Adhyaya 157
Nagara KhandaTirtha MahatmyaAdhyaya 157

Adhyaya 157

第157章以严整的神学论述阐明:仪式之效取决于内心意向。苏多说,婆罗门普什帕因忧愤交加,誓不进食,直至找到补救自认过失之法,并寻求以“立得其果”著称的神祇或真言。乡人指引他前往恰玛特迦罗城(Cāmatkārapura)的太阳神祠,传为耶若阇那伐尔迦(Yājñavalkya)所建,并告知修法:逢星期日且值月相第七日(saptamī),持果而行108次绕行(pradakṣiṇā),即可求得所愿;又提及克什米尔的沙罗达(Śāradā)以斋戒赐成就。 普什帕至该城沐浴净身,行108次绕行,并以长篇赞颂与诸般仪轨礼敬。叙事继而推进到细密的火供(homa)次第:设坛与kuśāṇḍikā之准备、依真言安置诸物、投献供品;最终他竟欲以自身之肉为供,显出带有昏暗(tāmasika)与强求意味的礼拜。太阳神苏利耶(Sūrya)现身制止,赐予白黑二丸,使其可暂时易形并复归本相,又授与关于毗底沙(Vaidīśa)富人摩尼跋陀罗(Maṇibhadra)的相关知识。 普什帕追问:既言108次绕行能速得其果,为何未即刻应验?苏利耶开示:若以tāmasika之心行事,则功德不生;外在仪轨虽无差错,亦不能弥补意向之败坏。神为其疗愈创伤后隐去,留下要义:决定仪式果报者,乃bhāva——心念与德性之品质。

Shlokas

Verse 1

सूत उवाच । एवं संबोधितस्तैस्तु लोकैः पुष्पस्तदा द्विजाः । तानब्रवीत्ततः कुद्धो न करिष्यामि भोजनम्

苏多说道:当普什帕这位婆罗门被众人如此劝告时,他便愤然对他们说:“我不受食。”

Verse 2

यावन्न चास्य पापस्य करिष्यामि प्रतिक्रियाम् । तद्वदध्वं महाभागा देवो वा देवताऽथवा

“只要我尚未为此罪过行持如法的对治,请告知我,诸位贤善者——应当趋向一位天神(deva),还是某位女神/神祇(devatā)?”

Verse 3

तथान्ये सिद्धमन्त्रा वा सद्यः प्रत्ययकारकाः । आराधिता यथा सद्यो मानुषाणां वरप्रदाः

“或者请告知我其他已成就的真言(悉地咒),能立刻带来确证——这些真言若如法供奉礼敬,便能迅速赐予人类恩赐与愿果。”

Verse 4

जना ऊचुः । एको देवः स्थितश्चात्र सद्यःप्रत्ययकारकः । तथैका देवता चात्र श्रूयते जगती तले

众人说道:“此处安住着一位唯一的天神,能带来立刻的确证(迅速赐下可见之果)。并且在这大地之上,也传说有一位特定的女神(devatā)。”

Verse 5

पुष्प उवाच । कोऽसौ देवः कियद्दूरे कस्मिन्स्थाने व्यवस्थितः । तथा च देवता ब्रूत दयां कृत्वा ममोपरि

普什帕说道:“那位天神是谁?离此有多远,安住于何处?也请告诉我那位女神之事——愿诸位怜悯于我。”

Verse 6

जना ऊचुः । चमत्कारपुरे सूर्यो याज्ञवल्क्यप्रतिष्ठितः । अस्ति विप्र श्रुतोऽस्माभिः सद्यः प्रत्ययकारकः

众人说道:“在奇迹城(Camatkārapura)有太阳神苏利耶(Sūrya),由圣贤雅吉那瓦尔迦(Yājñavalkya)所安立。婆罗门啊,我们听闻他确实在彼处,能带来立刻的确证——迅速赐下可感可见之果。”

Verse 7

सूर्यवारेण सप्तम्यां फलहस्तः प्रदक्षिणाम् । यः करोति नरस्तस्य ह्यष्टोत्तरशतं द्विज

在星期日、值第七月日(Saptamī)之时,若有人手持果实而行右绕礼(pradakṣiṇā)——噢,婆罗门啊——当行满一百零八匝。

Verse 8

तस्य सिद्धिप्रदः सम्यङ्मनसा वांछितं ददेत् । तथान्या शारदा नाम देवी काश्मीरसंस्थिता

彼苏利耶(Sūrya)赐予成就(siddhi),并圆满施与心中所愿。又有一位名为舍罗陀(Śāradā)的女神,安住于迦湿弥罗(Kāśmīra)。

Verse 9

उपवासकृतेरेव सापि सिद्धिप्रदायिनी । तच्छ्रुत्वा वचनं तेषां जनानां स द्विजोत्तमाः

她亦为赐成就者,尤以守持斋戒(upavāsa)而得其恩。听闻众人之言,那位卓越的婆罗门(Puṣpa)……

Verse 10

समुद्दिश्य चमत्कारं तस्मात्स्थानात्ततः परम् । चमत्कारपुरं प्राप्य सप्तम्यां सूर्यवासरे

随后,他以“Camatkāra”(灵验显奇之圣所)为志向,自彼处启程继续前行;于星期日、值第七月日(Saptamī)之时,抵达Camatkārapura。

Verse 11

तत्रागत्य ततः स्नात्वा शुचिर्भूत्वा समाहितः । गतः संति ष्ठते यत्र याज्ञवल्क्यकृतो रविः

他到达彼处后沐浴净身,身心清洁、意念专注;继而前往雅若那伐尔迦(Yājñavalkya)所建立之日神罗毗(Ravi)安立之处。

Verse 12

ततः प्रदक्षिणाः कृत्वा अष्टोत्तरशतं मिताः । नालिकेराणि चादाय श्रद्धया परयाः युतः

随后,他依仪轨量定绕行一百零八匝,并携椰子为供品,心中充满至上的信敬。

Verse 13

ततः क्षुत्क्षामकंठः स परिश्रांतस्तदग्रतः । उपविष्टो जपं कुर्वन्सूर्येष्टैः स्तवनैस्तदा

其后,他因饥饿而喉咙干渴、身亦疲惫,便在神前坐下;随即行持念诵(japa),以为太阳所喜的赞歌颂扬苏利耶(Sūrya)。

Verse 14

मंडलब्राह्मणाद्यैश्च तारं स्वरमुपाश्रितः । सप्तयुंजर वाद्यैश्च अग्निरेवेति भक्तितः

在曼荼罗婆罗门等人的扶持下,他依止高亢洪亮之音而唱诵;又伴随七种乐器之声,以虔敬宣告:“阿耆尼确然(当受礼敬)。”

Verse 15

आदित्यव्रतसंज्ञाद्यैः सामभिर्दृढभक्तिभाक् । क्षुरिकामंत्रपूर्वैश्च तथैवाथर्वणोद्भवैः

他以坚固的信爱,诵唱名为“阿底提耶誓行”(Ādityavrata)等的娑曼歌(Sāman)来赞颂;又同样以“刹利迦”(Kṣurikā)开头的真言,以及出自阿闼婆(Atharva)传统的真言而礼赞。

Verse 16

यावदन्योर्कवारस्तु नैव तुष्टो दिवाकरः । पौर्णमासीदिने प्राप्ते वैराग्यं परमं गतः

只要仍是别的(不相宜的)日子,昼光之主——太阳——便不为所悦;而当满月之日到来时,他证得至上的离欲(vairāgya)。

Verse 17

ततः पुष्पो विधायाथ स्नानं धौतांबरः शुचिः । भूनाम्ना साध्य भूमिं च स्थंडिलार्थं द्विजोत्तमाः

随后,他献上花供,沐浴净身;身着洗净之衣而成清净。那位最胜的两生者以“Bhū(地)”之真言整治地面,为建立祭坛之坛地(sthaṇḍila)而作准备。

Verse 18

स्थंडिलं हस्तमात्रं च स्थंडिले प्रत्यकल्पयत् । अग्निमीऌएतिमंत्रेण ततोऽग्निं स निधाय च

他塑成一处仅一掌之量的坛地(sthaṇḍila),并在其上安置仪轨;继而以起首为“Agnim īḷe…”之咒,安立圣火。

Verse 19

तृणैः परिस्तृणामीतिकृत्वोपस्तरणं ततः । आब्रह्मन्निति मन्त्रेण दत्त्वा ब्रह्मासनं ततः

随后,他以“paristṛṇāmi”之句铺展圣草,作成如法的覆垫;继而以“ā brahman…”之咒,奉献梵(Brahman)之座——即司祭/神圣之本原的座位。

Verse 20

सुत्रामाणमिति प्रोच्य समिधःस्थापनं च यत् । प्रोक्षणीपात्रमासाद्य प्रोक्षणं कृतवांस्ततः

他诵念“Sutrāmāṇam…”之咒,安置供火之薪木(samidh);继而取净洒之器(prokṣaṇī),行洒净之仪以作清净。

Verse 21

पात्राणामथ सर्वेषां स्रुवादीनां यथाक्रमम् । ततः प्रकल्पयामास हविःस्थाने निजां तनुम्

接着,他依次安置一切器具——先从祭勺(sruva)等开始——各得其序;随后,他如法就位于奉献供物(havis)之处。

Verse 22

न्यायं तु देवतास्थाने स आचार्यविधानतः । ग्रहणं प्रोक्षणं चैव सूर्याय त्वेति चोत्तरम्

在神祇之前,他依师教如法行仪:受取供品,洒净水以净化,并以结语诵曰:“奉献于苏利耶(太阳神)——此乃归于汝。”

Verse 23

अयं त इध्म आत्मेति जप्त्वाथ समिधं ततः । अग्निसोमेति मन्त्राभ्यां हुत्वा चाज्याहुती ततः

他低诵:“此薪柴即是汝之自我”,遂奉上柴薪;继而以两句“阿耆尼—苏摩……”之咒,向火中倾注酥油供献。

Verse 24

कृत्वा व्याहृतिहोमं तु भूर्भुवः स्वेति भो द्विजाः । ये ते शतेति मन्त्राद्यैर्हुत्वात्रैव च दारुणम्

诸位二生者啊!他先以圣声“布胡ḥ、布瓦ḥ、斯瓦ḥ”作维阿赫利提火供;继而就在此处,以“耶·特·沙塔……”等起首之咒,献上一种猛烈而可畏的供火。

Verse 25

आह्वयामास वह्निं च प्रत्यक्षो भव देव मे । एवं मन्त्रेण कृत्वा तं संमुखं ज्वलनं ततः

他召请阿耆尼曰:“在我面前显现吧,我的神圣主宰!”以此真言,他令炽燃之火直接现于眼前。

Verse 26

कालीकरालिकाद्याश्च सप्तजिह्वाश्च याः स्मृताः । तासामाह्वानकं कृत्वा ततो दीप्ते हविर्भुजि

又忆念火神之七舌——自迦梨、迦罗利迦等起——他作召请之仪;随后,当“吞食供品者”(火)炽然光耀……

Verse 27

जुहाव च स मांसानि स्वानि चोत्कृत्त्य शस्त्रतः । लोमभ्यः स्वाहेति विदिशो दिग्भ्यो दत्त्वा ततः परम्

他用利器割下自己的肉进行献祭,念诵着“Svāhā(萨婆诃)献给毛发!”,向各个方位供养……

Verse 28

अग्नये स्विष्टकृतैति यावदात्मानमाक्षिपेत् । तावद्धृतः स सूर्येण स्वहस्तेन समंततः

当他正要投身火中,口念“献给阿格尼·斯维什塔克里特(Agni Sviṣṭakṛt)”时,苏利耶(太阳神)亲手从四面八方拦住了他。

Verse 29

धृतश्च सादरं तेन मा विप्र कुरु साहसम् । नेदृग्घोमः कृतः क्वापि कदाचित्केनचिद्द्विज

苏利耶恭敬地拦住他说:“婆罗门啊,切勿鲁莽。再生族啊,从未有人在任何时间、任何地点做过这样的火供。”

Verse 30

तुष्टोऽहं च महाभाग ब्रूहि किं करवाणि ते । अदेयमपि दास्यामि यत्ते मनसिवर्तते

“大福德的人啊,我很满意。告诉我——我要为你做什么?即使是通常不可给予的东西,只要是你心中所想,我也会赐予。”

Verse 31

पुष्प उवाच । यदि तुष्टोसि देवेश यदि देयो वरो मम । तद्देयं गुटिकायुग्मं यदर्थं प्रार्थयाम्यहम्

普什帕(Puṣpa)说:“众神之主啊,如果您满意,如果您要赐予我恩惠——那就请赐予我那两颗我正祈求的药丸(guṭikā)吧。”

Verse 32

वैदिशे नगरे चास्ति मणिभद्रो महाधनी । कुब्जांगः क्षत्रियो देव जरावलिसमन्वितः

在毗底舍城中,有一位名为摩尼跋陀罗者,财富无量——主啊,他是刹帝利,身形驼背,并带着老迈之“花鬘”之印。

Verse 33

अब्रह्मण्यो महानीचः कीनाशो जनदूषितः । द्वयोरेकां यदा वक्त्रे सदा चैव करोम्यहम्

他憎恨婆罗门,卑劣至极,吝啬可鄙,乃众人中的污秽者。凡有两份之物,我总在他口中化作一份(即不断削减他的份额)。

Verse 34

तदा मे तादृशं रूपमविकल्पं भवत्विति । यदा पुनर्गृहीत्वा तां द्वितीयां प्रक्षिपाम्यहम्

那时,愿我确然取彼等之形,毫无疑惑。又当我拿起第二份,再次投入其中时……

Verse 35

ततश्च सहजं रूपं मम भूयात्सुरेश्वर । वैदिशे नगरे चास्ति मणिभद्रः सुरेश्वर

其后,天神之主啊,愿我本然之形得以复归。在毗底舍城中,有一人名摩尼跋陀罗,天神之主啊。

Verse 36

अपरं तस्य यत्किंचिद्धनधान्यादिकं गृहे । तत्सर्वं विदितं मे स्यात्तथा देव प्रजायताम्

再者,他家中所有之物——财宝、谷粮及诸般资具——愿尽皆为我所明知。愿神赐允,如是成就。

Verse 37

किं वानेन बहूक्तेन तस्य मित्राणि बांधवाः । व्यवहारास्तथा सर्वे प्रकटाः स्युः सदैव हि

然而何必多言?愿他的朋友与亲族,以及他一切往来事务,恒常在我前显明无隐。

Verse 38

न कश्चिज्जायते तत्र विकल्पः कस्यचित्क्वचित् । मम तस्याधम स्यापि सर्वकृत्येषु सर्वदा

在那里,任何人于任何时刻都不会生起疑惑。纵使我地位卑下,在一切事务中,我亦将恒常得以成办。

Verse 39

भास्कर उवाच । गृहाण त्वं महाभाग गुटिकाद्वितयं शुभम् । शुक्लं कृष्णं च वक्त्रस्थं विभेद जननं महत्

婆斯迦罗说道:“吉祥之人啊,受持这对瑞相之丸——一白一黑。含于口中,能生起强大的辨别之力(令效用分明不同)。”

Verse 40

शुक्लया तस्य रूपं च तव नूनं भविष्यति । कृष्णयापि पुनः स्वं च संप्राप्स्यसि महाद्विज

凭白丸,你必定化现为他的形貌;凭黑丸,噢大婆罗门,你将再度复得自身本来之形。

Verse 41

पुष्प उवाच । अपरं वद मे देव संदेहं हृदये स्थितम् । यत्त्वां पृच्छामि देवेश तव कीर्तिविवर्धनम्

普什帕说道:“请再为我开示,噢神圣者;我心中尚有疑团。噢诸天之主,我所请问者,乃为增益您的威德与名声。”

Verse 42

मया श्रुतं सुरश्रेष्ठ सप्तम्यां सूर्यवासरे । यस्ते प्रदक्षिणानां च कुर्यादष्टोत्तरं शतम् । तस्य त्वं तत्क्षणादेव फलहस्तस्य सिद्धिदः

我曾听闻,噢诸天中最胜者:在月历第七日(萨普塔弥),若逢星期日,凡为你行一百零八遍绕行礼敬(pradakṣiṇā)者——你即刻赐予成就(悉地),如同把功果亲置其手,令其当下得报。

Verse 43

मूर्खस्यापि च पापस्य सर्वदोषान्वितस्य च । चतुर्वेदस्य मे कस्मात्तीर्थयात्रापरस्य च

无论是愚昧的罪人、具足诸过者——还是通达四部吠陀、专志朝礼圣地(tīrtha-yātrā)者——对我而言,为何会如此?又是如何如此?

Verse 44

सप्तरात्रे गते तुष्टो होम एवंविधे कृते

当七夜已过,并且如此的火供(homa)依法圆满奉行时,主便心生欢喜而满足。

Verse 46

यत्किंचित्क्रियते विप्र तामसं भावमाश्रितैः । तत्सर्वं जायते व्यर्थं किं न वेत्ति भवा निदम्

婆罗门啊,凡依止昏沉的惰性之质(tamas)而行的任何作为——尽皆归于徒然,无有果报。你为何不知此理?

Verse 47

एवमुक्त्वा ततः सूर्यस्तस्य गात्राण्युपास्पृशत् । खंडितानि स्वहस्तेन निर्व्रणानि कृतानि च

说罢,苏利耶(太阳神)便触及他的肢体;并以自己的手,使那残损之处复归完好,悉皆无伤无痕。

Verse 48

अब्रवीच्च पुनः पुष्पं प्रसन्न वदनः स्थितः । अनेनैव विधानेन यः करोति कुशंडिकाम्

他又一次立于其处,面容安然,向普什帕说道:“凡依此同一仪轨行库沙恩迪迦(kuśaṇḍikā)之礼者……”

Verse 49

श्रीसूर्य उवाच । तामसेन तु भावेन त्ववा सर्वमिदं कृतम् । तेन सर्वं वृथा जातं त्वया सर्वं च यत्कृतम्

圣日神(Śrī Sūrya)说道:“然而你以昏暗之性(tamas)而行此一切;因此尽皆成空——你所作的一切都归于徒然。”

Verse 51

एवमुक्त्वा सहस्रांशुस्तत्रैवां तरधीयत । दीपवल्लक्षितो नैव केन मार्गेण निर्गतः

说罢,千光者(Sahasrāṃśu,千射之日)就在彼处隐没无踪。连如灯火般的影迹也不可见,亦无人知他从何道而去。

Verse 157

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सूर्यसकाशात्पुष्पब्राह्मणस्य वरलब्धिवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः

至此,在神圣《斯坎达摩诃往世书》中,于《八万一千颂集》(Ekāśītisāhasrī Saṃhitā)之第六部《那伽罗分篇》(Nāgara Khaṇḍa),在《哈塔凯湿瓦拉圣域功德篇》(Hāṭakeśvara Kṣetra Māhātmya)内,名为“普什帕婆罗门从苏利耶(Sūrya)得赐愿恩之记述”的第一百五十七章圆满结束。