
诸仙人询问苏多:法王(阎摩)为消解曼陀毗耶牟尼之诅咒,曾修何等苦行与观修。苏多叙述:法王因诅咒而忧惧,在一处圣地行大苦行,建立如宫殿般的坛场以奉祀“披发者”迦帕尔丁(湿婆),并以花、香、薰香与涂香恭敬供养。大自在天欢喜,许以赐愿。 法王陈言:自己虽奉行本职之法(dharma),却仍被诅咒将生于首陀罗之胎,恐受诸苦,并忧亲族毁灭(jñāti-nāśa)。湿婆开示:圣贤之言不可推翻;法王必将生为首陀罗,但不生子嗣;虽目睹亲族凋零,亦不为悲恸所胜,因为他所立禁戒他人不听,故其情担得以减轻。 继而预示其教化之生:一百年间,他将常向于法,屡屡为亲族利益而施教诫,即便他们少信而行不正。满百年后,他将由“梵门”(brahma-dvāra)舍身,证得解脱(mokṣa)。末后指出其应验:法王下生为毗度罗(Vidura),由毗耶娑(Pārāśarya)安排,生于一位侍女(dāsī)之胎,使曼陀毗耶之言成真;闻此因缘,被称为能灭罪之圣闻。
Verse 1
ऋषय ऊचुः । किं कृतं धर्मराजेन तपोध्यानादिकं च यत् । मांडव्यशापनाशाय तदस्माकं प्रकीर्तय
诸仙人说道:“法王为解除曼陀毗耶的诅咒,曾修何等苦行、禅定及诸般法门?请为我们宣说。”
Verse 2
सूत उवाच । मांडव्य शापमासाद्य धर्मराजः सुदुःखितः । तपस्तेपे द्विजश्रेष्ठास्तस्मिन्क्षेत्रे व्यवस्थितः
苏多说道:“法王遭受曼陀毗耶的诅咒后,悲苦至极。诸位最胜的二生者啊,他安住于那神圣之地,修行苦行。”
Verse 3
प्रासादं देवदेवस्य संविधाय कपर्दिनः । अव्यग्रं पूजयामास पुष्पधूपानुलेपनैः
他为诸神之神——披发者迦波尔丁(湿婆)——安置殿堂神龛,继而心无散乱,以花、香与涂香恭敬供奉。
Verse 4
ततः कालेन महता तुष्टस्तस्य महेश्वरः । प्रोवाच वरदोऽस्मीति प्रार्थयस्व यदीप्सितम्
随后经久时日,大自在天(摩诃湿伐罗)悦纳于他,说道:“我乃赐愿者;汝所欲者,尽可祈求。”
Verse 5
धर्मराज उवाच । अहं देव पुरा शप्तो मांडव्येन महात्मना । स्वधर्मे वर्तमानोऽपि सर्वदोषविवर्जितः
法王说道:“主啊,久远以前,我曾被大德牟尼曼陀毗耶诅咒;我虽安住于自身之法,亦无一切过失。”
Verse 6
कुपितेन च तेनोक्तं शूद्रयोनौ भविष्यसि
他因忿怒而对我说:“汝将生于首陀罗之胎。”
Verse 7
तत्रापि च महद्दुःखं ज्ञातिनाशसमुद्रवम् । मच्छापजनितं सद्यो जातिजं समवाप्स्यसि
“即便在彼处,汝亦将遭受大苦,由亲族毁灭之海而起;此乃生而为生之苦,因我诅咒而立刻招致。”
Verse 8
तस्मात्त्राहि सुरश्रेष्ठ तस्या योनेः सकाशतः । कथं चैतद्विधो भूत्वा तस्यां जन्म करोम्यहम्
因此,噢诸天中最尊胜者,请护佑我远离那胎藏。以我如今这般情状,怎能在那等境遇中受生?
Verse 9
तत्रापि च महदुःखं ज्ञातिनाशसमुद्भवम् । एतदर्थे सुरश्रेष्ठ मया चाराधितो भवान्
而在那一生中,也将有由亲族覆灭而生的大苦。正因如此,噢诸天中最尊胜者,我才敬拜供奉于你。
Verse 10
श्रीभगवानुवाच । न तस्य सन्मुनेर्वाक्यं शक्यते कर्तुमन्यथा । तस्माच्छूद्रोऽपि भूत्वा त्वं न संतानमवाप्स्यसि
世尊说道:“那位圣牟尼之言不可更改。因此,即便你转生为首陀罗,也将不得子嗣。”
Verse 11
ज्ञातिक्षयं प्रदृष्ट्वापि नैव दुःखमवाप्स्यसि । यतो निषिध्यमानापि न करिष्यंति ते वचः
即便亲族覆灭在前,你也不会陷入忧苦;因为纵然再三劝诫,他们仍不会听从你的话。
Verse 12
एतस्मात्कारणाच्चित्ते न ते दुःखं भविष्यति । ज्ञातिजं धर्मराजैतत्सत्यमेव मयोदितम्
正因如此,你心中将不生忧悲。噢法王(Dharmarāja),我所说确为真实:你的哀苦与亲族之事相连。
Verse 13
स्थित्वा वर्षशतं प्राज्ञ त्वं शूद्रो धर्मवत्सलः । उपदेशान्बहून्दत्त्वा ज्ञातिभ्यो हितकाम्यया । अपि श्रद्धा विहीनेषु पापात्मसु सदैव हि
噢,智者啊,即使你以首陀罗之身住世百年,仍将爱护正法(dharma)。为求亲族安乐,你会赐予他们许多教诲,纵然他们常怀罪业、缺乏信心(śraddhā)。
Verse 14
ततो वर्षशते पूर्णे ब्रह्मद्वारेण केवलम् । आत्मानं सम्यगुत्सृज्य मोक्षमेव प्रयास्यसि
随后,当百年圆满之时,唯由梵门(Brahma-gate)而出,你将如法舍离此身,直趋解脱(mokṣa)。
Verse 15
एवमुक्त्वा स भगवान्गतश्चादर्शनं ततः । धर्मराजोऽपि तं शापं भेजे मांडव्यसंभवम्
言毕,世尊遂从眼前隐没。法王(Dharmarāja)亦承受了那由曼荼婆耶(Māṇḍavya)所起的诅咒。
Verse 16
तदा विदुररूपेण ह्यवतीर्य धरातले । मांडव्यस्य वचः सत्यं स चकार महामतिः
其时,他以毗度罗(Vidura)之形降临大地;那位大心者使曼荼婆耶(Māṇḍavya)之言真实应验。
Verse 17
जातो भगवता साक्षाद्व्यासेनामिततेजसा । पाराशर्येण विप्रेण दासीगर्भसमुद्भवः
他由神圣的毗耶娑(Vyāsa)亲自而生,光辉无量——那位婆罗门、波罗舍罗之子——出自一位婢女之胎。
Verse 18
एतद्वः सर्वमाख्यातं धर्मराजसमुद्भवम् । आख्यानं यदहं पृष्टः सर्वपातकनाशनम्
至此,我已向诸位详述这一源自法王(Dharmarāja)显现的圣传——正是我被问及的故事——能灭除一切罪业。
Verse 138
इति श्रीस्कांदे महापुराण एकाशीतिसाहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरोत्पत्तिवर्णनंनामाष्टात्रिंशदुत्तरशततमोअध्यायः
至此,《圣军陀大往世书》(八万一千颂本集 Saṃhitā)中第六《城邑品》(Nāgara Khaṇḍa)之《哈塔凯湿伐罗圣域功德》(Hāṭakeśvara-kṣetra Māhātmya)内,题为《法王主(Dharmarājeśvara)起源之描述》的第一百三十八章圆满结束。