Adhyaya 179
Nagara KhandaTirtha MahatmyaAdhyaya 179

Adhyaya 179

本章由苏多(Sūta)开示,阐明哈塔凯湿伐罗圣域(Hāṭakeśvara-kṣetra)中「普什迦罗三处」(Puṣkara-traya,三重普什迦罗圣渡处)的存在与功德:仅以目睹、触及或诵念其名,罪垢(pāpa)便如黑暗遇日光而消散。诸仙(ṛṣi)因此发问:素来被称为梵天(Brahmā)之圣渡处的普什迦罗,为何会安置于此地。 苏多转述内嵌对话:那罗陀(Nārada)向梵天禀告迦利时代(Kali-yuga)的伦理与社会动荡——正法治世衰微,祭仪与戒律败坏。梵天忧虑迦利蔓延将损及普什迦罗,遂决意将此圣渡处迁至迦利不能染污之地,并遣一朵莲华(padma)坠落人间。莲华落在哈塔凯湿伐罗地区,见此处婆罗门通晓吠陀、持戒严谨,且多苦行者。 莲华三次移位,形成三处凹穴(garta-traya),清水盈满,遂成三座普什迦罗池:长者池(Jyeṣṭha)、中者池(Madhya)、少者池(Kanīyaka)。梵天亲临赞叹此圣域,宣说沐浴之果报与迦尔提迦月祭祖仪式(Karttika śrāddha)之功德(其福德等同于伽耶圣顶 Gayāśīrṣa),并开始筹备祭祀(yajña)。他命风神(Vāyu)召请因陀罗(Indra)及诸天众协助;因陀罗携来所需供具与合格婆罗门,梵天遂依正法仪轨圆满行祭,并施足供养(dakṣiṇā)。

Shlokas

Verse 1

सूत उवाच । तथान्यदपि तत्रास्ति पुष्करत्रितयं शुभम् । हाटकेश्वरजे क्षेत्रे सर्वपातकनाशनम्

苏多说道:“此外,彼处亦有吉祥的三处普什迦罗(Puṣkara)圣水。在哈塔凯湿瓦罗之境,它能灭尽一切罪业。”

Verse 2

यस्मिन्दृष्टेऽथवा स्पृष्टे कीर्तिते वा द्विजोत्तमाः । पातकं नाशमायाति भास्करेण तमो यथा

噢,最胜的二生者啊:但凡见之、触之,乃至称扬之,罪垢即灭——如同黑暗为日轮所破。

Verse 3

पुनंति सर्वतीर्थानि स्नानाद्दानादसंशयम् । पुष्करालोकनादेव सर्वपापैः प्रमुच्यते

诸一切圣渡处,必以沐浴与布施而净化;然唯以瞻礼普什迦罗,便能解脱一切罪业。

Verse 4

ऋषय ऊचुः । श्रूयते पुष्करंनाम तीर्थं त्रैलोक्यविश्रुतम् । ब्रह्मणा निर्मितं तत्र यच्च योजनमात्रकम्

诸仙人说道:“我们听闻有一处名为普什迦罗(Puṣkara)的圣渡,名闻三界——为梵天(Brahmā)所造;其境域在彼处据说广达一由旬。”

Verse 5

उत्तरे चन्द्रभागाया नद्या यावत्सरस्वती । दक्षिणे करतोयायाः सीमेयं पुष्करत्रये

北界自月分河(Candrabhāgā)至萨拉斯瓦蒂河(Sarasvatī);南界自迦罗多耶河(Karatoyā)起——此即三重普什迦罗(Puṣkara)之神圣疆域。

Verse 6

अस्माकं तु पुरा सूत त्वयोक्तं वियति स्थितम् । एतन्नः कौतुकं सूत तत्कथं हाटकेश्वरे । तत्र क्षेत्रे समायातं तस्मात्त्वं वक्तुमर्हसि

从前啊,苏多(Sūta),你曾对我们说它安住于虚空天际。此乃我们心中之疑,苏多:它如何来到哈塔凯湿伐罗(Hāṭakeśvara),降临于那神圣的圣域(kṣetra)?因此请为我们开示。

Verse 7

सूत उवाच । सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् । तस्मिन्क्षेत्रे द्विजश्रेष्ठास्तच्छृणुध्वं समाहिताः

苏多说道:诸位贤德之士,你们所言确实不虚。因此,诸位最胜的二生者(dvija),请摄心谛听那神圣之地的缘起。

Verse 8

सर्वतो विस्तराद्वच्मि नमस्कृत्य स्वयं भुवम्

我先顶礼自生者(Svayaṃbhū,梵天),然后将从各个方面,详尽而圆满地叙述此事。

Verse 9

ब्रह्मलोके निवसतो ब्रह्मणोऽव्यक्तजन्मनः । देवर्षिर्नारदः प्राप्तो भ्रांत्वा लोकत्रयं मुनिः

当无相而生的梵天(Brahmā)安住于梵天界(Brahmaloka)之时,天仙圣者那罗陀(Nārada)游历三界之后,来到其前。

Verse 10

स नत्वा शिरसा पादावुपविष्टस्त दग्रतः

他俯首顶礼于(梵天的)足下,随后在其面前端坐。

Verse 11

ब्रह्मोवाच । कस्माद्वत्स चिराद्दृष्टः कुतः प्राप्तोऽधुना भवान् । क्व भ्रांतस्त्वं समाचक्ष्व ब्रूहि वत्सात्र कारणम्

梵天说道:“孩子啊,为何隔了如此之久才得一见?你如今从何处而来?你曾在何方漂游?告诉我吧,亲爱的——在此说明缘由。”

Verse 12

नारद उवाच । मर्त्यलोकाद्विभो प्राप्तः सांप्रतं च त्वरान्वितः । तव पादप्रपूजार्थं सत्येनात्मानमालभे

那罗陀说道:“噢主宰,我方自人间而来,匆匆抵达。为礼敬您圣足,我以真实之言陈述,并以至诚将自身奉于您前。”

Verse 13

ब्रह्मोवाच । किंवदन्तीं ममाचक्ष्व मर्त्यलोकसमुद्भवाम् । कीदृशाः पार्थिवास्तत्र कीदृशा द्विजसत्तमाः । कीदृशा व्यवहाराश्च वर्तन्ते तत्र सांप्रतम्

梵天说道:“把来自人间的见闻告诉我。那里的君王如何?最上等的‘再生者’(婆罗门贤者)如何?如今那里的世间往来与行为风尚又是怎样?”

Verse 14

नारद उवाच । मर्त्यलोके कलिर्जातः सांप्रतं सुरसत्तम

那罗陀说道:“噢诸天之最胜者,如今迦梨(劫末之时)已在人间兴起。”

Verse 15

राजानः सत्पथं त्यक्त्वा तथा लोभपरायणाः । पीडयंति च लोकांश्च अर्थहेतोः सुनिर्घृणाः

诸王舍弃正道,沉溺贪欲;为求财利而压迫百姓,心无慈悲,极其残酷。

Verse 16

शौर्यभावपरित्यक्ताः परदारविमर्दकाः । पूजयन्ति न ते विप्रान्न देवान्न गुरूनपि

他们弃却勇武之心,侵犯他人妻室;既不敬奉婆罗门,也不礼敬诸天,连师长亦不尊崇。

Verse 17

वेदविक्रय कर्तारो ब्राह्मणाः शौचवर्जिताः । पापप्रतिग्रहासक्ताः सन्ध्याहीनाः सुनिर्घृणाः

婆罗门竟成贩卖吠陀之人,失却清净;贪受罪恶之施,缺失三时祈祷(Sandhyā)之仪,心性残忍。

Verse 18

कृषिकर्मरता नित्यं वैश्यवत्पशुपालकाः । वैश्याः सर्वे समुच्छेदं प्रयाता धरणीतले

那些恒常从事耕作与牧养者,只以吠舍之业而活;而在此大地上,吠舍阶层作为一类,已整体衰微,几近断绝。

Verse 19

शूद्रा नित्यं धर्मकामाः शूद्राश्चैव तपस्विनः । लोकयात्राक्रियाः सर्वे प्रहसंति व्यपत्रपाः

首陀罗恒常渴慕达摩,首陀罗亦竟成苦行者;而维系世间运转的常行之务,却被众人无耻地讥笑嘲弄。

Verse 20

यस्य चास्ति गृहे वित्तं तरुण्यश्च तथा स्त्रियः । तेनतेन समं सख्यं प्रकुर्वन्ति नरा भुवि

在世间,男子往往与家中有财、有青春之盛、并有女子可供使役之人,结为对等之交。

Verse 21

विधवानां व्रतस्थानां सर्वेषां लिंगिनां तथा । हृदि स्थितो महान्कामो व्रतचर्याबहिःस्थिताः

即便在守誓的寡妇之中,亦在一切佩戴宗教标记者之中,巨大的欲望仍安坐于心;其持戒行誓,不过外相而已,内里并不相应。

Verse 22

तीर्थानि विप्लवं यांतिपापलोकश्रितानि च । कलेभींतानि सर्वाणि प्रद्रवन्ति दिशो दश

在迦梨时代,诸圣渡处(tīrtha)陷于紊乱;为罪众所依止之处亦受侵扰。因惧迦梨,一切tīrtha仿佛向十方奔散而去。

Verse 23

अहं तत्र स्थितो यस्मात्कलिकाले पितामह

噢,祖父梵天(Pitāmaha),因为在迦梨之世,我仍驻守于彼处。

Verse 24

कलिकाले विशेषेण स्वैरिण्यो ललितस्पृहाः । भर्त्रा विवदमानाश्च स्त्रियः कार्मणतत्पराः । वृथा व्रतानि कुर्वंति त्यक्त्वा ताः स्वपतेः कथाम्

尤其在迦梨之世,女子多任性自恣,贪恋逸乐;与夫争执,又热衷于惑人操控之法事。舍弃对己夫贞顺之正道,而所修诸誓,皆成徒然。

Verse 26

स्वर्गे वा मस्तके चैव पाताले चाथ पादयोः । सांप्रतं मर्त्यलोके च मया दृष्टमनेकशः

无论在天界、在头顶、在帕塔拉地下界,或在足下——如今在凡人世间亦然——我已以多种方式屡屡见到此事。

Verse 27

श्वश्रूणां च वधूनां च तथा जनकपुत्रयोः । बांधवानां विशेषेण तथा च स्वामिभृत्ययोः

在婆媳之间、父子之间,尤其在亲族之间——同样在主人与仆从之间——也可见不和与争执。

Verse 28

चौराणां पार्थिवानां च दम्पत्योश्च विशेषतः । स्वल्पोदकास्तथा मेघाः स्वल्पसस्या च मेदिनी

在盗贼与君王之间,尤其在夫妻之间,争斗盛行。水源渐少,云雨稀薄,大地只结出微薄的收成。

Verse 29

कलिर्बलिष्ठः सुतरां वरदानेन ते कृतः । यदा मर्त्ये भवेद्युद्धं कंडूतिर्जायते हृदि

因你赐下恩许,迦梨(Kali)被造得极其强盛。每当人间兴起战争,我心中便生出一种瘙痒般的躁动不宁。

Verse 30

अहं मर्त्ये परिभ्रांतश्चिरात्तेन समागतः । भूयो यास्यामि तत्रैव कण्डूतिर्महतीस्थिता

我在凡世久已漂泊,如今已与他相逢。然而我仍将再回到那里,因为巨大的躁动不宁已牢牢攫住我心。

Verse 31

तच्छ्रुत्वा वचनं तस्य नारदस्य पितामहः । पुष्करस्य कृते जातश्चिन्ताव्याकु लतेंद्रियः

听闻那罗陀之言,世界之祖(梵天)为普什迦罗而忧惧不安,诸根因忧虑而纷扰。

Verse 32

मर्त्ये च मामकं तीर्थं पुष्करंनाम विश्रुतम् । नाशं यास्यति तन्नूनं कलिकालपरिप्लुतम्

而在凡世,我那名闻遐迩、名为普什迦罗的圣地(tīrtha),被迦梨时代所淹没,必将走向败坏。

Verse 33

तस्मादन्यत्र नेष्यामि कलिर्यत्र न विद्यते । येन तत्र विमुंचामि निजं तीर्थं च पुष्करम्

因此,我将把它引往他处——迦梨时代不存之地——使我得以在那里安立我自己的圣渡处:普什迦罗。

Verse 34

कलिकाले च संप्राप्ते सर्वप्राणिभयंकरे । तत्र प्रयांतु तीर्थानि सर्वा ण्येव विशेषतः

当迦梨之时来临,令一切众生怖畏之际,愿一切圣地(tīrtha),尤其是诸圣渡处,都迁往那处(迦梨不在之地)。

Verse 35

गते कलौ प्रयास्यंति निजस्थानमसंशयम्

待迦梨过去之后,它们必将无疑地回归各自本处。

Verse 36

एवं निश्चित्य मनसा हस्तस्थं कमलं ततः । प्रोवाच सादरं तच्च स्वयं ध्यात्वा पितामहः

他心中既已决断,祖父神毗多摩诃(梵天)先于内心入定观想,遂以恭敬之辞对手中所持的莲华说道。

Verse 37

पत त्वं पद्म भूपृष्ठे कलिर्यत्र न विद्यते । येनानयामि तत्रैव पुष्करं तीर्थमात्मनः

莲华啊,你当落在大地之上、迦梨不存之处;凭此征兆,我将把我自身的圣地渡口——普什迦罗——引来并安立于彼。

Verse 38

ततस्तत्प्रेषितं तेन पद्मं भ्रांत्वा महीतले । समस्ते पतितं क्षेत्रे हाटकेश्वरसंभवे

于是,那被他遣出的莲华在大地上回旋漂游;最终落在与哈塔凯湿伐罗相应的圣域之中。

Verse 39

दृष्ट्वा वेदविदो विप्रान्स्वाध्यायनिरताञ्छुचीन् । तेषां यज्ञक्रियाभिश्च यज्ञोपांतैः समंततः

在那里,他见到通晓吠陀的婆罗门——清净无垢,勤修自诵(svādhyāya);其周遭四方,皆是祭祀(yajña)之仪与诸般辅行之法。

Verse 40

यूपाद्यैः सर्वतो व्याप्ते सदिशे गगनांगणे । ऋग्यजुःसामघोषेण तथा चाथर्वजेन च

四方天庭般的穹空,遍布祭柱(yūpa)等诸仪具;其间回响着《梨俱》《夜柔》《娑摩》之诵唱,亦有《阿闼婆》之读诵相和。

Verse 41

दिग्मण्डले तथा व्याप्ते नान्यः संश्रूयते ध्वनिः । तथा च तार्किकाणां च विवादेषु महत्सु च

当十方方隅皆被充满之时,别无他声可闻;同样地,诸逻辑论师之间亦兴起宏大的辩论争论。

Verse 42

वेदांतानां समस्तानां व्याख्याने बहुधा कृते । दृश्यन्ते मुनयो यत्र संस्थिता नियमेषु च

在那处,诸般吠檀多皆以多种方式宣说阐释;其间可见诸牟尼圣者,安住于戒律与行持之中。

Verse 43

एकाहारा निराहारा एकांतरकृताशनाः । त्रिरात्रोपोषिताश्चान्ये कृच्छ्रचांद्रायणे रताः

有的每日仅食一餐;有的全然不食;有的隔日而食。又有人三夜断食,专志于严苦的誓行,如“克里恰罗”(Kṛcchra)与“月行”(Cāndrāyaṇa)之戒。

Verse 44

महापाराकिणश्चान्ये तथा मासोपवासिनः । अश्मकुट्टाशिनश्चान्ये दन्तोलूखलिकास्तथा

又有人修持“大帕拉卡”(Mahā-Pārāka)苦行;又有人行一月长斋。有人只食石上捣碎之物;亦有人行“齿与臼”之苦行,唯以自身牙齿所能磨碎者为食。

Verse 45

शीर्णपर्णाशिनश्चैके फलाहारा महर्षयः । तद्दृष्ट्वा तादृशं क्षेत्रं संयुक्तं विविधैर्गुणैः

有的圣贤以枯叶为食;有的大牟尼唯食果实。见到那片圣域具足种种功德胜相,他们便识得其非凡的神圣。

Verse 46

ततस्तत्पतितं तत्र पुण्यं ज्ञात्वा महीतले । यत्र स्थानेऽपतत्पूर्वं तस्मादुच्चलितं पुनः

随后,它觉知自己坠落之处在大地上具足圣德,便从先前降落的同一地点再次升起。

Verse 47

अन्यस्मिंश्च ततः स्थाने द्वितीये द्विजसत्तमाः । तस्मादपि तृतीये तु तृतीयं पंकजं हितम्

随后,噢最胜的二次生者,它又移至另一处——第二个地点;并由彼处至第三处,在那里安立了第三朵吉祥莲华。

Verse 48

ततो गर्तात्रयं जातं तेषु स्थानेषु च त्रिषु । गर्तासु च जल जातं स्वच्छं स्फटिकसंनिभम्

于是,在那三处生起三道凹穴;凹穴之中涌出清净之水,澄澈如水晶。

Verse 49

एतस्मिन्नंतरे प्राप्तः स्वयमेव पितामहः । तत्र स्थाने द्विजश्रेष्ठा यज्ञकर्मप्रसिद्धये

其间,毗多摩诃(梵天 Brahmā)亲自来到那里,噢最胜婆罗门,于彼处为令祭祀诸业圆满成就。

Verse 50

दृष्ट्वा समंततः क्षेत्रं हाटकेश्वरसंज्ञितम् । नानाविप्रैः समाकीर्णं वेदवेदांगपारगैः । तपस्विभिस्तथानेकैर्व्रतचर्यापरायणैः

他环顾四方,见名为哈塔凯湿伐罗(Hāṭakeśvara)的圣域,众多婆罗门云集——通达吠陀与吠陀支——又有无数苦行者,专志于苦修与誓戒之行;(梵天由是心生赞叹)。

Verse 51

अहो क्षेत्रमहो क्षेत्रं पुण्यं रम्यं द्विजप्रियम् । तस्मायज्ञं करिष्यामि क्षेत्रेऽस्मिंश्च द्विजाश्रये

啊!此地界何等神圣——真是神圣的圣域——功德圆满,清丽可爱,为二次生者所敬爱!因此我将于此刹土(kṣetra)、婆罗门所依之处,奉行祭祀(yajña)。

Verse 52

आनयिष्यामि तच्चापि पुष्करत्रितयं शुभम् । गर्तास्वेतासु पुण्यासु ज्येष्ठं मध्यं कनीयकम्

我也将把吉祥的三处普什迦罗(Puṣkara)——上、 中、 下三者——迎请至此,安置于这些神圣的坑穴之中。

Verse 53

कलिकाले च संप्राप्ते येन लोपं न गच्छति । स्वयं निश्चित्य मनसा चोपविश्य धरातले

当迦梨时代来临时,他思量:如何使这神圣的传统不致衰微。于是自心决断,便坐于大地之上,入定沉思,筹定护持之道。

Verse 54

ध्यात्वा च सुचिरं कालमानयामास तत्र च । पुष्करत्रितयं श्रेष्ठं ज्येष्ठमध्यकनीयकम्

他久长入定之后,便将至胜的普什迦罗三处——上、中、下——带到那里(诸普什迦罗圣渡处)。

Verse 55

ततोऽब्रवीत्स हृष्टात्मा ह्येतद्धि पुष्कर त्रयम् । मया सम्यक्समानीतं कलिकालभयेन च

随后他心怀欢喜而宣告:“正是这普什迦罗三处,因畏惧迦梨时代之祸,我已如法迎来并安立。”

Verse 56

येऽत्र स्नानं करिष्यंति श्रद्धया परया युताः । ते यास्यंति परां सिद्धिमक्षयां मत्प्रसादतः

凡在此以至上信心沐浴者,皆将凭我的恩典,证得最高、不可坏的灵性成就。

Verse 57

ये च श्राद्धं करिष्यंति कार्तिक्यां सुसमाहिताः । करिष्यंति गयाशीर्षे तेषां पुण्यं महत्तमम्

又有那些心念专一,于迦尔蒂迦月行施罗达(śrāddha)者——在伽耶希尔沙(Gayāśīrṣa)举行——将得至大功德。

Verse 58

तत्राद्यात्पुष्करात्पुण्यं लभिष्यंति शताधिकम् । मया यज्ञः कृतस्तत्र कार्तिक्यां पूर्वपुष्करे

在那里,从最初的普什卡拉(Ādya Puṣkara)起,他们将得百倍乃至更多的功德。因为正是在那里——在先前的普什卡拉,于迦尔蒂迦月——我曾举行祭祀(yajña)。

Verse 59

वैशाख्यां च करिष्यामि अत्राहं च द्वितीयके

并且在毗舍佉月(Vaiśākha)我也将于此——在第二普什卡拉——举行此仪。

Verse 60

एवमुक्त्वा ततो ब्रह्मा ह्यादिदेश सदागतिम् । ममादेशाद्द्रुतं वायो समानय पुरंदरम्

说罢,梵天(Brahmā)便命令行动迅疾的风神伐由(Vāyu):“奉我之令,速速带来普兰达罗(因陀罗,Indra)。”

Verse 61

आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः । गंधर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा

愿诸阿底提耶(Āditya)与诸婆苏(Vasu),诸鲁陀罗(Rudra)与众摩鲁特(Marut)同来;并与乾闼婆(Gandharva)、护世者(Lokapāla),以及诸成就者(Siddha)与持明者(Vidyādhara)一同齐集。

Verse 62

येन मे स्यात्सहायत्वं समस्ते यज्ञकर्मणि । तच्छ्रुत्वा सकलं वायुर्गत्वा शक्रनिवेशनम् । कथयामास तत्सर्वं यदुक्तं परमेष्ठिना

“愿我在一切祭祀(yajña)之业中得助力。”风神伐由(Vāyu)闻此,便往释迦(Śakra,因陀罗)之居所,将至上者梵天(Brahmā)所言一切,悉数具陈。

Verse 63

सत्वरं प्रययौ तत्र सर्वैर्देवगणैः सह । प्रणिपत्य ततस्तं स ब्रह्माणं वाक्यमब्रवीत्

他与诸天众神一同急速前往彼处;礼拜俯伏之后,便以如下言辞启白梵天(Brahmā)。

Verse 64

आदेशो दीयतां देव ह्यहमाकारितस्त्वया । यदर्थं तत्करिष्यामि तस्माच्छीघ्रं निवेदय

“大主啊,请赐下圣命;我既蒙汝召来。愿汝速示其所为之因,使我得以成办。”

Verse 65

ब्रह्मोवाच । मया शक्रात्र चानीतं सुपुण्यं पुष्करत्रयम् । कलिकालभयाच्चैव करिष्ये तदहं स्थिरम्

梵天(Brahmā)说道:“噢,释迦(Śakra),我已将功德无量的三重普什迦罗(Puṣkara)带到此处;又因畏惧迦梨时代(Kali-yuga)之患,我将使其坚固安立。”

Verse 66

अग्निष्टोमत्रयं कृत्वा वैशाख्यां च यथार्चितम् । संभारमाहरस्वाशु तदर्थं सर्वमेव हि

既已完成三次阿耆尼什托摩(Agniṣṭoma)祭仪,又在毗舍佉月(Vaiśākha)依规如法礼拜——速速备齐并送来为此所需的一切供具与资粮。

Verse 67

ब्राह्मणांश्च तदर्हांश्च वेदवेदांगपारगान् । तच्छ्रुत्वा विनयाच्छक्रस्तथेत्युक्त्वा त्वरान्वितः । संभारानानयामास तदर्हांश्च द्विजोत्तमान्

(并请来)堪当此仪的婆罗门——通达吠陀及其支分(Vedāṅga)者。闻此言,释迦罗(Śakra)谦恭答曰:“如是。”遂急速备办诸般祭具,并迎来适任其事的上等二生者。

Verse 68

ततश्चकार विधिवद्यज्ञं स प्रपितामहः । यथोक्तविधिना सर्वं तथा संपूर्णदक्षिणम्

其后,那位普罗毗多摩诃(Prāpitāmaha,梵天 Brahmā)如法依仪举行祭祀——一切皆按所说之规圆满成就,且达克希那(dakṣiṇā,祭礼酬施)亦悉皆具足。

Verse 179

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्करत्रयोत्पत्तिपूर्वकं यज्ञसमारंभार्थमुपकरणानयनब्राह्मणामन्त्रणादि प्रकारकथनंनामैकोनाशीत्युत्तरशततमोऽध्यायः

如是,在《圣·室建陀摩诃补罗那》(Śrī Skanda Mahāpurāṇa)八万一千颂之汇编(Saṃhitā)中,第六部《那伽罗分卷》(Nāgara-khaṇḍa)之《哈塔凯湿伐罗圣域功德》(Hāṭakeśvara-kṣetra-māhātmya)内,题为“叙述诸般仪轨——自三普什迦罗(Pushkara)之出现起,乃至为开祭而备办祭具并邀请婆罗门等”的第一百七十九章至此圆满。