Adhyaya 150
Nagara KhandaTirtha MahatmyaAdhyaya 150

Adhyaya 150

第150章由苏多(Sūta)铺陈一段紧密相续的神学叙事。阿修罗(daitya)之祭司首领——舒克罗(Śukra)前往与哈塔凯湿伐罗(Hāṭakeśvara)相关的圣域(kṣetra),此地被称为能赐予成就(siddhi)之处;他以阿闼婆系的忿怒(raudra)真言行火供(homa),并筑成三角形火坛。凯利湿伐丽女神(Kelīśvarī)因仪轨而欢喜显现,禁止以自毁为代价的供献,转而引导其求取建设性的恩赐。 舒克罗请求令战场上被歼灭的阿修罗复生。女神允诺,连同刚被火焰吞噬者,以及传说进入“瑜伽女(yoginī)之口”者皆在其内,并赐名为「阿蜜利多伐蒂明咒智(Amṛtavatī Vidyā)」的知识之力,使死者再得生命。舒克罗将此告知安达迦(Andhaka),劝其恒常修持奉爱(bhakti),尤重在阿湿塔弥(aṣṭamī)与恰图尔达湿(caturdaśī)之日礼敬。经文阐明:遍满世界的至上威能,唯由奉爱可得,非凭强力可取。 安达迦为往昔嗔怒而忏悔,并祈愿凡观想此相、建立女神圣像者,皆得随心之成就。女神许诺:建立者得解脱(mokṣa),于阿湿塔弥/恰图尔达湿礼拜者得天界(svarga),仅以瞻礼或观想者亦得王者之乐。女神隐没后,舒克罗复活阵亡阿修罗,安达迦重掌权柄;后世传统又言有一位出自毗耶娑(Vyāsa)系谱之人于彼处安立女神。章末果报偈(phalaśruti)称:诵读或听闻此章可脱离重大苦厄;失势之王若于阿湿塔弥听闻,得无碍复国;战时听闻则获胜利。

Shlokas

Verse 1

सूत उवाच । शुक्रस्तस्य वचः श्रुत्वा चित्ते कृत्वा दयां ततः । हाटकेश्वरजं क्षेत्रं गत्वा सिद्धिप्रदायकम्

苏多说道:舒克罗听闻其言,心生悲悯,遂前往哈塔凯湿伐罗的神圣刹土——那能赐予悉地(成就)的圣域。

Verse 2

चकार विधिवद्धोमं स्वमांसेन हुताशने । मंत्रैराथर्वणै रौद्रैः कुण्डं कृत्वा त्रिकोणकम्

在那里,他依仪轨行火供,以自身之肉投献于炽燃之火;并以凶烈的阿闼婆吠陀咒语,造作三角形火坛(trikoṇa-kuṇḍa)。

Verse 3

एवं संजुह्वतस्तस्य तेन वै विधिना तदा । यथा रुद्रेण संतुष्टा देवी केलीश्वरी तदा

当他依此法如是献供之时,女神凯利湿伐丽便于彼时欢喜满足——正如往昔鲁陀罗曾令她称心一般。

Verse 4

तं प्रोवाच समेत्याशु शुक्रं दैत्यपुरोहितम् । मा त्वं भार्गवशार्दूल कुरु मांसपरिक्षयम्

她迅速前来,对代底耶族的祭司舒克罗说道:“噢,婆尔伽婆族中的猛虎啊,莫使你的血肉枯耗消损。”

Verse 5

भाविताऽहं त्रिनेत्रेण तत्किं ब्रूहि करोमि ते

“我已蒙三眼大主加持得力;故而直言吧——我当为你做什么?”

Verse 6

शुक्र उवाच । यथा रुद्रस्य साहाय्यं त्वयात्र विहितं शुभे । अंधकस्याऽपि कर्तव्यं तथैवैष वरो मम

舒克罗说道:“吉祥者啊,你在此如何援助鲁陀罗,也当同样为安陀迦而行;此即我所赐之恩许。”

Verse 7

ये केचिद्दानवा युद्धे भक्षिताश्च विनाशिताः । अस्य सैन्यस्य ते सर्वे पुनर्जीवंतु सत्वरम्

“此军中凡在战斗里被吞噬或被毁灭的诸达那婆,愿他们全都迅速复生。”

Verse 8

देव्युवाच । जीवयिष्यामि तान्सर्वान्दानवान्निहतान्रणे । नवसंभक्षितान्विप्र प्रविष्टान्योगिनीमुखे

女神说道:“婆罗门啊,我将使一切在战阵中被杀的达那婆复活;即便是方才被吞下、已入瑜伽女口中的,也要复生。”

Verse 9

एवमुक्त्वा ददौ तस्मै सा देवी हर्षितानना । नाम्नाऽमृतवतीं विद्यां यया जीवंति ते मृताः

说罢,女神面容欢悦光辉,便赐予他名为“阿蜜利多伐蒂(Amṛtavatī)”的圣智;凭此圣法,连亡者亦能复生。

Verse 10

ततः शुक्रः प्रहृष्टात्मा गत्वांधकमुवाच ह । सिद्धा केलीश्वरी देवी यथा शम्भोस्तथा मम

随后,舒克罗心中欢喜,前往安陀迦说道:“凯利湿伐梨女神已得成就,永不失误;她之于商婆(湿婆)如何,亦之于我如是。”

Verse 11

तया दत्ता शुभा विद्या मम दैत्या मृताश्च ये । तान्सर्वांस्तत्प्रभावेन योजयिष्यामि जीविते

凭她赐予我的吉祥明咒(vidyā)之力,我将使我所有已死的阿修罗族达伊提亚众复归生命。

Verse 12

त्वयाऽस्याः सततं भक्तिः कार्या दानव सत्तम । अष्टम्यां च विशेषेण चतुर्दश्यां च सर्वदा

噢,诸达那婆中最胜者,你当恒常对她怀持虔敬;尤其在第八日(Aṣṭamī)与第十四日(Caturdaśī)之时,更应常常奉敬。

Verse 13

एषा सा परमा शक्तिर्यया व्याप्तमिदं जगत् । केवलं भक्तिसाध्या सा न दण्डेन कथंचन

她即是至上神力(Śakti),遍满并贯通此整个世界。唯以虔信方能证得她,绝非凭强迫或刑罚之力。

Verse 14

एवमुक्तस्तु शुक्रेण स तदा दानवाधिपः । तां देवीं पूजयामास भावभक्तिसमन्वितः

既蒙舒克罗如此开示,那时达那婆之主便以至诚之心、满怀虔敬,礼拜供养那位女神。

Verse 15

स्तुत्वा च विविधैः स्तोत्रैस्ततः प्रोवाच सादरम् । तथान्या मातरः सर्वा यथाज्येष्ठं यथाक्रमम्

以种种赞颂之偈赞礼她之后,他便恭敬启言;同样地,他也依长幼尊卑与应有次第,向其余一切母神逐一致敬陈词。

Verse 16

अज्ञानाद्यन्मया देवि कृतः कोपस्तवोपरि । मर्षणीयस्तथा सोऽद्य दीनस्य प्रणतस्य च

噢,女神啊,我因无明而对您发怒;愿您今日垂赦。此身困苦卑微,我俯首顶礼,至诚归依。

Verse 17

श्रीदेव्युवाच । परितुष्टाऽस्मि ते वत्स प्रभावाद्भार्गवस्य च । वरं वरय तस्मात्त्वं न वृथा दर्शनं मम

吉祥的女神说道:“爱子啊,我已悦纳于你;亦因婆伽婆(商羯罗/舒克罗,Śukra)之威德与功德。故当自择一愿;我向你显现,决不徒然。”

Verse 18

अन्धक उवाच । अनेनैव तु रूपेण ये त्वां ध्यायंति देहिनः । पूजयंति च सद्भक्त्या संस्थाप्य प्रतिमां तव । तेषां सिद्धिः प्रदातव्या त्वया हृदयवांछिता

安陀迦说道:“凡具身之众生,若即以此形相观想于您,并安立您的圣像,以真诚奉爱而礼拜供养者——愿由您赐与他们心中所愿、所珍藏的成就。”

Verse 19

देव्युवाच । यो मामनेन रूपेण स्थापयिष्यति मानवः । तस्य मोक्षं प्रदास्यामि पापस्यापि न संशयः

女神说道:“凡人若即以此形相安立于我,我必赐其解脱;纵使有罪,亦无疑虑。”

Verse 20

योऽष्टम्यां च चतुर्दश्यां मम पूजां करिष्यति । तस्मै स्वर्गं प्रदास्यामि पापस्यापि दनूत्तम

“噢,诸达那婆中之最胜者,凡于月相第八日与第十四日供奉礼拜我者,我必赐其天界之乐;纵使有罪亦然。”

Verse 21

केवलं दर्शनं यश्च ध्यानं वा मे करिष्यति । तस्य राज्यं प्रदास्यामि भोगान्मानुषसंभवान्

凡但得瞻仰我者,或于我作禅观者——我必赐其王权与人间所生之福乐。

Verse 22

एवमुक्त्वाऽथ सा देवी ततश्चादर्शनं गता । तैश्च मातृगणैः सार्धं पश्यतस्तस्य तत्क्षणात्

如是言已,女神随即从视野中顿然隐没——并与诸母神众同去——就在他凝望之时,于那一刹那。

Verse 23

शक्रोऽपि दानवान्सर्वांस्तया संसिद्धया ततः । मृतान्संजीवयामास दैतेयान्नवभक्षितान्

其后,释迦(因陀罗)亦凭彼已成就之力,使一切已死的檀那婆战士复苏——即那些方才被吞噬的代底耶。

Verse 24

तैः समेत्य स दैत्येन्द्रः प्रहृष्टेनांतरात्मना । तां पुरीं प्राप्य शक्रस्य राज्यं चक्रे दिवानिशम्

与众会合后,那代底耶之主——内心欢欣踊跃——抵达彼城,昼夜夺取释迦之王权。

Verse 25

तां देवीं ध्यायमानस्तु पूजयानो दिवानिशम् । अष्टम्यां च चतुर्दश्यां विशेषेण महाबलः

那大力者昼夜观想女神、奉行供养,尤以阿湿达弥与遮图尔达湿之日为最为郑重。

Verse 26

अथ तस्याः प्रभावं तं ज्ञात्वा व्याससमुद्भवः । स्थानेऽत्र स्थापयामास संसिद्धिं प परां गतः

于是,明了她威力的伟大之后,那位由毗耶娑所出者便在此地建立对她的供奉,并证得至上的成就。

Verse 27

सूत उवाच एवं केलीश्वर देवी संजाता परमेश्वरी । तस्मात्स्थाप्या च पूज्या च ध्येया चैव विशेषतः

苏多说道:“如是,凯利湿伐罗女神成为至上女神。因此,应当为她安置圣位、奉祀礼拜,并尤当以禅观忆念。”

Verse 28

एवं देव्या नरो यश्च पठते वा शृणोति वा । वाच्यमानं स मुच्येत व्यसनेन गरीयसा

如是,凡人若诵读或聆听这段女神的圣迹——在被高声宣读之时——亦能从极其沉重的灾厄中得解脱。

Verse 29

भ्रष्टराज्योऽथवा राजा यः शृणोत्यष्टमीदिने । स राज्यं लभते भूयो निखिलं हतकंटकम्

即便是失国之王,若在阿湿达弥(第八月日)聆听此法,也将再得王权,圆满无刺(诸难尽除)。

Verse 30

युद्धकाले च संप्राप्ते यश्चैतच्छृणुयान्नरः । स हत्वा शत्रुसंघातं विजयं च समाप्नुयात्

并且当战时来临,凡聆听此者,必能击溃敌军之众,终得胜利。