Adhyaya 181
Nagara KhandaTirtha MahatmyaAdhyaya 181

Adhyaya 181

第181章(《那伽罗分部》)叙述哈塔凯湿伐罗圣域(Hāṭakeśvara-kṣetra)内关于祭仪合法性的法理—神学争论。那伽罗婆罗门因被绕过而愤怒,派遣玛底耶伽(Madhyaga)为使者,前去质问正在以外地祭官(ṛtvik)主持祭祀(yajña)的梵天(Brahmā,Padmajā)。那伽罗人主张其世袭权利:凡排除他们而行的仪式皆为无效;经文并将此规定追溯到早先的“圣域施与”(kṣetra-dāna),其疆界已被明确划定。梵天以和解之辞回应,承认程序之失,并立下规则:在此地若行 yajña/śrāddha 而不纳那伽罗人参与,则功果尽失;反之,那伽罗人在圣域之外所行诸仪亦不生效——形成相互约束的管辖。 随后叙事转向尽速完成祭祀的紧迫:萨维特丽(Savitrī)迟迟未至,先遣那罗陀(Nārada),继遣普罗萨底耶(Pulastya)前往迎请。时限逼迫之际,因陀罗(Indra)带来一位牧牛少女(gopa-kanyā),以仪轨净化并转化,使其具备与梵天成婚之资格。诸天与权威者(包括鲁陀罗 Rudra 与婆罗门)认可她即为“伽耶特丽”(Gāyatrī),遂举行婚礼以确保 yajña 圆满。章末以圣地功德颂(tīrtha-phalāśruti)作结:此处被赞为吉祥、赐福与兴盛之地;在此行结手礼、施食团(piṇḍa-dāna)与施女(kanyā-dāna)等,皆得倍增功德。

Shlokas

Verse 1

सूत उवाच । एतस्मिन्नंतरे सर्वेर्नागरैर्ब्राह्मणोत्तमैः । प्रेषितो मध्यगस्तत्र गर्तातीर्थसमुद्भवः

苏多(Sūta)曰:其间,那城中一切卓越的婆罗门,遣派“中行者”摩地耶伽(Madhyaga)——由伽尔塔圣渡(Gartā‑tīrtha)之灵圣所生——前往彼处为使者。

Verse 2

रेरे मध्यग गत्वा त्वं ब्रूहि तं कुपितामहम् । विप्रवृत्ति प्रहंतारं नीतिमार्गविवर्जितम्

去吧,去吧,噢 Madhyaga——告诉他我已震怒:他毁坏婆罗门的清净行持,背弃正当的尼提之道与自制之途。

Verse 3

एतत्क्षेत्रं प्रदत्तं नः पूर्वेषां च द्विजन्मनाम् । महेश्वरेण तुष्टेन पूरिते सर्पजे बिले

此圣域赐予我等及我等历代“二生者”(dvija)祖先——乃大自在天(Maheśvara)欢喜之时,填平蛇生之窟,使此地安稳而堪用。

Verse 4

तस्य दत्तस्य चाद्यैव पितामहशतं गतम् । पंचोत्तरमसन्दिग्धं यावत्त्वं कुपितामह

因那份施赐,直至今日,整整一百零五代祖先已无疑得解脱——只要你这位震怒的先祖得以安抚、心生欢悦。

Verse 5

न केनापि कृतोऽस्माकं तिरस्कारो यथाऽधुना । त्वां मुक्त्वा पापकर्माणं न्यायमार्गविवर्जितम्

从未有人像如今这般轻蔑我等——唯有你,这造作罪业者,背弃了正义之道。

Verse 6

नागरैर्ब्राह्मणैर्बाह्यं योऽत्र यज्ञं समाचरेत् । श्राद्धं वा स हि वध्यः स्यात्सर्वेषां च द्विजन्मनाम्

凡在此地行祭祀,乃至行施食追荐之 śrāddha,而将那伽罗婆罗门排除在外者,确当为一切二生者所惩戒。

Verse 7

न तस्य जायते श्रेयस्तत्समुत्थं कथंचन । एतत्प्रोक्तं तदा तेन यदा स्थानं ददौ हि नः

由那不正之行,丝毫不会生起吉祥功德。此乃彼于当时所宣说者,即在赐予我们此处之际。

Verse 8

तस्माद्यत्कुरुषे यज्ञं ब्राह्मणैर्नागरैः कुरु । नान्यथा लप्स्यसे कर्तुं जीवद्भिर्नागरैर्द्विजैः

是故,汝所修一切祭祀(yajña),当与那伽罗婆罗门同作。否则,只要那伽罗之二生者尚在世,汝便不得获准举行。

Verse 9

एवमुक्तस्ततो गत्वा मध्यगो यत्र पद्मजः । यज्ञमण्डपदूरस्थो ब्राह्मणैः परिवारितः

既受如是告诫,他便前往中央之处,莲生者(梵天 Brahmā)所在——立于祭坛之亭稍远处,周遭为婆罗门所环侍。

Verse 10

यत्प्रोक्तं नागरैः सर्वैः सविशेषं तदा हि सः । तच्छ्रुत्वा पद्मजः प्राह सांत्वपूर्वमिदं वचः

莲生者(梵天 Brahmā)详尽听闻诸那伽罗所陈之后,便先以抚慰之意,说出如下言辞。

Verse 11

मानुषं भावमापन्न ऋत्विग्भिः परिवारितः । त्वया सत्यमिदं प्रोक्तं सर्वं मध्यगसत्तम

纵然我示现人间之态,且为诸祭官(ṛtvij)所环绕,然汝所言一切皆真实无差;噫,居于中央者中之最胜者。

Verse 12

किं करोमि वृताः सर्वे मया ते यज्ञकर्मणि । ऋत्विजोऽध्वर्यु पूर्वा ये प्रमादेन न काम्यया

“我当如何是好?因为那些祭司——以阿德瓦律尤(adhvaryu)为首——都已被我请来承担祭祀之业;这是因疏忽,并非出于刻意之愿。”

Verse 13

तस्मादानय तान्सर्वानत्र स्थाने द्विजोत्तमान् । अनुज्ञातस्तु तैर्येन गच्छामि मखमण्डपे

“因此,把那些最上等的婆罗门都带到此处来;待他们允准之后,我便前往祭坛之殿(mukha-maṇḍapa)。”

Verse 14

मध्यग उवाच । त्वं देवत्वं परित्यज्य मानुषं भावमाश्रितः । तत्कथं ते द्विजश्रेष्ठाः समागच्छंति तेंऽतिकम्

Madhyaga 说道:“你已舍离天神之位而取人身。既如此,那些卓越的婆罗门又怎会来到你近前聚集?”

Verse 15

श्रेष्ठा गावः पशूनां च यथा पद्मसमुद्भव । विप्राणामिह सर्वेषां तथा श्रेष्ठा हि नागराः

噢,莲华所生者(梵天)!正如牛在诸兽之中为最上,同样,在此一切婆罗门之中,纳伽罗(Nāgara)婆罗门确为最尊最胜。

Verse 16

तत्माच्चेद्वांछसि प्राप्तिं त्वमेतां यज्ञसंभवाम् । तद्भक्त्यानागरान्सर्वान्प्रसादय पितामह

因此,若你愿得此由祭祀而生的成就,噢,祖父(梵天)啊,当以虔敬之心,求得一切纳伽罗(Nāgara)之人的慈恩与欢喜。

Verse 17

सूत उवाच । तच्छ्रुत्वा पद्मजो भीत ऋत्विग्भिः परिवारितः । जगाम तत्र यत्रस्था नागराः कुपिता द्विजाः

苏多说道:闻此言后,莲华所生者(梵天)心生畏惧,在诸祭司围绕之下,前往那处——忿怒的那伽罗婆罗门所站立之地。

Verse 18

प्रणिपत्य ततः सर्वान्विनयेन समन्वितः । प्रोवाच वचनं श्रुत्वा कृतांजलिपुटः स्थितः

随后,他以谦卑之心向众人顶礼,合掌恭立;聆听之后,便开口陈辞。

Verse 19

जानाम्यहं द्विजश्रेष्ठाः क्षेत्रेऽस्मिन्हाट केश्वरे । युष्मद्बाह्यं वृथा श्राद्धं यज्ञकर्म तथैव च

“我知晓,噢最胜婆罗门,在此哈塔凯湿伐罗的圣域中,凡不依你们而行的一切施食祭(śrāddha)与一切祭祀之业(yajña),皆成徒然无果。”

Verse 20

कलिभीत्या मयाऽनीतं स्थानेऽस्मिन्पुष्करं निजम् । तीर्थं च युष्मदीयं च निक्षेपोऽ यंसमर्पितः

“因畏惧迦梨之世,我将自有的普什迦罗带至此处;而此一寄托——此一圣地(tīrtha)的托付——我已奉献给你们,使之归于你们。”

Verse 21

ऋत्विजोऽमी समानीता गुरुणा यज्ञसिद्धये । अजानता द्विजश्रेष्ठा आधिक्यं नागरात्मकम्

“这些祭司是我师长为成就祭祀而带来;然而,噢最胜婆罗门,他们并不知晓那伽罗所具的更高殊权。”

Verse 22

तस्माच्च क्षम्यतां मह्यं यतश्च वरणं कृतम् । एतेषामेव विप्राणामग्निष्टोमकृते मया

因此,请宽恕我;我为阿耆尼什托摩(Agniṣṭoma)祭,从这些婆罗门之中作了拣选。

Verse 23

एतच्च मामकं तीर्थं युष्माकं पापनाशनम् । भविष्यति न सन्देहः कलिकालेऽपि संस्थिते

而我这处圣渡口将成为你们罪业的摧灭者——毫无疑问——即便在迦梨时代亦常住灵验。

Verse 24

ब्राह्मणा ऊचुः । यदि त्वं नागरैर्बाह्यं यज्ञं चात्र करिष्यसि । तदन्येऽपि सुराः सर्वे तव मार्गानुयायि नः । भविष्यन्ति तथा भूपास्तत्कार्यो न मखस्त्वया

婆罗门们说道:“若你在此行祭而将那伽罗人排除在外,则诸天也将效法你的先例;诸王亦将如此。故此,此等祭祀不当由你举行。”

Verse 25

यद्येवमपि देवेश यज्ञकर्म करिष्यसि । अवमन्य द्विजान्सर्वाक्षिप्रं गच्छास्मदंतिकात्

“即便如此,噢诸天之主,若你仍执意行祭,则——既已羞辱一切婆罗门——请速速离开我们面前。”

Verse 26

ब्रह्मोवाच । अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति । श्राद्धं वा नागरैर्बाह्यं वृथा तत्संभविष्यति

梵天说道:“自今日起,凡在此行祭——或行施食追荐之 śrāddha——而排除那伽罗者,其所作皆将徒然无果。”

Verse 27

नागरोऽपि च यो न्यत्र कश्चिद्यज्ञं करिष्यति । एतत्क्षेत्रं परित्यज्य वृथा तत्संभविष्यति

即便是那伽罗之人——若有人舍弃此神圣圣域而在他处行祭(yajña)——其祭祀亦将徒然无功。

Verse 28

मर्यादेयं कृता विप्रा नागराणां मयाऽधुना । कृत्वा प्रसादमस्माकं यज्ञार्थं दातुमर्हथ । अनुज्ञां विधिवद्विप्रा येन यज्ञं करोम्यहम्

婆罗门诸位,我今已为那伽罗众立下此界限之法。故请垂慈示恩,施与我等为祭(yajña)所需之物。又请诸婆罗门依正仪赐予正式许可,使我得以举行此祭。

Verse 29

सूत उवाच । ततस्तैर्ब्राह्मणैस्तुष्टैरनुज्ञातः पितामहः । चकार विधिवद्यज्ञं ये वृता ब्राह्मणाश्च तैः

苏多曰:其后,彼等婆罗门心生欢喜而予以许可,毗多摩诃(梵天)遂依仪轨举行祭(yajña),并与他们所延请执事之婆罗门同修其礼。

Verse 30

विश्वकर्मा समागत्य ततो मस्तकमण्डनम् । चकार ब्राह्मणश्रेष्ठा नागराणां मते स्थितः

随后毗湿瓦羯磨前来,制成头部的庄严饰物(仪冠)。婆罗门中之最胜者啊,他依那伽罗所认可之习俗而行。

Verse 31

ब्रह्मापि परमं तोषं गत्वा नारदमब्रवीत् । सावित्रीमानय क्षिप्रं येन गच्छामि मण्डपे

梵天亦得无上欢喜,对那罗陀说道:“速速迎来娑维特丽,使我得以前往祭坛之曼荼罗(mandapa)。”

Verse 32

वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः । गन्धर्वैर्गीतसंसक्तैर्वेदोच्चारपरैर्द्विजैः । अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत्

当悉达、紧那罗与古希亚迦击奏诸乐器之时;当乾闼婆沉醉于歌咏之时;当专志诵持吠陀的婆罗门使空际充满梵音之时——普拉斯提耶执起阿兰尼取火木,宣说如下之言。

Verse 33

पत्नी ३ पत्नीति विप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थिताः

在那里,最尊贵的婆罗门各立其位,高声呼喊:“帕特妮!帕特妮!”(“圣配!圣配!”)。

Verse 34

एतस्मिन्नंतरे ब्रह्मा नारदं मुनिसत्तमम् । संज्ञया प्रेषयामास पत्नी चानीयतामिति

其间,梵天以手势示意圣者中最胜的那罗陀,遣他前去并吩咐道:“将我的帕特妮(配偶)带到此处来。”

Verse 35

सोऽपि मंदं समागत्य सावित्रीं प्राह लीलया । युद्धप्रियोंऽतरं वांछन्सावित्र्या सह वेधसः

他也缓缓走近,带着戏谑之意对娑维特丽说道——仿佛在寻隙,使那好战之心与娑维特丽之间、并在维陀诃(梵天)身旁,生起争端。

Verse 36

अहं संप्रेषितः पित्रा तव पार्श्वे सुरेश्वरि । आगच्छ प्रस्थितः स्नातः सांप्रतं यज्ञमण्डपे

“噢,天众之王后,我奉你之夫主(pati)之命来到你身边。请来吧——他已沐浴启行,如今正在祭坛之堂(yajnamaṇḍapa)。”

Verse 37

परमेकाकिनी तत्र गच्छमाना सुरेश्वरि । कीदृग्रूपा सदसि वै दृश्यसे त्वमनाथवत्

噢,诸天之王后,你独自前往彼处——在那会众之中,你将以何等形貌显现,仿佛无所依怙、无人护持?

Verse 38

तस्मादानीयतां सर्वा याः काश्चिद्देवयोषितः । याभिः परिवृता देवि यास्यसि त्वं महामखे

因此,当召来一切天界女众。女神啊,众女环绕之下,你将前往那伟大的祭祀(yajña)。

Verse 39

एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिसत्तमः । अब्रवीत्पितरं गत्वा तातांबाऽकारिता मया

说罢,圣者中最卓越的那罗陀前往其父处,说道:“父亲啊,母亲已由我召请而来。”

Verse 41

पुलस्त्यं प्रेषयामास सावित्र्या सन्निधौ ततः । गच्छ वत्स त्वमानीहि स्थानं सा शिथिलात्मिका । सोमभारपरिश्रांतं पश्य मामूर्ध्वसंस्थितम्

随后,在娑维特丽面前,他差遣普罗罗迦(Pulastya)说:“去吧,孩子,把她带回她的位置;她心神已软弱。看我在仪式上方,背负苏摩之重而疲惫不堪。”

Verse 42

एष कालात्ययो भावि यज्ञकर्मणि सांप्रतम् । यज्ञयानमुहूर्तोऽयं सावशेषो व्यवस्थितः

此刻祭祀之事将要发生迟延。前往并推进祭礼(yajña)的吉祥时刻尚在,只剩下些许余裕。

Verse 43

तस्य तद्वचनं श्रुत्वा पुलस्त्यः सत्वरं ययौ । सावित्री तिष्ठते यत्र गीतनृत्यसमाकुला

听闻他的话语,普拉斯提耶便急速前往萨维特丽所住之处——其间歌声与舞姿交织喧然。

Verse 44

ततः प्रोवाच किं देवि त्वं तिष्ठसि निराकुला । यज्ञयानोचितः कालः सोऽयं शेषस्तु तिष्ठति

随后他说:“女神啊,你为何仍安然不急?前往祭祀(yajña)的适时已至——所余时刻无多。”

Verse 45

तस्मादागच्छ गच्छामस्तातः कृच्छ्रेण तिष्ठति । सोमभारार्द्दितश्चोर्ध्वं सर्वैर्देवैः समावृतः

“因此快来——我们同去。你父亲在那儿艰难而立,被苏摩之重所压;其上诸天神众皆环绕聚集。”

Verse 46

सावित्र्युवाच । सर्वदेववृतस्तात तव तातो व्यवस्थितः । एकाकिनी कथं तत्र गच्छाम्यहमनाथवत्

萨维特丽说道:“亲爱的,你父亲在那儿,诸天神众环侍而立。我怎能独自前往,如同无依无靠之人?”

Verse 47

तद्ब्रूहि पितरं गत्वा मुहूर्तं परिपाल्यताम्

“那么你去告诉你父亲:请再等一穆呼尔塔——片刻短时。”

Verse 48

यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथा पराः । देवकन्याः समाजेऽत्र ताभिरेष्याम्यह८द्रुतम्

“待到释迦罗尼(因陀罗尼)、高丽女神(Gaurī)、吉祥天女(Lakṣmī)以及其他天界女神来到此会众之中,我将与她们一同迅速前来。”

Verse 49

सर्वासां प्रेषितो वायुर्निमत्रणकृते मया । आगमिष्यन्ति ताः शीघ्रमेवं वाच्यः पिता त्वया

“我已遣风神伐由(Vāyu)前往诸位,作为邀请。她们将很快到来——你当如此告知你的父亲。”

Verse 50

सूत उवाच । सोऽपि गत्वा द्रुतं प्राह सोमभारार्दितं विधिम् । नैषाभ्येति जगन्नाथ प्रसक्ता गृहकर्मणि

苏多说道:“他也急忙前往,对被苏摩祭仪重担所催迫的梵天(Brahmā)禀告:‘噢,世间之主,她未前来——她正忙于家务。’”

Verse 51

सा मां प्राह च देवानां पत्नीभिः सहिता मखे । अहं यास्यामि तासां च नैकाद्यापि प्रदृश्यते

“她又对我说:‘在祭祀之中,我将与诸天之妻同往;然而至今连一个也未见到。’”

Verse 52

एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते । अतिक्रामति कालोऽयं यज्ञयानसमुद्रवः । तिष्ठते च गृहव्यग्रा सापि स्त्री शिथिलात्मिका

“既知如此,噢,天众之最胜者,请依你所认为适当者而行。时光流逝,祭祀车乘的筹备正喧动纷扰。她也仍留在家务之中——那女子的决心确实松弛。”

Verse 53

तच्छ्रुत्वा वचनं तस्य पुलस्त्यस्य पितामहः । समीपस्थं तदा शक्रं प्रोवाच वचनं द्विजाः

听闻他的话后,普罗罗斯提耶的祖父毗多摩诃(梵天)便对近旁站立的释迦罗(因陀罗)说道:噢,二次生者们。

Verse 54

ब्रह्मोवाच । शक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका । अनया भार्यया यज्ञो मया कार्योऽयमेव तु

梵天说道:“释迦罗啊,娑维特丽不来;她亦是意志松弛的女子。因此,此次祭祀唯当由我与这位在此的妻子一同完成。”

Verse 55

गच्छ शक्र समानीहि कन्यां कांचित्त्वरान्वितः । यावन्न क्रमते कालो यज्ञयानसमुद्भवः

“去吧,释迦罗啊,速速带来一位少女;莫让由祭仪所生的吉时流逝。”

Verse 56

पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः । शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः

噢,最胜的二次生者们,听到毗多摩诃(梵天)之言后,释迦罗为此目的迅速走近一位少女;她正于近处徘徊。

Verse 57

अथ तक्रघटव्यग्रमस्तका तेन वीक्षिता । कन्यका गोपजा तन्वी चंद्रास्या पद्मलोचना

于是他看见一位纤细的牧牛少女,心神专注于手中的酪乳罐;面若明月,目如莲华。

Verse 58

सर्वलक्षणसंपूर्णा यौवनारंभमाश्रिता । सा शक्रेणाथ संपृष्टा का त्वं कमललोचने

她具足一切吉祥之相,方入青春之初;于是释迦罗(因陀罗)问她:“你是谁,莲华眼者?”

Verse 59

कुमारी वा सनाथा वा सुता कस्य ब्रवीहि नः

“你是未嫁的处女,还是有所依护之人?你是谁的女儿?告诉我们。”

Verse 60

कन्यो वाच । गोपकन्यास्मि भद्रं ते तक्रं विक्रेतुमागता । यदि गृह्णासि मे मूल्यं तच्छीघ्रं देहि मा चिरम्

少女说道:“愿你吉祥。我是牧牛人的女儿,前来卖酪乳。若你要取,便速速付我价钱,莫要迟延。”

Verse 61

तच्छ्रुत्वा त्रिदिवेन्द्रोऽपि मत्वा तां गोपकन्यकाम् । जगृहे त्वरया युक्तस्तक्रं चोत्सृज्य भूतले

三界之主因陀罗闻此,以为她只是牧牛少女,便急忙抓住她,并将酪乳掷落于地。

Verse 62

अथ तां रुदतीं शक्रः समादाय त्वरान्वितः । गोवक्त्रेण प्रवेश्याथ गुह्येनाकर्षयत्ततः

随后释迦罗急忙抱起那哭泣的少女,使她从牛口进入,又从隐秘之道将她牵引而出。

Verse 63

एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः । ज्येष्ठकुण्डस्य विप्रेन्द्राः परिधाय्य सुवाससी

于是,他们使她至为洁净、堪受圣仪,又以吉祥之水为她沐浴;噢,婆罗门中最胜者,在耶什塔圣池(Jyeṣṭha-kuṇḍa)为她披上华美的衣裳。

Verse 64

ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम् । द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे

随后,他满怀欢喜,对四面者(梵天)说道:“速速前往,在诸天大会之中,将她安置于最前。”

Verse 65

कन्यकेयं सुरश्रेष्ठ समानीता मयाऽधुना । तवार्थाय सुरूपांगी सर्वलक्षणलक्षिता

“噢,诸神中最胜者,我今为你带来此少女:肢体端丽,具足一切吉祥之相。”

Verse 66

गोपकन्या विदित्वेमां गोवक्त्रेण प्रवेश्य च । आकर्षिता च गुह्येन पावनार्थं चतुर्मुख

“既知她乃牧牛之女,便令她由牛口而入,又由隐秘之道牵引而出——噢,四面者——为求净化之故。”

Verse 67

श्रीवासुदेव उवाच । गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् । एकत्र मंत्रास्तिष्ठंति हविरन्यत्र तिष्ठति

圣瓦苏德瓦说道:“牛之族与婆罗门之族,本为一脉,虽似分为二:一处安住诸咒(mantra),另一处安住祭供之供品(havis)。”

Verse 68

धेनूदराद्विनिष्क्रांता तज्जातेयं द्विजन्मनाम् । अस्याः पाणिग्रहं देव त्वं कुरुष्व मखाप्तये

她从母牛的腹中出生,因此归属于“二次生”之族。噢神明,请为她举行执手成婚之礼,使祭祀得以圆满成就。

Verse 69

यावन्न चलते कालो यज्ञयानसमुद्भवः

只要时间尚未推移——那由祭祀仪轨所生的行程……

Verse 70

रुद्र उवाच । प्रविष्टा गोमुखे यस्मादपानेन विनिर्गता । गायत्रीनाम ते पत्नी तस्मादेषा भविष्यति

鲁陀罗说道:因她由牛口而入,又由下行之道而出,所以此女将成为你的妻子,名为“伽耶特丽”。

Verse 71

ब्रह्मोवाच । वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि । संभूय ब्राह्मणीश्रेष्ठा यथा पत्नी भवेन्मम

梵天说道:愿一切婆罗门宣告——若她确为牧牛之女——则当众会集,共同确认她为最上婆罗门女,堪为我妻。

Verse 72

ब्राह्मणा ऊचुः । एषा स्याद्ब्राह्मणश्रेष्ठा गोपजातिविवर्जिता । अस्मद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम्

婆罗门众说道:当视她为婆罗门中最上者,远离牧牛之族。凭我等之言,噢四面者,请速行执手婚礼之仪。

Verse 73

सूत उवाच । ततः पाणिग्रहं चक्रे तस्या देवः पितामहः । कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः

苏多说道:“随后,神圣的祖父神(梵天)为她举行了执手成婚之礼。其后,诸二次生者依照家祭(gṛhya)仪轨,将苏摩置于她的头顶。”

Verse 74

संतिष्ठति च तत्रस्था महादेवी सुपावनी । अद्यापि लोके विख्याता धनसौभाग्यदायिनी

那至为净化的摩诃提毗仍安住于彼处;直至今日,她在世间仍以赐予财富与吉祥而闻名。

Verse 76

कन्या हस्तग्रहं तत्र याऽप्नोति पतिना सह । सा स्यात्पुत्रवती साध्वी सुखसौभाग्यसंयुता

凡少女在那圣地与其夫同得执手之礼,便将得子嗣(男丁),成为贞善之妇,具足安乐与婚姻吉祥。

Verse 77

पिंडदानं नरस्तस्यां यः करोति द्विजोत्तमाः । पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थवत्

噢,最胜二次生者!凡人在彼处行施团食(piṇḍa)供养者,能令其祖灵满足;他们得以如法受享,宛如身在著名的祖灵圣地(Pitṛ-tīrtha)。

Verse 79

यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः । समस्तं फलमाप्नोति राजसूयाश्वमेधयोः

凡人若专心一意在彼处行“施女”(kanyā-dāna)之礼,便能获得罗阇苏耶与马祭(Aśvamedha)两大祭祀的全部果报。

Verse 181

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीविवाहे गायत्रीतीर्थमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोअध्यायः

至此,在尊贵的《斯坎达大往世书》之《八万一千颂集》(Ekāśīti-sāhasrī Saṃhitā)中,第六《那伽罗分部》(Nāgara Khaṇḍa)之《哈塔克ेश瓦拉圣域功德》(Hāṭakeśvara-kṣetra Māhātmya)里,叙述伽耶特丽婚仪之中名为《伽耶特丽圣渡功德之描写》(Gāyatrī-tīrtha Māhātmya)的第一百八十一章圆满结束。