Adhyaya 127
Nagara KhandaTirtha MahatmyaAdhyaya 127

Adhyaya 127

诸仙人请求苏多详述先前提及的迦耳诺特帕拉(Karnotpalā):她到达一处与高丽(Gaurī)足迹相连的圣水之所后,精勤修苦行(tapas)。苏多叙述:吉利迦女神(Girijā,即高丽)悦纳其虔敬与苦行,亲自显现,命她陈述所愿。 迦耳诺特帕拉诉说家门之厄:其父失却王者福运,忧苦而住于出离之心;而她年岁已高,仍未婚配。她祈求得一位绝世俊美之夫,并复得青春,以使苦行而悲戚的父亲亦重获欢喜。女神遂开示严谨的仪轨时辰:于摩伽月(Māgha)第三日(tṛtīyā),恰逢星期六,并在与婆苏提婆(Vāsudeva)相应的宿(nakṣatra)之下,入圣水沐浴,专念美貌与青春;凡女子于此日沐浴者,亦得同样之美。 期至之时,她于子夜入水,出水即得天女般的神圣之身与青春容光,令众人惊叹。受高丽之意,爱神迦摩(Kāma,Manobhava)前来求娶,并解释她将得名“普利蒂”(Prīti):因他怀着爱意而来。迦耳诺特帕拉请迦摩依礼先向其父正式求亲;她先返家告父,言其返老还童乃苦行之果与高丽之恩,并请求婚事。迦摩继而陈请,父亲以圣火为证、婆罗门在座,将女儿许配;自此她名为普利蒂,此圣地(tīrtha)亦以其名而闻名。 果报偈(phalaśruti)云:摩伽月中常行沐浴,得如普拉雅伽(Prayāga)之功德;来世相续,容貌端严、才力具足,且不受与亲族离散之苦。

Shlokas

Verse 1

ऋषय ऊचुः । या सा कर्णोत्पलानाम त्वयास्माकं प्रकीर्तिता । किञ्चिज्जलाश्रयं प्राप्य तपस्तपति संस्थिता । तस्याः सर्वं समाचक्ष्व यथा तपसि सा स्थिता

诸仙人说道:“你向我们称述的那位名为迦尔诺特帕拉的女子——她来到某处水边的依止之所,安住于苦行,修持忏悔。请将她的一切详告:她如何恒住于苦行(tapas)之中?”

Verse 2

सूत उवाच । गौरीपादकृतस्थाना श्रद्धया परया युता । तावत्तुष्टिं गता देवी गिरिजा शंकरप्रिया

苏多说道:她安住在被高丽女神足迹所加持的圣地,具足至上信心;于是雪山之女吉丽迦——商羯罗所钟爱者——心生欢喜。

Verse 3

ततः प्रोवाच ते पुत्रि तुष्टाहं वांछितं वद । येन यच्छाम्यसंदिग्धं यद्यपि स्यात्सुदुर्लभम्

随后女神对她说道:“女儿啊,我已欢喜;说出你所愿。凭此所求,我必无疑赐予你,即便那是极难得之事。”

Verse 4

कर्णोत्पलोवाच । मम पत्युः कृते देवि मम तातः सुदुःखितः । राज्याद्भ्रष्टः सुखाच्चापि कुटुंबेन विवर्जितः

迦尔诺特帕拉说道:“噢,女神啊,因我丈夫之故,我父亲深受痛苦——失落王国,也失去安乐,并与家眷离散。”

Verse 5

ततश्चैव तपस्तेपे वैराग्यं परमं गतः । अहं वार्द्धक्यमापन्ना कौमार्येऽपि च संस्थिता

随后他修行苦行,证得至高的离欲。至于我,虽仍为处女之身,却已坠入老迈之境。

Verse 6

तस्माद्भवतु मे भर्त्ता कश्चिद्रूपोत्कटः स्मृतः । सर्वेषां देवमर्त्यानां त्वत्प्रसादात्सुरेश्वरि

因此,至上女神啊,愿凭你的恩泽,使我得一位以绝世容颜著称的夫君,胜过一切天神与凡人。

Verse 7

तथा स्यात्परमं रूपं तारुण्यं त्वत्प्रसादतः । यथास्य जायते सौख्यं तापसस्यापि मे पितुः

并愿凭你的恩典,我亦得至上的美貌与青春,使我的父亲也生起喜乐,纵然他如今已为苦行者。

Verse 8

देव्युवाच । माघमासतृतीयायां शनैश्चरदिने शुभे । नक्षत्रे वसुदैवत्ये रूपं ध्यात्वाथ यौवनम्

女神说道:“在摩伽月吉祥的第三月日,于星期六,并在由八神(Vasus)主宰的宿(nakṣatra)之下,观想美貌与青春。”

Verse 9

त्वया स्नानं प्रकर्तव्यं सुपुण्येऽत्र जलाशये । ततो दिव्य वपुर्भूत्वा यौवनेन समन्विता । भविष्यसि न संदेहः सत्यमेतन्मयोदितम्

“你当在此极具功德的水池中行沐浴仪轨。随后你将得成天妙之身,并具足青春——毫无疑惑。这是我所宣说的真实之语。”

Verse 10

अन्यापि या महाभागे नारी स्नानं करिष्यति । तस्मिन्नहनि साप्येवं रूपयुक्ता भविष्यति

噢,最有福德者,凡有其他女子于同一日沐浴者,亦将同样具足如是妙丽之容。

Verse 11

सूत उवाच । एवमुक्त्वाथ सा देवी गता चादर्शनं ततः । सापि चान्वेषयामास तृतीयां शनिना सह

苏多曰:如是言毕,女神遂从眼前隐没。她(迦尔诺乌钵罗)便依所示之法,与星期六相应,开始寻候第三月日(第三提提)。

Verse 12

वसुदेवात्मकेनैव नक्षत्रेण प्रयत्नतः । ध्यायमाना च तां देवीं सर्वकामप्रदायिनीम्

她以专注之力,于名为“婆苏提婆自性”(Vasudevātmaka)的吉祥星宿之下,观想那位女神——赐予一切所愿之成就者。

Verse 13

ततः कतिपयाहस्य जाता सा योगसंयुता । तृतीया या यथोक्ता च तया देव्या पुरा द्विजाः

其后不过数日,她便具足瑜伽之力。而那“第三日(提提)”——如前所述——乃女神在古时向诸二生者(dvija)所宣示者。

Verse 14

ततः सा रूपसौभाग्यं यौवनं वांछितं पतिम् । ध्यायमाना जले तस्मिन्नर्द्धरात्रे विवेश च

其后,她观想美貌、吉祥、青春与所愿之夫,于半夜时分步入那水中。

Verse 15

ततो दिव्यवपुर्भूत्वा यौवनेन समन्विता । निष्क्रांता सलिलात्तस्माज्जनविस्मयकारिणी

随后,她化作光辉的天女之身,具足青春,从那水中现出,使众人见之无不惊叹。

Verse 16

एतस्मिन्नंतरे प्राप्तो गौरीवाक्यप्रबोधितः । तदर्थं भगवान्कामः पत्न्यर्थं प्रीतिसंयुतः । अब्रवीच्च महाभागे कामोहं स्वयमागतः

正当此时,因高丽女神之言而被唤起的爱神迦摩来到。为此目的而来,求得妻室,满怀爱意,他说道:“吉祥者啊,我即迦摩,亲自前来。”

Verse 17

पार्वत्यादेशिता भार्या तस्मान्मे भव मा चिरम्

“你已被帕尔瓦蒂指派为我的妻子;因此当归于我——莫再迟延。”

Verse 18

यस्मात्प्रीत्या समायातस्तवांतिकमहं शुभे । तस्मात्प्रीतिरिति ख्याता मम भार्या भविष्यसि

“因我怀着爱意来到你身边,吉祥者啊,所以你将被称为‘普利蒂(Prīti)’,并将成为我的妻子。”

Verse 19

कर्णोत्पलोवाच । यद्येवं स्मर मत्तातं तं गत्वा प्रार्थय स्वयम् । स्वच्छंदा स्याद्यतः कन्या न कथंचित्प्रवर्तिता

迦尔诺特帕拉说道:“若是如此,哦斯摩罗(爱神),你当亲自前去向我父亲求亲。因为少女应当在选择上自由,绝不可用任何方式强迫。”

Verse 20

य एष दृश्यते रम्यः प्रासादो नाति दूरतः । अस्यांते तिष्ठतेऽस्माकं तातस्तपसि संस्थितः

你所见那座秀丽的宫殿,离此不远——在其边缘处,我父亲仍安住其间,坚定住于苦行(tapas)之中。

Verse 21

अत्राहं पूर्वतो गत्वा तस्य तिष्ठामि चांतिके । भवानागत्य पश्चाच्च प्रार्थयिष्यति मां ततः

我将先行到此,在他身旁站立;随后你再来,在他面前向我陈请所愿。

Verse 22

बाढमित्येव कामोक्ते गता सा तत्समीपतः । प्रणिपत्य ततः प्राह दिष्ट्या तात मया पुनः

迦摩如此说罢,她便走近他;俯首顶礼后说道:“承蒙福运,亲爱的父亲,我又得以再见您。”

Verse 23

संप्राप्तं यौवनं कांतं समाराध्य हरप्रियाम् । तस्मात्कुरु विवाहं मे हृत्स्थं सुखमवाप्नुहि

亲爱的,如今芳华青春已临于我。我已如法敬奉哈罗(湿婆)所钟爱的高丽(Gaurī);因此请为我安排婚礼,并得享你心中所怀的喜悦。

Verse 24

मदर्थे प्रेषितो भर्त्ता तया देव्याऽतिसुन्दरः । पुष्प चापः स्वयं प्राप्तः सोऽपि तात तवांतिकम्

为我之故,女神遣来那位极其俊美的主宰。花弓者(Puṣpacāpa,迦摩)也亲自来到此处,父亲啊,至于你的面前。

Verse 25

अथ तां स समालोक्य स्वां सुतां यौवनान्विताम् । हर्षेण महता युक्तां कांतयुक्तां विशेषतः । अब्रवीदद्य मे पुत्रि संजातं तपसः फलम्

于是他望见自己的女儿正值青春,满怀大喜,尤以容光之美而灿然,便说道:“今日啊,我的女儿,我苦行的果报终于成就了。”

Verse 26

जीवितस्य च कल्याणि यत्वं प्राप्ता नवं वयः । भर्तारं च तथाभीष्टं देव्या दत्तं मनोभवम्

“又啊,吉祥者,既然你的生命已至崭新的青春,你也得到了心所愿的夫君——由女神赐予的摩诺婆婆(爱神迦摩)。”

Verse 27

एतस्मिन्नंतरे कामस्तस्यांतिकमुपाद्रवत् । अब्रवीद्देहि मे भूप स्वां कन्यां चारुहासिनीम्

就在这时,迦摩奔至其前,说道:“大王啊,请将你自己的女儿——那位笑容娇美者——赐与我。”

Verse 28

अस्या अर्थेऽहमादिष्टः स्वयं गौर्या नृपोत्तम । कामदेव इति ख्यातस्त्रैलोक्यं येन मोहितम्

“为她之故,最上之王啊,我奉高丽女神亲自之命而来。我名迦摩天(爱神),以我之力,三界皆为迷醉。”

Verse 29

ततस्तामर्पयामास तां कन्यां स महीपतिः । कृत्वाग्निं साक्षिणं वाक्याद्ब्राह्मणानां द्विजोत्तमाः

于是那位大地主宰将少女交付于他。依最上婆罗门之言,他们安立圣火阿耆尼为仪式之见证。

Verse 30

सा चास्य चाभवत्प्रीतिस्थानं यस्मात्सुलोचना । रतेरनंतरा तस्मात्प्रीतिनामाऽभवच्छुभा

由于那位明眸的少女成了他爱意的安住之处,且仅次于爱神之妃罗蒂(Rati),因此她吉祥地得名为“普利蒂”(Prīti)。

Verse 31

एवं तया तपस्तप्तं तस्मात्तत्र जलाशये । तन्नाम्ना ख्यातिमायातं समस्तेऽत्र महीतले

于是她就在那神圣的水池边修行苦行;因此,那座水库(jalāśaya)以她之名而名闻遍及大地。

Verse 32

सकलं माघमासं च या स्त्री स्नानं समाचरेत् । पुमान्वा प्रातरुत्थाय स प्रयागफलं लभेत्

凡女子于摩伽月整月奉行沐浴之戒,或男子清晨起身而沐浴者,皆得与普罗耶伽(Prayāga)同等之功德果报。

Verse 33

रूपवाञ्जायते दक्षः सदा जन्मनि जन्मनि । न वियोगमवाप्नोति कदात्रिद्बांधवैः सह

此人将生生世世容貌端严、才干具足,并且在任何时候都不遭与亲族离散之苦。

Verse 127

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कर्णोत्पलातीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः

至此,《圣·斯坎达大往世书》八万一千颂本中,第六部《那伽罗分卷》(Nāgara-khaṇḍa)之“哈塔凯湿瓦拉圣域功德”(Hāṭakeśvara-kṣetra-māhātmya)内,名为《卡尔诺特帕拉圣渡(Karṇotpalā Tīrtha)功德之描述》的第一百二十七章圆满结束。