Adhyaya 130
Nagara KhandaTirtha MahatmyaAdhyaya 130

Adhyaya 130

第130章以对话展开:诸仙(Ṛṣi)向苏多(Sūta)询问耶若阇那伐迦(Yājñavalkya)的家世,点明其二位妻子——弥特丽依(Maitreyī)与迦底耶耶尼(Kātyāyanī),并介绍两处圣地水池(tīrtha/kunda),称入浴可得吉祥善果。 随后叙事转入迦底耶耶尼的“共妻之苦”(saptnī-duḥkha):见夫君偏爱弥特丽依而生忧恼。其悲伤以行为呈现——不再沐浴、不思饮食、亦无欢笑。为求解脱之道,她以善持家道的商提利(Śāṇḍilī)为典范,恳请密授(upadeśa),以培育夫君的慈爱与敬重。 商提利述及自己在俱卢之地(Kurukṣetra)的因缘,并转述那罗陀(Nārada)的指引:于哈塔凯湿伐罗圣域(Hāṭakeśvara-kṣetra),圣母高丽(Gaurī)与“五团供”(pañcapinḍa)相应,应以坚固信敬(śraddhā)持续修持一年,尤以第三日斋戒(tṛtīyā)为要。章中又以天女与天神之问答阐释湿婆顶上恒河(Gaṅgā)之义,作为维系世界的宇宙—伦理理由:降雨、农耕、祭祀(yajña)与宇宙平衡皆由此相续。全章遂将社会伦理、誓愿仪轨与宇宙论理融为一体,成就以圣地为中心的教诲。

Shlokas

Verse 1

ऋषय ऊचुः । याज्ञवल्क्यसुतः सूत यस्त्वया परिकीर्तितः । कतमा तस्य माताभूत्सर्वं नो ब्रूहि विस्तरात्

诸仙人说道:“噢,苏多啊,你所称述的阎若伐迦之子,他的母亲是谁?请为我们详尽道来。”

Verse 2

सूत उवाच । तस्य भार्याद्वयं श्रेष्ठमासीत्सर्वगुणान्वितम् । एका गुणवती तस्य मैत्रेयीति प्रकीर्तिता

苏多说道:“他有两位极为贤善的妻子,具足一切德行。其中一位贤德之妻,世人称颂为‘弥怛丽伊(Maitreyī)’。”

Verse 3

ज्येष्ठा चान्याथ कल्याणी ख्याता कात्यायनीति च । यस्याः कात्यायनः पुत्रो वेदार्थानां प्रजल्पकः

而另一位,年长而吉祥者,名闻为“迦底耶耶尼(Kātyāyanī)”——她之子迦底耶耶那(Kātyāyana)善于雄辩,能宣说诸吠陀之义。

Verse 4

ताभ्यां कुण्डद्वयं तत्र संतिष्ठति सुशोभनम् । यत्र स्नाता नरा यांति लोकांस्तांश्च महोदयान्

由那两位(妇人)之缘故,彼处现有一对庄严殊胜的圣池(kuṇḍa)。凡在彼处沐浴者,皆得往生于富饶昌盛、升腾尊贵之诸界。

Verse 5

कात्यायन्याश्च तीर्थस्य शांडिल्यास्तीर्थमुत्तमम् । पतिव्रतात्वयुक्तायास्तथान्यत्तत्र संस्थितम्

彼处又有迦底耶耶尼之圣地(tīrtha),亦有商提利耶(Śāṇḍilyā)之最上圣地;同样,还建立有另一处圣所,赐予具足贞顺奉夫之法(pativratā)者。

Verse 6

यत्र कात्यायनी प्राप्ता शांडिल्या प्रतिबोधिता । वैराग्यं परमं प्राप्ता सपत्नीदुःखदुःखिता

在那处,迦底耶耶尼来到,并受商提利耶(Śāṇḍilyā)开示。因同夫之妻所生的忧苦而受折磨,她证得最上离欲(vairāgya)。

Verse 8

तत्र या कुरुते स्नानं तृतीयायां समाहिता । नारी मार्गसिते पक्षे सा सौभाग्यवती भवेत् । अथ दौर्भाग्यसंपन्ना काणा वृद्धाऽथ वामना । अभीष्टा जायते सा च तत्प्रभावाद्द्विजोत्तमाः

噢,最胜二生者!女子若于摩伽尸罗月明半月之第三日(tṛtīyā),摄心专注在彼圣地沐浴,便得吉祥福运,婚姻与世间资财皆臻兴盛。纵使她遭不幸——独眼、衰老或身材矮小——亦因此圣地威德而如愿成就。

Verse 9

ऋषय ऊचुः । कीदृक्सपत्निजं दुःखं कात्यायन्या उपस्थितम् । उपदेशः कथं लब्धः शांडिल्याः सूत कीदृशः

诸仙人说道:“由共妻(sapatnī)而生的忧苦,何等形态临到迦底耶耶尼?又檀陀利耶(Śāṇḍilyā)的教诲——噢,苏多——是如何得来,其性质为何?”

Verse 10

कात्यायन्या समाचक्ष्व कौतुकं नो व्यवस्थितम् । सामान्यो भविता नैष उपदेशस्तयेरितः

“请为我们详说迦底耶耶尼之事;我们的好奇已然坚定。她所宣说的这番教诲,必非寻常,而是意义深重。”

Verse 11

सूत उवाच । मैत्रेय्या सह संसक्तं याज्ञवल्क्यं विलोक्य सा । कात्यायनी सुदुःखार्ता संजाता चेर्ष्यया ततः

苏多说道:迦底耶耶尼见阎若婆迦与弥勒耶伊亲密相依,便被深重的悲苦所淹没;继而嫉妒(īrṣyā)在她心中生起。

Verse 12

सा न स्नाति न भुंक्ते च न हास्यं कुरुते क्वचित् । केवलं बाष्पपूर्णाक्षी निःश्वासाढ्या बभूव ह

她既不沐浴,也不进食,亦从不曾欢笑。双眼唯有泪水盈满,胸中尽是沉重的叹息。

Verse 13

ततः कदाचिदेवाथ फलार्थं निर्गता बहिः । अपश्यच्छांडिलीनाम पतिपार्श्वे व्यवस्थिताम्

后来有一次,她外出寻果时,看见一位名叫商提丽(Śāṇḍilī)的女子,侍立在其夫君身旁。

Verse 14

कृतांजलिपुटां साध्वी विनयावनता स्थिताम् । सोऽपि तस्या मुखासक्तः सानुरागः प्रसन्नदृक्

她——那位贞善的女子——合掌作礼(añjali),谦恭俯首而立。那男子亦怀爱恋,目不转睛地凝视她的面容,神色欣悦。

Verse 15

गुणदोषोद्भवां वार्तामापृच्छ्याकथयत्तथा । सा च तौ दंपती दृष्ट्वा संहृष्टावितरेतरम्

问候之后,他与她谈论由德行与过失所引出的诸事。她见那对夫妇彼此欢悦,便体会到他们相互的喜乐。

Verse 16

चित्ते स्वे चिंतयामास सुधन्येयं तपस्विनी । यस्याः पतिर्मुखासक्तो गुणदोषप्रजल्पकः । सानुरागश्च सुस्निग्धो नान्यां नारीं बिभर्त्ति च

她在心中思量:“此修行女实在有福;其夫专注于她的容颜,与她谈论德与过;又深情柔和,不再另养他女。”

Verse 17

एवं संचित्य सा साध्वी भूयोभूयो द्विजोत्तमाः । जगाम स्वाश्रमं पश्चान्निंद्यमाना स्वकं वपुः

她如此反复思惟,噢二次生者中最胜者,那位贤善之女随后回到自己的林居精舍,心中自责自身境况。

Verse 18

ततः कदाचिदेकांते स्थितां तां शांडिलीं द्विजाः । बहिर्गते भर्तरि च तस्याः कार्येण केनचित्

其后有一时,噢诸婆罗门,当善提梨(Śāṇḍilī)独处幽静之所,而其夫因某事外出之际,遂生起可前往相近之机缘。

Verse 19

कात्यायनी समागम्य ततः पप्रच्छ सादरम् । वद कल्याणि मे कंचिदुपदेशं महोदयम्

于是迦底耶耶尼(Kātyāyanī)前来,恭敬请问:“吉祥的夫人啊,请为我开示一则能带来大提升的教诲。”

Verse 20

मुखप्रेक्षः सदा भर्त्ता येन स्त्रीणां प्रजायते । नापमानं करोत्येव दुरुक्तवचनैः क्वचित्

丈夫若恒常顾念容颜、体贴温和,因此便为妇人所爱;他也从不以粗恶之言在任何时候羞辱她们。

Verse 21

नान्यां संगच्छते नारीं चित्तेनापि कथंचन । अहं भर्तुः कृतैर्दुःखैरतीव परिपीडिता । सपत्नीजैर्विशेषेण तस्मान्मे त्वं प्रकीर्तय

他无论如何都不与别的女子结合,甚至在心念中也不曾有。可我却因丈夫所致的忧苦而备受煎熬,尤以诸位同夫之妻为甚;因此,尊者啊,请为我宣说解脱之法。

Verse 22

यथा ते वशगो भर्त्ता संजातः कामदः सदा । मनसापि न संदध्यान्नारीमेष कथंचन

使你的丈夫归顺于你的意愿,恒常成就你的所求;并使他无论如何,乃至在心念中,也不向别的女子倾转。

Verse 23

शांडिल्युवाच । शृणु साध्वि प्रवक्ष्यामि तवाहं गुह्यमुत्तमम् । यथा ममाभवद्वश्यो मुखप्रेक्षस्तथा पतिः

圣者商提利耶说道:听着,贤德的女士;我将为你宣说至上的秘密。凭此,我的丈夫变得顺从,常常凝视我的面容、处处留心;你的丈夫也能如此。

Verse 24

मम तातः कुरुक्षेत्रे शांडिल्यो मुनिसत्तमः । वानप्रस्थाश्रमेऽतिष्ठत्पूर्वे वयसि संस्थितः

我的父亲——商提利耶,诸牟尼中最胜者——住在俱卢之地(Kurukṣetra),安住于林居期(vānaprastha)的道场,已进入那较早的、持戒退隐的人生阶段。

Verse 25

तत्रैकाहं समुत्पन्ना कन्या तस्य महात्मनः । वृद्धिं गता क्रमेणाथ तस्मिन्नेव तपोवने

在那里,我作为那位大心者的女儿而诞生;随后随岁月推移,我就在那同一片苦行林中渐渐长大。

Verse 26

करोमि तत्र शुश्रूषां होमकाले यथोचिताम् । नीवारादीनि धान्यानि नित्यं चैवानयाम्यहम्

在那里,我在举行护摩(homa,火供)之时如法侍奉;并且每日我都带来谷物,如尼瓦拉(nīvāra,野米)等。

Verse 27

कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः । आश्रमे मम तातस्य सुश्रांतः समुपागतः

后来在某个时候,那罗陀(Nārada)——诸牟尼中最胜者——因旅途劳顿,来到我父亲的道场。

Verse 28

तातादेशात्ततस्तत्र मया स विश्रमः कृतः । पादशौचादिभिः कृत्यैः स्नानाद्यैश्च तथापरैः

随后遵从父命,我在彼处安置他歇息,并尽诸般侍奉之事:洗足净足,备办沐浴,以及其他相应的供奉。

Verse 29

ततो भुक्तावसानेऽथ निविष्टः मुखसंस्थित । मम मात्रा परिपृष्टो विनयाद्वरवर्णिनि

继而饭毕,他端坐而面向众人。我的母亲以恭敬礼貌发问于他——噢,容色姝丽的夫人。

Verse 30

एकेयं कन्यकास्माकं जाते वयसि संस्थिते । संजाता मुनिशार्दूल प्राणेभ्योऽपि गरीयसी

我家唯有此一女;如今既已及笄成人,便成了——噢,诸牟尼中之猛虎——比我等自身的性命气息更为珍爱。

Verse 31

तदस्याः कीर्तय क्षिप्रं सुखोपायं सुखोदयम् । व्रतं वा नियमं वा त्वं होमं वा मन्त्रमेव वा

因此,愿尊者速为我等宣说一条简易之法,使她得生吉祥安乐——或为誓戒(vrata),或为修持之律(niyama),或为火供(homa),或为真言(mantra)。

Verse 32

येन चीर्णेन भर्त्ता स्यात्सुसौम्यः सद्गुणान्वितः । प्रियंवदो मुखप्रेक्षः परनारीपराङ्मुखः

由修持此行,她当得一位温柔端雅、仪容俊美、具足德行之夫——言辞甘美,容颜悦目,并远离他人之妻。

Verse 33

तस्यास्तद्वचनं श्रुत्वा स मुनिस्तदनंतरम् । चिरं ध्यात्वा वचः प्राह प्रसन्नवदनस्ततः

那位牟尼听闻她的话后,随即长久沉思,继而开口,面容安宁祥和,慈悦可亲。

Verse 34

हाटकेश्वरजे क्षेत्रे पञ्चपिंडा व्यवस्थिता । गौरी गौर्या स्वयं तत्र स्थापिता परमेश्वरी

在哈塔凯湿伐罗的神圣刹土中,安立着五座“品荼”;在那里,至上女神——高丽(Gaurī)——由高丽亲自安置奉立。

Verse 35

तामेषा वत्सरं यावच्छ्रद्धया परया युता । सदा पूजयतु प्रीत्या तृतीयायां विशेषतः

愿这少女以至上的信心虔敬礼拜女神,满满一年——恒常以爱奉事,尤其在月相第三日(tṛtīyā)更当特别供奉。

Verse 36

ततो वर्षांतमासाद्य संप्राप्स्यति यथोचितम् । भर्त्तारं नात्र संदेहो यादृग्रूपं यथोचितम्

待一年圆满之时,她必得与己相称的夫君——形貌与德行皆相宜;对此毫无疑虑。

Verse 37

तत्र पूर्वं गता गौरी परित्यज्य महेश्वरम् । गंगेर्ष्यया महाभागे ज्ञात्वा क्षेत्रं सुसिद्धिदम्

往昔,高丽曾往彼处,暂离大自在天(Maheśvara);因对恒河女神(Gaṅgā)生起嫉意,噫,福德具足者,她遂知那刹土乃赐予殊胜成就之地。

Verse 38

ततः सा चिंतयामास कां देवीं पूजयाम्यहम् । सौभाग्यार्थं यतोऽन्या मां पूजयंति सुरस्त्रियः

于是她沉思道:“为求婚姻吉祥、夫妇福瑞,我当礼敬哪一位女神?既然其他天界女众也在礼敬我。”

Verse 39

तस्मादहं प्रभक्त्याढ्या स्वयमात्मानमेव च । आत्मनैव कृतोत्साहा पूजयिष्यामि सिद्धये

因此,我满怀虔爱,将礼敬我自身的真我;由我自励自奋,以求成就圆满。

Verse 40

ततः प्राणाग्निहोत्रोत्थैर्मंत्रैराथर्वणैः शुभैः । मृत्पिंडान्पंच संयोज्य ह्येकस्थाने समाहिता

随后,女神以由“普拉那火供”(prāṇāgnihotra)仪轨所生的吉祥阿闼婆梵咒,心神安住,将五团泥土合并,聚于一处。

Verse 41

पृथ्वीमपश्च तेजश्च वायुमाकाशमेव च । तेषु संयोजयामास मृत्पिंडेषु निधाय सा

她又将地、水、火、风以及虚空(以太)安置其中;把它们纳入泥团之内,从而令五大元素合而为一。

Verse 42

महद्भूतानि चैतानि पञ्च देवी यतव्रता । ततः संपूजयामास पुष्पधूपानुलेपनैः

此五者即为五大;女神持戒坚固,遂以花、香与芬芳涂香,圆满供奉礼拜。

Verse 43

अथ तां तत्र विज्ञाय तपःस्थां गिरजां भवः । तन्मंत्राकृष्टचित्तश्च सत्वरं समुपागतः

于是,婆伐(湿婆)认出吉利迦在彼处安住苦行;其心为她的真言所牵引,便迅速来到那里。

Verse 44

प्रोवाच च प्रहृष्टात्मा कस्मात्त्वमिह चागता । मां मुक्त्वा दोषनिर्मुक्तं मुखप्रेक्षं सदा रतम्

他心中欢喜,便说道:“你为何来到此处,离开我这无过之身——我常以凝望你的容颜为乐?”

Verse 45

तस्मादागच्छ कैलासं वृषारूढा मया सह । अथवा कारणं ब्रूहि यदि दोषोऽस्ति मे क्वचित्

“所以你当与我同往迦罗娑,乘坐神牛;若不然,就说出缘由——若我在何处有丝毫过失。”

Verse 46

देव्युवाच । त्वं मूर्ध्ना जाह्नवीं धत्से मूर्तां पदजलात्मिकाम् । तस्मान्नाहं गमिष्यामि मंदिरं ते कथंचन

女神说道:“你在头顶承载阇诃那毗(恒河),她是从主之足所流出的圣水之化身。因此,我决不前往你的居所——无论如何都不去。”

Verse 47

यावन्न त्यजसि व्यक्तं मम सापत्न्यतां गताम् । तथा नित्यं प्रणामं त्वं करोषि वृषभध्वज

“只要你不明明白白舍弃那已成我‘共夫之争’的缘由,并且只要你仍日日行礼致敬,噢,牛旗之主……”

Verse 48

प्रत्यक्षमपि मे नित्यं संध्यायाश्च न लज्जसे । तस्मादेतत्परित्यज्य कर्म लज्जाकरं परम्

即使我日日亲临在前,即使在暮昏礼拜(sandhyā)之时,你也毫不羞惭。因此当舍此行——此乃极其招致耻辱之业。

Verse 49

आकारयसि मां देव तत्स्याद्यदि मतं मम । अन्यथाहं न यास्यामि तव हर्म्ये कथंचन । एतच्छ्रुत्वा यदिष्टं ते कुरुष्व वृषभध्वज

噢神明,若当依我之见行事,便请如此命令;否则我决不以任何方式前往你的宫殿。既闻此言,牛旗之主(Vṛṣabhadhvaja)啊,便行你所喜悦者。

Verse 50

देव उवाच नाहं सौख्येन तां गंगां धारयामि सुरेश्वरि

天神说道:“噢诸天之母(Sureśvarī),我承载那恒河(Gaṅgā)并非轻松安适。”

Verse 51

भगीरथेन भूपेन प्रार्थितो ज्ञाति कारणात् । दिव्यं वर्षसहस्रं तु तपस्तप्त्वा सुदारुणम्

因婆伽罗陀王(Bhagīratha)为祖先之故恳祈,他便修行极其严酷的苦行,历经一千神圣之年。

Verse 52

येन नो याति पातालं गंगा स्वर्गपरिच्युता । तस्मात्त्वं देव मद्वाक्यात्स्वमूर्ध्ना वह जाह्नवीम्

为使自天界坠下的恒河(Gaṅgā)不致沉入地下界(Pātāla),故此,噢天神,依我所请,请以你自身之首承载阇诃那毗(Jāhnavī)。

Verse 53

मया तस्य प्रतिज्ञातं धारयिष्याम्यसंशयम् । आकाशाज्जाह्नवीवेगं पतंतं धरणीतले

我曾向他立誓:“毫无疑虑,我必承受之”——当阇诃那毗(恒河)自天穹倾落,奔涌之势直下大地。

Verse 54

नो चेद्व्रजेत पातालं यदत्र विषयेस्थिम् । ततोऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु

若她不下至波多罗(Pātāla),而不住于此界之中,那么我将为你宣说——在此以一心专注聆听。

Verse 55

एषा गंगा वरारोहे मम मूर्ध्नो विनिर्गता । हिमवंतं नगं भित्त्वा द्विधा जाता ततः परम्

“此恒河啊,娉婷者,她自我顶髻涌出;继而劈开喜马梵山(Himavat),从此分为两道水流。”

Verse 56

ततः सिंध्वभिधाना सा पश्चिमं सागरं गता । शतानि नव संगृह्य नदीनां परमेश्वरि

“随后,其中一支名为信度(Sindhu),流向西方大海,汇聚九百条河流,至上女神啊。”

Verse 57

तथा गंगाभिधाना च सैव प्राक्सागरं गता । तावतीश्च समादाय नदीः पर्वतनन्दिनि

“同样,另一支名为恒河(Gaṅgā),流向东方大海,亦摄受同样数目的诸河,山之女啊。”

Verse 58

एवमष्टादशैतानि नदीनां पर्वतात्मजे । शतानि सागरे यांति तेन नित्यं स तिष्ठति

如是,噢山之所生者,这一千八百条河流皆归入大海;因此大海恒常充盈不竭。

Verse 59

सततं शोष्यमाणोऽपि वाडवेन दिवानिशम् । समुद्रसलिलं मेघाः समादाय ततः परम्

纵然大海昼夜不断被海底之火(Vāḍava)所蒸干,云众仍汲取海水,而后……

Verse 60

मर्त्यलोके प्रवर्षंति ततः सस्यं प्रजायते । सस्येन जीवते लोकः प्रभवन्ति मखास्तथा । मखांशेन सुराः सर्वे तृप्तिं यांति ततः परम्

在人间,甘霖降下;由雨而生五谷。众生赖五谷而活,由此亦兴起祭祀。诸神因得祭祀之分,随后皆获满足。

Verse 61

एतस्मात्कारणान्मूर्ध्नि देवि गंगां दधाम्यहम् । न स्नेहात्कामतो नैव जगद्येन प्रवर्तते

正因如此,噢女神,我将恒河(Gaṅgā)承于头顶;并非出于私爱,亦非出于欲求,而是因为凭借她,世界得以运转不息。

Verse 62

अथवा सन्त्यजाम्येनां यदि मूर्ध्नः कथंचन । तद्दूरं वेगतो भित्त्वा पृथ्वीं याति रसातलम्

又若我偶然将她自头顶放下,她必以无比巨力疾冲,穿透大地深处,直坠入罗娑多罗(Rasātala)。

Verse 63

ततः शोषं व्रजेदाशु समुद्रः सरितां पतिः । और्वेण पीयमानोऽत्र ततो वृष्टिर्न जायते । वृष्ट्यभावाज्जगन्नाशः सत्यमेतन्मयोदितम्

于是大海——诸河之主——将迅速干涸,因为在此被奥鲁瓦之火所饮尽;其后便不再有降雨。无雨则世界毁坏——此乃我所真实宣告。

Verse 64

एवं गंगाकृते प्रोक्तं मया तव सुरेश्वरि । शृणु सन्ध्याकृतेऽन्यच्च येन तां प्रणमाम्यहम्

如此,噢天众之母(Suresvarī),我已向你说明关于恒河(Gaṅgā)的缘由。现在再听一因,关乎桑迪雅(Sandhyā,晨昏祈祷时分),因此我向她顶礼。