
本章以梵天与那罗陀的神学对话为体裁,并置于毗湿奴为“舍沙卧”(Śeṣaśāyī)的语境中,阐明四月斋期(Cāturmāsya)的苦行(tapas)并非仅是禁食,而是综合性的修持:以十六供敬礼毗湿奴,恒常奉行五祭(pañca-yajña),守真实、行不害,并长久摄持诸根。 继而详述适合居家者的“方向式”五神坛(pañcāyatana)礼拜法:以日月为时序中心;火隅奉伽内沙;西南隅(nairṛta)奉毗湿奴;风隅(vāyu)奉与家族/血脉相应之本尊;东北隅(īśāna)奉鲁陀罗,并规定所用花品与发愿目的,如除障、护佑、求嗣与避不时之死(apamṛtyu)。 后半部按层次列举四月斋期的诸种苦行:节制饮食、日一食或隔日食、kṛcchra 与 parāka 等法,以及与关键十二日(dvādaśī)相应的“摩诃波罗迦”(Mahāpārāka)次第。果报偈(phalaśruti)宣说能净罪、得生毗昆他(Vaikuṇṭha),并增长虔敬之智;章末赞叹诵读与听闻之功德,定位为毗湿奴“安眠季”中居家修行者的高价值伦理与仪轨指南。
Verse 1
ब्रह्मोवाच । तपः शृणुष्व विप्रेंद्र विस्तरेण महामते । यस्य श्रवणमात्रेण चातुर्मास्येऽ घनाशनम्
梵天说道:噢,婆罗门中最胜者,噢,大智者,请详听此苦行(tapas);仅凭听闻,四月斋期(Cāturmāsya)所积诸罪便得消灭。
Verse 2
षोडशैरुपचारैश्च विष्णोः पूजा सदा तपः । ततः सुप्ते जगन्नाथे महत्तप उदाहृतम्
以十六供养礼敬毗湿奴,恒为一种苦行(tapas)。因此,当宇宙之主阇甘那他(Jagannātha)于四月斋期(Cāturmāsya)安住圣眠之时,如此礼敬被宣说为大苦行。
Verse 3
करणं पंचयज्ञानां सततं तप एव हि । तन्निवेद्य हरौ चैव चातुर्मास्ये महत्तपः
恒常奉行每日五种祭祀,实为苦行(tapas)。并将其功德果报奉献于诃利(Hari),尤其在四月斋期(Cāturmāsya)之中,称为大苦行。
Verse 4
ऋतुयानं गृहस्थस्य तप एव सदैव हि । चातुर्मास्ये हरिप्रीत्यै तन्निषेव्यं महत्तपः
居家者依四时而行的相应行持,恒为苦行(tapas)。在四月斋期(Cāturmāsya)为令诃利欢喜而修习此行,被宣说为大苦行。
Verse 5
सत्यवादस्तपो नित्यं प्राणिनां भुवि दुर्लभम् । सुप्ते देवपतौ कुर्वन्ननंतफलभाग्भवेत्
真实语是恒常的苦行(tapas),在世间众生中极为稀有。若在诸天之主安住于神圣睡眠之时(四月斋期 Cāturmāsya)修持此行者,将分得无尽的福果。
Verse 6
अहिंसादिगुणानां च पालनं सततं तपः । चातुर्मास्ये त्यक्तवैरं महत्तप उदारधीः
恒常守持以不害(ahiṃsā)等为首的诸德,即是苦行(tapas)。在四月斋期(Cāturmāsya)舍弃怨敌之心,对高贵之智者乃大苦行。
Verse 7
तप एव महन्मर्त्यः पंचायतनपूजनम् । चातुर्मास्ये विशेषेण हरिप्रीत्या समाचरेत्
对凡人而言,礼敬五坛(pañcāyatana)本身即是大苦行(tapas)。在四月斋期(Cāturmāsya)应尤为修行此供奉,以令诃利欢喜。
Verse 8
नारद उवाच । पंचायतनसंज्ञेयं कस्योक्ता सा कथं भवेत् । कथं पूजा च कर्तव्या विस्तरेणाशु तद्वद
那罗陀说道:“何谓‘五坛供’(pañcāyatana)?此法由谁宣说,应当如何领会?又当如何行供养礼拜?请速为我详尽开示。”
Verse 9
ब्रह्मोवाच । प्रातर्मध्याह्नपूजायां मध्ये पूज्यो रविः सदा । रात्रौ मध्ये भवेच्चंद्रस्तद्वर्णकुसुमैः शुभैः
梵天说道:在清晨与正午的供奉中,应常以太阳居中受礼;而在夜间,则以月亮居中,以与其相应之色的吉祥花朵恭敬供养。
Verse 10
वह्निकोणे तु हेरंबं सर्वविघ्नोपशांतये । रक्तचंदन पुष्पैश्च चातुर्मास्ये विशेषतः
在火之角(阿耆尼方位),应礼拜赫然婆(Heramba),以息灭一切障碍;尤其在四月斋期(Cāturmāsya)中,当以红檀香与花供养。
Verse 11
नैरृतं दलमास्थाय भगवान्दुष्टदर्पहा । गृहस्थस्य सदा शत्रुविनाशं विदधाति सः
安住于奈利哩多方位(Nairṛta)之中,世尊——摧折恶人傲慢者——恒常成就居士之家敌对者的灭除。
Verse 12
नैरृत्यकोणगं विष्णुं पूजयेत्सर्वदा बुधः । सुगन्धचंदनैः पुष्पैर्नैवेद्यैश्चातिशोभनैः
智者应常礼拜安住于奈利哩提耶角(Nairṛtya)的毗湿奴,以芬芳檀香、花鬘,并以庄严殊胜的食供(naivedya)奉献。
Verse 13
गोत्रजा वायुकोणे तु पूजनीया सदा बुधैः । पुत्रपौत्रप्रवृद्ध्यर्थं सुमनोभिर्मनोहरैः
在伐由之隅(风方),智者应常以芬芳悦目的花供奉“Gotrajā”,以令子孙增盛、家族昌隆。
Verse 14
ऐशाने भगवान्रुद्रः श्वेतपुष्पैः सदाऽर्चितः । अपमृत्युविनाशाय सर्वदोषापनुत्तये
在伊沙那方位(东北),应常以白花礼敬鲁陀罗尊神,以摧灭非时之死,并除去一切过失与垢染。
Verse 15
जागर्ति महिमा यस्य ब्रह्माद्यैर्नैव लिख्यते । पंचायतनमेतद्धि पूज्यते गृहमेधिभिः
此圣制之威德昭然显现,然纵使梵天等诸神亦难尽述其全。诚然,此即“Pañcāyatana”五尊家祭之法,为居家奉道者所当敬礼。
Verse 16
तप एतत्सदा कार्यं चातुर्मास्ये महाफलम् । पर्वकालेषु सर्वेषु दानं देयं तपः सदा । चातुर्मास्ये विशेषेण तदनंतं प्रजायते
此等苦行当恒常修持;于四月斋期(Cāturmāsya)则结大果。凡诸节庆圣时,皆应行布施并守苦行;尤以四月斋期为甚,其功德遂成无量无尽。
Verse 17
शौचं तु द्विविधं ग्राह्यं बाह्यमाभ्यंतरं सदा । जलशौचं तथा बाह्यं श्रद्धया चांतरं भवेत्
清净当恒常知为二种:外净与内净。以水洗濯为外净;由信心(śraddhā)而生者,为内心之清净。
Verse 18
इद्रियाणां ग्रहः कार्यस्तपसो लक्षणं परम् । निवृत्त्येंद्रियलौल्यं च चातुर्मास्ये महत्तपः
应当修习摄持诸根;此乃苦行(tapas)的至上标志。回转远离对欲乐的躁动贪恋——这就是四月斋期(Cāturmāsya)中的大苦行。
Verse 19
इन्द्रियाश्वान्सन्नियम्य सततं सुखमेधते । नरके पात्यते प्राणैस्तैरेवोत्पथगामिभिः
若恒常勒住如马之诸根,安乐便稳步增长;但同样这些生命之气一旦奔向邪途,便使人堕入地狱。
Verse 20
ममतारूपिणीं ग्राहीं दुष्टां निर्भर्त्स्य निग्रहेत् । तप एव सदा पुंसां चातुर्मास्येऽधिगौरवम्
应当呵斥并制伏那恶毒的“攫取者”,它以“我所”(mamatā、占有执著)之形出现。唯有苦行(tapas)常为众生真实依止;在四月斋期(Cāturmāsya)更显其殊胜分量与卓越。
Verse 21
काम एष महाशत्रुस्तमेकं निर्जयेद्दृढम् । जितकामा महात्मानस्तैर्जितं निखिलं जगत्
欲望(kāma)乃大敌;当坚决战胜这唯一的仇寇。大心者既已降伏欲望,凭此胜利,便如同征服了整个世界。
Verse 22
एतच्च तपसो मूलं तपसो मूलमेव तत् । सर्वदा कामविजयः संकल्पविजयस्तथा
此即苦行(tapas)之根本,确乎是苦行之根本:恒常战胜欲望,并同样战胜摇摆不定的誓愿与意向。
Verse 23
तदेव हि परं ज्ञानं कामो येन प्रजायते । महत्तपस्तदेवाहुश्चातुमास्ये फलोत्तमम्
这确是至上的智慧:由此欲望得以生起,并被洞见其根本。唯此被称为大苦行,于四月斋期(Cāturmāsya)结最胜妙之果。
Verse 24
लोभः सदा परित्याज्यः पापं लोभे समास्थितम् । तपस्तस्यैव विजयश्चातुर्मास्ये विशेषतः
贪欲应当恒常舍离,因为罪业栖居于贪中。战胜它须凭苦行,尤其在四月斋期(Cāturmāsya)更为殊胜。
Verse 25
मोहः सदाऽविवेकश्च वर्जनीयः प्रयत्नतः । तेन त्यक्तो नरो ज्ञानी न ज्ञानी मोहसंश्रयात
迷妄(moha)与无辨识之心应当恒常努力远离。能舍弃者方为真智;依止迷妄者,非智者也。
Verse 26
मद एव मनुष्याणां शरीरस्थो महारिपुः । सदा स एव निग्राह्यः सुप्ते देवे विशेषतः
唯有傲慢(mada)是人类身中之大敌,潜居于此身。应当恒常加以制伏,尤其在天神‘沉睡’的四月斋期(Cāturmāsya)之时。
Verse 27
मानः सर्वेषु भूतेषु वसत्येव भयावहः । क्षमया तं विनिर्जित्य चातुर्मास्ये गुणाधिकः
名誉之我慢(māna)遍住诸有情,令人怖畏。以宽恕(kṣamā)降伏之,则德行增盛,尤以四月斋期(Cāturmāsya)为甚。
Verse 28
मात्सर्यं निर्जयेत्प्राज्ञो महापातककारणम् । चातुर्मास्ये जितं तेन त्रैलोक्यममरैः सह
智者当降伏嫉妒,此乃重罪之因。若于四月斋期(Cāturmāsya)中克胜之,则凭此胜利,三界连同不死诸天,宛如尽被征服。
Verse 29
अहंकारसमाक्रांता मुनयो विजितेंद्रियाः । धर्ममार्गं परित्यज्य कुर्वत्युन्मार्गजां क्रियाम्
为我慢所压制,即便已降伏诸根的牟尼,也可能舍离正法之道,而行由邪途所生之业。
Verse 31
एतद्धि तपसो मूलं यदेतन्मनसस्त्यजेत् । त्यक्तेष्वेतेषु सर्वेषु पर ब्रह्ममयो भवेत्
此实为苦行之根本:当舍离心之诸般动荡。若一切皆已放下,便为至上梵(Parabrahman)所充满。
Verse 32
प्रथमं कायशुद्ध्यर्थं प्राजापत्यं समाचरेत् । शयने देवदेवस्य विशेषेण महत्तपः
首先,为净化此身,当修行般若主誓戒(Prājāpatya)。尤其在诸神之主圣卧之期(Hariśayana),此行更成大苦行。
Verse 33
हरेस्तु शयने नित्यमेकांतरमु पोषणम् । यः करोति नरो भक्त्या न स गच्छेद्यमालयम्
在哈利圣卧之时,若有人以虔敬恒常行隔日进食之戒,便不至阎摩之境(阎王之所)。
Verse 34
हरिस्वापे नरो नित्यमेकभक्तं समाचरेत् । दिवसेदिवसे तस्य द्वादशाहफलं लभेत्
在圣者哈利安住神圣睡眠之时,行者应恒常修持“一日一食”(ekabhakta)。日复一日,便得与十二日戒行同等的功德。
Verse 35
चातुर्मास्ये नरो यस्तु शाकाहारपरो यदि । पुण्यं क्रतुसहस्राणां जायते नात्र संशयः
在四月斋期(Cāturmāsya)中,若有人以蔬食为主而度日,则会生起相当于成千上万次吠陀祭祀的功德——对此毫无疑问。
Verse 36
चातुर्मास्ये नरो नित्यं चांद्राय णव्रतं चरेत् । एकैकमासे तत्पुण्यं वर्णितुं नैव शक्यते
在四月斋期中,行者应恒常受持“月行誓”(Cāndrāyaṇa)。每一月所得功德,实在难以言尽。
Verse 37
सुप्ते देवे च पाराकं यः करोति विशुद्धधीः । नारी वा श्रद्धया युक्ता शतजन्माघ नाशनम्
当主神安住于神圣睡眠之时,凡具清净慧者修持“帕拉卡誓”(Pārāka),无论男女、具足信心,皆能灭除百生所积之罪。
Verse 38
कृच्छ्रसेवी भवेद्यस्तु सुप्ते देवे जनार्दने । पापराशिं विनिर्धूय वैकुण्ठे गणतां व्रजेत्
当阎那尔达那(Janārdana)安住神圣睡眠之时,凡修持“克里恰罗苦行”(Kṛcchra)者,能抖落成堆罪业,并往生毗昆塔(Vaikuṇṭha),列入侍从之众。
Verse 39
तप्तकृच्छ्रपरो यस्तु सुप्ते देवे जनार्दने । कीर्तिं संप्राप्य वा पुत्रं विष्णुसायुज्यतां व्रजेत्
当阇那尔达那(Janārdana)安住于神圣之睡时,凡虔诚奉行“Tapta-Kṛcchra”苦行者,或得声名,或得贤子,终将证得与毗湿奴(Viṣṇu)合一之境(sāyujya)。
Verse 40
दुग्धाहारपरो यस्तु चातुर्मास्येऽभिजायते । तस्य पापसहस्राणि विलयं यांति देहिनः
在四月斋期(Cāturmāsya)中,若有人以乳食为本,则此有身者之千般罪业皆消融而尽。
Verse 41
मितान्नाशनकृद्धीरश्चातुर्मास्ये नरो यदि । निर्धूय सकलं पापं वैकुण्ठपदमाप्नुयात्
若在四月斋期(Cāturmāsya)中,坚忍之人仅以适量而食,便能尽除诸罪,得至毗昆塔(Vaikuṇṭha)之境。
Verse 42
एकान्नाशनकृन्मर्त्यो न रोगैरभि भूयते । अक्षारलवणाशी च चातुर्मास्ये न पापभाक्
凡人若一日一食,便不为诸病所胜;又若在四月斋期(Cāturmāsya)中避开碱性与咸味之食,便不受罪分。
Verse 43
कृताहारो महापापैर्निर्मुक्तो जायते ध्रुवम् । हरिमुद्दिश्य मासेषु चतुर्षु च न संशयः
凡行持有度之饮食者,必定脱离重罪——毫无疑虑——若于四个月中以哈利(Hari)为所归依之主而修行。
Verse 44
कन्दमूलाशनकरः पूर्वजान्सह चात्मना । उद्धृत्य नरकाद्घोराद्याति विष्णुसलोकताम्
凡以根与果为食而修行者,能与自身一同超拔先祖;救其脱离可怖地狱,终至毗湿奴之界。
Verse 45
नित्यांबुप्राशनकरश्चातुर्मास्ये यदा भवेत् । दिनेदिनेऽश्वमेधस्य फलमाप्नोत्यसंशयम्
若于四月斋期(Cāturmāsya)之中,日日唯饮清水修持,则日复一日,必得马祭(Aśvamedha)之果报,毫无疑惑。
Verse 46
शीतवृष्टिसहो यस्तु चातुर्मास्ये नरो भवेत् । हरिप्रीत्यै जगन्नाथस्तस्यात्मानं प्रयच्छति
凡于四月斋期中,为令哈利欢喜而忍受寒冷与雨淋者,主宰贾甘纳塔必将自身赐予于他。
Verse 47
महापाराकसंज्ञं तु महत्तप उदाहृतम् । मासैकमुपवासेन सर्वं पूर्णं प्रजायते
有一大苦行被宣说,名为“摩诃波罗迦”(Mahāpārāka):若能整整一月持斋禁食,则一切灵性所求皆得圆满。
Verse 48
देवस्वापदिनादौ तु यावत्पवित्रद्वादशी । पवित्रद्वादशीपूर्वं यावच्छ्रवणद्वादशी
所说的持守期限为:自“天眠日”(Devasvāpa)起,至“圣线十二日”(Pavitrā Dvādaśī);又自“圣线十二日”之前起,至“舍罗伐那十二日”(Śravaṇa Dvādaśī)止。
Verse 49
महापाराकमेतद्धि द्वितीयं परिकीर्तितम् । श्रवणद्वादशीपूर्वं प्राप्ता चाश्विनद्वादशी
此确被宣说为第二个“摩诃帕罗迦”(Mahāpārāka):自圣月Śravaṇa之Dvādaśī之前起,直至Āśvina之Dvādaśī到来。
Verse 50
महापाराक तृतीयं प्राज्ञैश्च समुदाहृतम् । आश्विनद्वादशी चादौ प्राप्ता देवसुबोधिनी
智者亦宣说第三个“摩诃帕罗迦”:以Āśvina之Dvādaśī为始,延续至Deva-subodhinī——主神觉醒之日。
Verse 51
महापाराकमेतद्धि चतुर्थं परिकथ्यते । एतेषामेकमपि च नारी वा पुरुषोऽपि वा
此即名为“摩诃帕罗迦”,被称作第四种修持。无论女子或男子,若仅奉行其中任何一法……
Verse 52
यः करोति नरो भक्त्या स च विष्णुः सनातनः । इदं च सर्वतपसां महत्तप उदाहृतम्
若有人以虔敬奉行此行,即被视为永恒的毗湿奴自身。此亦被宣说为至大苦行,超越一切苦行。
Verse 53
दुष्करं दुर्लभं लोके चातुर्मास्ये मखाधिकम् । दिवसेदिवसे तस्य यज्ञायुतफलं स्मृतम्
于世间此行艰难而稀有;在Cāturmāsya之期,它甚至胜过诸祭祀。日复一日,其功果被忆念为等同一万次祭祀(yajña)。
Verse 54
महत्तप इदं येन कृतं जगति दुर्लभम् । इदमेव महापुण्यमिदमेव महत्सुखम् । इदमेव परं श्रेयो महापाराकसेवनम्
此乃大苦行,世间罕有能成。唯此为大功德,唯此为大喜乐。唯此为至上善:修行“摩诃波罗迦”(Mahāpārāka)。
Verse 55
नारायणो वसेद्देहे ज्ञानं तस्य प्रजायते । जीवन्मुक्तः स भवति महापातककारकः
那罗延那(Nārāyaṇa)住入其身,智慧于彼人心中生起。此人得以现生解脱——纵曾造作重罪亦然。
Verse 56
तावद्गर्जंति पापानि नरकास्तावदेव हि । तावन्मायासहस्राणि यावन्मासो पवासकः
诸罪唯在那段时日咆哮,诸地狱亦然,确实唯在那段时日。千般幻惑也只在斋戒之月未圆满之时持续。
Verse 57
चातुर्मास्युपवासी यो यस्य प्रांगणिको भवेत् । सोऽपि हत्यासहस्राणि त्यक्त्वा निष्कल्मषो भवेत्
若有人守持四月斋(Cāturmāsya),并在他人家宅庭院中作常住侍从,即便此人也能舍离千般杀业,成为无垢清净者。
Verse 58
य इदं श्रावयेन्मर्त्यो यः पठेत्सततं स्वयम्
凡人若令此教诲被诵读,或自己恒常读诵——
Verse 59
सोऽपि वाचस्पतिसमः फलं प्राप्नोत्यसंशयम्
他亦必无疑得其果报,与布里哈斯帕提——圣言之主——等同。
Verse 60
इदं पुराणं परमं पवित्रं शृण्वन्गृणन्पापविशुद्धिहेतु । नारायणं तं मनसा विचिन्त्य मृतोऽभिगच्छत्यमृतं सुराधिकम्
此《普拉那》至为清净;聆听与诵持,能成为净除罪垢之因。于心中观念彼那罗延者,命终之人得至不死之境,甚至高于诸天。
Verse 238
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोमहिमावर्णनं नामाष्टत्रिंशदुत्तरद्विशततमोऽध्यायः
至此,在《圣·斯坎达大普拉那》——八万一千颂之总集——第六部《那伽罗分部》中,于“哈塔凯湿伐罗圣域功德”之章、于“舍沙睡者”之故事、于梵天与那罗陀之对话、于“四月斋期(Cāturmāsya)之伟大”之段落中,名为《苦行威德之描述》的第二三八章圆满结束。