Adhyaya 194
Nagara KhandaTirtha MahatmyaAdhyaya 194

Adhyaya 194

本章由苏多(Sūta)以对话体展开神学阐释。开篇诸天与圣贤共同印证:凡人若先礼拜梵天(Brahmā),继而敬奉女神(Devī),便可得至最高境界;并提及现世善果,尤其妇女若行恭敬之事——包括向伽耶特丽(Gāyatrī)致礼——则婚姻与家宅皆得吉祥。 诸仙(ṛṣi)继而质疑时间次第,并请明示梵天、毗湿奴(Viṣṇu)与商羯罗(Śaṅkara)的寿量。苏多以严密的时间阶梯作答:自truṭi、lava等微细单位上推,至日—月—季—年之结构,并以人间年数说明诸劫(yuga)长短;又阐释天界“日”“年”的尺度,引入以呼吸计数(niśvāsa/ucchvāsa)之法,终至宣说常住湿婆(Sadāśiva)为“不坏”(akṣaya)。 圣贤提出解脱之疑:若大神亦随寿量而终,短命之人何以言摩克沙(mokṣa)?苏多宣示无始、超越数目之时间(kāla)教义,并断言无量众生乃至诸天,皆以信与行所成的梵知(brahmajñāna)而得解脱。他区分可反复招感天界之祭祀,与能断轮回之梵知,强调智慧在多生中渐次积累。 最后,苏多转述父亲所授之教:于哈塔凯湿伐罗圣域(Hāṭakeśvara-kṣetra)有两处吉祥圣渡(tīrtha),由两位童女(kumārī)建立(一为婆罗门女brāhmaṇī,一为首陀罗女śūdrī)。若于阿湿塔弥(Aṣṭamī)与恰图尔达湿(Caturdaśī)沐浴其间,并礼拜藏于坑穴中的著名“成就之足履”(Siddhi-Pādukā),守持一年之行仪后,梵知便会生起。诸仙欣然受教,决意依教奉行。

Shlokas

Verse 1

सूत उवाच । एवं सा तान्वरान्दत्त्वा सर्वेषां शापभागिनाम् । मौनव्रतपरा भूत्वा निविष्टाऽथ धरातले

苏多说道:就这样,她向一切承受诅咒重担者赐予恩愿之后,便专心守持“默誓”,继而端坐于大地之上。

Verse 2

ततो देवगणाः सर्वे तापसाश्च महर्षयः । साधुसाध्विति तां प्रोच्य ततः प्रोचुरिदं वचः

随后,诸天众神与诸苦行者、诸大圣仙齐声赞叹她:“善哉!善哉!”继而又说出如下言辞。

Verse 3

एतां देवीप्रसादेन ब्राह्मणानां विशेषतः । पूजयिष्यंति मर्त्येऽत्र सर्वे लोकाः समाहिताः

承蒙女神的恩泽,凡在人世间的一切众生——尤其是婆罗门——都将于此以专注之心礼敬供奉她。

Verse 4

ब्रह्माणं पूजयित्वा तु पश्चादेनां सुरेश्वरीम् । पूजयिष्यंति ये मर्त्यास्ते तु यांति परां गतिम्

凡诸凡人先礼敬梵天(Brahmā),继而礼敬此天众之女王者,必得至于无上境界。

Verse 5

या कन्या पतिसंयोगं संप्राप्यात्र समाहिता । ततः पादप्रणामं च गायत्र्याश्च करिष्यति । पतिं प्रजापतिं प्राप्य सा भविष्यत्यसंशयम्

凡有少女既得与夫君结为伉俪,复以坚定之心来到此处,继而在伽耶特丽(Gāyatrī)足下顶礼者,必无疑得如生主(Prajāpati)般的夫君。

Verse 6

सर्वकामसुखोपेता धनधान्यसमन्विता । या नारी दुर्भगा वंध्या भविष्यति च शोभना

那不幸而不孕的女子,将变得端丽吉祥——具足能成就一切愿望的安乐,并富有财宝与五谷丰盈。

Verse 7

ऋषय ऊचुः । यदेतद्भवता प्रोक्तं गते पंचोत्तरे शते । पद्मजानां हरः प्रादादेतत्कथमनुत्त मम्

诸仙人说道:你所宣说的关于一百零五(时分/岁数)已过之事——说哈罗(湿婆)将此赐予莲华所生者(梵天及其族系)——这最殊胜之义当如何领会?

Verse 8

ब्राह्मणेभ्यः स संतुष्टः किंवाऽन्योऽस्ति महेश्वरः । एतं नः संशयं भूयो यथावद्वक्तुमर्हसि

若他确实悦纳婆罗门众,那么除他之外还有别的摩醯湿伐罗(大自在天、主宰)吗?请再一次为我们除去疑惑,如实而正当地开示。

Verse 9

आयुष्यं शंकरस्यापि यत्प्रमाणं तथा हरेः । ब्रह्मणोऽपि समाचक्ष्व परं कौतूहलं हि नः

请告诉我们:商羯罗(湿婆)的寿量如何,哈利(毗湿奴)的寿量如何,以及梵天的寿量如何——因为我们怀着最深切的求知之心。

Verse 10

सूत उवाच । अहं वः कीर्तयिष्यामि विस्तरेण द्विजोत्तमाः । त्रयाणामपि चायुष्यं यत्प्रमाणं व्यवस्थितम्

苏多说道:噢,诸位最胜的两生者啊,我将为你们详尽宣说那三位(神祇)寿量的既定尺度。

Verse 11

निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः । लवद्वयं कला प्रोक्ता काष्ठा तु दशपंचभिः

据说,truṭi 为 nimeṣa 的四分之一;两 truṭi 合为一 lava。两 lava 称为一 kalā;而一 kāṣṭhā 由十五个 kalā 构成。

Verse 12

त्रिंशत्काष्ठां कलामाहुः क्षणस्त्रिंशत्कलो मतः । मुहूर्तमानं मौहूर्ता वदंति द्वादशक्षणम्

他们说,三十个 kāṣṭhā 合为一 kalā;一 kṣaṇa 计为三十个 kalā。精通 muhūrta 计时者又言:一 muhūrta 由十二个 kṣaṇa 构成。

Verse 13

त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः । मासस्त्रिंशदहोरात्रैर्द्वौ मासावृतुसंज्ञितः

智者宣说:一昼夜(ahorātra)由三十个 muhūrta 组成。一个月含三十个昼夜;两个月称为一季(ṛtu)。

Verse 14

ऋतुत्रयं चायनं च अयने द्वे तु वत्सरम् । दैविकं च भवेत्तच्च ह्यहोरात्रं द्विजोत्तमाः

三季合为一 ayana;两 ayana 成为一年。而此一年即为诸天的昼夜(daivika),噢,最胜的两生者(dvija)啊。

Verse 15

उत्तरं चायनं तत्र दिनं रात्रिस्तथाऽपरम् । लक्षैः सप्तदशाख्यैस्तु मनुष्याणां च वत्सरैः

在那里,uttarāyaṇa 为“昼”,而另一段(dakṣiṇāyaṇa)为“夜”。此天界昼夜以人间十七 lakṣa(十七×十万)年为度量。

Verse 16

अष्टाविंशतिभिश्चैव सहस्रैस्तु तथा परैः । आद्यं कृतयुगं चैव तद्भ विष्यति सद्द्विजाः

以二万八千年,并加上其余增年,如是确定最初之世——克利塔瑜伽(Kṛtayuga),噢高贵的二生者。

Verse 17

ततो द्वादशभिर्लक्षैः षोडशानां सहस्रकैः । त्रेतायुगं समादिष्टं द्वितीयं द्विजसत्तमाः

继而以十二洛叉(lakṣa)并一万六千年,宣示第二世——特雷塔瑜伽(Tretāyuga),噢二生者中最胜者。

Verse 18

द्वापरं चाष्टभिर्लक्षैस्तृ तीयं परिकीर्तितम् । चतुःषष्टिसहस्रैस्तु यथावत्परिसंख्यया

兜婆罗(Dvāpara)被称为第三世,量为八洛叉年;并当依次如法计数,再加六万四千年为其应有的增量。

Verse 19

चतुर्लक्षं समादिष्टं युगं कलिसमुद्भवम् । द्वात्रिंशता सहस्रैस्तु चतुर्थं तद्विदुर्बुधाः

迦利世(Kali-yuga)作为迦利之劫而兴起,被规定为四洛叉年;并加三万二千年,智者知其为次第中的第四世。

Verse 21

ब्रह्मा तेषां शतं यावत्स जीवति पितामहः । सांप्रतं चाष्टवर्षीयः षण्मासश्चैव संस्थितः

在这些量度之中,梵天(Brahmā)——祖父(Pitāmaha)——寿至一百(如是之量)。而今依此天界之算,他已安住于满八年又六个月之时。

Verse 22

प्रतिपद्दिवसस्यास्य प्रथमस्य तथा गतम् । यामद्वयं शुक्रवारे वर्तमाने महात्मनः

在此朔分初一(Pratipad)之首日,已过两更(yāma);如今正值星期五,噢大德。

Verse 23

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते

以梵天(Brahmā)之一年为量,称之为“毗湿奴派之日(Vaiṣṇava day)”。

Verse 24

सोपि वर्षशतंयावदात्ममानेन जीवति । पंचपचाशदादिष्टास्तस्य जातस्य वत्सराः

他亦依自身之量而寿至百年;而对已出生者,则宣说其五十五年已被定分。

Verse 25

तिथयः पंच यामार्द्धं सोमवारेण संगतम् । वैष्णवेन तु वर्षेण दिनं माहेश्वरं भवेत्

五个提提(tithi)并半更(yāma),与星期一相合——依毗湿奴派之年为量——便成为“摩醯湿伐罗之日(Māheśvara day)”。

Verse 26

शिवो वर्षशतं यावत्तेन रूपेण च स्थितः । यावदुच्छ्वसितं वक्त्रं सदाशिवसमुद्भवम्

湿婆以彼形相安住百年——只要那由常住湿婆(Sadāśiva)所生之面所出的呼气仍在延续。

Verse 27

पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् । निश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम्

其后,他趋近圣力女神Śakti,直至吸气仍在延续;因为一切具身众生皆有吸与呼。

Verse 28

ब्रह्मविष्णुशिवानां च गन्धर्वोरगरक्षसाम् । एकविंशत्सहस्राणि शतैः षड्भिः शतानि च

就梵天Brahmā、毗湿奴Viṣṇu与湿婆Śiva,以及乾闼婆Gandharva、那伽Nāga与罗刹Rākṣasa而言,(其数)为二万一千,并加六百,且依所述次第另有若干百数。

Verse 29

अहोरात्रेण चोक्तानि प्रमाणे द्विज सत्तमाः । षड्भिरुच्छ्वासनिश्वासैः पलमेकं प्रवर्तते

噢,最胜的二生者啊,时间的度量亦以昼夜而说:以六次呼与吸,计为一帕拉(pala)。

Verse 30

नाडी षष्टिपला प्रोक्ता तासां षष्ट्या दिनं निशा । निश्वासोच्छ्वसितानां च परिसंख्या न विद्यते । सदाशिवसमुत्थानामेतस्मात्सोऽक्षयः स्मृतः

一那底(nāḍī)宣说为六十帕拉(pala);以六十那底成就一昼一夜。然而吸与呼的总数并无定数。因此,从常住湿婆Sadāśiva所生者,被忆念为“akṣaya”——不坏不尽。

Verse 31

अन्येऽपि ये प्रगच्छंति ब्रह्मज्ञानसमन्विताः । अक्षयास्तेऽपि जायंते सत्यमेतन्मयोदितम्

其余诸人亦然:凡前行而具足梵Brahman之智者,彼等亦成“akṣaya”——不坏不尽。此乃真实,为我所宣说。

Verse 32

ऋषय ऊचुः । यद्येवं सूतपुत्रात्र ब्रह्मविष्णुमहेश्वराः । आत्मवर्षशते पूर्णे यांति नाशमसंशयम्

诸仙人说道:“若果真如此,噢苏多之子,那么梵天、毗湿奴与大自在天(摩醯湿伐罗)——当他们自身的一百年圆满之时——必定归于消融,无有疑惑。”

Verse 33

तत्कथं मानुषाणां च मर्त्यलोकेल्पजीविनाम् । कथयंति च ये मुक्तिं विद्वांसश्चैव सूतज

那么,噢苏多之子,既然人类在死界短命,诸位智者又怎会谈论人得解脱之道呢?

Verse 34

नूनं तेषां मृषा वादो मोक्षमार्गसमु द्भवः

想来,他们所生起的关于解脱之道的言说,必是虚妄。

Verse 35

सूत उवाच । अनादिनिधनः कालः संख्यया परिवर्जितः । असंख्याता गता मोक्षं ब्रह्मविष्णुमहेश्वराः

苏多说道:“时间无始无终,超越计数。无量无数的梵天、毗湿奴与大自在天(摩醯湿伐罗)已趋入解脱。”

Verse 36

निजे वर्षशते पूर्णे वालुकारेणवो यथा । निजमानेन या श्रद्धा ब्रह्मज्ञानसमुद्भवा । तेषां चेन्मानुषाणां च तन्मुक्तिः स्यादसंशयम्

正如自身百年圆满之时,沙粒可被计数;同样地——依各自之量——由梵(Brahman)之智所生的信心:若此信亦在人间具足,则他们的解脱必将成就,毫无疑惑。

Verse 37

यथैते दंशमशका मानुषाणां च कीटकाः । जायंते च म्रियंते च गण्यंते नैव कुत्रचित् । इन्द्रादीनां तथा मर्त्याः संभाव्या जगतीतले

正如在人间的蠓虫、蚊子及诸般昆虫,生而复死,却无处能真正计数;同样,在大地之上,凡夫相对于因陀罗等天主,应被视为无量而微不足道。

Verse 38

देवानां च यथा मर्त्याः कीटस्थाने च संस्थिताः । तथा देवा अपि ज्ञेया ब्रह्मणोऽव्यक्तजन्मनः

正如凡人相对于诸天,处于如同昆虫之位;同样,诸天相对于梵(Brahman)——其本源不显——亦当如是了知。

Verse 39

ब्रह्मणस्तु यथा देवाः कीटस्थाने व्यवस्थिताः । तथा ब्रह्मापि विष्णोश्च कीटस्थाने व्यवस्थितः

正如诸天相对于梵天(Brahmā)处于如虫之位;同样,梵天自身相对于毗湿奴(Viṣṇu)亦处于同样的如虫之位。

Verse 40

पितामहो यथा विष्णोः कीटस्थाने व्यवस्थितः । तथा स शिवशक्तिभ्यां पीरज्ञेयो द्विजो त्तमाः

正如祖父神(梵天 Brahmā)相对于毗湿奴(Viṣṇu)被置于如虫之位;同样,噢最胜的二生者,当知他相对于湿婆(Śiva)与圣力(Śakti)亦处于同样的卑下之位。

Verse 41

यथा विष्णुः कृमिर्ज्ञेयस्ताभ्यामेव द्विजोत्तमाः । सदाशिवस्य विज्ञेयौ तथा तौ कृमिरूपकौ

同样,噢最胜的二生者,当知即便毗湿奴(Viṣṇu)相对于那二者(湿婆 Śiva 与圣力 Śakti)也如同一虫。并且那二者相对于常住湿婆(Sadāśiva),亦当了知为“虫形”——意谓其差距不可思量。

Verse 42

एवं च विविधैर्यज्ञैः श्रद्धा पूतेन चेतसा । ब्रह्मज्ञानात्परं यांति सदाशिवसमुद्भवम्

如是,以信心净化之心修行种种祭祀,彼等超越仅止于仪式之果报;由梵智(Brahma-jñāna)而证得从常住湿婆(Sadāśiva)流出的至上境界。

Verse 43

अग्निष्टोमादिभिर्यज्ञैः कृतैः संपूर्णदक्षिणैः । तदर्थं ते दिवं यांति भुक्त्वा भोगान्पृथग्विधान्

以阿耆尼什多摩(Agniṣṭoma)等诸祭,且如法圆满奉献达克希那(dakṣiṇā,供施),彼等为此仪轨之目的而升天,在彼处享受种种差别之乐。

Verse 44

क्षये च पुनरायांति सुकृतस्य महीतले । ब्रह्मज्ञानात्परं प्राप्य पुनर्जन्म न विद्यते

当彼等福业耗尽,便再度回到大地;然若以梵智(Brahma-jñāna)证得至上,则不复有再生。

Verse 45

तस्मात्सर्वप्रयत्नेन तत्राभ्यासं समा चरेत् । जन्मभिर्बहुभिः पश्चाच्छनैर्मुक्तिमवाप्नुयात्

是故,当竭尽诸般努力,于彼处恒常修习此道;历经多生之后,渐次得证解脱(mukti)。

Verse 46

एकजन्मनि संप्राप्तो लेशो ज्ञानस्य तस्य च । द्वितीये द्विगुणस्तस्य तृतीये त्रिगु णो भवेत्

若于一生仅得彼智之一微分,则于第二生增为两倍;至第三生则成三倍。

Verse 47

एकोत्तरो भवेदेवं सदा जन्मनिजन्मनि

如是每一次都增上一分——恒常如此,生生世世。

Verse 48

ऋषय ऊचुः । ब्रह्मज्ञानस्य संप्राप्तिर्मर्त्यानां जायते कथम् । एतन्नः सर्वमाचक्ष्व यदि त्वं वेत्सि सूतज

诸仙人说道:“凡人如何得证梵智(Brahma-jñāna)?若汝知之,噢苏多之子,请为我等尽说。”

Verse 49

सूत उवाच । का शक्तिर्मम वक्तव्ये ज्ञाने मर्त्यसमुद्भवे । स्वयमेव न यो वेत्ति स परस्य वदेत्कथम्

苏多说道:“我有何能力谈论那在人间生起的智慧?若自身尚不知晓,又怎能为他人解说?”

Verse 50

उपदेशः परं यो मे पित्रा दत्तो द्विजोत्तमाः । तमहं वः प्रवक्ष्यामि ब्रह्मज्ञानसमुद्भवम्

噢诸位最胜的再生者,我将为你们宣说父亲赐予我的至上教诲——能令梵智(Brahma-jñāna)生起之教诲。

Verse 51

हाटकेश्वरजे क्षेत्रे ह्यस्ति तीर्थद्वयं शुभम् । कुमारिकाभ्यां विहितं ब्रह्मज्ञानप्रदं नृणाम्

诚然,在哈塔凯湿伐罗的圣域中有两处吉祥的圣渡处(tīrtha),由两位少女所建立,能赐予众人梵智(Brahma-jñāna)。

Verse 52

ब्राह्मण्या चैव शूद्र्या च कुमारीभ्यां विनिर्मितम् । अष्टम्यां च चतुर्दश्यां यस्ताभ्यां स्नानमाचरेत्

此处由两位少女所造——一位为婆罗门女,一位为首陀罗女;凡于月之第八日与第十四日到此沐浴者,即成就所规定之清净行持。

Verse 53

पश्चात्पूजयते भक्त्त्या प्रसिद्धे सिद्धिपादुके । सुगुप्ते गर्तमध्यस्थे कुमार्या परिपूजिते

其后,当以虔敬礼拜著名的“悉地·帕杜卡”(成就之履)——深藏不露,安置于穴凹之中,并为那少女所圆满供奉。

Verse 54

तस्य संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते । शक्त्या विनिहिते ते च स्वदर्शनविवृद्धये

至彼一年圆满之时,梵知(Brahma-jñāna)于其心中生起。且彼等圣物乃由圣力女神(Śakti)安置于此,为增长其自身之神圣观见(达尔善)与显现。

Verse 55

लोकानां मुक्तिकामानां ब्रह्मज्ञानसुखावहे । मम तातो गतस्तत्र ततश्च ज्ञानवान्स्थितः

对于渴求解脱之众,此处带来梵知之乐。吾父曾往彼处,自此安住为有知者。

Verse 56

तस्यादेशादहं तत्र गतः संवत्सरं स्थितः । पादुके पूजयामास ततो ज्ञानं च संस्थितम्

奉其教命,我往彼处住满一年。我礼敬帕杜卡圣履,于是智慧在我心中坚固安住。

Verse 57

यत्किञ्चिद्वा श्रुतं लोके पुराणाग्र्यं व्यवस्थितम् । वर्तमानं भविष्यच्च तदहं वेद्मि भो द्विजाः

世间凡所闻者,以及至上《往世书》中所确立者——无论关乎当下或未来——这一切我皆知晓,噢诸位二次生者。

Verse 58

तत्प्रसादादसंदिग्धं प्रमाणं चात्र संस्थितम् । मुक्त्वैकं वेदपठनं सूतत्वं च यतो मयि

承其恩典,此处已确立无可置疑的权威与凭证。唯有一事我所欠缺——诵读吠陀——因为我具足的是苏多(Sūta)之位分。

Verse 59

तस्यापि वेद्मि सर्वार्थं भर्तृयज्ञो यथा मुनिः । अस्मादत्रैव गच्छध्वं यदि मुक्तेः प्रयोजनम्

“那一切的旨趣我亦尽知,正如圣者婆尔特利耶阇那(Bhartṛyajña)一般。因此,若你们的所求确为解脱,就当即刻离此而去。”

Verse 60

किमेतैः स्वर्गदैः सत्रैः पुनरावृत्तिकारकैः । आराधयध्वं ते गत्वा पादुके सिद्धिदे नृणाम् । येन संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते

“这些祭会虽能得天界,却又招致再返轮回,有何用处?你们当去礼敬那圣履(Pādukā),它为人间赐予成就;由此,于一年终了之时,梵(Brahman)之智便会生起。”

Verse 61

ऋषय ऊचुः । साधुसाधु महाभाग ह्युपदेशः कृतो महान् । तेन संतारिताः सर्वे वयं संसारसागरात्

诸圣仙说道:“善哉,善哉,噢大福德者!你确已开示了伟大的教诲。凭此,我们众人皆得渡越生死轮回之海。”

Verse 62

यास्यामोऽपि वयं तत्र सत्रे द्वादशवार्षिके । समाप्तेऽस्मिन्न संदेहः सर्वे च कृतनिश्चयाः

我们也将前往那里,赴那持续十二年的祭祀会(萨特拉)。待此议论终了,毫无疑虑——我们众人皆已立下坚定之志。

Verse 194

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मज्ञानप्राप्त्यर्थं कुमारिकातीर्थद्वयगर्तक्षेत्रस्थपादुकामाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः

如是,于《圣·斯坎达摩诃往世书》之《八万一千颂集》(Ekāśīti-sāhasrī Saṃhitā)中,第六部《那伽罗分卷》(Nāgara-khaṇḍa),在哈塔凯湿伐罗圣域(Hāṭakeśvara-kṣetra)之功德赞(Māhātmya)内——此为第194章,名曰:《为得梵智(Brahma-jñāna),叙述位于双坑之地(Dvaya-garta)之帕杜卡(Pādukā)及一对童女圣渡(Kumārikā-tīrtha)之伟大功德》。