Adhyaya 219
Nagara KhandaTirtha MahatmyaAdhyaya 219

Adhyaya 219

第219章以较为严密的仪轨神学论述“欲求施行之祭祖仪”(kāmya-śrāddha):为达成特定愿望而行的祖先供养,由婆尔特利耶吉那(Bhartṛyajña)对国王开示。经文按黑半月中与饿鬼(preta)相关的“施罗达饿鬼期”(śrāddhīya-preta-pakṣa)逐日规定:在连续各月日(tithi)行施罗达,可分别获得富足、婚姻机缘、得马得牛、农耕与贸易成功、身心安泰、王恩眷顾以及诸事成就等果报。 随后对第十三日(trayodaśī)作出告诫:求子嗣者不宜于此日行仪,并与不祥之果相连;又提出在特定季节/星宿会合“摩伽—十三日”(Maghā–trayodaśī)时,以乳米甜粥(payasa)和蜂蜜、酥油(ghee)供献的特别修持。经文并区分非自然或暴死之例(兵刃、毒药、火灾、溺水、蛇或兽袭、缢死等),规定于第十四日(caturdaśī)行“独施祭”(ekoddiṣṭa)以令其得慰。末后宣示:新月日(amāvāsyā)之施罗达能圆满赐予前述诸愿,并以功德果(phala)作结——闻知此一欲求施罗达之纲要者,得遂所愿。

Shlokas

Verse 1

भर्तृयज्ञ उवाच । काम्यानि तेऽधुना वच्मि श्राद्धानि पृथिवीपते । यैः कृतैः समवाप्नोति मर्त्यो हृदयसंस्थितम्

婆尔特利耶阇那说道:“噢,大地之主,我今将为你宣说能成就所愿的迦摩耶(kāmya)施罗陀(Śrāddha)祭;凡人若如法奉行,便能获得心中所珍爱、所祈求之物。”

Verse 2

यो नारीं वांछते क्ष्माप रूपाढ्यां शीलमण्डनाम् । इह लोके परे चैव तस्यार्हं प्रथमं दिनम्

噢,国王,若有人渴望得一位容貌出众、以善德为饰的女子——无论在此世或来世——当于第一日依其所定之仪轨而行。

Verse 3

श्राद्धीयप्रेतपक्षस्य मुख्यभूतं च यन्नृप । य इच्छेत्कन्यकां श्रेष्ठां सुशीलां रूपसंयु ताम् । द्वितीयादिवसे तेन श्राद्धं कार्यं महीपते

噢,国王,在祖灵半月(Pretapakṣa,饿鬼期)的施罗陀(Śrāddha)仪式中,此被视为主要行持:凡欲得一位上等少女,德行端正、姿容具足者,当于第二日行施罗陀,噢,大地之主。

Verse 4

यो वांछति नरोऽश्वांश्च वायुवेगसमाञ्जवे । तृतीयादिवसे श्राद्धं तेन कार्यं विपश्चिता

智者宣说:若有人欲得如风般迅疾的骏马,当于第三日(Pretapakṣa 期间)奉行施罗陀(Śrāddha)。

Verse 5

यो वांछति पशून्मुख्यान्कुप्याकुप्यधनानि च । चतुर्थ्यां तेन कर्तव्यं श्राद्धं पितृप्रतुष्टये

凡欲得上等牲畜与珍贵财物——无论耐久或易耗——者,当于第四日行施罗陀(Śrāddha),以令祖灵(Pitṛ)圆满欢喜。

Verse 6

पुत्रान्वांछति योऽभीष्टान्सुशीलान्वंशमंडनान् । पञ्चम्यां तेन कर्तव्यं सदा श्राद्धं नराधिप

噢,人中王者!凡欲得可爱、具德、能光耀家族之子者,当于饿鬼半月(Pretapakṣa)第五日恒常修行施祖祭(Śrāddha)。

Verse 7

यः श्राद्धं वंशजैर्दत्तं परलोकगतो नृप । वांछते तेन कर्तव्यं षष्ठ्यां श्राद्धं विपश्चिता

噢,大王!若有人已往彼世,仍渴望子孙所献之施祖祭(Śrāddha),则智者应为其于饿鬼半月第六日行Śrāddha。

Verse 8

कृषिसिद्धिं य इच्छेत ग्रैष्मिकीं शारदीमपि । सप्तम्यां युज्यते तस्य श्राद्धं कर्तुं न संशयः

凡求农事成就者,无论夏作或秋收,当于第七日行施祖祭(Śrāddha);此无疑也。

Verse 9

य इच्छेत्पण्यसंसिद्धिं व्यवहारसमुद्भवाम् । अष्टम्यां युज्यते श्राद्धं तस्य कर्तुं नराधिप

噢,人主!凡欲贸易亨通、商事得利者,当于饿鬼半月第八日行施祖祭(Śrāddha)。

Verse 10

नवम्यां श्राद्धकृन्नाना चतुष्पदगणाल्लंभेत् । सौभाग्यं रोगनाशं च तथा वल्लभसंगमम्

于第九日行施祖祭(Śrāddha),可得多种四足牲畜,并获福运、除病消灾,且与所爱之人重逢。

Verse 11

दशमीदिवसे श्राद्धं यः करोति समाहितः । तस्य स्याद्वांछिता सिद्धिः सर्वकृत्येषु सर्वदा

凡于第十日以摄心专注行施罗达(Śrāddha)者,恒于一切所作之事,皆得如愿成就。

Verse 12

एकादश्यां धनं धान्यं श्राद्धकर्ता लभेन्नरः । तथा भूपप्रसादं च यच्चान्यन्मनसि स्थितम्

于第十一日行施罗达(Śrāddha)者,得财宝与谷粮;亦蒙王恩,并得心中所愿之诸事。

Verse 13

यः करोति च द्वादश्यां श्राद्धं श्रद्धासमन्वितः । पुत्रांस्तु प्रवरांश्चैव स पशून्वांछिताल्लंभेत्

凡于十二日(Dvādaśī)以至诚信心行施罗达(Śrāddha)者,得贤良之子,并得所愿牛畜与兴盛之福。

Verse 14

यो वांछति नरो मुक्तिं पितृभिः सह चात्मनः । असंतानश्च यस्तस्य श्राद्धे प्रोक्ता त्रयोदशी

若有人为自身并与祖灵(Pitṛ)同求解脱(mokṣa),且无子嗣者,其施罗达(Śrāddha)当依教法定于十三日(Trayodaśī)。

Verse 15

संतानकामो यः कुर्यात्तस्य वंशक्षयो भवेत् । न संतानविवृद्धयै च तस्य प्रोक्ता त्रयोदशी

若求子嗣者行十三日(Trayodaśī)之施罗达(Śrāddha),其家族血脉将趋衰减;故为增益子孙,不为其规定十三日。

Verse 16

श्राद्धकर्मणि राजेंद्र श्रुतिरेषा पुरातनी । अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम्

大王啊,关于施行 śrāddha(祭祖供养),此乃古老的传统:愿那不向我们奉行十三日斋仪(Trayodaśī)者,甚至不生于我族。

Verse 17

पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च । मघात्रयोदशीयोगे पायसेन यजेत्पितॄन्

以蜂蜜与酥油(ghee)调制的乳米甜粥 pāyasa——尤以雨季、值宿星摩伽(Maghā)之时为胜——当摩伽与十三日(Trayodaśī)相合,应以 pāyasa 祭奉祖灵。

Verse 18

पितरस्तस्य नेच्छंति तद्वर्षं श्राद्धसत्क्रियाम् । पुण्यातिशयभीतेन पिंडदानं निराकृतम्

他的祖灵不受那一年的 śrāddha 供养;因畏惧福德(puṇya)过盛,故将团食供(piṇḍa)之献供拒却。

Verse 19

शक्रेण तद्दिने पुत्रमरणं दर्शितं भयम् । येषां च शस्त्रमृत्युः स्यादपमृत्युरथापि वा

在那一日,因陀罗(释迦,Śakra)显示了可怖之患:儿子之死;并且对某些人而言,或有兵刃致死,乃至非时横死(apamṛtyu)。

Verse 20

उपसर्गमृतानां च विषमृत्युमुपेयुषाम् । वह्निना तु प्रदग्धानां जलमृत्यु मुपेयुषाम्

又对于死于疫疾者,或遭毒而亡者;为火所焚者,以及溺水而逝者——(在 śrāddha 的语境中,含有特别关照之意)。

Verse 21

सर्पव्यालहतानां च शृंगैरुद्बन्धनैरपि । एकोद्दिष्टं प्रकर्तव्यं चतुर्दश्यां नराधिप

凡被蛇或猛兽所害者,亦及被角所伤而亡或被悬缢而死者,当于月十四日(Caturdaśī)修行一人专祭的 ekoddiṣṭa-śrāddha,噢,大王。

Verse 22

तेषां तस्मिन्कृते तृप्तिस्ततस्तत्पक्षजा भवेत्

当此仪式既行,他们便得满足安慰(tṛpti),而相应之功德亦于同一半月期(pakṣa)之中成就。

Verse 23

सर्वे कामाः पुरः प्रोक्ता युष्माकं ये मया नृप । अमावास्यादिने श्राद्धात्तानाप्नोति न संश यः

大王啊,我先前为您所宣说的一切所愿所求,确实皆可由在阿摩婆娑耶(Amāvāsyā,新月日)行施 śrāddha 而圆满成就;对此毫无疑虑。

Verse 24

एतत्ते सर्वमाख्यातं काम्यश्राद्धफलं नृप । यच्छ्रुत्वा वांछितान्कामान्सर्वानाप्नोति मानवः

大王,我已将“欲成就之 śrāddha”(kāmya-śrāddha)的果报尽皆为您宣说;凡闻此者,皆能获得所求的一切愿望。

Verse 219

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे काम्यश्राद्धवर्णनंनामैकोनविंशोत्तरद्विशततमोऽ ध्यायः

至此,《圣·斯坎达大往世书》——八万一千颂之汇编——第六部《那伽罗分篇》(Nāgara-khaṇḍa)中,《哈塔凯湿瓦罗圣域功德》(Hāṭakeśvara-kṣetra-māhātmya)之“施祖祭仪轨”(Śrāddha-kalpa)里,题为《欲成就施祖祭(kāmya-śrāddha)之描述》之第二一九章圆满。