Adhyaya 168
Nagara KhandaTirtha MahatmyaAdhyaya 168

Adhyaya 168

本章置于哈塔凯湿伐罗圣域(Hāṭakeśvara-kṣetra)的脉络中,展开多段神学叙述。苏多讲述毗湿瓦密多在喜马拉雅行极严苦行:露天而卧、居水而住、修“pañcāgni”(五火苦行),并层层加深断食,直至“vāyu-bhakṣa”般以气息为食。因陀罗惧其功德动摇天位而赐愿,毗湿瓦密多尽皆不受,唯求“brāhmaṇya”(婆罗门之位),彰显灵性成就胜于王权。 继而梵天亦来赐愿,毗湿瓦密多仍只求此一愿。圣者利支迦(Ṛcīka)说明:为其出生之目的,早已备办婆罗门真言与受灌顶的供品“caru”,因此梵天得以宣告其为梵仙(brahmarṣi)。婆悉吒反对刹帝利出身者成为婆罗门,遂退往阿那尔塔,近于螺贝圣渡(Śaṅkha-tīrtha)、梵石(Brahmaśilā)与萨拉斯瓦蒂河畔。 毗湿瓦密多怀怨,依《娑摩吠陀》法行“abhichāra”咒术,生出可怖的“kṛtyā”之力。婆悉吒以天眼觉知,用《阿闼婆吠陀》真言令其止息,并转其果报:kṛtyā仅触其身便倒毙。随后婆悉吒为此力安立稳定的祭祀:于恰特罗月(Caitra)明八日受供,礼敬者可得一年无病。此神力遂名“Dhārā”,并受“nāgara”(城邑/社群)式的特别崇拜,将苦行冲突、真言义理与地方圣渡实践融为一体,成就此地的圣迹赞颂(māhātmya)。

Shlokas

Verse 1

सूत उवाच । एवं राज्यं परित्यज्य विश्वामित्रो द्विजोत्तमाः । हिमवन्तं नगं प्राप्य तपश्चक्रे सुदारुणम्

苏多说道:他就这样舍弃王国后,毗湿瓦密多——二次生者中最卓越者——抵达喜马梵山(Himavat),开始修行极其严酷的苦行。

Verse 2

वर्षास्वाकाशशायी च हेमंते सलिलाशयः । पञ्चाग्निसाधको ग्रीष्मे स्थितो वर्षशतत्रयम्

雨季他卧于露天之下;冬季他浸身于水中;夏季他修“五星火行”(pañcāgni)之法——如此坚住三百年。

Verse 3

फलमूलकृताहारस्ततो वर्षशतत्रयम् । ध्यायमानः परं ब्रह्म स्थितो ब्राह्मणसत्तमाः । शीर्णपर्णाशनः पश्चात्तावत्कालं व्यवस्थितः

随后,那位最殊胜的婆罗门以果与根为食三百年,安住禅观,恒念至上梵(Brahman)。其后又以枯落之叶为粮,复如是等时而住。

Verse 5

ततश्चैव जलाहारस्तावन्मात्रं व्यवस्थितः । कालं स वायुभक्षश्च ततश्चैवायुतं समाः सूत उवाच । अथ दृष्ट्वा तपःशक्तिं तस्य तां त्रिदशाधिपः । पातायष्यति मां नूनमेष स्थानान्नृपोत्तमः

继而他唯以清水为食,亦如是等时;再后以风为粮,如此历经一万年。苏多说道:天神之主见其苦行威力广大,心念道:“此至上之王必将使我从位上坠落。”

Verse 6

ततः प्रोवाच संगत्य साम्ना परमवल्गुना । विश्वामित्रं नृपश्रेष्ठं भयेन महताऽन्वितः

于是天神之主前往相会,以极其柔和、调和的言辞对王中最胜的毗湿瓦密多说道,然其心中充满大惧。

Verse 7

इंद्र उवाच । विश्वामित्र प्रतुष्टोऽस्मि तपसानेन पार्थिव । वरं वरय भद्रं ते यदभीष्टं हृदिस्थितम्

因陀罗说道:“毗湿瓦密多啊,王者,我因你的苦行而大为欢喜。请择一愿——愿吉祥归于你——凡你心中所愿,皆可求之。”

Verse 9

विश्वामित्र उवाच । ब्राह्मण्यं देहि मे शक्र यदि तुष्टोऽसि सांप्रतम् । तदर्थं तपसश्चर्यां जानीहि त्वं पुरंदर

毗湿瓦密多说道:“释迦啊,若你此刻欢喜,请赐我婆罗门之位。破城者(普兰达罗)啊,当知我修诸苦行,正为此愿。”

Verse 10

विश्वामित्र उवाच । न ब्राह्मण्यात्परं किंचित्प्रार्थयामि सुरेश्वर

毗湿瓦密多说道:“噢,诸天之主,我别无所求,唯愿得成婆罗门之位。”

Verse 11

अपि त्रैलोक्यराज्यं ते वस्तुष्वन्येषु का कथा । तस्माद्गच्छ सुरश्रेष्ठ स्वराज्यं परिपालय

纵然三界之王权也不能动我心——更何况其他事物?因此,噢,诸神中最尊者,且回去治理你自己的国度吧。

Verse 12

परित्यक्ष्याम्यहं देहं यास्ये वाऽहं द्विजन्मताम् । तच्छ्रुत्वा वचनं तस्य देवराजो दिवं गतः

“我将舍弃此身,或必得成二次生者(婆罗门)之境。”天帝闻其誓言,便返归天界。

Verse 13

तस्य तं निश्चयं ज्ञात्वा सर्वदेवसमावृतः । विश्वामित्रोऽपि तद्रूपं चकार दुश्चरं तपः

诸神环绕之中,既知其决心坚固,毗湿瓦密多亦依其誓愿,如法修行极其严峻而难行的苦行。

Verse 14

अथ वर्षसहस्रे तु व्यतिक्रान्ते द्विजोत्तमाः । अन्यस्मिन्वायुभक्षस्य विश्वामित्रस्य भूपतेः

于是,噢,二次生者中最尊者,当一千年已然过去——又在另一时——说到毗湿瓦密多王,他唯以风为食而存…

Verse 15

आजगाम स्वयं ब्रह्मा पुण्यैर्देवर्षिभिः सह । अब्रवीत्तं महीपालं तपसा दग्धकिल्बिषम्

梵天亲自降临,偕同清净的天界圣仙(天仙圣者),并对那位国王开示;其罪业已由苦行之火焚尽。

Verse 16

श्रीब्रह्मोवाच । विश्वामित्र प्रतुष्टोऽस्मि तपसानेन सत्तम । वरं वरय भद्रं ते प्रदास्याम्यपि दुर्लभम्

圣梵天说道:“毗湿瓦密多啊,诸善中最胜者,我已因你的此番苦行而大为欢喜。你可选择一项恩赐——愿吉祥属于你;即便难得之物,我亦赐予。”

Verse 17

विश्वामित्र उवाच । यदि तुष्टोऽसि मे देव यदि देयो वरो मम । ब्राह्मण्यं देहि मे देव नान्यदिष्टतमं महत्

毗湿瓦密多说道:“若主宰垂悦于我,若当赐我一愿——愿赐我婆罗门之位(brāhmaṇya),神啊;除此之外,再无我更所爱、更为宏大之求。”

Verse 19

यन्न जातं धरापृष्ठे न भविष्यति कर्हिचित्

“那未曾在大地之上出生之物,亦永不于任何时刻出现……”

Verse 20

विश्वामित्र उवाच । गच्छ त्वं देवदेवेश ब्रह्मलोकमनुत्तमम् । अहं त्यक्ष्यामि वा प्राणान्संप्राप्स्ये वा द्विजन्मताम्

毗湿瓦密多说道:“去吧,诸天之主,前往无上的梵天界(Brahmaloka)。至于我——我或将舍弃生命之息,或将证得二生者(dvija)之位。”

Verse 21

अथ देवर्षिमध्यस्थ ऋचीको वाक्यमब्रवीत् । अस्य जन्मकृते देव ब्राह्म्यैर्मंत्रैर्मया चरुः

于是,立于诸天圣仙之间的梨支迦(Ṛcīka)说道:“噢主宰,为了他的诞生,我以婆罗门圣咒调制了祭供之食(caru)。”

Verse 22

अभितो ब्रह्मसर्वस्वं तत्र सयोजितं मया । तेनैव क्षत्रजन्माऽयं ब्राह्मणश्चतुरानन

“在那里,我从四方注入了圆满的梵(Brahman)之精髓。正因如此,虽生为刹帝利,他亦堪为婆罗门——噢四面者(梵天)。”

Verse 23

ब्रह्मर्षिकीर्तयस्वैनं तस्मात्त्वं प्रपितामह । राज्यस्थोऽपि द्विजार्हाणि सत्कृत्यान्य करोदसौ

“因此,噢普罗毗塔摩诃(至高曾祖、梵天),请宣告他为梵仙(Brahmarṣi)。即便身居王位,他也确实行持了配得二次生者(dvija)的敬奉与礼敬。”

Verse 24

ब्राह्ममन्त्रप्रभावेन तस्माद्ब्रह्मर्षिमाह्वय । येन कीर्तामहे सर्वे विश्वामित्रं द्विजोत्तमम्

“因此,凭借梵天圣咒之威力,当称他为梵仙(Brahmarṣi);正是因他,我们众人同颂毗湿瓦密多罗(Viśvāmitra),二次生者中最殊胜者。”

Verse 25

अथ ब्रह्मा चिरं ध्यात्वा ब्राह्म्यै र्मंत्रैश्च तेजसा । समुत्पन्नं ततः प्राह ब्राह्मणस्त्वं मया कृतः

随后,梵天久长入定,以梵天圣咒之光辉使其显现;继而说道:“你已由我成就为婆罗门。”

Verse 26

त्यजेदं दुष्करं घोरं तपो मद्वचनाद्द्रुतम् । स यदा ब्रह्मणा प्रोक्तो ब्रह्मर्षि स्त्वमसंशयम्

“依我之言,立刻舍弃这艰难而可怖的苦行。”当梵天(Brahmā)如此对他说——“你无疑是一位梵仙(Brahmarṣi)”——他的地位遂被印证。

Verse 27

ऋचीकाद्यैस्ततः सर्वैः प्रोक्तो देवर्षिभिस्तथा

随后,他也同样受到众人——以利支迦(Ṛcīka)为首——以及诸天仙(devarṣi)的称许与印证。

Verse 28

अथ तेषां मध्यगतो वसिष्ठो मुनिसत्तमः । सोऽब्रवीत्कोपसंयुक्तो नाहं वक्ष्यामि कर्हिचित्

于是,最胜牟尼瓦西什塔(Vasiṣṭha)来到众人之中。怒意充盈,他说道:“我决不发言——永不。”

Verse 29

ब्राह्मणं क्षत्रियाज्जातं जानन्नपि पितामह । ऋचीकस्य च दाक्षिण्यात्तथा त्वं वदसि प्रभो

噢,毗多摩诃(Pitāmaha,梵天),纵然你明知一位婆罗门(brāhmaṇa)出自刹帝利(kṣatriya)之系,仍因顾念利支迦(Ṛcīka)的仁厚与恩德而如此宣说,噢主宰。

Verse 30

प्रोच्यमानो ऽपि बहुधा वसिष्ठो मुनिसत्तमः । पितामहेन मुनिभिर्नारदाद्यैरनेकधा । जगामाथ परित्यज्य तान्सर्वान्द्विजसत्तमान्

尽管毗多摩诃(Brahmā)与诸圣者——那罗陀(Nārada)等——以种种方式屡次恳请,最胜牟尼瓦西什塔(Vasiṣṭha)仍转身离去,舍下那一切最尊贵的“二生者”。

Verse 31

स चागत्य मुनि श्रेष्ठो देशं चानर्तसंज्ञितम् । हाटकेश्वरजे क्षेत्रे शंखतीर्थसमीपतः

那位最尊胜的牟尼前来,抵达名为阿那尔塔(Anarta)之地,至哈塔凯湿伐罗(Hāṭakeśvara)圣域,近于商卡提尔塔(Śaṅkhatīrtha)。

Verse 32

यत्र ब्रह्मशिला पुण्या श्वेतद्वीपसमन्विता । सरस्वती स्थिता यत्र नदी पापहरा शुभा

彼处有神圣的梵天石(Brahmaśilā),清净而与白洲(Śvetadvīpa)相应;彼处亦有吉祥的萨拉斯瓦蒂河(Sarasvatī)安住,能除诸罪。

Verse 33

तत्राश्रमपदं कृत्वा चकार विपुलं तपः । विश्वामित्रोऽपि सामर्षस्तद्वधार्थं समागतः

他在那里建立精舍(āśrama),修行广大苦行。毗湿瓦密多罗(Viśvāmitra)亦怀盛怒而来,意欲致其于死。

Verse 34

तस्याश्रमस्य दूरे स याम्यां दिशि समाश्रितः । कृत्वाश्रमपदं तत्र तस्य च्छिद्राणि चिन्तयन्

他远离那座精舍,依止于南方。又在彼处立一精舍之所,思量其可乘之隙,以便加害。

Verse 35

संस्थितः सुचिरं कालं न च पश्यति किंचन । अथाभिचारिकं तेन प्रारब्धं तस्य चोपरि

他在那里久居,却全然不见可乘之机。于是他对其发动阿毗遮罗(abhicāra)之术——敌对的咒术。

Verse 36

यदुक्तं सामविधिना सामवेदे वधात्मकम् । तस्य तैर्दारुणैर्मंत्रैर्जुह्वतो जातवेदसम्

他运用《娑摩吠陀》仪轨中所述具有杀戮性质的可怕咒语,向火神(Jātavedas)献上供品。

Verse 37

निष्क्रांता दारुणा शक्तिर्मुक्तकेशी भयानका । वानरस्कंधमारूढा कुर्वाणा किल्किलाध्वनिम्

一股可怕的力量显现出来——披头散发,令人惊恐,骑在猴子的肩膀上,发出尖锐刺耳的叫声。

Verse 38

नानायुधसमोपेता यमजिह्वा यथा परा । साब्रवीद्वद विप्रेंद्र किं ते कृत्यं करोम्यहम्

她手持各种武器,宛如阎罗王的舌头一般,说道:“说吧,婆罗门中的佼佼者啊,我该为您完成什么任务?”

Verse 39

त्रैलोक्यमपि कृत्स्नं च संहरामि तवाज्ञया

“遵照您的命令,我甚至可以将整个三界彻底毁灭。”

Verse 40

विश्वामित्र उवाच । मम शत्रुर्मान्यो त्र वसिष्ठः कुमुनिः स्थितः । तं त्वं जहि द्रुतं गत्वा तदर्थं च मया कृता

众友仙人(Viśvāmitra)说:“我那受人尊敬的敌人——极裕仙人(Vasiṣṭha)就在此处。快去杀了他;实际上,我正是为此目的才创造了你。”

Verse 41

एवमुक्ता तु सा तेन विश्वामित्रेण धीमता । वसिष्ठाश्रममुद्दिश्य प्रस्थिता चोत्तरामुखी

她既蒙智者毗湿瓦密多如是告诫,便面向北方启程,前往婆悉吒的阿湿罗摩。

Verse 42

एतस्मिन्नेव काले तु वसिष्ठस्याश्रमे द्विजाः । दुर्निमित्तानि जातानि प्रभूतानि महांति च

就在那时,噢诸位二生者,在婆悉吒的阿湿罗摩中,种种凶兆纷然出现,既多且大。

Verse 43

पपात महती चोल्का निहत्य रविमण्डलम् । तथा रुधिरवृष्टिश्च अस्थिमिश्रा व्यजायत

一颗巨大的流星坠落,仿佛击中了太阳之轮;继而降下血雨,夹杂白骨——凶兆骇人。

Verse 44

दीप्तां दिशं समासाद्य रुरोद च तथा शिवा । तां दृष्ट्वा सुमहोत्पातान्वसिष्ठो मुनिपुंगवः

趋近那炽燃的天际一方,吉祥女神湿婆(Śivā)放声哀号。见此极其巨大的凶兆,婆悉吒——诸圣中的雄牛——顿时警觉。

Verse 45

यावदालोकते रूपं ज्वालामालासमाकुलम् । ततः सम्यक्परिज्ञाय सर्वं दिव्येन चक्षुषा

当他凝视那形相,周遭尽是火焰花鬘层层环绕之时,便以天眼洞悉一切,了然无误。

Verse 46

विश्वामित्रप्रयुक्तेयं शक्तिर्मम वधाय च । कृत्या रूपा सुमंत्रैश्च सामवेदसमुद्भवैः

“此力为毗湿瓦密多所发动,欲灭我身;其形为‘克利提亚’(kṛtyā),由出自《娑摩吠陀》的强大神咒所造。”

Verse 47

तिष्ठतिष्ठेति तेनोक्ता ततः सा निश्चलाभवत् । निजमंत्रैश्च सा तेन स्तंभिताथर्वणोद्भवैः

他喝令道:“站住!站住!”她便凝然不动。随后,他以自身出自《阿闼婆吠陀》的真言,将她制伏,令其被镇缚而不得动弹。

Verse 48

ततः स्त्रीरूपमादाय प्रोवाच मुनिपुंगवम् । सामवेदस्तु वेदानां प्राधान्येन व्यवस्थितः

随后她化作女子之形,对那位最上牟尼说道:“诚然,在诸吠陀之中,《娑摩吠陀》以尊胜之位而安立。”

Verse 49

विधिना तेन संसृष्टा विश्वामित्रेण धीमता । मा कुरुत्वप्रमाणंतु प्रहारं सह मे मुने । रक्षयिष्यामि ते । प्राणान्स्वल्पस्पर्शेन ते मुने

“我乃由具慧的毗湿瓦密多依正法仪轨所造。噢牟尼,请勿以全力之量击我。我将以轻微一触,护持你的生命之气,噢牟尼。”

Verse 50

वसिष्ठ उवाच । यद्येवं कुरु मे स्पर्शं न मर्म स्पर्शनं शुभे । मया चाथर्वणा मंत्राः संहृताः कृपया तव

婆悉吒说道:“若真如此,便触我吧——但不可触及要害之处,吉祥者。并且出于对你的怜悯,我已收摄撤回我那阿闼婆系的真言。”

Verse 51

ततः सा दारुणा शक्तिर्विश्वामित्रप्रयोजिता । तस्यांगदेशं स्पृष्ट्वाथ निपपात धरातले

随后,那由毗湿瓦密多所遣的可怖神力触及他身上一处,旋即坠落于大地之上。

Verse 52

ततस्तुष्टो वसिष्ठस्तु तामाह मधुरं वचः । अद्यप्रभृति ते पूजां करिष्यंति समाहिताः । जनाः सर्वे महाभागे भक्त्या परमया युताः

于是,婆悉吒心生欢喜,以柔和甘美之语对她说道:“自今日起,一切众人若能摄心专注,皆将以至上信爱(bhakti)供奉于汝,噫,大福德者。”

Verse 53

चैत्रमासे सिते पक्षे अष्टमीदिवसे स्थिते । ये ते पूजां करिष्यंति श्रद्धया परया युताः

于柴特罗月,在明半月之中,当第八月相日(阿湿塔弥)到来时,凡以至上信心供奉汝者——

Verse 54

ते सर्वे वत्सरंयावद्भवि ष्यंति निरामयाः । तस्मादत्रैव स्थातव्यं सदैव मम वाक्यतः

彼等众人将一年之久远离诸病。故当依我之言,常住于此处。

Verse 55

सूत उवाच । एवमुक्ता च सा तेन वसिष्ठेन महात्मना । स्थिता तत्रैव सा देवी तस्य वाक्येन तत्क्षणात्

苏多说道:那位大德婆悉吒如是宣言之后,天女(提毗)即刻依其言力,便安住于彼处不移。

Verse 56

प्राप्नोति परमां पूजां विशेषान्नागरैः कृताम् । धारानामेति विख्याता भक्तलोकसुख प्रदा

她获得至上的供奉,尤其是由那伽罗族所行的礼敬。她以“达拉”(Dhārā)之名闻名,赐予信众群体安乐。

Verse 168

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धारोत्पत्तिमाहात्म्यवर्णनंनामाष्ट षष्ट्युत्तरशततमोऽध्यायः

如是,在《圣·斯坎达摩诃往世书》中,于八万一千颂之《集成》(Saṃhitā)内,第六部《那伽罗篇》(Nāgara Khaṇḍa)之哈塔凯湿瓦拉圣域(Hāṭakeśvara Kṣetra)功德赞(Māhātmya)中,名为《达拉之起源的赞颂与记述》的第168章至此终了。

Verse 189

ब्रह्मोवाच । क्षत्रियेण प्रजातस्य द्विजत्वं जायते कथम् । श्रुतिस्मृतिविरुद्धं हि किमेवं वदसीप्सितम्

梵天说道:出身刹帝利者,如何能获得“二生”(dvija)的身份?此事确与《闻传》(Śruti)与《忆传》(Smṛti)相违——你为何如此言说,仿佛别有用意?