Adhyaya 124
Nagara KhandaTirtha MahatmyaAdhyaya 124

Adhyaya 124

本章属《那伽罗分部》,由苏多(Sūta)叙述,以道德训诫为脉络,讲述穆卡拉圣渡(Mukharā Tīrtha)的起源。穆卡拉被称为“殊胜的圣渡”,诸大圣仙曾在此遇见一名盗贼;而他后来获得的灵性成就,成为此地神圣与正当性的记忆根基。主人公罗诃姜伽(Lohajaṅgha)为曼达维耶(Māṇḍavya)族系的婆罗门,孝敬父母、爱护妻子,却因久旱饥荒所迫而行窃;经文分辨求生焦虑与故意作恶之别,但仍判定盗窃为可责之业。 当七圣(以摩利支 Marīci 等为首)前来朝圣时,罗诃姜伽竟出言威胁。圣仙们以慈悲劝诫,强调业报自负,并令他去问:家人是否愿分担他的罪业。罗诃姜伽询问父母与妻子后,明白业果各自承担,于是悔悟并请求开示。普罗诃(Pulaha)圣仙授予简易真言“jāṭaghoṭeti”;他不断持诵(japa),入深定,身体竟被蚁丘/白蚁冢(valmīka)覆盖。 诸圣再度归来,认出其证悟;因与valmīka相系,他得名“瓦尔弥基”(Vālmīki),此地遂称穆卡拉圣渡。章末功德赞(phalaśruti)说:信心沐浴于此,尤在室罗伐那月(Śrāvaṇa),可净除由盗窃所生之罪;敬奉此地常住的圣仙形象,亦能滋养诗才,尤其在月相第八日(aṣṭamī)更为殊胜。

Shlokas

Verse 2

सूत उवाच । अथान्यदपि तत्रास्ति मुखारं तीर्थमुत्तमम् । यत्र ते मुनयः श्रेष्ठा विप्राश्चौरेण संगताः । यत्र सिद्धिं समापन्नः स चौरस्तत्प्रभावतः । वाल्मीकिरिति विख्यातो रामायणनिबंधकृत्

苏多说道:“彼处另有一处至上圣地,名为‘穆卡拉圣渡(Mukhāra Tīrtha)’;在那里,最胜的牟尼与婆罗门遇见一名盗贼。那盗贼因圣渡之威德而得成就,遂以‘瓦尔米基(Vālmīki)’之名闻世,成为《罗摩衍那》的撰作者。”

Verse 3

चमत्कारपुरे पूर्वं मांडव्यान्वय संभवः । लोहजंघो द्विजो ह्यासीत्पितृमातृपरायणः

从前在奇妙城(Camatkārapura),住着一位婆罗门名叫洛哈姜伽(Lohajaṅgha),出自曼达维耶(Māṇḍavya)一系,专心奉事父母。

Verse 4

तस्यैका चाभवत्पत्नी प्राणेभ्योऽपि गरीयसी । पतिव्रता पतिप्राणा पतिप्रियहिते रता

他只有一位妻子,爱之甚于生命——她是守夫誓的贞妇(pativratā),以夫为命,以夫为息,恒常致力于令夫欢喜并得其利益之事。

Verse 5

अथ तस्य स्थितस्यात्र ब्रह्मवृत्त्याभिवर्ततः । जगाम सुमहान्कालः पितृमातृरतस्य च

随后,他住在彼处,依婆罗门之生计与行持而度日;对这位孝敬父母者而言,漫长的岁月就这样流逝了。

Verse 6

एकदा भगवाञ्छक्रो न ववर्ष धरातले । आनर्तविषये कृत्स्ने यावद्वादशवत्सराः

有一次,受人敬奉的释迦罗(因陀罗)不降甘霖于大地;在整个阿那尔塔地区,竟持续十二年。

Verse 7

ततः स कष्टमापन्नो लोहजंघो द्विजोत्तमाः । न प्राप्नोति क्वचिद्भिक्षां न च किंचित्प्रतिग्रहम्

因此,罗诃阇伽陷入困厄,噢诸位最胜的再生者:他处处求乞不得,亦未获任何布施。

Verse 8

ततस्तौ पितरौ द्वौ तु दृष्ट्वा क्षुत्परिपीडितौ । भार्यां च चिंतयामास दुःखेन महतान्वितः

随后,他见到双亲都被饥饿折磨,便为巨大的忧苦所淹没,也开始忧念自己的妻子。

Verse 9

किं करोमि क्व गच्छामि कथं स्याद्दर्शनं मम । एताभ्यामपि वृद्धाभ्यां पत्न्याश्चैव विशेषतः

“我该怎么办?我该往哪里去?我如何才能支撑下去——尤其为了这两位年迈之人,更为了我的妻子?”

Verse 10

ततः स दुःखसंयुक्तः फलार्थं प्रययौ वने । न च किंचिदवाप्नोति सर्वे शुष्का महीरुहाः

于是他怀着忧苦入林求果;却一无所得,因为所有树木都已枯干。

Verse 12

अथापश्यत्स वृद्धां स्त्रीं स्तोकसस्यसमन्विताम् । गच्छमानां तथा तेन श्रमेण महतान्विताम् । ततस्तत्सस्यमादाय वस्त्राणि च स निर्दयः । जगाम स्वगृहं हृष्टः पितृभ्यां च न्यवेदयत्

随后他看见一位老妇,携带着少许谷粮,行走在路上,因极度劳顿而困乏不堪。他毫无怜悯,夺走那谷粮与她的衣物,欢喜地回到自家,并向父母禀告此事。

Verse 13

स एवं लब्धलक्षोऽपि दस्युकर्मणि नित्यशः । कृत्वा चौर्यं पुपोषाथ निजमेव कुटुम्बकम्

即便他已得了“获利之道”,仍日日从事盗贼之业;凭借偷盗,他只供养自己的家室。

Verse 14

सुभिक्षे चापि संप्राप्ते नान्यत्कर्म करोति सः । ब्राह्मीं वृत्तिं परित्यक्त्वा चौर्यकर्म समाचरत्

即使丰饶与兴盛再度降临,他也不做别的营生。舍弃婆罗门应行的正当生计,他仍旧从事盗窃之业。

Verse 15

कस्यचित्त्वथ कालस्य तीर्थयात्राप्रसंगतः । तत्र सप्तर्षयः प्राप्ता मरीचिप्रमुखा द्विजाः

后来在某个时刻,因前往圣地渡口(tīrtha)朝圣之缘,七圣仙——以摩利支(Marīci)为首的婆罗门——来到那里。

Verse 16

ततस्तान्विजने दृष्ट्वा द्रोहकोपसमन्वितः । यष्टिमुद्यम्य वेगेन तिष्ठध्वमिति चाब्रवीत्

随后他见他们在僻静处独行,心怀恶意与怒火,便举起手杖,疾声喝道:“站住!”

Verse 17

त्रिशिखां भृकुटीं कृत्वा सत्वरं समुपाद्रवत् । भर्त्समानः स परुषैर्वाक्यैस्तांस्ताडयन्निव

他眉峰紧蹙,怒容凶厉,急速冲向众人,以粗暴恶言辱骂,仿佛以言语击打他们。

Verse 18

ततस्ते मुनयो दृष्ट्वा यमदूतोपमं च तम् । यज्ञोपवीतसंयुक्तं प्रोचुस्ते कृपयान्विताः

于是诸牟尼见他宛如阎摩之使者,然而仍佩戴祭祀圣线(yajñopavīta),便以悲悯之心对他说道。

Verse 19

ऋषय ऊचुः । अहो त्वं ब्राह्मणोऽसीति तत्कस्मादतिगर्हितम् । करोषि कर्म चैतद्धि म्लेच्छकृत्यं तु बालिश

诸仙人说道:“唉!你确是婆罗门,为何却行此极可憎之业?愚人啊,你所作正是被视为弥勒叉(mleccha)之行径。”

Verse 20

वयं च मुनयः शांतास्त्यक्ताऽशेषपरिग्रहाः । नास्माकमपि पार्श्वस्थं किंचिद्गृह्णाति यद्भवनान्

我们亦是牟尼,性情寂静,已舍弃一切执取。即便站在我们身旁的人,也绝不从百姓家中取走分毫。

Verse 21

लोहजंघ उवाच । एतानि शुभ्रचीराणि वल्कलान्यजिनानि च । उपानहसमेतानि शीघ्रं यच्छंतु मे द्विजाः

罗诃阇伽说道:“诸位二生者,速速把这些洁白衣物给我——树皮衣与鹿皮也一并——并连同鞋履。”

Verse 22

नो चेद्धत्वाप्रहारेण यष्ट्या वज्रोपमेन च । प्रापयिष्यस्यसंदिग्धं धर्मराजनिवेशनम्

若不然,我将以如金刚雷霆般的一杖击倒你,必定毫无疑问地把你送往法王阎摩(阎罗王)的住处。

Verse 23

ऋषय ऊचुः । सर्वं दास्यामहे तुभ्यं वयं तावन्मलिम्लुच । किंवदन्तीं वदास्माकं यां पृच्छामः कुतूहलात्

诸仙贤说道:“噢,马利姆卢迦,我们愿将一切奉与你;只请你把我们因好奇而询问的那则传说——世间流传的说法——告诉我们。”

Verse 24

किमर्थं कुरुषे चौर्यं त्वं विप्रोऽसि सुनिर्घृणः । किं जितो व्यसनै रौद्रैः किं वा व्याधद्विजो भवान्

“你为何行窃?你本是婆罗门,却全无慈悲。莫非你已被凶猛的恶习所征服?还是你成了‘猎人婆罗门’——以猎者的残酷为生的婆罗门?”

Verse 25

लोहजंघ उवाच । व्यसनार्थं न मे कृत्यमेतच्चौर्यसमुद्भवम् । कुटुम्बार्थं विजानीथ धर्ममेतन्न संशयः

罗诃阇伽说道:“我这由盗取而起的行为,并非为纵欲享乐。你们当知,这是为了我的家眷;对此毫无疑问——我以此为法(dharma)。”

Verse 26

पितरौ मम वार्द्धक्ये वर्तमानौ व्यवस्थितौ । तथा पतिव्रता पत्नी गृहधर्मविचक्षणा

“我的父母如今安住于老年,生活已得安稳;同样,我的妻子是守夫誓的贞妇(pativratā),明达而善于持守家居之法。”

Verse 27

उपार्ज्जयामि यत्किञ्चिदहमेतेन कर्मणा । तत्सर्वं तत्कृते नूनं सत्येनात्मानमालभे

凡我以此业所获之物,我悉皆奉献——确然——为彼神圣之旨。以真实之誓,我以自身为供,作庄严的奉献与祝圣。

Verse 28

तस्मान्मुंचथ प्राक्सर्वं विभवं किं वृथोक्तिभिः । कृताभिः स्फुरते हस्तो ममायं हन्तुमेव हि

是故,速速舍弃一切世间权势与财物——空言何益?我手因既作之业而颤动;诚然,它只待落下,将你击倒。

Verse 29

ऋषय ऊचुः । यद्येवं चौर तद्गत्वा त्वं पृच्छस्व कुटुम्बकम् । ममपापांशभागी त्वं किं भविष्यसि किं न वा

诸仙人曰:“若果如此,盗者啊,你且去问你自家眷属。若你要分担我罪之一分,你将如何——你受之乎,抑或不受?”

Verse 30

यदि ते संविभागेन पापस्यांशोऽपि गच्छति । तत्कुरुष्वाथवा पाप दुर्वहं ते भविष्यति

“若因分担之故,纵使一丝罪分也归于你,方可去做(唯在此条件下)。不然,罪人啊,此业将成你所不能荷受之重。”

Verse 31

सकलं रौरवे रौद्रे पतितस्य सुदुर्मते । वयं त्वा ब्राह्मणं मत्वा ब्रूम एतदसंशयम्

“凡堕入凶怖之罗柔婆地狱者,恶心之人啊,其苦悉皆圆满无余。然我等以你为婆罗门,故无疑而告此言。”

Verse 32

कृपाविष्टाः सहास्माभिः सञ्जातेऽपि सुदर्शने । मुनीनां यतचित्तानां दर्शनाद्धि शुभं भवेत्

出于慈悲,即使你们已来到我等善视之前,唯有得见心意调伏之牟尼圣者,确能带来吉祥。

Verse 33

एकः पापानि कुरुते फलं भुंक्ते महाजनः । भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते

一人造罪,而大家族却受用其果;仅仅分受者得以解脱,唯作恶者为过失所染。

Verse 34

सूत उवाच । स तेषां तद्वचः श्रुत्वा चौरः किंचिद्भयान्वितः । सत्यमेतन्न संदेहो यदेतैर्व्याहृतं वचः

苏多说道:听了他们的话,那盗贼略生惧意。“此言真实无疑;这些圣者所说确然正确。”

Verse 36

एतत्कर्म न गृह्णंति यदि वा संत्यजाम्यहम् । महद्भयं समुत्पन्नं मम चेतसि सांप्रतम्

若他们不接受此业(及其果报),我便弃绝此行;此刻我心中已生起巨大的恐惧。

Verse 37

यदि यूयं न चान्यत्र प्रयास्यथ मुनीश्वराः । पलायनपरा भूत्वा तद्गत्वा निजमंदिरम्

若诸位——牟尼中之尊——不往他处,我便一心逃遁,从此处回到自己的住处。

Verse 38

पृच्छामि पोष्यवर्गं च युष्मद्वाक्यं विशेषतः । यदि तत्पातकांशं मे ग्रहीष्यति कुटुम्बकम् । तद्युष्माकं ग्रहीष्यामि यत्किंचित्पार्श्वसंस्थितम्

我将询问依靠我的人,尤其要核实你们的话。若我家眷愿分担我罪业的一分,那么你们近旁所放之物,我便取之。

Verse 39

तस्मात्पृच्छामि तद्गत्वा निजमेव कुटुम्बकम् । यदि स्यात्संविभागो मे पापांशस्य करोमि वै

因此我将前去询问我自己的家眷。若确有分担我这份罪业之事,我便确实要继续行那件事。

Verse 40

ततस्ते शपथान्कृत्वा तस्य प्रत्ययकारणात् । तस्योपरि दयां कृत्वा मुमुचुस्तं गृहं प्रति

于是他们令他立下誓言,以成其信;又怜悯于他,便放他回家而去。

Verse 41

सोऽपि गत्वाऽथ पप्रच्छ प्रगत्वा पितरं निजम् । शृणु तात वचोऽस्माकं ततः प्रत्युत्तरं कुरु

他也前去,走近自己的父亲而问道:“父亲啊,请先听我所说,然后再作答复。”

Verse 42

यत्कृत्वाहमकृत्यानि चौर्यादीनि सहस्रशः । पुष्टिं करोमि ते नित्यस् तद्भागस्तेऽस्ति वा न वा

“我屡行禁行之事——如盗窃——千百次,以此日日供养于你。告诉我:在那业报之中,你可有一分,还是没有?”

Verse 43

पापस्य मम प्रब्रूहि पृच्छतोऽत्र यथातथम् । अत्र मे संशयो जातस्तस्माच्छीघ्रं प्रकीर्तय

请如实告诉我,依我在此所问,关于我的罪业。我的心中生起疑惑,因此请速速宣说。

Verse 44

पितोवाच । बाल्ये पुत्र मया नीतस्त्वं पुष्टिं व्याकुलात्मना । शुभाऽशुभानि कृत्यानि कृत्वा स्निग्धेन चेतसा

父亲说道:“孩子啊,你幼年时我怀着忧惧不安的心抚养你;以慈爱之心行诸事业——或善或不善。”

Verse 45

एतदर्थं पुनर्येन वार्धक्ये समुपस्थिते । गां पालयसि भूयोऽपि कृत्वा कर्म शुभाऽशुभम्

“正因如此,如今老年已临到我,你又再度维持家业,复行诸业——或善或不善。”

Verse 46

न तस्य विद्यते भागस्तव स्वल्पोऽपि पुत्रक । शुभस्य वाऽथ पापस्य सांप्रतं च तथा मम

“爱子啊,你在其中毫无分分——哪怕一丝——无论是善业还是罪业;同样,如今我也不分担你的业。”

Verse 47

आत्मनैव कृतं कर्म स्वयमेवोपभुज्यते । शुभं वा यदि वा पापं भोक्तारोन्यजनाः स्मृताः

由自己所造之业,唯有自己受其果报——或善或恶。旁人不被视为其果的受用者。

Verse 48

साधुत्वेनाथ चौर्येण कृष्या वा वाणिजेन वा । त्वमुपानयसे भोज्यं न मे चिन्ता प्रजायते

无论以正直之行,或以盗取之法;无论以耕作,或以贸易——你都为我带来饮食,因此我心中并无忧虑。

Verse 49

तस्मान्नैतद्धृदि स्थाप्यं कर्मनिंद्यं करिष्यसि । यत्तस्यांशं प्रभोक्ता त्वं वयं सर्वे प्रभुंजकाः

因此,莫将此念藏于心而去作可责之业,心想:“主将享其分,我们众人也将同享。”

Verse 50

सूत उवाच । स एतद्वचनं श्रुत्वा व्याकुलेनान्त्तरात्मना । पप्रच्छ मातरं गत्वा तमेवार्थं प्रयत्नतः

苏多说道:听闻此言,他内心惶然不安。遂往母前,殷切追问此事的缘由。

Verse 51

ततस्तयापि तच्चोक्तं यत्पित्रा तस्य जल्पितम् । असामान्यं शुभे पापे कृत्ये तस्य द्विजोत्तमाः

随后,她也将其父所言告知于他:“噢,二生中最胜者,他所作之事——无论为福为罪——皆非寻常。”

Verse 52

ततः पप्रच्छ तां भार्यां गत्वा दुःखसमन्वितः । साऽप्युवाच ततस्तादृक्पापं गुरुजनोद्भवम्

随后,他满怀忧苦,前往询问其妻。她亦答道:“如此之罪,起于对长上与尊者之冒犯。”

Verse 53

ततः स शोकसंतप्तः पश्चात्तापेन संयुतः । गर्हयन्नेव चात्मानं ययौ ते यत्र तापसाः

随后,他为忧伤所灼,满怀悔恨,自责不已,便前往那些苦行仙人所居之处。

Verse 54

ततः प्रणम्य तान्सर्वान्कृतांजलिपुटः स्थितः । गम्यतां गम्यतां विप्राः क्षम्यतां क्षम्यतां मम

于是他向众人顶礼,合掌而立,说道:“请行,请行,诸婆罗门啊——愿赦我,愿赦我。”

Verse 55

यन्मया मौर्ख्यमास्थाय युष्मन्निर्भर्त्सना कृता । सुपाप्मना विमूढेन तस्मात्कार्या क्षमाद्य मे

“只因我依恃愚昧而责难诸位;我迷乱而罪业深重,因此恳请赐我宽恕。”

Verse 56

युष्मदीयं वचः कृत्स्नं मद्गुरुभ्यां प्रजल्पितम् । भार्यया च द्विजश्रेष्ठास्तेन मे दुःखमागतम्

“婆罗门中最胜者啊,你们所说的一切,我的长辈与妻子也都复述于我;因此忧苦临到我身。”

Verse 57

तस्मात्कुर्वंतु मे सर्वे प्रसादं मुनिसत्तमाः । उपदेशप्रदानेन येन पापं क्षपाम्यहम्

“因此,诸位最胜牟尼啊,愿你们都垂赐恩慈——以开示教诲——使我凭此消灭罪业。”

Verse 58

मया कर्म कृतं निंद्यं सदैव द्विजसत्तमाः । स्त्रियोऽपि च द्विजेंद्राश्च तापसाश्च विशेषतः

噢,最殊胜的二次生者!我曾造作可责之业——伤害妇女,也冒犯最尊贵的婆罗门,尤其得罪诸苦行仙人。

Verse 59

ये ये दीनतरा लोका न समर्थाः प्रयोधितुम् । ते मया मुषिताः सर्वे न समर्थाः कदाचन

凡那些更为贫困、无力抵抗或报复的人——我尽皆掠夺;他们从未能够与我相抗。

Verse 60

कुटुम्बार्थं विमूढेन साधुसंगविवर्जिना । यथैव पठता शास्त्रं तन्मेऽद्य पतितं हृदि

我因迷妄,又远离圣贤之伴,只为家眷而奔逐此生。然至今日,仿佛诵读经典,其真义已坠入我心。

Verse 61

यदि न स्याद्भवद्भिर्मे दर्शनं चाद्य सत्तमाः । तदन्यान्यपि पापानि कर्ताहं स्यां न संशयः

噢,诸德行中最胜者!若我今日未得瞻仰你们的圣见(达尔善),我必定还会继续造作别的罪业,毫无疑问。

Verse 62

तेषां मध्यगतश्चासीत्पुलहो नाम सन्मुनिः । हास्यशीलः स तं प्राह विप्लवार्थं द्विजोत्तमम्

他们之中有一位真实的圣牟尼,名为普罗诃(Pulaha)。他性情诙谐,便对那位最上婆罗门开口,意在使此事生出转折。

Verse 63

अहं ते कीर्तयिष्यामि मन्त्रमेकं सुशोभनम् । यं ध्यायञ्जप्यमानस्त्वं सिद्धिं यास्यसि शाश्वतीम्

我将为你宣说一则极其庄严殊胜的真言。若以观想而持诵此咒,你将获得不退不坏、恒常的成就(悉地)。

Verse 64

जाटघोटेतिमन्त्रोऽयं सर्वसिद्धिप्रदायकः तमेनं जप विप्र त्वं दिवारात्रमतंद्रितः

此真言“jāṭaghoṭe”能赐予一切成就(悉地)。因此,婆罗门啊,当昼夜不懈地持诵此咒,莫生懒惰。

Verse 65

ततो यास्यसि संसिद्धिं दुर्लभां त्रिदशैरपि

于是你将获得圆满的成功——连诸天也难以得到的成就。

Verse 66

एवमुक्त्वाथ ते विप्रास्तीर्थयात्रां ततो ययुः । सोऽपि तत्रैव चौरस्तु स्थितो जपपरायणः

说罢,那些婆罗门便前往诸圣渡处(tīrtha)朝圣而去;而那盗贼却仍留在原地,专心致志于持诵(japa)。

Verse 67

अनन्यमनसा तेन प्रारब्धः स तदा जपः । यथाऽभवत्समाधिस्थो येनावस्थां परां गतः

他以不二之心开始持诵(japa)。如是入于三摩地(samādhi),并由此到达至高境界。

Verse 68

तस्यैवं स्मरमाणस्य तं मन्त्रं ब्राह्मणस्य च । निश्चलत्वं गतः कायः कार्ये च निश्चलः स्थितः

当他如此不断忆念婆罗门所授之真言时,他的身体渐至不动;而在修持之中亦安住坚定,毫不动摇。

Verse 69

ततः कालेन महता वल्मीकेन समावृतः । समंताद्ब्राह्मणश्रेष्ठा ध्यानस्थस्य महात्मनः

随后,经过漫长岁月——噢,最胜婆罗门——他被蚁丘从四面覆盖;而那位大心者仍沉浸于禅定之中。

Verse 70

तौ मातापितरौ तस्य सा च भार्या मनस्विनी । याता मृत्युवशं सर्वे तमन्वेष्य प्रयत्नतः

他的父母,以及那位意志坚毅的妻子,也都竭力寻觅他;然而众人终皆落入死神的权势之下。

Verse 71

न विज्ञातश्च तत्रस्थः संन्यस्तः स महाव्रतः । संसारभावनिर्मुक्तस्तस्मान्मुनिसमागमात्

他留在彼处,却无人识得。既已受持出离之行,具大誓愿者因亲近诸牟尼圣贤,而解脱于轮回世情之染。

Verse 72

कस्यचित्त्वथ कालस्य तेन मार्गेण ते पुनः । तीर्थयात्राप्रसंगेन मुनयः समुपस्थिताः

又过些时日,诸圣牟尼因朝礼诸圣渡处(tīrtha)之行,再次循着同一路径来到此地。

Verse 73

प्रोचुश्चैतद्द्विजाः स्थानं यत्र चौरेण संगमः । आसीद्वस्तेन रौद्रेण ब्राह्मणच्छद्मधारिणा

诸位二次生的圣贤指示了那处地方:昔日曾与一名盗贼相遇;此人凶暴残忍,却披着婆罗门的伪装。

Verse 74

ततो वल्मीकमध्यस्थं शुश्रुवुर्निस्वनं च ते । जाटघोटेतिमंत्रस्य तस्यैव च महात्मनः

随后他们听见蚁丘之中传出声响;那位大心者正在诵念以“jāṭa-ghoṭa”起首的真言。

Verse 75

अथ भूम्यां प्रहारास्ते सस्वनुः सर्वतोदिशम् । ते वल्मीकं ततो दृष्ट्वा तं चौरं तस्य मध्यगम्

于是他们击打大地,声响向四方回荡。随后他们看见那蚁丘,也看见那盗贼端坐在其中央。

Verse 76

जपमानं तु तं मन्त्रं पुलहेन निवेदितः । हास्यरूपेण यस्तस्य सिद्धिं च द्विजसत्तमाः

噢,二次生中最殊胜者啊,他正诵持那由普罗诃(Pulaha)所传的真言;虽以戏谑之形授与,却同样令他获得成就。

Verse 77

यद्वा सत्यमिदं प्रोक्तमाचार्यैः शास्त्रदृष्टिभिः । स्तोकं सिद्धिकृते तस्य यस्मात्सिद्धिरुपस्थिता

又或者,诸师——以经典之眼观照者——所言确为真实:即便微小之因亦能为他成就,因为证得已然临至于他。

Verse 78

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी

于真言、于圣地(tīrtha)、于婆罗门、于神祇、于占星者、于医药、于上师——人心所怀之信念如何,成就便如何显现。

Verse 79

अथ तं वीक्ष्य संसिद्धं कुमन्त्रेणापि तस्करम् । ते विप्रा विस्मयाविष्टाः कृपाविष्टा विशेषतः

随后,他们见那盗贼竟已圆满成就——纵以有瑕之真言亦然——诸婆罗门惊异不已,尤为慈悲所动。

Verse 80

समाध्यर्हैस्ततो द्रव्यैस्तैलैस्तद्भेषजैरपि

于是,他们取来适合深定之人的诸般资具——油膏与诸药疗亦在其中——便开始为他调治。

Verse 81

ममर्दुस्तस्य तद्गात्रं समाधिस्थं चिरं द्विजाः । ततः स चेतनां लब्धा आलोक्य च मुहुर्मुहुः । प्रोवाच विस्मयाविष्टस्तान्मुनीन्प्रकृतानिति

诸婆罗门为他按摩其身,尽管他久住三摩地。随后他复得知觉,反复凝望;惊异之中,他对那些看似如常的牟尼圣者开口说道。

Verse 82

लोहजंघ उवाच । किमर्थं न गता यूयं मया मुक्ता द्विजोत्तमाः । नाहं किंचिद्ग्रहीष्यामि युष्मदीयं कथंचन । कुटुंबार्थं यतस्तस्माद्व्रजध्वं स्वेच्छयाऽधुना

罗诃阇伽说道:“为何你们还不离去,婆罗门中之最胜者?我已放你们自由。我绝不以任何方式取你们之物。既为你们家室之故,如今便随意而去吧。”

Verse 83

मुनय ऊचुः । चिरकालाद्वयं प्राप्ताः पुनर्भ्रांत्वाऽत्र कानने । समाधिस्थेन न ज्ञातः कालोऽतीतस्त्वया बहु

诸圣仙说道:“历经漫长岁月,我们又回到此处,再次徘徊于这片林中。你安住于三摩地(samādhi)之时,许多时日已在你身上流逝——而你全然不觉。”

Verse 84

तौ मातापितरौ वृद्धौ त्वया मुक्तौ क्षयं गतौ । त्वं च संसिद्धिमापन्नः परामस्मत्प्रसादतः

“那二位——你年迈的母亲与父亲——因你而得解脱,已至其终。至于你,承蒙我们的加持,已证得至高成就。”

Verse 85

वल्मीकांतः स्थितो यस्मात्संसिद्धिं परमां गतः । वल्मीकिर्नाम विख्यातस्तस्माल्लोके भविष्यसि

“因你立于蚁丘之畔而证得无上圆满,故你将在世间以‘瓦尔弥基(Vālmīki)’之名而闻名。”

Verse 86

अत्रस्थेन यतो मुष्टास्त्वया लोकाः पुरा द्विज । मुखाराख्यं ततस्तीर्थमेतत्ख्यातिं गमिष्यति

“因为你曾居于此处,往昔劫掠众人,婆罗门啊,所以这处圣渡(tīrtha)将以‘穆卡拉(Mukhārā)’之名而著称。”

Verse 87

येऽत्र स्नानं करिष्यंति श्रावण्यां श्रद्धया द्विजाः । क्षालयिष्यंति ते पापं चौर्य कर्मसमुद्भवम्

“凡婆罗门于室罗伐那月(Śrāvaṇa)怀信在此沐浴者,皆能洗净由盗取之业所生的罪垢。”

Verse 88

सूत उवाच । एवमुक्त्वाथ ते विप्रास्तमामंत्र्य मुनिं ततः । प्रणतास्तेन संजग्मुर्वांछिताशां ततः परम्

苏多说道:如是言毕,那些婆罗门便向那位牟尼辞别;礼拜顶礼之后,遂继续前行,其所愿之事皆已圆满。

Verse 89

तपःस्थः सोऽपि तत्रैव वाल्मीकिरिति यः स्मृतः

而他也仍住于彼处,安住于苦行之中——那位被人忆念为“瓦尔弥基”的圣者。

Verse 90

मुनीनां प्रवरः श्रेष्ठः संजातश्च ततः परम् । अद्यापि तिष्ठते मूर्तः स तत्रस्थो मुनीश्वरः

其后,在诸牟尼之中兴起一位最为卓越、至为殊胜的圣仙。直至今日,那位牟尼之主仍以具身之相住于彼处,安住在那同一圣地。

Verse 91

यस्तं प्रपूजयेद्भक्त्या स कविर्जायते भुवम् । अष्टम्यां च विशेषेण सम्यक्छ्रद्धासमन्वितः

凡以虔敬之心供奉礼拜他者,必于世间成就诗才而为诗人。尤以月相第八日(阿湿多弥,Aṣṭamī)为胜,若具正信,果报决定无疑。

Verse 124

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुखारतीर्थोत्पत्तिवर्णनंनाम चतुर्विंशत्युत्तरशततमोऽध्यायः

至此,在神圣《斯坎达摩诃往世书》——八万一千颂之汇编——第六部《那伽罗分卷》中,于“哈塔凯湿瓦拉圣域功德赞”(Hāṭakeśvara-kṣetra-māhātmya)之内,题为《穆卡拉圣渡起源之描述》的章节圆满结束,此为第124章。