
第233章以多层次的神学论述赞扬“恰图尔玛夏”(Cāturmāsya,四个月的神圣时节)之功德:外层由苏多(Sūta)答复求问的圣贤,内层嵌入梵天(Brahmā)与那罗陀(Nārada)的对话。经文确立此四月为殊胜的仪式时窗,在此期间,对毗湿奴(Viṣṇu)的奉爱与清净戒行尤为关键;尤重清晨沐浴,反复宣说其能成就pāpa-kṣaya(消融累积之罪垢),并使其他宗教行持恢复效力。 本章并列举水源与圣地的类别:诸河与大朝圣地(tīrtha)如普什迦罗(Puṣkara)、普拉亚伽(Prayāga);地方圣水如瑞瓦/纳尔玛达(Reva/Narmadā)、戈达瓦里(Godāvarī);海洋汇合处;以及替代之水,如芝麻浸水、余甘子(āmalaka)浸水、或比尔瓦(bilva)叶浸水。又提出一种奉爱“忆念法”:在水器旁以心念召请恒河(Gaṅgā)亦具仪式功效,所据之理为恒河与主之足水(pāda-udaka)相连。 经文亦示以行仪警策:避免夜间沐浴,强调在日光可见时净身。末后以慈悲开许:若不能亲身沐浴,可行灰浴、咒浴,或以毗湿奴足水为净,皆能成就清净。
Verse 1
ऋषय ऊचुः । सूत सूत महाभाग श्रोतुमिच्छामहे वयम् । चातुर्मास्यव्रतानां हि त्वत्तो माहात्म्यविस्तरम्
诸仙人说道:噢苏多,噢有大福德者,我们愿从你处详闻四月斋戒(Cāturmāsya)诸誓愿之大功德。
Verse 2
तदस्माकं महाभाग कृपां कृत्वाऽधुना वद । त्वद्वचोऽमृतपानेन भूयः श्रद्धाभिवर्धते
因此,噢有大福德者,请垂慈悲而今开示;饮汝言语之甘露,我等信心愈加增长。
Verse 3
सूत उवाच । शृणुध्वं मुनयः सर्वे चातुर्मास्यव्रतोद्भवम् । माहात्म्यं विस्तरेणैव कथयिष्यामि वोऽग्रतः
苏多说道:诸位牟尼圣者,请听四月斋戒(Cāturmāsya)之誓的起源;我将于诸君之前,详尽宣说其伟大功德。
Verse 4
पुरा ब्रह्ममुखाच्छ्रुत्वा नानाव्रतविधानकम् । नारदः परिपप्रच्छ भूयो ब्रह्माणमादरात्
往昔,纳罗陀从梵天亲口听闻诸般誓戒的种种仪则;随后他又以恭敬之心,再次请问梵天。
Verse 5
नारद उवाच । देवदेव महाभाग व्रतानि सुबहून्यपि । श्रुतानि त्वन्मुखाद्ब्रह्मन्न तृप्तिमधिगच्छति
纳罗陀说道:噢天中之天、福德无量的梵天啊——纵然我已从汝口听闻无数誓戒,我心仍未得满足。
Verse 6
अधुना श्रोतुमिच्छामि चातुर्मास्यव्रतं शुभम्
如今我愿聆听吉祥的四月斋戒(Cāturmāsya)之誓。
Verse 7
ब्रह्मोवाच । शृणु देवमुने मत्तश्चातुर्मास्यव्रतं शुभम् । यच्छ्रुत्वा भारते खंडे नृणां मुक्तिर्न दुर्लभा
梵天说道:噢,神圣的牟尼啊,请听我宣说吉祥的“四月斋戒”(Cāturmāsya)之誓;在婆罗多之地闻此法者,人之解脱并不难得。
Verse 8
मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणम् । यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते
此尊至福之主赐予解脱,乃超越轮回(saṃsāra)之因;唯以忆念其名,即能脱离一切罪垢。
Verse 9
मानुष्ये दुर्लभं लोके तत्राऽपि च कुलीनता । तत्रापि सदयत्वं च तत्र सत्संगमः शुभः
在此世间,得人身本已难得;更难得的是高贵端正的品行。更难得的是慈悲之心——而在慈悲之中,得与贤圣善士同聚(satsaṅga),乃最吉祥之大福。
Verse 10
सत्संगमो न यत्रास्ति विष्णुभक्तिर्व्रतानि च । चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः
若无贤圣善士之会(satsaṅga),对毗湿奴的奉爱与诸誓戒之行便难以真实生起。尤其在四月斋期(Cāturmāsya),受持毗湿奴誓戒(Viṣṇu-vrata)者,必成吉祥而蒙福。
Verse 11
चातुर्मास्येऽव्रती यस्तु तस्य पुण्यं निरर्थकम् । सर्वतीर्थानि दानानि पुण्यान्यायतनानि च
然而在四月斋期(Cāturmāsya)不持誓戒者,其功德便成徒然;因为若无此等持,即便一切圣地(tīrtha)沐浴之果、布施之福及诸功德处所,对他也难以生效。
Verse 12
विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते । सुपुष्टेनापि देहेन जीवितं तस्य शोभनम्
当四月斋期(Cāturmāsya)来临时,凡依止毗湿奴而安住者——唯有他的生命才真正庄严美好,即使其身躯丰足强健亦然。
Verse 13
चातुर्मास्ये समायाते हरिं यः प्रणमेद्बुधः । कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः
当四月斋期(Cāturmāsya)已至,智者若礼拜哈利(Hari)——诸天便为他圆满其所愿,并在其一生之中赐予恩赐。
Verse 14
संप्राप्य मानुषं जन्म चातुर्मास्यपराङ्मुखः । तस्य पापशतान्याहुर्देहस्थानि न संशयः
既得人身,却背离四月斋期(Cāturmāsya)的修持者——人们说他身中栖住着百般罪业;对此毫无疑问。
Verse 15
मानुष्यं दुर्लभं लोके हरिभक्तिश्च दुर्लभा । चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने
人身在世间极为难得,对哈利(Hari)的虔敬亦复难得——尤其在四月斋期(Cāturmāsya),据说主宰阇那尔达那(Janārdana)安住于神圣之眠。
Verse 16
चातुर्मास्ये नरः स्नानं प्रातरेव समाचरेत् । सर्वक्रतुफलं प्राप्य देववद्दिवि मोदते
在四月斋期(Cāturmāsya)中,人应于清晨沐浴。得一切祭祀之果报,便如天神般在天界欢喜安乐。
Verse 17
चातुर्मास्ये तु यः स्नानं कुर्यात्सिद्धिमवाप्नुयात् । तथा निर्झरणे स्नाति तडागे कूपिकासु च
在恰图尔玛夏(Cāturmāsya)期间,凡行沐浴者,必得灵性成就(悉地)。同样,在瀑流之水、池塘之中,乃至井中沐浴,也能获得此等功德。
Verse 18
तस्य पापसहस्राणि विलयं यांति तत्क्षणात् । पुष्करे च प्रयागे वा यत्र क्वापि महाजले । चातुर्मास्येषु यः स्नाति पुण्यसंख्या न विद्यते
对他而言,千千万万的罪业当下即灭。无论在普什迦罗(Puṣkara)或在普罗耶伽(Prayāga),乃至任何浩瀚水域之处,凡于恰图尔玛夏期间沐浴者,其功德不可计数。
Verse 19
रेवायां भास्करक्षेत्रे प्राच्यां सागरसंगमे । एकाहमपि यः स्नातश्चातुर्मास्ये न दोषभाक्
凡于恰图尔玛夏期间,即便仅一日,在勒瓦河(纳尔马达,Revā/Narmadā)之婆斯迦罗圣域(Bhāskara-kṣetra)、于东方入海会合处沐浴者,皆不受过失。
Verse 20
दिनत्रयं च यः स्नाति नर्मदायां समाहितः । सुप्ते देवे जगन्नाथे पापं याति सहस्रधा
当世间之主阇甘那他(Jagannātha)安住于神圣睡眠之时,若有人摄心专注,于纳尔马达河(Narmadā)连浴三日,则罪垢将千倍摧灭。
Verse 21
पक्षमेकं तु यः स्नाति गोदावर्यां दिनोदये । स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम्
然而,凡于日出之时在戈达瓦里河(Godāvarī)沐浴满一整半月(pakṣa)者,既能破除由业所生之身,便得至毗湿奴(Viṣṇu)之世界,获其同住之境(salokatā)。
Verse 22
तिलोदकेन यः स्नाति तथा चैवामलोदकैः । बिल्वपत्रोदकैश्चैव चातुर्मास्ये न दोषभाक्
凡以芝麻水沐浴,亦以余甘子水与毕罗婆叶水沐浴者,于四月斋期(Cāturmāsya)不受过失。
Verse 23
गंगां स्मरति यो नित्यमुदपात्रसमीपतः । तद्गांगेयं जलं जातं तेन स्नानं समाचरेत्
若有人每日在水器旁忆念恒河,则彼水即成“恒河水”;应以此水如法沐浴。
Verse 24
गंगाऽपि देवदेवस्य चरणांगुष्ठवाहिनी । पापघ्नी सा सदा प्रोक्ता चातुर्मास्ये विशेषतः
恒河亦是从万神之主的大脚趾流出的圣流;她常被宣说为灭罪者,尤以四月斋期(Cāturmāsya)为甚。
Verse 25
यतः पापसहस्राणि विष्णुर्दहति संस्मृतः । तस्मात्पादोदकं शीर्षे चातुर्मास्ये धृतं शिवम्
因为忆念毗湿奴时,祂焚尽千般罪业;故于四月斋期(Cāturmāsya),将祂足水置于头顶,吉祥而有益。
Verse 26
चातुर्मास्ये जलगतो देवो नारायणो भवेत् । सर्वतीर्थाधिकं स्नानं विष्णुतेजोंशसंगतम्
于四月斋期(Cāturmāsya),那罗延天在水中显现;因此彼时沐浴胜过一切圣地(tīrtha),因其与毗湿奴光辉之一分相应。
Verse 27
स्नानं दशविधं कार्यं विष्णुनाम महाफलम् । सुप्ते देवे विशेषेण नरो देवत्वमाप्नुयात्
应依十种规定之法行圣浴,并称念毗湿奴之名,得大功德;尤其当主神处于神圣睡眠之时,凡人亦可证得如天神之境。
Verse 28
विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभम् । क्रियते निष्फलं ब्रह्मंस्तत्प्रगृह्णंति राक्षसाः
然而,婆罗门啊,凡为积德而作的吉祥善行,若不先行沐浴,便成无果;罗刹将夺取那份(功德)。
Verse 29
स्नानेन सत्यमाप्नोति स्नानं धर्मः सनातनः । धर्मान्मोक्षफलं प्राप्य पुनर्नैवावसीदति
由圣浴而得真谛;沐浴乃永恒之法(sanātana-dharma)。由此法得解脱之果,既得之后,便不再堕落衰败。
Verse 31
कृतस्नानस्य च हरिर्देहमाश्रित्य तिष्ठति । सर्वक्रियाकलापेषु संपूर्ण फलदो भवेत्
对已行圣浴者,诃利(Hari)依其身而住;于一切仪轨之中,祂成为赐予圆满果报者。
Verse 32
सर्वपापविनाशाय देवता तोषणाय च । चातुर्मास्ये जलस्नानं सर्वपापक्षयावहम्
为灭尽诸罪、令诸天欢喜,于四月斋期(Cāturmāsya)行水浴,能使一切罪业消尽。
Verse 33
निशायां चैव न स्नायात्संध्यायां ग्रहणं विना । उष्णोदकेन न स्नानं रात्रौ शुद्धिर्न जायते
不可在夜间沐浴,也不可在暮时(昏暮)沐浴——唯有逢日月食之时例外。亦不可用热水沐浴;夜里由此沐浴,清净不生。
Verse 34
भानुसंदर्शनाच्छुद्धिर्विहिता सर्वकर्मसु । चातुर्मास्ये विशेषेण जलशुद्धिस्तु भाविनी
于一切仪轨之中,规定以瞻仰太阳而得清净;而在恰图尔玛夏(Cāturmāsya)期间尤为殊胜,以水而净更为灵验有力。
Verse 36
नारायणाग्रतः स्नानं क्षेत्र तीर्थनदीषु च । यः करोति विशुद्धात्मा चातुर्मास्ये विशेषतः
若有人以清净之心,于那罗延(Nārāyaṇa)之前,在圣域(kṣetra)、诸渡口圣地(tīrtha)与江河之中行沐浴之仪——尤其在恰图尔玛夏期间——其功行当受称扬。
Verse 233
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवादे गंगोदकस्नानफलमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः
至此,《圣·斯坎达大往世书》告一段落——于八万一千颂之《集成》(Saṃhitā)中,于第六《那伽罗分部》(Nāgara-khaṇḍa)内,于哈塔凯湿瓦罗圣域功德篇(Hāṭakeśvara-kṣetra-māhātmya)中,于“舍沙卧眠者”(Śeṣaśāyī)之传说中,于“恰图尔玛夏功德篇”(Cāturmāsya-māhātmya)中,于梵天与那罗陀之对话里——名为《赞颂以恒河水沐浴所生大功德果报》的章节,乃第233章。
Verse 358
अशक्त्या तु शरीरस्य भस्मस्नानेन शुध्यति । मंत्रस्नानेन विप्रेंद्र विष्णुपादोदकेन वा
然而若因身体无力(不能如法全浴),亦可由灰浴而得清净;或以“真言之浴”而净,噫,婆罗门中之最胜者;又或以洗过毗湿奴(Viṣṇu)圣足之水而得清净。