱的修持。
Verse 27
हरिध्यानं हरेः पूजा सुप्ते देवे च मोक्षकृत् । एवं ब्रुवाणं स मुनिं पुनराह नतिं गतः
观想哈利、礼拜哈利——即使主神正处于神圣安眠之时——亦能成就解脱。贤者如是宣说,那人顶礼之后,又再度向他发问。
Verse 28
भवद्दृष्ट्याश्रमफलमेतज्जातं न संशयः । तथापि श्रोतुमिच्छामि तव वाणीमनामयीम्
仅仅得见于你,便已生起修持阿湿罗摩(āśrama)之果——毫无疑惑。即便如此,我仍愿聆听你那无病无过、清净无瑕的言语。
Verse 29
भवादृशानां गमनं सर्वार्थेषु प्रकल्पते । ततस्तौ सुमुदा युक्तौ संजातौ हृष्टचेतसौ
如你这般贤者的到来,能成就一切所求。因此二人满怀大喜,心神欢畅。
Verse 30
मुनिं पैजवनोनाम सच्छूद्रः प्राह संमतः । किमागमनकृत्यं ते कथयस्व प्रसादतः
一位名为派阇伐那(Paijavana)的善良而受敬重的首陀罗,对仙人说道:“你此来所为何事?愿以慈恩为我宣说。”
Verse 31
को वा तीर्थप्रसंगश्च चातुर्मास्ये समीपगे । गालवः प्राह सच्छूद्रं धार्मिकं सत्यवादिनम्
“既然四月斋期(Cāturmāsya)将近,如今又有哪一处圣渡(tīrtha)的神圣因缘临近?”迦罗婆(Gālava)如是对那位善良的首陀罗说——行持正法,言语真实。
Verse 32
मम तीर्थावसिक्तस्य मासा बहुतरा गताः । इदानीमाश्रमं यास्ये चातुर्मास्ये समागते
“我在诸圣地(tīrtha)沐浴之时,已度过许多月。如今四月斋期(Cāturmāsya)既至,我将前往自己的道林(āśrama)。”
Verse 33
आषाढशुक्लैकादश्यां करिष्ये नियमं गृहे । नारायणस्य प्रीत्यर्थं श्रेयोऽर्थं चात्मनस्तथा । प्रत्युवाच मुनिर्धर्मान्विनयानतकन्धरम्
“在阿沙陀月(Āṣāḍha)明半的十一日斋(Ekādaśī),我将在家中奉行戒律之行(niyama),为令那罗延那(Nārāyaṇa)欢喜,也为自得至上之善。”圣者如是答复,以正法之教诲开示那位谦恭俯首、恭敬垂颈之人。
Verse 34
पैजवन उवाच । मामनुग्रहजां बुद्धिं ब्रूहि त्वं द्विजपुंगव । वेदेऽधिकारो नैवास्ति वेदसारजपस्य वा
裴阇婆那(Paijavana)说道:“噢,二次生者(dvija)中最殊胜者,请以由你慈悲所生的明慧教导我。我既无资格研习吠陀,也无分诵持吠陀精髓之咒念(japa)。”
Verse 35
पुराणस्मृतिपाठस्य तस्मात्किंचिद्वदस्व मे । तत्त्वात्मसदृशं किंचिद्भाति रूपं महाफलम्
“因此,请从诵读《往世书》(Purāṇa)与《忆念书》(Smṛti)中为我开示一二。愿有一种修持契合真如(tattva)与自我(ātman)——其光明显现,成为大果报之形。”
Verse 36
चातुर्मास्ये विशेषेण मुक्तिसंसाधकं वद
尤其在四月斋期(Cāturmāsya)之时,请告诉我一种能令解脱圆满成就的修持法。
Verse 37
गालव उवाच । शालिग्रामगतं विष्णुं चक्रांकित पुटं सदा । येऽर्चयन्ति नरा नित्यं तेषां भुक्तिस्त्वदूरतः
伽罗婆说道:“凡人若日日礼拜住于娑罗伽罗摩(Śālagrāma)中的毗湿奴,恒具轮(cakra)印记,则世间欲乐自会远离他们。”
Verse 38
शालिग्रामे मनो यस्य यत्किंचित्क्रियते शुभम् । अक्षय्यं तद्भवेन्नित्यं चातुर्मास्ये विशेषतः
若有人心系娑罗伽罗摩(Śālagrāma),所行一切吉祥善业皆成不坏;在四月斋期(Cāturmāsya)尤为如此。
Verse 39
शालिग्रामशिला यत्र यत्र द्वारावती शिला । उभयोः संगमः प्राप्तो मुक्तिस्तस्य न दुर्लभा
无论何处有娑罗伽罗摩石(Śālagrāma),无论何处有堕罗伐底石(Dvārāvatī)——若得二石相会相合,则对其人而言,解脱并不难得。
Verse 40
शालिग्रामशिला यस्यां भूमौ संपूज्यते नृभिः । पञ्चक्रोशं पुनात्येषा अपि पापशतान्वितैः
凡人如法恭敬供奉娑罗伽罗摩石(Śālagrāma)之地,此圣石能净化周围五拘舍(krośa)之境,即便居民背负百般罪业亦然。
Verse 41
तैजसं पिंडमेतद्धि ब्रह्मरूपमिदं शुभम् । यस्याः संदर्शनादेव सद्यः कल्मषनाशनम्
诚然,此乃光辉的圣团——吉祥的梵(Brahman)之相;但凡一见,诸垢即刻消灭。
Verse 42
सर्वतीर्थानि पुण्यानि देवतायतनानि च । नद्यः सर्वा महाशूद्र तीर्थत्वं प्राप्नुवंति हि
一切圣洁的渡口(tīrtha)、一切天神的圣所,以及一切河流——噢,大首陀罗——确实都因这份神圣而获得渡口之位(tīrtha 之性)。
Verse 43
सन्निधानेन वै तस्याः क्रिया सर्वत्रशोभनाः । व्रजंति हि क्रियात्वं च चातुर्मास्ये विशेषतः
因她的临在,一切仪轨处处皆成吉祥庄严;确实都得圆满功效,尤其在神圣的四月斋期(Cāturmāsya)之中。
Verse 44
पूज्यते भवने यस्य शालिग्राम शिला शुभा । कोमलैस्तुलसीपत्रैर्विमुखस्तत्र वै यमः
凡在家中以柔嫩的图拉西叶供奉吉祥的娑利伽罗摩圣石(Śāligrāma-śilā)者,阎摩(Yama)确会转身远离此处。
Verse 45
ब्राह्मणक्षत्रियविशां सच्छूद्राणामथापि वा । शालिग्रामाधिकारोऽस्ति न चान्येषां कदाचन
婆罗门、刹帝利、吠舍——以及品行端正的首陀罗——皆具供奉娑利伽罗摩(Śāligrāma)之资格;其余之人则永无此分。
Verse 46
सच्छूद्र उवाच । ब्रह्मन्वेदविदां श्रेष्ठ सर्वशास्त्रविशारद । स्त्रीशूद्रादिनिषेधोऽयं शालिग्रामे हि श्रूयते
那位贤善的首陀罗说道:“噢婆罗门,汝为通达吠陀者之最胜,精通一切论典(śāstra);关于妇女、首陀罗等的禁制,确实听闻是就圣石萨利格拉摩(Śāligrāma)而言。”
Verse 47
मादृशस्त्वं कथं शालिग्रामपूजाविधिं वद
“既如此,像我这样的人又怎能相应呢?请开示礼敬供奉萨利格拉摩(Śāligrāma)的正当仪轨。”
Verse 48
गालव उवाच । असच्छूद्रगतं दास निषेधं विद्धि मानद । स्त्रीणामपि च साध्वीनां नैवाभावः प्रकीर्तितः
伽罗婆(Gālava)说道:“善人啊,侍者啊,当知此禁制是针对不贤之首陀罗;而对妇女亦然——尤其贞洁虔敬者——并未宣说有任何不合格之处。”
Verse 49
मा भूत्संशयस्तेनात्र नाऽप्नुषे संशयात्फलम् । शालिग्रामार्चनपराः शुद्धदेहा विवेकिनः
因此于此切莫生疑;因疑则不得其果。凡专心礼拜萨利格拉摩(Śāligrāma)者,身得清净,心具明辨。
Verse 50
न ते यमपुरं यांति चातुर्मास्ये च पूजकाः । शालिग्रामार्पितं माल्यं शिरसा धारयंति ये
在四月斋期(Cāturmāsya)中礼拜者不至阎摩之城;凡将供奉于萨利格拉摩(Śāligrāma)的花鬘顶戴于首者,皆复如是。
Verse 51
तेषां पापसहस्राणि विलयं यांति तत्क्षणात् । शालिग्राम शिलाग्रे तु ये प्रयच्छंति दीपकम्
对他们而言,成千上万的罪业当下即灭——凡在圣石萨利格拉摩(Śāligrāma-śilā)前供奉明灯者。
Verse 52
तेषां सौरपुरे वासः कदाचिन्नैव हीयते । शालिग्रामगतं विष्णुं सुमनोभिर्मनोहरैः । येऽर्चयंति महाशूद्र सुप्ते देवे हरौ तथा
对他们而言,居于娑罗城(Saurapura)之福永不减损。噢,大首陀罗(Śūdra),凡以芬芳悦意之花礼拜住于萨利格拉摩(Śāligrāma)中的毗湿奴(Viṣṇu)者——即便主哈利(Hari)处于神圣安眠之时——亦得此不退之果。
Verse 53
पंचामृतेन स्नपनं ये कुर्वंति सदा नराः । शालिग्रामशिलायां च न ते संसारिणो नराः
凡常以五甘露(pañcāmṛta)为萨利格拉摩圣石(Śāligrāma-śilā)行沐浴灌顶者,便不再系缚于轮回;不复作生死流转之行者。
Verse 54
मुक्तेर्निदानममलं शालिग्रामगतं हरिम् । हृदि न्यस्य सदा भक्त्या यो ध्यायति स मुक्तिभाक्
若有人以恒常虔敬,将住于萨利格拉摩(Śāligrāma)中的哈利(Hari)——清净无垢、为解脱之因——安置于心中,并常作观想禅念者,即得分受解脱(mokṣa)。
Verse 55
तुलसीदलजां मालां शालिग्रामोपरि न्यसेत् । चातुर्मास्ये विशेषेण सर्वकामानवाप्नुयात्
当以图拉西(Tulasī)叶所成之花鬘安置于萨利格拉摩(Śāligrāma)之上;尤以四月斋期(Cāturmāsya)为胜,如是便能成就一切所愿。
Verse 56
न तावत्पुष्पजा माला शालिग्रामस्य वल्लभा । सर्वदा तुलसी देवी विष्णोर्नित्यं शुभा प्रिया
花鬘并非最为圣石萨利格拉摩所钟爱;图拉西女神恒常吉祥,永为毗湿奴所挚爱。
Verse 57
तुलसी वल्लभा नित्यं चातुर्मास्ये विशेषतः । शालिग्रामो महाविष्णुस्तुलसी श्रीर्न संशयः
图拉西恒为所爱,尤以四月斋期(Cāturmāsya)最为殊胜。萨利格拉摩即大毗湿奴,而图拉西确是室利(吉祥天女拉克什米)——毫无疑问。
Verse 58
अतो वासितपानीयैः स्नाप्यं चंदनचर्चितैः । मंजरीभिर्युतं देवं शालग्रामशिलाहरिम्
因此,当以芬芳之水沐浴化现为萨利格拉摩圣石的诃利,并以檀香涂抹;又当礼敬那以图拉西花簇庄严的主。
Verse 59
तुलसीसंभवाभिश्च कृत्वा कामानवाप्नुयात् । पत्रे तु प्रथमे ब्रह्मा द्वितीये भगवाञ्छिवः
以图拉西所生之物行供养,便能成就所愿。第一叶中住梵天;第二叶中住世尊湿婆。
Verse 60
मंजर्यां भगवान्विष्णुस्तदेकस्थत्रया सदा । मंजरी दलसंयुक्ता ग्राह्या बुधजनैः शुभा
在花簇(mañjarī)之中住着毗湿奴;因此三神一体(Trimūrti)恒常同处于这一株图拉西之内。故智者当取其吉祥花簇,并连同叶片,用于供奉。
Verse 61
तां निवेद्य गुरौ भक्त्या जन्मादिक्षयकारणम् । शालिग्रामे धूपराशिं निवेद्य हरितत्परः
将那(图拉西供品)以虔敬奉献于师尊——此行能灭除生死等系缚——专心归向哈利者,应向娑利伽罗摩(Śāligrāma)奉上一大堆香(熏香)。
Verse 62
चातुर्मास्ये विशेषेण मनुष्यो नैव नारकी । शालिग्रामं नरो दृष्ट्वा पूजितं कुसुमैः शुभैः
尤其在四月斋期(Cāturmāsya)之中,人不致堕入地狱;只因见到娑利伽罗摩以吉祥之花受供养礼拜,便能脱离那般归宿。
Verse 63
सर्वपापविशुद्धात्मा याति तन्मयतां हरौ । य स्तौत्यश्मगतं विष्णुं गंडकीजलसंभवम्
凡赞颂显现为石的毗湿奴——由甘达基河之水所生——者,皆得洗净一切罪垢,并证得与哈利合一。
Verse 64
श्रुतिस्मृतिपुराणैश्च सोऽपि विष्णुपदं व्रजेत् । शालिग्रामशिलायाश्च चतुर्विंशतिसंख्यकाः । भेदाः संति महाशूद्र ताञ्छृणुष्व महामते
凭依《闻传》(Śruti)、《忆传》(Smṛti)与诸《往世书》(Purāṇa)的证言,他亦得至毗湿奴之境。且哉,大首陀罗啊,娑利伽罗摩之石有二十四种差别;智者啊,请谛听。
Verse 65
इमाः पूज्याश्च लोकेऽत्र चतुर्विंशतिसंख्यकाः । तासां च दैवतं विष्णुं नामानि च वदाम्यहम्
此二十四种在世间皆为礼拜所尊;其主宰之神为毗湿奴。今我亦将宣说其名号。
Verse 66
स एव मूर्त्तश्चतुरुत्तरासिर्विंशद्भिरेको भगवान्यथाऽद्यः । स एव संवत्सरनामसंज्ञः स एव ग्रावागत आदिदेवः
那位太初之主本为一体,却示现为二十四种显化之相;祂亦以二十四年之名而得称号,并且正是化为圣石而降临的本初神。
Verse 243
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने शालिग्रामपूजनमाहात्म्यवर्णनंनाम त्रिचत्वारिंशत्युत्तरद्विशततमोऽध्यायः
至此,《圣·斯坎达大往世书》之《八万一千颂集》(Ekāśītisāhasrī Saṃhitā)第六部《那伽罗分卷》(Nāgara-khaṇḍa)中——哈塔凯湿瓦拉圣域功德章(Hāṭakeśvara-kṣetra Māhātmya)之“舍沙卧眠”叙事、梵天与那罗陀对话、四月斋功德(Cāturmāsya Māhātmya)及拜阇瓦那篇章里——题为《阐述礼敬萨利格拉摩(Śāligrāma)之伟大》的第二百四十三章圆满结束。