
第133章叙述哈塔凯湿伐罗圣域(Hāṭakeśvara-kṣetra)中阿阇伽梨诃(Ajāgṛhā)的缘起与行仪。苏多向诸学者讲述:名为阿阇伽梨诃的神祇以减轻众生病苦而著称。一位婆罗门朝圣者疲惫而至,在羊群旁歇息,醒来却染上三种被点名的疾病:rājayakṣmā、kuṣṭha 与 pāmā。 随即一位光辉之人显现,自称阿阇王(Ajapāla),说明自己以“羊形”象征并统摄诸苦恼,从而护佑世人。诸病又言:其中两种受梵咒(brahmaśāpa)所缚,寻常疗法难以奏效;另一种则可凭真言与药物缓解,并警告此处地面之触亦可能传致相似病患。 阿阇王遂长时修行火供(homa)与虔敬仪式,诵持偏重阿闼婆系(Atharva)的咒诵,并唱诵护域神/宅地(kṣetrapāla/vāstu)赞歌,使地中之域神(kṣetradevatā)现起。神宣告此地已净除病缺,并开示疗愈次第:先礼拜阿阇伽梨诃,再于月井(Candrakūpikā)与吉祥井(Saubhāgya-kūpikā)沐浴,瞻近断石(Khaṇḍaśilā),并于星期日到天女池(Apsarasāṃ Kuṇḍa)沐浴以息平 pāmā。婆罗门依教奉行,诸病渐除而复元离去;章末重申:凡以戒律与恭敬在此礼拜者,阿阇伽梨诃之灵验恒常不息。
Verse 1
सूत उवाच । तथाऽन्यापि च तत्रास्ति देवता द्विजसत्तमाः । अजागृहेति विख्याता सर्वरोगक्षयावहा
苏多说道:在那里,噢诸位最殊胜的二生者,还有另一位神祇,名闻为“阿阇伽利诃”(Ajāgṛhā),能灭除一切疾病。
Verse 2
अजापालो यदा राजा सर्वलोकहिते रतः । अजारूपाः प्रयांति स्म व्याधयः सकला द्विजाः । तदा रात्रौ समानीय तस्मिन्स्थाने दधाति सः
当阿阇波罗王(Ajāpāla)致力于利益一切众生之时,噢二生者啊,诸般疾病都化作山羊之形而来。于是他在夜间将它们聚集起来,安置(囚禁)在那同一处地方。
Verse 3
ततस्तदाश्रयात्स्थानमजागृहमिति स्मृतम् । सर्वैर्जनैर्धरा पृष्ठेदर्शनाद्व्याधिनाशनम्
因此,由于它成了庇护之所,那地方便被称忆为“阿阇伽利诃”(Ajāgṛha,山羊之庇护处)。对大地上一切众生而言,仅仅瞻见此处,便能消灭疾病。
Verse 4
तत्रैश्वर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः । अहं वः कीर्तयिष्यामि श्रोतव्यं सुसमाहितैः
噢最殊胜的婆罗门们,往昔在那地方曾出现过非凡的神力显现。我将为你们宣说此事——请以安定专注之心聆听。
Verse 5
तत्रागतो द्विजः कश्चित्क्षेत्रे तापसरूपधृक् । तीर्थयात्राप्रसंगेन रात्रौ प्राप्तः श्रमान्वितः
在那里,有一位婆罗门来到那片圣域,身披苦行者之相。因巡礼诸圣地(tīrtha)之缘,他在夜间抵达此处,疲惫不堪。
Verse 6
अजावृंदमथालोक्य निविष्टं सुसुखान्वितम् । रोमंथ कर्मसंयुक्तं विश्वस्तमकुतोभयम्
随后,他看见一群山羊安然坐在那里,极其舒适,正反刍咀嚼;它们宁静、信任,无论四方皆无所畏惧。
Verse 7
स ज्ञात्वा मानुषेणात्र भवितव्यमसंशयम् । न शून्याः पशवो रात्रौ स्थास्यंति विजने वने
他毫不怀疑地明白:此处必有人的踪迹;因为众兽不会在夜里无人看守地停留在荒寂的森林中。
Verse 8
ततः फूत्कृत्य फूकृत्य दिवं यावन्न संदधे । कश्चिद्वाचं प्रसुप्तश्च तावत्तत्रैव चिंतयन्
随后,他一再发出洪亮的喷鼻呼唤之声,良久未能安住于睡意;然而就在原地思量之时,声音渐息,他也沉沉入睡。
Verse 9
अवश्यं मानुषेणात्र पशूनां रक्षणाय च । आगंतव्यं कुतोऽप्याशु तस्मात्तिष्ठामि निर्भयः
必定是为了护卫这些牲畜,必有某个人从某处迅速赶来此地;因此,我将无惧地留在这里。
Verse 10
एवं तस्य प्रसुप्तस्य गता सा रजनी ततः । ततस्त्वरितवत्तस्य सुश्रांतस्य द्विजोत्तमाः
就这样,在他沉睡之时,那一夜过去了。随后——噢,婆罗门中的至上者——种种事情便迅速临到那极其疲惫的人身上。
Verse 11
अथ यावत्प्रभाते स प्रपश्यति निजां तनुम् । तावत्कुष्ठादिभी रोगैः समंतात्परिवारिताम्
随后在黎明时分,他观照自身之躯,见其四面皆被麻风等诸病所围困。
Verse 12
अशक्तश्चलितुं स्थानादपि चैकं पदं क्वचित् । तेजो हीनोऽपि रौद्रेण चिन्तयामास वै ततः
他虚弱得连离开原地、迈出一步都不能;虽精气已衰,却仍在粗烈灼痛的煎迫中深深思量。
Verse 13
किमिदं कारणं येन ममैषा संस्थिता तनुः । अकस्मादेव रोगोऽयं चलितुं नैव च क्षमः
“究竟因何缘故,我的身体竟至如此?此病忽然而起,我竟全然不能动弹。”
Verse 14
एवं चिन्तयमानस्य तस्य विप्रस्य तत्क्षणात् । द्वादशार्कप्रतीकाशः पुरुषः समुपागतः
当那位婆罗门如此思惟之时,就在那一刹那,一位光辉如十二日的男子走近他。
Verse 15
तं यूथं कालयामास ततः संज्ञाभिराह्वयन् । पृथक्त्वेन समादाय यष्टिं सव्येन पाणिना
随后他以手势示意,使那群畜众退开;并将其分开,左手执起一根杖。
Verse 16
अथापश्यत्स तं विप्रं व्याधिभिः सर्वतो वृतम् । अशक्तं चलितुं क्वापि ततः प्रोवाच सादरम्
随后他看见那位婆罗门被诸般病患从四面围困,寸步难行;便恭敬地对他说道。
Verse 17
कस्त्वमेवंविधः प्राप्तः स्थाने चात्र द्विजोत्तम । नास्ति राज्ये मम व्याधिः कस्यचित्कुत्रचित्स्फुटम्
“你是谁,竟以如此境况来到此处,噢最胜的二次生者?在我的国土之中,任何地方都不应有显然的疾病加害于任何人。”
Verse 18
अजोनाम नरेन्द्रोऽहं यदि ते श्रोत्रमागतः । व्याधींश्च च्छागरूपेण रक्षामि जनकारणात्
“我乃名为阿阇(Ajo)之王,若我的名号曾入你耳。为护佑众生之故,我以山羊之形制伏诸病。”
Verse 19
तस्माद्ब्रूहि शरीरस्थो यस्ते व्याधिर्व्यवस्थितः । येनाऽहं निग्रहं तस्य करोमि द्विजसत्तम
“因此请告知我:何种疾病栖止于你身,使我得以加以制止,噢婆罗门中之最胜者。”
Verse 20
ब्राह्मण उवाच । तीर्थयात्रापरोऽहं च भ्रमामि क्षितिमंडले । क्रमेणाऽत्र समायातः क्षेत्रेऽस्मिन्हाटकेश्वरे
婆罗门说道:“我一心奉行朝圣,周游大地之环。循序而行,终于来到此处——哈塔凯湿伐罗(Hāṭakeśvara)之圣域。”
Verse 21
निशावक्त्रे नृपश्रेष्ठ वासः संचिंतितो मया । दृष्ट्वाऽमूंश्च पशून्भूप मानुषं भाव्यमेव हि
夜幕降临时,噢至上的君王,我思量在此留宿。见到这些牲畜,噢大地之主,我便以为它们必定在人的照料之下。
Verse 22
ततश्चात्र प्रसुप्तोऽहं पशूनामंतिके नृप
随后,噢国王,我就在此处、靠近那些牲畜之旁沉沉睡去。
Verse 23
अथ यावत्प्रभातेऽहं प्रपश्यामि निजां तनुम् । तावत्कुष्ठादिरोगैश्च समंतात्परिवारिताम्
随后至黎明时分,我一看见自己的身体,便发现它四面都被诸病所围绕——先是麻风等疾患。
Verse 24
नान्यत्किंचिन्नृपश्रेष्ठ कारणं वेद्मि तत्त्वतः । किमेतेन नृपश्रेष्ठ भूयोभूयः प्रजल्पता । बहुत्वात्कुरु तस्मान्मे यथा स्यान्नीरुजा तनुः
噢最胜之王,我确实不知还有别的缘由。噢国王,反复言说又有何益?因此,凭你丰盛的威力施为,使我之身得以无病安然。
Verse 25
ततस्ते व्याधयः प्रोक्ता अजापालेन भूभुजा । केनाज्ञा खंडिता मेऽद्य को वध्यः सांप्रतं मम
于是牧羊人将这些病状禀告那位护民之王。国王说道:“今日是谁违犯了我的命令?如今该由我惩治的是谁?”
Verse 26
व्याधय ऊचुः । मा कोपं कुरु भूपाल कृत्येऽस्मिंस्त्वं कथंचन । यस्मादेष द्विजो विष्टः सांप्रतं व्याधिभिस्त्रिभिः
诸病说道:“大王,于此事切莫动怒。因为这位婆罗门如今已被三种疾病侵入(附着)。”
Verse 27
राजयक्ष्मा च कुष्ठं च पामा च द्विजसत्तम । एते संसर्गजा दोषास्त्रयोऽद्यापि प्रकीर्तिताः
王痨(rājayakṣmā,痨病)、麻风(kuṣṭha)与疥癣(pāmā)——噢,婆罗门中最胜者——这三种至今仍被称为由接触而生的过患(传染之病)。
Verse 28
एतेषां प्रथमौ यौ द्वौ निवृत्तिरहितौ स्मृतौ । औषधैश्चैव मंत्रैश्च शेषा नाशं व्रजंति च
在这三者之中,最初的两种被记为难以止息(难以除去);而其余的一种,则可由药物以及真言(咒)而灭除。
Verse 29
आभ्यां च ब्रह्मशापोस्ति येन नास्ति निवर्तनम् । तस्मादत्र नृपश्रेष्ठ कुरु यत्ते क्षमं भवेत्
而在那两种之上,存有婆罗门的诅咒,因此无有回转。故此于此处,噢,诸王中最胜者,当行你所当行、你所能行之事。
Verse 30
एतेन ब्राह्मणेनैते स्पृष्टा राजंस्त्रयोपि च । तस्मात्तावत्तनुं चास्याविशतां तावसंशयम्
大王,这位婆罗门已触及这三者;因此毫无疑问,它们也就依其程度进入了他的身体之中。
Verse 32
यत्र स्थानं चिरं तत्र मेदिन्यां विहितं नृप । पुरीषं च समाविद्धा तेनैषा मेदिनी द्रुतम्
大王啊,凡是在大地上久住之处,那里的土地便迅速被玷污,又因粪秽而污浊;因此此土很快便成了不净之地。
Verse 33
कालांतरेपि ये मर्त्या भूम्यामस्यां समागताः । भूमेः स्पर्शं करिष्यंति ते भविष्यंति चेदृशाः
即使在后世,凡有凡人来到此地并触碰这里的土地,他们也将变成如此(受其苦患)。
Verse 34
वयं शेषा महाराज व्याधयो ये व्यवस्थिताः । त्वया मुक्त्वा भविष्यामो मन्त्रौषधवशानुगाः
“大王啊,我们是仍滞留于此的余病。若蒙你释放,我们便将受持咒与药力所制(不再任意作祟)。”
Verse 35
नैतौ पुनस्तु दुर्ग्राह्यौ ब्रह्मशाप समुद्भवौ
“然而这两者确实难以对治,因为它们源自梵天(Brahmā)的诅咒。”
Verse 36
तच्छ्रुत्वा पार्थिवः सोऽपि तस्मिन्स्थाने व्यवस्थितः । तं ब्राह्मणं पुनः प्राह न भेतव्यं त्वया द्विज
国王闻此,仍立于那圣地之中,又对婆罗门说道:“二生者啊,你不必畏惧。”
Verse 37
अहं त्वां रक्षयिष्यामि व्याधेरस्मात्सुदारुणात् । अत्र तस्मात्प्रतीक्षस्व कञ्चित्कालं ममाज्ञया
“我将护佑你脱离这极其可怖的疾病。因此,依我之命,留在此处,稍候片刻。”
Verse 38
एवमुक्त्वा ततश्चक्रे तदर्थं सुमहत्तपः । आराधयन्प्रभक्त्या च सम्यक्तां क्षेत्रदेवताम्
说罢,他为此目的而修行大苦行,并以深切的虔敬,如法礼拜守护此圣域的主神(kṣetra-devatā)。
Verse 39
मुंडेनाथर्वशीर्षेण दिवारात्रमतंद्रितः । क्षेत्रपालोत्थसूक्तेन वास्तुसूक्तेन च द्विजाः
他以《蒙荼》与《阿闼婆首罗沙》诸文,昼夜不懈;又以为护域神Kṣetrapāla而起之赞颂,以及《宅地颂》(Vāstu-sūkta)——噢,婆罗门们——(行此仪轨)。
Verse 41
अथ नक्तावसानेन तस्य होमस्य चोत्थिता । भित्त्वा धरातलं देवी मन्त्राकृष्टा विनिर्गता
随后在夜尽之时,彼火供既毕,女神——为真言所牵引——破土而起,冲开地面而显现。
Verse 42
देवता तस्य क्षेत्रस्य ततः प्रोवाच तं नृपम्
于是,那圣地之神祇便对国王开口说道。
Verse 43
एकाहं तव भूपाल होमस्यास्य प्रभावतः । विनिर्गता धरापृष्ठात्क्षेत्रस्यास्याधिपा स्मृता
噢,国王啊,凭此火供(homa)之威力,我在一日之内自大地表面显现,被称为此神圣刹土(kṣetra)的主宰守护神。
Verse 44
तस्माद्वद महाभाग यत्ते कृत्यं करोम्यहम् । परां तुष्टिमनुप्राप्ता तस्माद्ब्रूहि यदीप्सितम्
因此,噢有福之人,请说:你有何当办之事要我成就?我已极其欢悦满足,故请直言你所愿求。
Verse 45
राजोवाच । अत्र स्थाने सदा स्थेयं त्वया देवि विशेषतः । व्याधिसंसर्गजो दोषो भूमेरस्या यथा व्रजेत्
国王说道:“噢女神啊,愿你在此处恒常安住,尤其永远守护,使由疫病传染所生之污垢从此国土离去。”
Verse 46
अद्यप्रभृति देवेशि तथा नीतिर्विधीयताम् । नो चेदस्याः प्रसंगेन प्रभविष्यंति मानवाः
自今日起,噢天界女主,请立下如此法度;否则,人们因与此污秽相染,必将受害而被其所制。
Verse 47
व्याधिग्रस्ता यथा विप्रो योऽयं संदृश्यते पुरः । मयात्र व्याधयः कालं चिरं संस्थापिता यतः । भविष्यति च मे दोषो नो चेद्देवि न संशयः
正如眼前所见这位为病所困的婆罗门——同样地,由于诸般疾病久已被我安置于此;若不加以救治,噢女神,罪咎必将落在我身上,毫无疑问。
Verse 48
तथायं ब्राह्मणो रोगात्त्वत्प्रसादात्सुरेश्वरि । मुक्तो भवतु मेदिन्यामत्र स्थेयं सदा त्वया
同样地,噢诸天之主宰女神,愿凭汝恩典使此婆罗门脱离疾病;并愿汝在此大地之上,恒常安住于此。
Verse 49
क्षेत्रदेवतोवाच । एतत्स्थानं मया सर्वं व्याधिदोषविवर्जितम् । विहितं सर्वदैवात्र स्थास्येऽहमिह सर्वदा
护持此地的刹帝罗神祇说道:“此处全境皆由我安置,使其远离疾病之过;而我亦将于此,恒常居住,永不离去。”
Verse 50
सांप्रतं योऽत्र मे स्थाने व्याधिग्रस्तः समेष्यति । पूजयिष्यति मां भक्त्या नीरोगः स भविष्यति
从今以后,凡在此来到我之处、为疾病所困者,若以虔敬之心供奉我——必得无病安康。
Verse 51
तस्मादद्य द्विजेंद्रोऽयं मां पूजयतु सादरम् । भक्त्या परमया युक्तः शुचिर्भूत्वा समाहितः
因此,今日当令此最上婆罗门恭敬礼拜于我——具足至上信爱,身心清净,意念专一安住。
Verse 52
अत्र क्षेत्रे पराऽन्यास्ति विख्याता चंद्रकूपिका तस्यां स्नातु यथान्यायं नित्यमेव महीपते
在此圣域之中,尚有另一处著名之地,名为旃陀罗库毗迦(“月井”)。噢大王,当依正法仪轨,日日于其中沐浴。
Verse 53
दक्षशापप्रशप्तेन या चंद्रेण पुरा कृता । स्वस्नानार्थं क्षयव्याधिप्रग्रस्तेन महात्मना
往昔,月神旃陀罗(Candra)因达叉(Dakṣa)之诅咒而受罚;当那位大圣被消耗之疾所困时,为自沐浴而造此处。
Verse 54
तथा खण्डशिलानाम देवता चात्र तिष्ठति । सौभाग्यकूपिकास्नानं कृत्वा तां च प्रपश्यतु
同样,此处亦有名为“断石”(Khaṇḍa-śilā)之神祇安住。于“善福井”(Saubhāgya-kūpikā,吉祥之井)沐浴之后,也应前往瞻礼该神。
Verse 55
या कृता कामदेवेन कुष्ठग्रस्तेन वै पुरा । स्नपनार्थं च कुष्ठस्य विनाशाय च सादरम्
此圣井往昔为爱神伽摩天(Kāmadeva)所造;当时他患麻风之苦,遂恭敬建立,以供沐浴,并令麻风彻底消灭。
Verse 57
सूत उवाच । ततः स ब्राह्मणः प्राप्य सुपुण्यां चन्द्रकूपिकाम् । स्नानं कृत्वा च तां देवीं पूजयामास भक्तितः । यावन्मासं ततो मुक्तः सत्वरं राजयक्ष्मणा
苏多曰:随后,那位婆罗门抵达功德无量的“月井”(Candrakūpikā)。他在彼处沐浴,并以虔敬礼拜那位女神;未满一月,便迅速脱离王痨(rājayakṣmā,痨病/肺痨)。
Verse 58
ततः सौभाग्यकूपीं तां दृष्ट्वा कामविनिर्मिताम् । तथा स्नानं विधायाथ पश्यन्खंडशिलां च ताम्
随后,他见到那口由伽摩(Kāma)所造的“善福井”(Saubhāgyakūpī);他亦依法沐浴,并瞻礼那“断石神”(Khaṇḍa-śilā)。
Verse 59
तद्वन्मासेन निर्मुक्तः कुष्ठेन द्विजसत्तमाः । तस्या देव्याः प्रभावेन कूपिकायां विशेषतः
同样地,在一月之内,他便从麻风中解脱,噢,最胜的二生者;尤其是凭借那位女神在那口井中的威力。
Verse 60
ततश्चाप्सरसां कुंडे स्नात्वैकं रविवासरम् । पामया संपरित्यक्तो बुद्ध्येव विषयात्मकः
随后,他只在一个星期日于阿普萨拉之池(Apsarasāṃ Kuṇḍa)沐浴,皮肤病“帕玛”便全然离去,宛如心以正智舍弃诸境。
Verse 61
ततः स ब्राह्मणो जातो द्वादशार्कसमप्रभः । तोषेण महता युक्तो दत्ताशीस्तस्य भूपतेः
于是那位婆罗门光辉炽盛,如十二轮太阳。满怀大喜悦,他向那位国王赐予祝福。
Verse 62
प्रययौ वांछितं देशमनुज्ञातश्च भूभुजा । देवतायां प्रणामं च ताभ्यां कृत्वा पुनःपुनः
蒙国王准许后,他启程前往心所愿之地;并一再向那处的神祇顶礼致敬。
Verse 63
सोपि राजा सदोषांस्तानजारूपान्विलोक्य च । स्वस्यैव ब्राह्मणं दृष्ट्वा तं तथा संप्रहर्षितः
那位国王也一样,见到那些带有瑕疵的山羊,又见到自己的婆罗门如此复原,便欢喜无量。
Verse 64
स्वयं च प्रययौ तत्र यत्रस्थो हाटकेश्वरः । तेनैव च शरीरेण निजकांतासमन्वितः
他亲自前往哈塔凯湿伐罗(Hāṭakeśvara)安住之处——仍以同一身躯,并偕同自己心爱的王后同行。
Verse 65
अजागृहे स्थिता यस्मात्सा देवी क्षेत्रदेवता । अजागृहा ततः ख्याता सर्वत्रैव द्विजोत्तमाः
由于那位女神——圣域的守护主神——住在“山羊之屋”(Ajāgṛha)中,因此此地处处闻名,被称为Ajāgṛhā,噢,最尊贵的婆罗门啊。
Verse 66
अद्यापि यक्ष्मणा ग्रस्तो यस्तां पूजयते नरः । तैनैव विधिना सम्यक्स नीरोगो द्रुतं भवेत्
即使在今日,凡受yakṣmā(痨病、肺痨)所苦之人,若依同样的规定仪轨、如法而恭敬礼拜她,便能迅速离病得安。
Verse 96
तथा चाप्सरसां कुण्डमत्रास्ति नृपसत्तम । तत्र स्नात्वा रवेरह्नि ततः पामा प्रशाम्यति
此处亦有阿普萨拉(Apsarās)之池,噢,最贤明的国王。若在太阳之日于彼处沐浴,皮肤之疾(pāmā)随后便得平息。
Verse 133
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽजागृहोत्पत्तिमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः
至此,在尊贵的《室建陀摩诃往世书》中,于《八万一千颂集》(Ekāśīti-sāhasrī Saṃhitā)之第六部《那伽罗篇》(Nāgara-khaṇḍa)内,在哈塔凯湿伐罗圣域功德赞(Māhātmya)中,题为《阿阇伽利诃(Ajāgṛha)起源之伟大功德述说》的第一百三十三章圆满结束。