Adhyaya 213
Nagara KhandaTirtha MahatmyaAdhyaya 213

Adhyaya 213

本章开篇由苏多(Sūta)续说太阳神苏利耶(Sūrya)的神圣功德,并举一先例:一位婆罗门以红檀香木雕制苏利耶圣像,久修供奉而蒙赐愿。他祈求除去库什塔(kuṣṭha,皮肤病),苏利耶遂开示定期行持之法:当主日恰逢第七日(Saptamī)时,于具功德之湖沐浴,手持果品为供,绕行礼敬一百零八匝;经文称此法既能疗愈,亦能救度后学。随后苏利耶在当地安立圣住,名其处为“库哈拉瓦萨”(Kuharavāsa),使神迹化为恒常的圣地标识。 叙事继而转向毗湿奴(克里希纳)之子三摩婆(Sāmba)。其容貌引发观者骚动,终至一段因误认而致的性越轨之事,伦理纠葛深重。三摩婆求问法义裁断;一位婆罗门详述名为“丁吉尼”(Tiṅginī)的严峻赎罪法:掘坑、撒牛粪粉、控火焚烧、身不动摇,并专注观想阇那尔达那(Janārdana),以为能灭除大罪(mahāpātaka)之仪。三摩婆向父亲忏白;哈利(Hari)以“无意与不知”可减轻罪责而加以宽释,并引导其以朝圣修复:于哈塔凯湿伐罗圣域(Hāṭakeśvara kṣetra)礼拜马尔坦达(Mārtaṇḍa),依同样一百零八匝之法,尤在摩陀婆月(Mādhava)并随吉祥历象而行。三摩婆在家族哀叹与祝福中启程,于神圣汇流处沐浴、供奉并广行布施;经文言毗湿奴为除众生罪垢而常住其地。章末以三摩婆内心笃定将脱离库什塔作结,并称此渡口(tīrtha)为殊胜吉祥之所,亦惠及妇女,隶属哈塔凯湿伐罗/毗湿瓦密多利耶(Viśvāmitrīya)圣地体系。

Shlokas

Verse 1

सूत उवाच । रत्नादित्यस्य माहात्म्यमेतद्वः परिकीर्तितम् । सर्वकुष्ठहरं यच्च सर्वपातकनाशनम् । भूयस्तथैव माहात्म्यं महद्वै श्रूयतां रवेः

苏多说道:“宝日(Ratnāditya)的功德我已为诸位宣说——其能除尽一切麻风之患,摧灭诸般重罪。如今再请聆听罗毗(Ravi,太阳)宏大的威德。”

Verse 2

तेन चाराधितः सूर्यस्तत्रस्थेन द्विजोत्तमाः

诸位最胜的二生者啊,由那住于彼处之人,如法恭敬礼拜了苏利耶(太阳神)。

Verse 3

पूर्वदक्षिणदिग्भागे समासाद्य ततः परम् । रक्त चन्दनजां कृत्वा प्रतिमां भावितात्मना

随后他抵达东南方位,更进一步;以专注澄净之心,塑作一尊以赤檀香木制成的圣像。

Verse 4

ततो वर्षसहस्रांते तुष्टस्तस्य दिवाकरः । वरदोऽस्मीति तं प्राह दृष्टिगोचरमागतः

于是,千年期满之时,日神因他而欢喜,现于其目所及之处,对他说:“我赐予恩愿。”

Verse 5

ब्राह्मण उवाच । यदि तुष्टोऽसि मे देव कुष्ठव्याधिं हर प्रभो । नान्येन कारणं मेऽस्ति राज्येनापि त्रिविष्टपे

婆罗门说道:“若您悦纳于我,噢神明、噢主宰,请除去我的麻风。我别无所求,连天界王位也不希求。”

Verse 6

श्रीभगवानुवाच । सप्तम्यां सूर्यवारेण कुरु विप्र प्रदक्षिणाम् । शतमष्टोत्तरं यावत्स्नात्वा पुण्यह्रदे शुभे । फलहस्तः पृथक्त्वेन ततः कुष्ठेन मुच्यसे

世尊说道:“婆罗门啊,于第七日(Saptamī)逢星期日时,当行绕行礼(pradakṣiṇā)。随后在吉祥的福池 Puṇyahrada 沐浴,手持果品作别供,圆满一百零八次。之后你将脱离麻风。”

Verse 7

अन्योऽत्र गां गतो योऽपि व्रतमेतत्करिष्यति । सर्वरोगविनिर्मुक्तो मम लोकं स गच्छति

“即便他人来到此处,修行此誓愿者,也将脱离诸病,往生于我的世界。”

Verse 8

श्रीसूर्य उवाच । तच्छ्रुत्वा स तथा चक्रे ब्राह्मणः श्रद्धयाऽन्वितः । विमुक्तश्च तदा कुष्ठाद्दिव्यदेहमवाप्तवान्

圣日神(Śrī Sūrya)说道:“听闻此言,那婆罗门怀着信心照做无误;当时便脱离麻风,得获天妙之身。”

Verse 9

अथ भूयोऽपि तं प्राह नीरोगं भगवान्रविः । किं ते प्रियं करोम्यन्यद्वद ब्राह्मणसत्तम

随后,尊贵的罗毗(太阳神)又对他开口;他已无病安泰:“噢,最胜婆罗门啊,告诉我——我还当为你成就何等你所珍爱的恩赐?”

Verse 10

सोऽब्रवीत्सर्वदैवात्र स्थातव्यं भगवन्विभो

他答道:“噢,主宰,噢,全能者——愿你永远安住于此。”

Verse 11

श्रीभगवानुवाच । अतः परं ममावासः स्थानेऽत्र च भविष्यति । नाम्ना कुहरवासाख्या संज्ञा मम भविष्यति

世尊说道:“从今以后,我的居处确将在此地;而我在此处的名号,将称为‘库哈拉瓦萨(Kuharavāsa)’。”

Verse 12

कस्यचित्त्वथ कालस्य विष्णुपुत्रो बभूव ह । सांबोनाम सुरूपाढ्यो जांबवत्यां द्विजोत्तमाः

过了一段时日,毗湿奴之子降生,名为萨姆巴(Sāmba),具足殊胜容颜——由贾姆巴瓦蒂(Jāmbavatī)所生,噢,最胜婆罗门啊。

Verse 13

अथ तं राजमार्गेण गच्छंतं यदुसत्तमम्

随后,人们看见那位雅度族中的最胜者,沿着王道大路前行。

Verse 14

पुरनार्योऽपि संतुष्टा वीक्षांचक्रुः सुकौतुकात् । गृहकार्याणि संत्यज्य समारूढा गवाक्षकान्

就连城中的妇女也心生欢喜、充满好奇而观望——抛下家务,登上窗前。

Verse 15

तस्य कामात्मदेहस्य दर्शनार्थं समुत्सुकाः । काश्चिदर्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः

她们渴望一睹那令欲念迷醉的身姿:有的匆忙间只抹了半身香膏,有的只来得及在一只眼上描上黑膏。

Verse 16

अर्धसंयमितैः केशैस्तथान्यास्त्यक्तबालकाः । एकस्मिंश्चरणे काश्चिन्नियोज्योपानहं द्रुताः

有的妇女匆忙间只把头发束到一半,有的竟把孩子留在身后;还有的只在一只脚上匆匆套上鞋履,便疾奔而出。

Verse 17

पादुकां च द्वितीये तु पर्यधावन्नितंबिनीः । व्रजंतीषु तथान्यासु वनितासु गवाक्षकान्

她们又在另一只脚上套上鞋履,来回奔走;而其余妇女也匆匆赶去,直奔窗前。

Verse 18

व्याक्रोशंति क्रुधाविष्टाः शिशवो गुरवस्तथा । नीवीबन्धनविश्लेषसमाकुलितचेतसः

孩童因怒而哭喊,长者亦然——腰带松散、衣饰凌乱,使人心神纷乱。

Verse 19

ययुरेवापराः स्वेषु गवाक्षेषु वरांगनाः । स चकर्ष तदा तासां पतितैर्नेत्ररश्मिभिः

其余的贵族佳人各自走向自家的窗前;而在那一刻,他仿佛被她们眼中垂落的目光之光所牵引,反又将她们吸向自己。

Verse 20

हृदयानि धरापृष्ठे कामदेवसमो युवा । काचिद्दृष्ट्वैव तद्रूपं तस्य सांबस्य कामिनी

在大地之上立着一位青年,宛如爱神迦摩天(Kāma-deva)亲临;而有一位为情所困的女子,仅仅一见那般容色——萨姆巴(Sāmba)的美貌——

Verse 21

निश्चला कामतप्तांगी लिखितेव विभाब्यते । काचिदग्निसमान्मुक्त्वा निश्वासान्कामपीडिता

一位女子被欲火灼身,凝立不动,宛如画中人;另一位为情欲所逼,吐出的气息如同烈火。

Verse 22

एकास्तं च समालोक्य रूपयौवनसंयुतम् । गवाक्षात्प्रपतंति स्म निश्चेष्टा धरणीतले

有些女子一见他——兼具容色与青春——便从窗边坠落,毫无自持,僵然伏在地上。

Verse 23

अन्याः परस्परालाप प्रकुर्वंति वरस्त्रियः । एका सा कामिनी धन्या यास्य चक्रेवगूहनम्

其余的贵妇彼此交谈起来;唯有一位有福而痴恋的女子,竟作势要将他拥入怀中。

Verse 24

निःशेषां रजनीं प्राप्य माघमाससमुद्भवाम् । आस्तां तावत्स्त्रियो याश्च नरा अपि निरर्गलम्

当属于摩伽月的整夜尽都过去时,男女众人仍如是停住,毫无约束与节制。

Verse 25

जल्पंति चेदृशं सर्वं तस्य रूपेण विस्मिताः । अत्रये वदन्ति सेवाम एनमर्थेन वर्जिताः

众人惊叹于他的容色,便说出种种这般言语;又对阿特里说道:“让我们侍奉此人吧”,虽并无任何世间目的。

Verse 26

वीक्ष्यामो वदनं येन नित्यमेवेंदुसंनिभम् । कर्णाभ्यां वारिता वृद्धिर्नेत्रयोरप्यसंशयम् । नो चेज्जानीमहे नैव कियती सं भविष्यति

“让我们瞻望那张面容,恒常如月般皎洁。凭耳闻可遏止欲念的增长;凭目见亦然——毫无疑问。否则,我们全然不知它将膨大到何等程度。”

Verse 27

एवं संवीक्ष्यमाणस्तु कामिनीभिर्नरैस्तथा । निर्ययौ राजमार्गेण पितृदर्शनलालसः

于是,在多情的女子与众男子的注视之下,他沿着王道而出,心切欲见其父。

Verse 28

भगिन्यो मातरो याश्च भ्रातृपत्न्यश्च याः स्थिताः । अवस्थामीदृशीं प्राप्ता ब्राह्मणानामपि स्त्रियः । मातरोऽपि च यास्तस्य भगिन्यश्च विशेषतः

在场的姊妹与母亲,以及兄弟之妻——一切女众,乃至婆罗门之妇女——都陷入那般情状;尤其是他自己的母亲与姊妹,更为所动。

Verse 29

अन्यस्मिन्नहनि प्राप्ते प्रावृट्काले निशागमे । कृष्णपक्षे तमोभूते अलक्ष्येऽपि गते पुरः

又一日到来——值雨季,夜幕将临——在月之黑半月中,幽暗弥漫,连前方的城郭也几乎难以辨见……

Verse 30

तन्माता नन्दिनीनाम कामदेवशरार्दिता । तत्पत्न्या वेषमाधाय तच्छय्यायामुपस्थिता

他的母亲——名为难陀尼(Nandinī)——被爱神迦摩(Kāma)的箭所伤;她披作其妻之形,来到他的床榻前。

Verse 31

सोऽपि तां दयितां ज्ञात्वा सेवयामास कामिनीम् । रतोपचारैर्विविधैरश्रद्धेयविनिर्मितैः

他也以为她是自己的爱侣,便与那女子行于情爱——以种种房中之事,巧设得令人难以置信。

Verse 32

तया तत्र यदुश्रेष्ठो विकल्पमकरोत्तदा । अंगराजसुता या मे प्राणेभ्योऽपि गरीयसी

就在那处,因她之故,雅度族中最卓越者当时起了疑念:“那位昂伽王之女——于我比性命更为珍贵……”

Verse 33

नैवंविधं रतं वेद अनया यद्विनिर्मितम् । वेश्या अपि न जानंति रतमीदृक्कथञ्चन

无人知晓如此的交欢——如她所巧设者。即便是娼伎,也绝不知有这般欢悦,无论如何。

Verse 34

ततो गाढं करे धृत्वा दीपमानीय तत्क्षणात् । यावत्पश्यति सा माता नन्दिनीति च या स्मृता

随后她紧握其手,顷刻取来一盏灯,直到那位被忆念为“难陀尼”(Nandinī)的母亲得以看得分明。

Verse 35

ततश्च गर्हयामास रपे किमिदं कृतम् । गर्हितं सर्वलोकानां नर कार्तिप्रदं तथा

随后她斥责道:“卑劣之人啊,你做的这是什么事?此举为世人所共谴,汝亦将因此招致恶名。”

Verse 36

सापि लज्जासमोपेता महाभयसमाकुला । प्रणष्टा तत्क्षणादेव भयेन महताऽन्विना

她亦为羞惭所覆、为大怖所震,顷刻之间便消失无踪——被压倒性的惊惧驱散。

Verse 37

सांबोऽपि प्रलपन्नार्तो निद्रां लेभे न वै द्विजाः । रात्रिशेषमभूत्तस्य तदा वर्षशतोपमम्

即便萨安巴(Sāṃba)哀叹于苦楚之中,也不得安眠,噢诸位二次生者;那夜余下的时分,于他仿佛百年之久。

Verse 38

अथ रात्र्यां व्यतीतायां प्रोद्गते रविमण्डले । दुःखेन महता युक्तः प्रोत्थितः स हरेः सुतः

待夜尽而日轮升起之时,哈利(Hari)之子起身——仍为深重的忧苦所压。

Verse 39

आवश्यकमपि त्यक्त्वा कंचिद्ब्राह्मणसत्तमम् । धर्मशास्त्रविधानज्ञं समानीयाथ चाब्रवीत्

他甚至暂置日常职责,召来一位最上等的婆罗门,精通《法论》(Dharmaśāstra)诸规制,然后开口说道。

Verse 40

रहस्ये विनयोपेतः कृतांजलिपुटः स्थितः । सांब उवाच । मात्रा स्वस्रा दुहित्रा वा स्वयं स्याद्यदि मोहनम्

在私下里,他谦恭地合掌而立,娑摩婆(Sāṃba)说道:“若对母亲、姊妹或女儿生起迷惑之心,当如何?”

Verse 41

कथं शुद्धिर्भवेत्तस्य परमार्थेन मे वद । धर्मशास्त्राणि संवीक्ष्य सर्वाणि च यथाक्रमम्

“请如实告诉我:在那样的情形中,如何才能得清净——请依次检阅一切《法论》(Dharmaśāstra)而告之。”

Verse 42

ब्राह्मण उवाच । परनार्याः कृते वत्स प्रायश्चित्तं विनिर्मितम् । धर्म द्रोणेषु सर्वेषु वर्णानां च पृथग्विधम्

婆罗门说道:“孩子啊,凡涉他人之妇的过失,在一切法典汇编中皆制定了赎罪法(prāyaścitta),并且依诸种姓(varṇa)而各有不同。”

Verse 43

आसां च तिसृणां चैव त्रयाणां परिकीर्तितम् । एवमेवं विनिर्दिष्टं प्रायश्चित्तं विशुदये

“对于这三者亦已宣说其赎罪法。如此这般,为求清净之赎罪(prāyaścitta)便已如法安立。”

Verse 44

मात्रा मोहनमासाद्य भगिन्या वाथ यादव । दुहित्रा वा प्रमादाच्च कार्यं संशोधनं बुधैः । शुद्ध्यर्थं तिंगिनीमेकां नान्यज्जानाम्यहं यतः

噢,雅度族的后裔啊,若因迷惑——或与母亲,或与姊妹,或因疏忽与女儿——智者皆规定应行补救之法。为求清净,我只知一途:名为“提ṃ吉尼”(Tiṃginī);除此之外,我别无所知。

Verse 45

धर्मद्रोणेषु सर्वेषु निर्णयोऽयमुदाहृतः । यो मया तव संदिष्टो नान्योस्ति यदुपुंगव

此一裁断已在一切法典汇编中宣说。噢,雅度族之最胜者,我所指示于你的补救之法,除此之外别无他途。

Verse 46

अन्यथा यो वदेत्पृष्टः प्रायाश्चित्तं स्वच्छन्द तः । तस्य पापस्य भागी स्याद्यथा कर्ता तथैव सः

若有人在被问及时,随己意妄说赎罪法(prāyaścitta),而所指不正,则此人亦分担其罪,如同犯过之人本身一般。

Verse 47

सांब उवाच । तिंगिन्याः किं स्वरूपं च किं प्रमाणं द्विजोत्तम । सर्वं विस्तरतो ब्रूहि ममास्त्यत्र प्रयोजनम्

萨姆巴说道:“噢,最胜的二生者啊,提ṃ吉尼(Tiṃginī)的真实体性为何?其度量与规制又当如何?请为我详尽宣说一切,因为我在此确有用意。”

Verse 48

ब्राह्मण उवाच । गोवाटचूर्णमादाय गर्तां भृत्वा स्वमानजाम् । शयनं तत्र कर्तव्यं यावद्वक्त्रेण यादव

婆罗门说道:“取牛粪之粉(或牛栏之土),按自身尺寸掘一坑并以之填实。噢,雅度族者,当卧于其中,直至与面部之度相齐。”

Verse 49

उपरिष्टात्तच्च चूर्णं धार्यं गोवाटसंभवम् । यावद्वक्त्रप्रमाणं च वर्जयित्वा स्वमाननम्

并且在(身体)上方,应安置取自牛栏的粉末,覆盖至面部的尺度——但须避开自身面容的完整尺度。

Verse 50

ततः पादप्रदेशे तु ज्वालयेद्धव्यवाहनम् । यथा शनैः शनैर्दाहः शरीरस्य प्रजायते

随后在足部之处,应点燃祭火(阿耆尼),使身体的灼热之感渐次、点滴而起。

Verse 51

न चैव चालयेदंगं कथंचित्तत्र संस्थितः । नैवाक्रंदं तथा कुर्याद्ध्यायेदेकं जनार्दनम्

并且安住其处时,切莫以任何方式动摇肢体;亦不应呼号哭喊。应如是观想唯一者——阇那尔达那(Janārdana)。

Verse 52

ततो जीवितनाशेन गात्रशुद्धिः प्रजायते

随后,由于生命的舍弃,身体的清净便得以成就。

Verse 53

तिंगिन्या यत्स्वरूपं च तन्मया परिकीर्तितम् । प्रायश्चित्तमिदं सम्यङ्महापातकनाशनम्

如是,我已宣说提ṃ吉尼(Tiṃginī)的本相。此等忏悔法若如法修行,亦能摧灭大罪(mahāpātaka)。

Verse 54

तच्छ्रुत्वा वचनं तस्य सांबो जांबवतीसुतः । हृदये निश्चयं कृत्वा तिंगिनीसाधकोद्भवम्

听闻他的话后,萨姆巴——贾姆巴瓦蒂之子——在心中立下坚定誓愿,欲修持“提ṃ吉尼”法门,成就其悉地。

Verse 55

ततः प्रोवाच विजने वासुदेवं घृणान्वितः । ताताहं विप्रलब्धस्तु नंदिन्या तव भार्यया

随后在僻静之处,他怀着悲悯对婆苏提婆说道:“父亲啊,我确实被难迪妮——你的妻子——所欺骗。”

Verse 56

भार्याया रूपमाधाय पापया तमसि स्थिते । सा मया निजभार्येयमिति मत्वा निषेविता

当黑暗笼罩之时,一名罪恶的女子化作我妻子的形貌;我以为“她正是我的妻”,便与她同寝相合。

Verse 57

ततस्तु चेष्टितैर्ज्ञात्वा गर्हयित्वा विसर्जिता । ततःप्रभृति गात्रे मे कुष्ठव्याधिरयं स्थितः

然而后来我从她的举止中识破了她,便加以斥责并将其遣去。自那时起,这麻风之疾便附着于我身。

Verse 58

मयाथ धर्मशास्त्रज्ञः कश्चित्पृष्टो द्विजोत्तमः । प्रायश्चित्तं यथोक्तं मे वद मातृनिषेवणात्

因此我前往请教一位通晓《达摩论典》的上等婆罗门,问道:“请依经法告知我:对于(不知情而)犯下亲近母亲之举,当行何等忏悔与赎罪(prāyaścitta)?”

Verse 59

तेनोक्तं साधनं सम्यक्तिंगिन्या मम शुद्धये । सोऽहं तां साधयिष्यामि तस्य पापस्य शुद्धये

他为我指示了正当的净化之法——依“提ṃ吉尼”(Tiṃginī)之仪轨/修持而行。故我将奉行此法,以洗净彼罪。

Verse 60

अनुज्ञां देहि मे शीघ्रं कार्यं येन करोम्यहम् । क्षंतव्यं च मया बाल्ये यत्किंचित्कुकृतं कृतम्

请速赐我许可,使我得以完成当行之事;并愿你宽恕我童年所作的一切过失与恶行。

Verse 61

मम माता यथा दुःखं न कुर्यात्त्वं तथा कुरु

请如此行事,使我母亲不致受苦受痛。

Verse 62

तच्छ्रुत्वा वचनं तस्य वज्रपातोपमं हरिः । बाष्पपूर्णेक्षणो दीनस्ततः प्रोवाच गद्गदम्

闻其言,如霹雳击心;哈利悲恸凄然,双目盈泪,继而以哽咽之声开口说道。

Verse 63

न त्वया कामतः पुत्र कृत्यमेतदनुष्ठितम् । न ज्ञानेन कृतं यस्मात्तत्स्मात्स्वल्पं हि पातकम्

孩子,你并非出于欲念而行此事;且既非明知故犯,因此此罪实为轻微。

Verse 64

जानता यत्कृतं पापं तच्चैवाक्षयतां व्रजेत् । न करोति महीपालो यदि तस्य विनिग्रहम्

若明知而造罪,其果报将趋于无尽;倘若国王不加制止并惩治此人,便是如此。

Verse 65

तस्मात्ते कीर्तयिष्यामि प्रायश्चित्तं विशुद्धये । दानं चैव महाभाग येन कुष्ठं प्रणश्यति

因此,我将为你宣说使身心彻底清净的忏悔法(prāyaścitta);并且,吉祥之人啊,也说那种布施,由此麻风(kuṣṭha)得以消灭。

Verse 66

उक्तानि प्रतिषिद्धानि पुनः संभावितानि च । सापेक्षनिरपेक्षाणि मुनिवाक्यान्यशेषतः

诸圣贤的一切言教——所规定者、所禁止者、再度申明者,以及有条件或无条件所说者——皆已在此完整陈述。

Verse 67

तदत्र विषये पुत्र मम वाक्यं समाचर । भविष्यति महच्छ्रेय इह लोके परत्र च

因此,在此事上,孩子啊,当遵行我的教诲;它将在此世与彼世都带来巨大的安乐与福祉。

Verse 68

हाटकेश्वरजे क्षेत्रे विश्वामित्रप्रतिष्ठितः । मार्तण्डोऽस्ति सुविख्यातः सर्वकुष्ठविनाशकः

在圣域哈塔凯湿伐罗(Hāṭakeśvara)之地,有著名的玛尔坦达(太阳神),由毗湿瓦密多(Viśvāmitra)安立;被颂为能灭除一切麻风之主。

Verse 69

सूर्यवारेण सप्तम्यां संप्राप्ते मासि माधवे । नक्षत्रे पितृदैवत्ये शुक्लपक्षे समागते

当星期日恰逢摩陀婆月(毗舍佉月)之第七月日(saptamī),又值由祖灵(Pitṛ)主宰的宿(nakṣatra),并在白半月之时——

Verse 70

भास्करस्योदये प्राप्ते श्रद्धापूतेन चेतसा । शतमष्टोत्तरं यावत्कुरुते च प्रदक्षिणाम्

在婆斯迦罗(太阳神)升起之时,以信心净化其心,当行右绕礼(pradakṣiṇā),至多一百零八匝。

Verse 71

फलैः श्रेष्ठतमैश्चैव तत्प्रमाणैः पृथक्पृथक् । तस्य कुष्ठं विनिर्याति सद्य एव न संशयः

又以最上等的果品,分别依其应有之量而供献,则其人的麻风(kuṣṭha)当即消退——毫无疑虑。

Verse 72

नीरोगः कुरुते यस्तु रवेस्तस्य प्रदक्षिणाः । तावद्युगं पुमानेष सूर्यलोके महीयते

即便是无病之人——若行此对罗毗(太阳)的右绕礼——此人亦将在太阳世界中受尊崇,如其数目之多的劫(yuga)之久。

Verse 73

सूर्यवारेण यो मर्त्यस्तस्य कृत्वा ण्दक्षिणाम् । नमस्करोति सद्भक्त्या सोऽपि रोगैः प्रमुच्यते

凡人在星期日行右绕礼,并以真诚虔敬而顶礼者——他亦得解脱诸病。

Verse 74

तस्मात्त्वं हि महाराज तमाराधय भास्करम् । देवं वै विधिनानेन यो मयोक्तोऽखिलस्तव

因此,伟大的国王啊,你当依此法门礼敬婆斯迦罗(太阳神),此仪轨我已尽数传授于你。

Verse 75

अविकल्पेन मनसा समाराधय सत्वरम् । मुक्तरोगे विपाप्माथ दिब्यदेहमवाप्स्यसि

当以不二之心迅速修敬;脱离疾病与罪垢之后,你将获得天界般的神圣之身。

Verse 76

मा कुरुष्व विषादं त्वं कुष्ठव्याधिसमुद्रवम् । तस्मिन्क्षेत्रे स्थिते देवे कुहराश्रयसंज्ञिते

即便为麻风之苦所逼,也莫生沮丧。在那圣域之中,主神安住,名号为“库哈罗阿湿罗耶”(Kuharāśraya)。

Verse 77

अथ तद्वचनं श्रुत्वा प्रस्थितो विष्णुनन्दनः

于是,听闻此言后,毗湿奴之子便启程而行。

Verse 78

सूत उवाच । एतच्छ्रुत्वा वचस्तस्य देवदेवस्य चक्रिणः । चकार गमने बुद्धियोगं सांबोऽर्बुदं प्रति

苏多说道:萨姆巴听闻那位诸神之神、执轮者的言语后,便在心中决意启行,取道前往阿尔布达(Arbuda)。

Verse 79

ततः शुभेऽहनि प्राप्ते हस्त्यश्वरथसंयुतः । प्रतस्थे स सुतो विष्णोः सेनया परिवारितः

随后,吉日到来之时,毗湿奴之子整备象、马与战车,在大军环护之下启程出发。

Verse 80

अनुयातः सुदूरं च कृष्णेनाक्लिष्टकर्मणा । बाष्पपूर्णे क्षणेनैव सर्वमातृजनेन च

他又被功业不倦的黑天(克里希纳)远远相送,并有族中诸位妇人同往,顷刻之间,泪盈双眸。

Verse 81

बलभद्रेण वीरेण चारुदेष्णेन धीमता । युयुधानानिरुद्धाभ्यां प्रद्युम्नेन च धीमता

又有英勇的巴拉婆陀罗、睿智的恰鲁德什那,以及尤尤陀那与阿尼鲁陀,并有智者普拉丢姆那,一同随行。

Verse 82

ततो जांबवती पुत्रं दृष्ट्वा तीर्थोन्मुखं तदा । गच्छमानं प्रचक्रेऽथ प्रलापान्कुररी यथा

这时,阎婆伐底见其子心向圣地朝礼而将远行,便如鸻鸟(kurarī)般哀啼悲诉。

Verse 83

हा हतास्मि विनष्टास्मि मंदभाग्या ह्यभागिनी । एकोपि तनयो यस्या ममाप्येनां दशां गतः

“哀哉!我如被杀,我已毁灭——命薄无福,真是失却吉祥!我本只有一个儿子,而他也使我落到这般境地。”

Verse 84

अथ तां रुदतीं दृष्ट्वा प्रोवाच मधुसूदनः । किममंगलमेतस्य प्रस्थितस्य करिष्यसि

摩杜苏丹那见她啼哭,便说道:“那已启程之人,你意欲加诸他何等不祥之兆?”

Verse 85

बाष्पपूर्णेक्षणा दीना मुक्तकेशी विशेषतः । एष व्याधिविनिर्मुक्तस्तीर्थयात्राफलान्वितः । कुष्ठव्याधिपरित्यक्तः पुनरेष्यति तेंऽतिकम्

她泪盈双目,凄楚不堪,发髻散乱,哀叹道:“他将脱离诸病,得享朝圣诸圣渡口之果报;舍离麻风之苦,必将再回到你身边。”

Verse 86

एतस्मिन्नंतरे यानादवतीर्य त्वरान्वितः । सांबोऽसौ प्रस्थितस्तत्र यत्र जांबवती स्थिता

就在那时,萨姆巴急切地下了车乘,动身前往阇姆婆伐底所居之处。

Verse 87

स तां प्रणम्य हृष्टात्मा कृतांजलिपुटः स्थितः । प्रणिपत्य विहस्यो च्चैर्वाक्यमेतदुवाच ह

他欢心礼拜于她,合掌而立;继而俯伏顶礼,含笑高声说道如下之语。

Verse 88

मा त्वं मातर्वृथा दुःखमस्मदर्थे करिष्यसि । आगमिष्याम्यहं शीघ्रं तीर्थयात्रां विधाय वै

“母亲啊,莫为我徒然忧伤。我将如法完成对诸圣渡口的朝圣,便会迅速归来。”

Verse 89

जांबवत्युवाच । रक्षतु त्वां वने वत्स सर्वास्ता वनदेवताः । श्वापदेभ्यः पिशाचेभ्यो दुष्टेभ्यः पुत्र सर्वतः

贾姆巴瓦蒂说道:“爱子啊,愿林野诸神在荒林中护佑你——远离猛兽、毗舍遮(piśāca)以及四方一切有害之力。”

Verse 91

जठरं पुंडरीकाक्षः कटिं पातु गदाधरः । जानुनोर्युगलं कृष्णः पादौ च धरणीधरः

“愿莲眼者普恩达利卡克沙护持你的腹部;愿持杵者伽达达拉守护你的腰身;愿克里希纳护佑你的双膝;愿持大地者达拉尼达拉庇护你的双足。”

Verse 92

एवं संस्पृश्य हस्तेन निजेनांगानि तस्य सा । समालिंग्य समाघ्राय मूर्धदेशे मुहुर्मुहुः

于是,她以自己的手抚触他的肢体,继而紧紧拥抱,并一再亲吻他的头顶。

Verse 93

प्रेषयामास तं पुत्रं कृतरक्षं यशस्विनी । सा सर्वांतःपुरीयुक्ता निवृता तदनन्तरम्

那位声名卓著的夫人遂送别其子——已由祝福而得周全护持——随后携内宫诸侍从一同返回。

Verse 94

अश्रुपूर्णेक्षणा दीना निःश्वसन्ती यथोरगी । तथा च भगवान्विष्णुर्यादवैः सकलैः सह

她泪盈双目,神情凄惶,长叹如受苦之蛇。与此同时,吉祥的毗湿奴世尊亦与一切夜陀婆众同被忧伤所笼罩。

Verse 95

प्रविष्टो द्वारकापुर्या सांबं प्रोष्य ततः परम् । अश्रुपूर्णेक्षणो दीनो बलभद्रपुरःसरः

送走萨姆巴之后,他进入了德瓦拉卡城;双眼盈满泪水,心中沉重——巴拉巴德拉走在他前方引领。

Verse 96

पुत्रैः पौत्रैस्तथा मित्रैर्बांधवैरपरैरपि । द्वारकाया विनिष्क्रम्य सांबोऽपि द्विजसत्तमाः

噢,最尊贵的两次生者啊,萨姆巴也离开了德瓦拉卡,带着儿子、孙子、朋友以及其他亲族一同出发。

Verse 97

संप्राप्तश्च क्रमेणाथ सिंधुसागरसंगमे । यत्र योगीश्वरः साक्षादंबरीषप्रतिष्ठितः

随后循序而行,他来到江河入海的汇合处——在那里,瑜伽之主优吉湿瓦拉(作为瑜伽行者之主的毗湿奴)亲自显现,由安婆利沙王在此建立供奉。

Verse 98

अद्यापि तिष्ठते विष्णुर्जंतूनां पापनाशनः । तत्र स्नात्वा समभ्यर्च्य देवं योगीश्वरं ततः

直至今日,毗湿奴仍安住于彼处,能灭除众生之罪。于彼沐浴之后,又如法礼敬供奉神圣的瑜伽之主优吉湿瓦拉——

Verse 99

ददौ दानानि विप्रेभ्यो नानारूपाणि शक्तितः । दीनांधकृपणेभ्यश्च तथैवान्येभ्य एव च

他又依自身能力,向婆罗门施与种种布施;同样也施予贫者、盲者与困苦之人——并及于其他众人。

Verse 100

यानानि वस्त्ररत्नानि यद्यच्च येन वांछितम् । स त्रिरात्रं हरेः पुत्रः स्थित्वा तत्र समाहितः

车乘、衣服、珍宝——凡人所愿求的一切,皆蒙赐与。随后,哈利之子在彼处住了三夜,心神专注,内自摄持而安住。

Verse 110

तत्र क्षणेऽभवत्तस्य चित्ते सांबस्य धीमतः । मुक्तोऽहं कुष्ठरोगेण निर्विकल्पं द्विजोत्तमाः

就在那一刹那,智者萨姆巴心中生起明净的决断:“噢诸位最上之二生者,我已从麻风之疾得解脱,毫无疑惑。”

Verse 116

सूत उवाच । एतद्वः सर्वमाख्यातं विश्वामित्रीयमुत्तमम् । चतुर्थं च पुण्यतीर्थं स्त्रीणां चैव शुभावहम्

苏多说道:“这一切我都已为你们宣说——最殊胜的《毗湿瓦密特里耶功德记》。此乃第四处圣洁的渡口(tīrtha),亦尤为赐福于妇女。”

Verse 213

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रीयमाहात्म्ये कुहरवासिसांबादित्यप्रभाववर्णनंनाम त्रयोदशोत्तरद्विशततमोऽध्यायः

至此,在《圣·斯坎达摩诃补罗那》之《八万一千颂集》(Ekāśītisāhasrī Saṃhitā)中,第六部《那伽罗分卷》(Nāgara Khaṇḍa)里,于哈塔凯湿瓦拉圣域功德记之《毗湿瓦密特里耶功德记》中,名为“居于洞窟之萨姆巴阿底提亚的威力与荣光之描述”的第二一三章圆满结束。