
第134章以苏多(Sūta)与诸仙(ṛṣi)的对话展开,背景在圣地 Śrīhāṭakeśvara-kṣetra / Kāmeśvara-pura。诸仙请问:爱神迦摩(Kāma)为何遭受 kuṣṭha(麻风/皮肤恶疾)之苦,以及当地两处圣迹——石形女神 Śilākhaṇḍā / Khaṇḍaśilā 与吉祥之井 Saubhāgya-kūpikā——的由来。 苏多叙述婆罗门苦行者哈利塔(Harīta)与其德行卓绝的妻子。因迦摩欲箭所触,她无意间成为迦摩的欲念对象。哈利塔察觉后,以法与戒律之义发下诅咒:迦摩染上 kuṣṭha 并遭世人厌弃;妻子则因心念一瞬偏离而化为石。 经文继而阐明罪业三门:意、语、身,并强调“意”(心)为责任之根。迦摩衰弱引发宇宙层面的后果:生育与世间延续受扰,诸天遂求解救之道。于是规定礼敬石形女神、沐浴净身,并在相关水域行触水等仪式,使其成为以疗愈皮肤病、赐予 saubhāgya(福泽、婚姻吉庆)而著称的圣渡处(tīrtha)。 章末给出近似持戒(vrata)的法则:于 Trayodaśī 之日礼拜 Khaṇḍaśilā 与 Kāmeśvara,承诺护持免于流言与丑闻,恢复容色与福运,并令家宅安泰。
Verse 1
ऋषय ऊचुः । यदा दक्षेण क्रुद्धेन पुरा शप्तो हिमद्युतिः । तत्सर्वं भवता प्रोक्तं सोमनाथकथानकम्
诸仙人说道:“往昔因达克沙忿怒而诅咒光辉的苏摩之事——这一切你已宣说,那便是索摩那他(Somanātha)的圣传。”
Verse 2
सांप्रतं वद कामस्य यथा कुष्ठोऽभवत्पुरा । येन दोषेण शापश्च केन तस्य नियोजितः
如今请说说迦摩(Kāma):他在往昔如何染上麻风——因何过失,又是谁将此诅咒加于他?
Verse 3
शिलाखंडा च या देवी तथा सौभाग्यकूपिका । यथा तत्र समुत्पन्ना तथाऽस्माकं प्रकीर्तय
并请也为我们宣说:女神石块女神(Śilākhaṇḍā)以及名为“吉祥之井”(Saubhāgya-kūpikā)的井,如何在彼处出现——就按其缘起如实叙述。
Verse 4
सूत उवाच । पुरासीद्ब्राह्मणो नाम हारीत इति विश्रुतः । स तपस्तत्र संतेपे वानप्रस्थाश्रमे वसन्
苏多说道:往昔有一位著名的婆罗门,名为诃利多(Hārīta)。他住于林栖期(vānaprastha)的道场,在彼处修行苦行。
Verse 5
तस्य भार्याऽभवत्साध्वी रूपौदार्यसमन्विता । त्रैलोक्यसुन्दरी साक्षाल्लक्ष्मीरिव मधुद्विषः
他的妻子是一位贞善的淑女,兼具容颜与高贵的慷慨;美名动于三界,宛如吉祥天女拉克希米(Lakṣmī)亲侍诛灭摩度者毗湿奴(Viṣṇu)之侧。
Verse 6
ख्याता पूणकलानाम सर्वैः समुदितागुणैः । तां दृष्ट्वा पद्मजोऽप्याशु कामस्य वशगोऽभवत्
她以“普那迦罗”(Pūṇakalā)之名闻名,具足一切汇聚的美德。帕德摩迦(梵天 Brahmā)一见到她,也立刻落入伽摩(Kāma)之势。
Verse 7
कदाचिदपि स प्राप्तस्तस्मिन्क्षेत्रे मनोभवः । सह रत्या तथा प्रीत्या कामेश्वरदिदृक्षया
有一次,摩诺婆伐(Manobhava,伽摩 Kāma)来到那片圣域,偕同罗蒂(Rati)与普利蒂(Prīti),渴望瞻礼迦梅湿伐罗(Kāmeśvara)。
Verse 8
एतस्मिन्नंतरे सापि स्नानार्थं तत्र चागता । कृत्वा वस्त्रपरित्यागं विवेश जलाशयम्
与此同时,她也来到那里沐浴;放下衣裳,便步入那水池之中。
Verse 9
अथ तां कामदेवोपि समालोक्य शुभाननाम् । आत्मीयैरपि निर्विद्धो हृदये पुष्पसायकैः
于是,伽摩天(Kāma-deva)也望见她那吉祥秀美的面容;他竟被自己那花箭刺入心间。
Verse 10
ततो रतिं परित्यक्त्वा प्रीतिं च शरपीडितः । विजनं कंचिदासाद्य प्रसुप्तः स तरोरधः
随后,他被箭伤所苦,竟连罗蒂与普利蒂也抛下;来到一处幽寂之地,便在树下沉沉睡去。
Verse 11
गात्रैः पुलकितैः सर्वैर्निःश्वासान्निःश्वसन्मुहुः । अग्निवर्णान्सुदीर्घांश्च बाष्प पूर्णविलोचनः
他全身汗毛直竖,不住地叹息;眼中充满泪水,呼出如火般灼热的长气。
Verse 12
तिष्ठन्स दर्शने तस्या एकदृष्ट्या व्यलोकयत् । योगीव सुसमाधिस्थो ध्यायंस्तद्ब्रह्म संस्थितम्
他站在她视线之内,目不转睛地凝视着她,就像一位入定的瑜伽士,沉思着心中确立的梵。
Verse 13
सापि कामं समालोक्य सानुरागं पुरः स्थितम् । जृंभाभंगकृतास्यं च वेपमानशरीरकम्
她也看见爱神(Kāma)带着渴望站在面前,注意到他张口似欲打哈欠,身体也在颤抖。
Verse 14
सापि तद्बाणनिर्भिन्ना साभिलाषा बभूव ह । कामं प्रति विशेषेण तस्य रूपेण मोहिता
她也被那些箭矢射中,心中充满了渴望——尤其是对爱神——被他的容貌所迷惑。
Verse 15
अथ तस्माज्जलात्कृच्छ्राद्विनिष्क्रम्य शुचिस्मिता । तीरोपांतं समासाद्य स्थिता तद्दृष्टिगोचरे
随后,她费力地从水中走出;带着温柔的微笑,她来到岸边,站在他目光所及之处。
Verse 16
ततः कामः समुत्थाय शनैस्तदंतिकं ययौ । कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम्
于是伽摩起身,缓缓走近她,合掌致敬,恭敬地对她说道。
Verse 17
का त्वमत्र विशालाक्षि प्राप्ता स्नातुं जलाशये । मम नाशाय चार्वंगि तस्माच्छृणु वचो मम
“你是谁,广目之女,来到此处在这池中沐浴?啊,肢体秀美的女子——既然你成了我败亡的缘由,便请听我之言。”
Verse 18
अहं पुष्पशरो लोके प्रसिद्धश्चारुहासिनि । विडंबनां मया नीता देवा अपि निजैः शरैः
“啊,笑容柔美者,我在世间以‘花箭’之神伽摩而闻名。凭我自己的箭,连诸天也曾被引入羞辱与迷狂。”
Verse 19
मद्बाणेनाहतो रुद्रः स्वशरीरे नितंबिनीम् । अर्द्धेन धारयामास त्यक्त्वा लज्जां सुदूरतः
“被我的箭所伤,鲁陀罗将那丰臀佳人拥持于自身之上——以她为己之半身——把羞怯远远抛却。”
Verse 20
ब्रह्मा मच्छरनिर्भिन्नः स्वसुतां चकमे ततः । जनयामास तान्विप्रान्वालखिल्यांस्तथाविधान्
“梵天被我的箭刺穿,遂对自己的女儿生起欲念;其后又生出诸婆罗门仙者,如瓦拉契利耶等同类圣贤。”
Verse 21
अहिल्यां चकमे शक्रो गौतमस्य प्रियां सतीम् । मद्बाणैः पीडितोऽतीव स्वर्गादेत्य धरातलम्
释迦罗(因陀罗)贪恋阿诃利耶——乔达摩那位贞洁可敬的爱妻。被我的箭矢重重折磨,他从天界降至人间大地。
Verse 22
एवं देवा अपि क्षुण्णा मच्छरैर्ये महत्तराः । किं पुनर्मानवाः सुभ्रूः कृमिप्रायाः सुचंचलाः
如此,连更伟大的诸天也被我的箭矢所摧伏。更何况人类呢,噢眉目清丽者——如虫般卑微,天性又轻浮多变!
Verse 23
आकीटांतं जगत्सर्वमाब्रह्मांतं तथैव च । विडंबनां परां प्राप्तं मच्छरैश्चारुहासिनि
整个世界——从虫蚁之微直到梵天——也都因我的箭矢而陷入极大的讥诮与羞辱,噢笑容娴美者。
Verse 24
अहं पुनस्त्वया भीरु नीतोऽवस्थामिमां शुभे
而我自己,噢怯弱者、吉祥的淑女啊,却因你而被带到如今这般境地。
Verse 25
तस्माद्देहि महाभागे ममाद्य रतदक्षिणाम् । यावन्न यांति संत्यज्य मम प्राणाः कलेवरात्
因此,噢大福德者,愿你今日赐我爱欲交欢之“达克希那”(供施),趁我的生命之息尚未离此身躯而去。
Verse 26
सूत उवाच । सापि तद्वचनं श्रुत्वा पतिव्रतपरायणा । हन्यमाना विशेषेण तद्बाणैर्हृदये भृशम्
苏多说道:她听了他的话,那位全心守持对夫贞誓的贤妇,被那些箭矢猛烈击中,尤以心中最为痛切。
Verse 27
अनभिज्ञा च सा साध्वी कामधर्मस्य केवलम् । तापसैः सह संवृद्धा नान्यं जानाति किंचन
那位贤淑女子对情欲之道全然不知;她在苦行仙人之间长大,除此之外别无所识。
Verse 28
वक्तुं तद्विषये यच्च प्रोच्यते कामपीडितैः । अधोमुखाऽलिखद्भूमिमंगुष्ठेन स्थिता चिरम्
凡是那些为欲火所逼的人在此事上所说的话,她都低垂着脸,久久伫立,用拇指在地上划画。
Verse 29
एतस्मिन्नन्तरे भानुः प्राप्तश्चास्तं गिरिं प्रति । विहारसमये प्राप्त आहिताग्निर्निवेशने
其间,太阳已抵达落山之岭;而在傍晚安歇之时,那位守持圣火的阿希塔格尼(Āhitāgni)回到了自己的住处。
Verse 30
हारीतोऽपि चिरं वीक्ष्य तन्मार्गं चाकृताशनः । ततः स चिंतयामास कस्मात्सा चात्र नागता
哈利多也久望那条道路,甚至未曾进食;随后他心中思量:“她为何还未到此?”
Verse 31
स्नात्वा तीर्थवरे तस्मिन्दृष्ट्वा तां चन्द्रकूपिकाम् । कामेश्वरं च देवेशं कामदं सुखदं नृणाम्
在那最殊胜的圣渡沐浴之后,又瞻见月井(Candrakūpikā),他得以见到迦摩自在天(Kāmeśvara),诸天之主——赐予所愿、施与人间安乐者。
Verse 32
ततः शिष्यसमायुक्तो वीक्षमाण इतस्ततः । तं देशं समनुप्राप्तो यत्र तौ द्वावपि स्थितौ
随后,他与弟子们同行,四下张望,来到那处——二者正并立其间。
Verse 33
आलपन्बहुधा कामो हन्यमानो निजैः शरैः । सापि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता
迦摩多方言说,纵然正被自己之箭所伤;而她亦因尤甚的羞怯,低首而立。
Verse 34
स गुल्मांतरितः सर्वं तच्छ्रुत्वा कामजल्पितम् । तस्याश्च तद्गतं भावं ततः कोपादुवाच सः
他藏身于丛莽之中,尽闻迦摩之言;又察觉她的心意系于其上,遂因忿怒而发言。
Verse 35
यस्मात्पाप त्वया पत्नी ममैवं शरपीडिता । अनभिज्ञा तथा साध्वी पतिधर्मपरायणा । कुष्ठव्याधिसमायुक्तस्तस्माद्विप्रियदर्शनः
“因你这罪人,我之妻竟被你的箭如此所苦——她本无知无过,贞洁贤善,专一奉行夫之法(夫德之法);故你当染麻风之疾,形貌可憎,令人不忍目睹。”
Verse 36
त्वं भविष्यसि पापात्मन्मुक्तो दारैः स्वकैरपि । साऽपि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता
“你这罪恶之心者,将与自己的妻子们也分离。”她亦然,尤为羞惭所压,低首而立。
Verse 37
एषापि च शिलाप्राया भविष्यति विचेतना । त्वां दृष्ट्वा या सरागाऽभून्निजधर्मबहिष्कृता
“她也将几近如石,无知无觉”——因为见到你时,她生起贪爱之情,而被逐离自身之法(达摩)。
Verse 38
ततः प्रसादयामास तं कामः प्रणिपत्य च । न ज्ञातेयं मया विप्र तव भार्येति सुन्दरी
于是伽摩俯首顶礼,欲求平息其怒,说道:“噢,婆罗门啊,我不知这位美丽的女子乃是你的妻子。”
Verse 39
तेन प्रोक्ता विरुद्धानि वाक्यानि विविधानि च । एतस्या नास्ति दोषोऽत्र मद्बाणैः पीडिता भृशम्
“是我说了许多相违而不当之语。此事她并无过失——她已被我的箭矢深深折磨。”
Verse 40
सानुरागा परं जाता नोक्तं किंचिद्वचो मुने । तस्मान्नार्हसि शापं त्वं दातुमस्याः कथंचन
“纵然她深深动情,牟尼啊,她也未曾说出一言。因此,你万不可对她施以任何诅咒。”
Verse 41
ममास्त्येषो ऽपराधोऽत्र तस्मान्मे निग्रहं कुरु । भूयोऽपि ब्राह्मणश्रेष्ठ अस्याः शापसमुद्भवम्
此处此罪过实属我身,故请约束并惩戒我。噢,最胜婆罗门,愿那由诅咒所生之果报,转而降临于我。
Verse 42
अपि रुद्रादयो देवा मद्बाणेभ्यो द्विजोत्तम । सोढुं शक्ता न ते यस्मात्तत्कथं स्यादियं शिला
噢,最胜二生者,纵使以鲁陀罗为首的诸天也不能承受我之箭矢;那么此女又怎会沦为区区顽石?
Verse 43
तथात्र त्रिविधं पापं प्रवदंति मनीषिणः । मानसं वाचिकं चैव कर्मजं च तृतीयकम् । तदस्माकं द्विधा जातमेकं चास्या मुनीश्वर
再者,智者宣说罪业有三:意之罪、语之罪,以及第三为身行之罪。其中两种生于我身,而她仅生一种,噢,牟尼之主。
Verse 44
भार्यायास्ते सुरूपायास्तस्मात्संपूर्णनिग्रहम् । करिष्यसि न ते भीतिः काचिदस्ति परत्रजा
因此,就你那容貌端丽的妻子而言,你当全然制止(诅咒之力)。勿惧——因此事之故,来世于你并无任何祸患。
Verse 45
मनस्तापाद्व्रजेत्पापं मानसं वाचिकं च यत् । तस्य प्रसादनेनैव यस्योपरि विजल्पितम्
由意与语所生之罪,因内心悔热而离散;而其消除,正在于安抚那位被我们失言所伤之人。
Verse 46
प्रायश्चित्तैर्यथोक्तैश्च कर्मजं पातकं व्रजेत् । धर्मशास्त्रैः परिप्रोक्तं यतः सर्वैर्महामुने
然而,由行为所生之罪,能以所规定的忏悔与赎罪法而除灭;此理已在一切《达摩论典》(Dharmaśāstra)中详尽宣说,噢,大圣仙。
Verse 47
हारीत उवाच । अन्यत्र विषये तस्याः पातकं कामदेवते । एतस्य तव धर्मस्य प्राधान्यं मनसः स्मृतम्
哈利多说道:“从另一层面看,噢迦摩天(Kāmadeva),她确有过失;然而在你所陈述的此法中,人们铭记:心意为先,足以裁决。”
Verse 48
तस्मादेवंविधा चेयं सदा स्थास्यति चाधम । किं पुनः कुरु यत्कृत्यं नाहं वक्ष्यामि किंचन
因此,噢卑劣之人,她将永远停留在这般境地。还能做什么呢?当行之事便去行吧;我不再多言。
Verse 49
प्रथमं मनसा सर्वं चिंत्यते तदनंतरम् । ततः प्रजल्पते वाचा क्रियते कर्मणा ततः
首先,一切先在心中构想;继而由口宣说;随后才以行为实行。
Verse 50
प्रमाणं हि मनस्तस्मात्सर्वकृत्येषु सर्वदा । एतस्मात्कारणात्पूर्णो मयाऽस्या निग्रहः कृतः
因此,在一切所作之事上,心意恒为决定的尺度。正因如此,我才对她施以彻底的约束与制止。
Verse 51
सूत उवाच । एवमुक्त्वा मुनिश्रेष्ठो हारीतः स्वाश्रमं ययौ । सापि पूर्णकला जाता शिलारूपा च तत्क्षणात्
苏多说道:“说完这些,最殊胜的牟尼哈利塔回到自己的静修林。她也在那一刹那间圆满成形,化作石身。”
Verse 52
कामदेवोऽपि कुष्ठेन ग्रस्तो रौद्रेण च द्विजाः । शीर्णनासांघ्रिपाणिश्च नेत्राणामप्रियोऽभवत्
“伽摩天也一样,噢诸位二生者,被可怖的麻风所侵;他的鼻、足与手皆腐坏,形貌令人不忍目睹。”
Verse 53
अथ कामे निरुत्साहे संजाते द्विजसत्तमाः । व्याधिग्रस्ते जगत्यस्मिन्सृष्टिरोधो व्यजायत
“于是,当欲望失却力量,噢最胜二生者,而此世又为疾病所困时,造化之流便发生了停滞。”
Verse 54
केवलं क्षीयते लोको नैव वृद्धिं प्रगच्छति । स्वेदजा येऽपि जीवाः स्युस्तेपि याताः परिक्षयम्
“世界唯有衰减,丝毫不见增长。即便是由汗生的众生,也都走向彻底的衰亡。”
Verse 55
एतस्मिन्नंतरे देवाः सर्वे चिंतासमाकुलाः । किमिदं क्षीयते लोको जलस्थैः स्थलजैः सह
“其间,诸天神众皆为忧思(cintā)所扰,心中自问:‘为何世界竟如此枯耗,连同水中与陆地的众生也一并衰败?’”
Verse 56
न दृश्यते क्वचिद्बालः कोऽपि कश्चित्कथंचन । न च गर्भवती नारी कच्चित्क्षेमं स्मरस्य च
四处皆不见孩童——无论如何,竟无一人。亦无妇人怀孕。爱神斯摩罗(迦摩提婆)可安好无恙?
Verse 57
ततस्तं व्याधिना ग्रस्तं ज्ञात्वात्र क्षेत्रसंश्रयम् । आजग्मुस्त्वरिताः सर्वे व्याकुलेनांतरात्मना
于是得知他为疾病所侵,且已依止此神圣刹土,众人皆急速前往,内心惶惶不安。
Verse 58
कामेश्वरपुरस्थं च तं दृष्ट्वा कुसुमायुधम् । अत्यंतविकृताकारं चिंतयानं महेश्वरम्
他们见到花箭神库苏玛由陀(迦摩)在迦梅湿瓦罗城中,又见大自在天摩诃湿伐罗形貌极度变异,沉入忧思,众心为之震恸。
Verse 59
ततः प्रोचुः सुदुःखार्ताः किमिदं कुसुमायुध । निरुत्साहः समुत्पन्नः कुष्ठव्याधिसमाकुलः
于是众人悲痛万分,说道:“这是怎么回事啊,花箭神库苏玛由陀?你的神采已失,且为麻风(库什塔)之疾所困。”
Verse 60
ततश्चाधोमुखो जातो लज्जया परया वृतः । प्रोवाच शापजं सर्वं हारीतस्य विचेष्टितम्
随后他垂下脸来,深深羞惭所覆,便坦陈这一切皆由诅咒而起——缘于与哈利塔相关的不当行径。
Verse 61
तत्तस्याराधनात्सर्वं संक्षयं यात्यसंशयम्
以礼敬那神圣的圣相,一切皆归于消灭——毫无疑惑。
Verse 62
तस्मादेतां शिलारूपां त्वमाराधय चित्तज । येन कुष्ठः क्षयं याति ततस्तेजोऽभिवर्धते
因此,噢 Cittaja(迦摩),当以至诚礼敬这位化现为石之圣者;由此麻风将被消除,而后你的光辉将再度增长。
Verse 63
जगति स्यान्महासृष्टिर्देवकृत्यं कृतं भवेत् । न तेऽस्ति कायजं पापं यतो मुक्त्वा प्रवाचिकम्
于是世间将有伟大的繁衍生起,诸天之职亦得圆满。于你并无由身所生之罪,因为你已舍离言语之过(并已陈述忏悔)。
Verse 64
अत्र कुण्डे त्वदीयेऽन्यो यः स्नात्वा श्रद्धयान्वितः । एनां पापविनिर्मुक्तां शिलां वै मानवः स्पृशेत्
在你这座圣池(kuṇḍa)中,凡他人以信心沐浴之后,再触及此石——此石已清净、离罪——
Verse 65
कुष्ठव्याधिसमोपेतः कायोत्थेनापि कर्मणा । सोऽपि व्याधिविनिर्मुक्तो भविष्यति गतज्वरः
——即便因身业而患麻风者,也将脱离诸病,热疾尽退。
Verse 66
एतत्सौभाग्यकूपं च लोके ख्यातं जलाशयम् । भविष्यति न संदेहः सर्वरोगक्षयावहम्
此水池将于世间闻名为“Saubhāgya-kūpa(福缘之井)”;毫无疑问,能消除一切疾病。
Verse 67
दद्रूणि दुर्विभूतानि तथान्याश्च विचर्चिकाः । अत्र स्नातस्य यास्यंति दृष्ट्वैतां सद्य एव हि
癣疾与顽固疹疮,以及其他诸般皮肤病,皆离开在此沐浴之人;诚然,一见此圣地(tīrtha),即刻便消散。
Verse 68
एवमुक्त्वाथ ते देवाः प्रजग्मुस्त्रिदशालयम् । कामदेवोऽपि तत्रस्थस्तस्याः पूजामथ व्यधात्
如是说罢,诸天便前往三十三天之居处。迦摩天(Kāmadeva)亦在其间,随即为她奉行礼拜供养。
Verse 69
ततश्च समतिक्रांते मासमात्रे द्विजोत्तमाः । तादृग्रूपः स संजातो यादृगासीत्पुरा स्मरः
随后,仅过一月而已,噢诸位最胜的两次生者,他便获得了与往昔的思摩罗(Smara,迦摩)同样的形相。
Verse 70
ततश्चायतनं तस्याः कृत्वा श्रद्धासमन्वितः । जगाम वांछितं देशं सृष्ट्यर्थं यत्नमास्थितः
其后,他怀着虔信为她建立圣所,遂往所愿之地而去,为了创造之业而勤勉用功。
Verse 71
सापि नम्रमुखी तादृक्तेन शप्ता तथैव च । संजाता खण्डकाकारा तेन खण्डशिला स्मृता
她也同样低垂着面容,照那般方式被他诅咒;遂化作碎片般的形体。因此人们称她为“Khandaśilā”(碎裂之石)。
Verse 72
यस्तां पूजयते भक्त्या त्रयोदश्यां तथैव च । नापवादो भवेत्तस्य परदारसमुद्भवः
凡以虔敬之心礼拜她者,尤其在月相第十三日(Trayodaśī),便不遭因牵连他人配偶而起的诽谤与污名。
Verse 73
कामिन्याश्च विशेषेण प्राहैतच्छंकरात्मजः । कार्तिकेयो द्विजश्रेष्ठाः सत्यमेतन्मयोदितम्
此事尤其为怀欲与思慕之女子而说,乃由迦尔蒂凯亚——商羯罗之子——所宣示。噢诸婆罗门中最胜者,我所言皆为真实。
Verse 74
तथा कामेश्वरं देवं कामदेवप्रतिष्ठितम् । त्रयोदश्यां समाराध्य सर्वान्कामानवाप्नुयात्
同样地,若在第十三月日(Trayodaśī)如法奉事主迦梅湿伐罗——由爱神伽摩提婆所安立者——便能成就一切所愿。
Verse 75
रतिप्रीतिसमायुक्तः स्थितस्तत्र स्मरस्तथा । मूर्तो ब्राह्मणशार्दूलाः श्रेष्ठं प्रासादमाश्रितः
在那里,斯摩罗亦停驻,偕同罗蒂与普利蒂相合;并以具身之相,居于那最胜的殿宇神庙之中,噢婆罗门中的猛虎。
Verse 76
विरूपो दुर्भगो यो वा त्रयोदश्यां समाहितः । यस्तं कुंकुमजैः पुष्पैः संपूजयति मानवः
无论其人形貌不端或命途不幸——若在十三日(Trayodaśī)心神安住,有人以染有姜黄红粉(kuṅkuma)芬芳之花恭敬圆满供奉彼神,
Verse 77
स सौभाग्यसमायुक्तो रूपवांश्च प्रजायते । या नारी पतिना त्यक्ता सपत्नीजनसंवृता
他将出生具足福运与美貌。而那被丈夫遗弃、又为诸共妻所环绕的女子——
Verse 78
तं देवं सुकलत्राढ्यं तथैव परिपूजयेत् । त्रयोदश्यां द्विजश्रेष्ठाः केसरैः कुंकुमोद्भवैः
噢,最胜的二生者啊,也应如是礼敬彼神——具足吉祥圣配——于十三日(Trayodaśī)奉献藏红花(kesar)及由姜黄红粉(kuṅkuma)所生的芬芳香粉。
Verse 79
सा सौभाग्यवती विप्रा जायते च प्रजावती । धनधान्यसमृद्धा च दुःखशोकविवर्जिता । दोषैः सर्वैर्विनिर्मुक्ता शंसिता धरणीतले
那位婆罗门女子便得婚姻吉祥,亦得子嗣;财宝与谷粮丰盈,远离忧愁悲苦;解脱一切过失,在大地之上为人称颂。
Verse 134
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये खंडशिलासौभाग्यकूपिकोत्पत्तिमाहात्म्यवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोध्यायः
至此,在神圣《室建陀摩诃往世书》——八万一千颂之汇编(saṃhitā)——第六部《那伽罗分卷》(Nāgara Khaṇḍa)中,于“圣地室利哈塔凯湿伐罗(Śrīhāṭakeśvara)功德赞”(Māhātmya)之内,题为《赞述Khaṇḍaśilā与Saubhāgya-kūpikā之起源》的章节圆满终结,即第134章。