
苏多(Sūta)讲述一段发生在温陀耶(Vindhya)山中的事迹:女神以严谨的苦行(tapas)自持,收摄诸根,专注观想大自在天(Maheśvara)。随着苦行日益精进,她的神光(tejas)与容颜愈发炽盛,摩醯沙(Mahīṣa)的探子遂禀报有一位非凡的苦行少女。摩醯沙为欲所惑,率军前来劝诱,许以王权并求婚;女神却宣示其神圣使命:终止他对三界的威胁。 战斗随即展开:女神先伤摩醯沙,又以箭雨击溃其军;并以可怖之笑化现辅佐的勇士群,摧毁阿修罗众。摩醯沙亲自猛攻,女神在战中制伏其身,狮子将其牢牢按住,诸天(Deva)催请立刻诛灭。女神以利剑斩击其粗厚之颈,使诸天心满意足。 其后出现恳求与伦理张力:摩醯沙赞颂女神,自称已脱离诅咒,乞求宽恕。诸天警示宇宙秩序之危,女神遂决意不再杀他,而令其永受镇伏,作为恒常的约束。诸天宣说她将以“温陀耶居者”(Vindhyavāsinī)之名广受称扬,并制定供奉之法,尤重阿湿毗那月(Aśvina)明半月之吉日,能赐护佑、健康与成就;章末言秩序复归,并提及后世王者的虔敬与节庆瞻礼(darśana)之功德。
Verse 2
सूत उवाच । देवानां तद्वचः श्रुत्वा ततः सा परमेश्वरी । प्रोवाच वाहनं किंचिद्देवा यच्छतु मे द्रुतम् । ततः सिंहं ददौ गौरी यानार्थं विकृताननम् । तमारुह्य प्रतस्थे सा ततो विंध्यं नगं प्रति
苏多说道:听闻诸天之言后,那至上女神宣告:“愿诸天速为我备一乘骑。”于是,圣母高丽赐下一头面貌威猛可畏的狮子为座驾。她乘狮启程,前往温陀耶山。
Verse 3
तस्यैकं शृंगमास्थाय रम्यं श्रेष्ठद्रुमान्वितम् । फलपुष्पसमाकीर्णं लतामंडपमंडितम्
她登上一处山峰,秀丽可爱,遍布上等林木;果实与花朵纷然铺陈,又以藤蔓结成的亭棚点缀其间。
Verse 4
ततस्तपोऽकरोत्साध्वी तीव्रव्रतपरायणा । संयम्येन्द्रियवर्गं स्वं ध्यायमाना महेश्वरम्
随后,那位贞善的少女行持苦行,专志于严峻誓愿;摄伏诸根,默然观想大自在天摩诃湿伐罗(湿婆)。
Verse 5
यथायथा तपोवृद्धिस्तस्याः सञ्जायते द्विजाः । तथा रूपं च कांतिश्च शरीरे प्रतिवर्धते
诸位二生者啊,随着她的苦行日益增长,她身上的容色与光辉也同样不断增盛。
Verse 6
एतस्मिन्नंतरे प्राप्तास्तत्र दैत्येशकिंकराः । ते तां दृष्ट्वा व्रतोपेतामत्यद्भुतवपुर्ध राम् । गत्वा प्रोचुः स्वनाथस्य महिषस्य दुरात्मनः
其间,魔族之王的随从来到那里。见她持守誓戒、身相奇妙非凡,便前去禀告他们的主人——邪恶的摩醯沙。
Verse 7
चारा ऊचुः । भ्रममाणैर्धरापृष्ठे दृष्टाऽपूर्वा कुमारिका । विन्ध्याचलेऽद्य चास्माभिर्भुजैर्द्वादशभिर्युता । नानाशस्त्रधरैर्दीप्तैश्चर्मच्छादितगात्रका
密探禀告道:“我们巡游大地之时,今日在温陀耶山见到一位前所未见的少女:具十二臂,执持多种光辉兵刃,肢体以兽皮覆护。”
Verse 8
न देवी न च गन्धर्वी नासुरी नागकन्यका । तादृग्रूपा पुराऽस्माभिः काचिद्दृष्टा नितम्बिनी
“她既非天女神祇,亦非乾闼婆之女,非阿修罗女,亦非龙族公主。我们从未见过如此形貌的女子。”
Verse 9
न विद्मो यन्निमित्तं सा तपश्चक्रे यशस्विनी । स्वर्गकामाऽर्थकामा वा पतिकामाथ वा विभो
“我们不知那位声名卓著者因何而修苦行:是求天界,求财宝,还是求夫君,哦主上。”
Verse 10
सूत उवाच । तेषां तद्वचनं श्रुत्वा महिषो दानवाधिपः । कामदेव वशं प्राप्तः श्रवणादपि तत्क्षणात्
苏多说道:听了他们的禀报,檀那婆之主摩醯沙立刻落入伽摩天(爱神迦摩提婆)的权势之中——只因听闻,顷刻便然。
Verse 11
ततस्तानग्रतः कृत्वा सैन्येन महता न्वितः । जगाम कौतुकाविष्टो यत्रास्ते सा तु कन्यका
于是他令他们走在前头,率领大军随行,怀着强烈的好奇,前往那少女所居之处。
Verse 12
यथा मृत्युकृते मन्दः शृगालः सिंहवल्लभाम् । वने सुप्तां सुविश्वस्तां सर्वथाप्य कुतोभयाम्
如同愚昧的豺狼,自趋其死,竟走近狮王所钟爱的佳人——她在林中安睡,深信无疑,毫无惧色——他也就这样前行。
Verse 13
तस्याः संदर्शनादेव ततः कामशरैर्हतः । स दानवप्रधानश्च तत्क्षणादेव सद्द्विजाः
噢,尊贵的二次生者啊!仅仅一见她,那位达那婆之首便立刻被爱神迦摩的箭矢所击倒。
Verse 14
अथ प्राह प्रियं वाक्यमेकाकी तत्पुरःस्थितः । धृत्वा दूरतरेसैन्यं तस्या रूपेण मोहितः
随后,他独自立于她前——将军队远远留在后方——为她的容色所迷,便说出悦耳之辞。
Verse 15
विरुद्धं यौवनस्यैतद्व्रतं ते चारुहासिनि । तस्मादेतत्परित्यक्त्वा त्रैलोक्यस्वामिनी भव
“噢,笑靥娇美者,你这誓戒与青春相违;故当舍此,成为三界的女主宰。”
Verse 16
अहं हि महिषो नाम दानवेन्द्रो यदि श्रुतः । मया येन सहस्राक्षो द्वन्द्वयुद्धे विनिर्जितः
“我确是名为摩醯沙的达那婆之王,若你曾闻我名——正是我在单独决斗中战胜了千眼的因陀罗。”
Verse 22
अहं तव वधार्थाय निर्मिता विबुधोत्तमैः । तस्मात्त्वां नाशयिष्यामि स्मरेष्टं यद्धृदि स्थितम्
我由诸天中最尊胜者为毁灭你而化现。因此我将灭尽你,并连同你心中所藏的挚爱欲愿一并摧破。
Verse 23
महिष उवाच । यद्येवं तद्वरारोहे युक्ता स्याच्च कुमारिका । प्रार्थनीया भवेदत्र सर्वेषां प्राणिनां यतः
摩醯沙说道:“若果如此,噢,丰臀的佳人,你当为一位贞女;使此处一切众生皆来求觅并向你祈请。”
Verse 24
स्वर्गार्थं क्रियते धर्मस्तपश्च वरवर्णिनि । येन भोगाः प्रभुञ्जंति ये दिव्या ये च मानुषाः
噢,绝妙端严者,人们修持法(dharma)与苦行,为的是得生天界;由此而享受福乐,既有天界之乐,亦有人间之乐。
Verse 25
तस्माद्देहि ममात्मानं गांधर्वेण सुशोभने । विवाहेन यतोऽन्येषां स प्रधानः प्रकीर्तितः
因此,光辉的美人啊,请以乾闼婆婚(Gāndharva)将自身许与我;因为在诸种婚制之中,此婚被宣说为最上。
Verse 26
एवं प्रवदतस्तस्य सा देवी क्रोधमूर्छिता । तद्वक्त्रांतं समुद्दिश्य शरं चिक्षेप स क्षणात्
他正如此言说之时,女神为忿怒所夺;刹那间,她向他口角之处疾射一箭。
Verse 27
विवेश वदनं तस्य वल्मीकं पन्नगो यथा । अथ तैर्मार्गगणैर्विद्धः स वक्त्रांतान्नदंस्ततः
它射入他的口中,犹如毒蛇钻入蚁穴。随后,被玛尔嘎(Mārgā)的随从刺穿,他从嘴角发出惨叫。
Verse 28
सुस्राव रुधिरं भूरि गैरिकं पर्वतो यथा । ततः कोपपरीतात्मा निवृत्त्याथ शनैः शनैः
鲜血从他身上大量涌出,宛如赭石红流从山间倾泻。随后,他怒火中烧,一步步缓慢地撤退。
Verse 29
स्वसैन्यं त्वरितो भेजे कामेन च वशी कृतः । प्रोवाच सैनिकान्सर्वान्दुष्टा स्त्रीयं प्रगृह्यताम् । यथा न त्यजति प्राणान्प्रहारैर्जर्जरीकृता
他被欲望冲昏了头脑,迅速转向自己的部队,命令所有士兵:“抓住那个恶毒的女人!一次又一次地击打她,只要她不因重击而丧命。”
Verse 30
एषा मम न सन्देहः प्रिया भार्या भविष्यति । यदि नो शस्त्रपातेन पंचत्वमुपयास्यति
“对此我深信不疑:她将成为我的爱妻——只要她不因兵器加身而魂归五行(即死去)。”
Verse 32
एतस्मिन्नंतरे देवी सा दृष्ट्वा तानुपस्थितान् । युद्धाय कृतसंकल्पांस्तर्जतश्च मुहुर्मुहुः
与此同时,女神见他们集结完毕,决意一战,便再三斥责并向他们发出挑战。
Verse 33
ततस्तु लीलया देवी मुक्ता तीक्ष्णान्महाशरान् । तान्सर्वांस्ताडयामास सर्वमर्मसु तत्क्षणात्
随后,女神仿佛嬉戏一般,放出锋利强大的神箭,刹那间尽中众人要害。
Verse 34
अथ तीक्ष्णैः शरैर्दैत्या निहता दानवास्तथा । एके पंचत्वमापन्ना गताश्चान्य इतस्ततः
被那些锋利的箭矢击倒,诸多底提耶与达那婆纷纷倒下:有的丧命,有的四散奔逃。
Verse 35
ततः सैन्यं समालोक्य तद्भग्नं च तया रणे । कोपाविष्टस्ततो दैत्यः स्वयं तां समुपाद्रवत्
随后,他见自己的军队在战场上被她击溃,便怒火攻心,亲自冲向女神。
Verse 36
यच्छञ्छृंगप्रहारांश्च तस्याः शतसहस्रशः । गर्जितं विदधच्चोग्रं शारदाभ्रसमं मुहुः
他以角击向她,连施数十万次猛撞,又屡屡发出可怖的咆哮,宛如秋空云团翻涌。
Verse 37
एतस्मिन्नंतरे देवी साट्टहासकृतस्वना । त्रैलोक्यविवरं सर्वं यच्छब्देन प्रपूरितम्
就在那一刻,女神发出震天大笑;那笑声充满三界的一切空隙与广大空间。
Verse 38
एवं तस्या हसंत्याश्च वक्त्रान्तादथ निर्ययुः । पुलिंदाः शबरा म्लेछास्तथान्येऽरण्यवासिनः
当她如此发笑时,从她口中竟涌出普林达族、舍婆罗族、弥勒叉人,以及其他林野居者。
Verse 39
शकाश्च यवनाश्चैव शतशश्तु वपुर्धरा । वर्म स्थगितगात्राश्च यमदूता इवापरे
又有塞迦人与夜婆那人出现——成百上千——身披甲胄、护具覆体,宛如阎摩的使者一般。
Verse 41
देव्युवाच । एतानस्य सुदुष्टस्य सैनिकान्बलगर्वितान् । सूदयध्वं द्रुतं वाक्यादस्मदीयाद्यथेच्छया
女神宣言:“速速击倒那极恶之人的兵众——恃力而骄者——即刻依我号令,怀着对我的忠诚,随你们所愿而行。”
Verse 42
अथ ते तद्वचः श्रुत्वा वल्गंतोऽसिधनुर्द्धराः । दैतेयबलमुद्दिश्य दुद्रुवुर्वेगमाश्रिताः
他们听罢她的话,那些战士挥舞刀剑、执弓在手,纵身而起,挟疾风之势直奔阿修罗(代提耶)军阵。
Verse 43
ततस्तेषां महद्युद्धं मिथो जज्ञे सुदारुणम् । नात्मीयं न परं तत्र केनचिज्ज्ञा यते क्वचित्
于是他们之间爆发了一场浩大而惨烈的战斗。在那里,任何时刻都无人能清楚分辨谁是“己方”,谁是“彼方”。
Verse 44
अथ ते दानवाः सर्वे योधैर्देवीसमुद्भवैः । भग्ना व्यापादिताश्चान्ये प्रहारैर्जर्जरीकृताः
于是,那些达那婆众皆被女神所生的勇士击得粉碎;有的被诛杀,有的在连番重击下被打得支离破碎。
Verse 45
ततो भग्नं बलं दृष्ट्वा महिषः क्रोधमूर्छितः । तामुवाच क्रुधा देवीं वचनैः परुषाक्षरैः
见自己的军势溃败,摩醯沙被怒火冲昏,便以粗厉尖刻之言,愤然对女神说道。
Verse 46
आः पापे स्त्रीति मत्वाद्य न हतासि मया युधि । तस्मात्पश्य प्रहारं मे तत्त्वं बुध्यसि नान्यथा
“啊,罪孽之女!因以为你‘不过是个女人’,我才未在战场上杀你。如今且看我这一击——你必明白真相,别无他途。”
Verse 47
एवमुक्त्वा विशेषेण प्रहारान्स विचिक्षिपे । विषाणाभ्यां महावेगो भर्त्सयानो मुहुर्मुहुः
说罢,他便接连掷出尤为凶猛的攻势;其势迅疾无比,屡屡威吓,并以双角反复冲击。
Verse 48
ततोऽभ्याशगतं दृष्ट्वा सा देवी दानवं च तम् । आरुरोहाथ वेगेन पृष्ठिदेशेन कोपतः
随后,女神见那达那婆逼近,怒意顿起,便以迅猛之势、挟大力跃上其背。
Verse 49
ततश्चुक्रोश दैत्योऽसौ व्योममार्गं समाश्रितः । पृष्ठ्यास्तलेन निर्भिन्नो रुधिरौघपरिप्लुतः
那时,那阿修罗大声嚎叫,飞向天空;他的背部受重创,鲜血如注,全身湿透。
Verse 50
एतस्मिन्नंतरे सिंहः स तस्या ज्योतिसंभवः । जग्राह पश्चिमे भागे दंष्ट्राग्रैर्निशितैः क्रुधा
就在那一刻,由她光辉能量所生的狮子,愤怒地用锋利的獠牙从背后抓住了他。
Verse 51
ततो निश्चलतां प्राप्तः पादाक्रांतश्च दानवः । अकरोद्भैरवान्नादान्न शक्तश्चलितुं पदम्
随后,那被踩在她脚下的檀那婆变得一动不动。虽然发出如陪胪般恐怖的吼声,却连一步也无法移动。
Verse 52
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः । व्योमस्थास्तां तदा प्रोचुर्देवीं हर्षसमन्विताः
就在这时,所有的天神——连同因陀罗——都到了,他们站在空中,充满喜悦地对女神说话。
Verse 53
एतस्य शिरसश्छेदं शीघ्रं कुरु सुरेश्वरि । खङ्गेनानेन तीक्ष्णेन यावन्नो याति चान्यतः
“噢,众神之后啊,请速用这把利剑斩下他的头颅,以免他逃往别处。”
Verse 54
सा श्रुत्वा वचनं तेषां देवी कोपसमन्विता । खड्गं व्यापारयामास कंठे तस्यातिपीवरे
女神听闻他们的话语,心起正义之怒,遂挥动宝剑,斩向他那异常粗厚的颈项。
Verse 55
स तेन खड्गघातेन कंठः पीनोऽपि निष्ठुरः । द्विधा जज्ञेऽथ दैत्यस्य दधत्तुष्टिं दिवौकसाम्
在那一剑之下,魔族的颈项虽粗且坚,仍被劈作两段,使天界众神心满意足。
Verse 56
द्वादशार्कप्रतीकाशो वक्त्रांतश्चर्मखड्गधृक् । भर्त्सयंस्तां महादेवीं खड्गोद्यतकरां तदा । खड्गं व्यापारयन्गात्रे तस्या बालार्कसन्निभम्
他光辉如十二轮太阳,执盾持剑;当大女神举剑而立时,他出言辱骂,并挥刃斩向女神那如旭日初升般灿然的圣躯。
Verse 57
ततः केशेषु चाधाय यावत्तस्यापि चिक्षिपे । प्रहारं गात्रनाशाय तावदूचे स दानवः
随后他揪住(女神的)发丝,正欲施以毁灭其身的重击之际,那达那婆开口说道。
Verse 58
दानव उवाच । जय देवि जयाचिंत्ये जय सर्वसुरेश्वरि । जय सर्वगते देवि जय सर्वजनप्रिये
达那婆说道:“胜利归于您,女神!胜利,难思议者!胜利,诸天之主!胜利,遍在的女神!胜利,众生所爱者!”
Verse 59
जय कामप्रदे नित्यं जय त्रैलोक्यसुन्दरि । जय त्रैलोक्य रक्षार्थमुद्यते ह्यकुतोभये
愿胜利恒常归于你,赐福施愿者!愿胜利归于你,三界之美!愿胜利归于你,为护持三界而奋起——无畏者啊!
Verse 60
जय देवि कृतानंदे जय दैत्यविनाशिनि । जय क्लेशच्छिदे कांते जयाभक्तविमोहदे
胜利啊,赐生欢喜的女神!胜利啊,摧灭阿修罗者!胜利啊,斩断诸苦恼的可爱者!胜利啊,使无信敬者迷乱的女神!
Verse 62
तस्मात्कुरु प्रसादं मे प्राणान्रक्ष दयां कुरु । प्रणतस्य सुदीनस्य हीनस्य च विशेषतः
因此,愿你赐我慈恩;护持我的性命,施以悲悯——尤其垂怜我这俯首礼拜者,极其困苦、卑微而堕落之人。
Verse 63
अहं दुर्वाससा शप्तो हिरण्याक्षसुतो बली । महिषत्वं समानीतस्त्वया देवी विमोक्षितः
我乃巴利,希兰尼亚克沙之子,曾受杜尔瓦萨的诅咒。被迫堕为水牛之身,却蒙女神你解脱。
Verse 64
तस्माद्दर्पः प्रमुक्तोऽद्य मया दानवसंभवः । किंकरत्वं प्रयास्यामि सांप्रतं ते सुरेश्वरि
因此,今日我已弃却由我达那婆本性所生的傲慢。如今,噢诸天之主母,我愿入你麾下,作你的侍从而奉事。
Verse 65
जय सर्वगते देवि सर्वदुष्टविनाशिनि
胜利归于你,遍在的女神啊,摧灭一切邪恶者!
Verse 66
इति तस्य वचः श्रुत्वा कृपणं सा सुरेश्वरी । कृपाविष्टाऽब्रवीद्वाक्यं ततो व्योमस्थितान्सुरान्
她听到他那凄苦的言辞,诸天之母为悲悯所动。于是满怀慈恩,对驻立于空中的诸神开口说道。
Verse 67
किं करोमि दया जाता ममैनं प्रति हे सुराः । तस्मान्नाहं हनिष्यामि दानवं दीनजल्पकम्
我当如何?诸神啊,我对他已生起怜悯。故此,我不将诛杀这哀声诉说的达那婆。
Verse 68
विमुखं खड्गशस्त्रं च तवास्मीति प्रवादिनम् । अपि मे पितृहंतारं न हन्यां रिपुमाहवे
纵使他背转身来,执剑持兵,却仍宣称“我属于你”,我也不在战场上杀敌——即便他是弑我父者。
Verse 69
देवा ऊचुः । न चेदसि च देवेशि त्वमेनं दानवाधमम् । नाशयिष्यति तत्कृत्स्नं त्रैलोक्यं सचराचरम्
诸神说道:若你,诸神之主母,不毁灭这最卑劣的达那婆,他必将尽灭三界,连同一切动与不动之众。
Verse 70
एष व्यर्थःश्रमः सर्वस्तथास्माकं भविष्यति । तव संभूतिसंभूतस्तव क्लेशस्तथाऽखिलः
我们的一切努力都将归于徒然;而你的一切苦恼也将再度生起——皆由他力量的再现而生。
Verse 71
देव्युवाच । नाहमेनं हनिष्यामि त्यजिष्यामि तथाऽमराः । एनं कचग्रहं कृत्वा धारयिष्यामि सर्वदा
女神说道:“诸位不死者,我不杀他,也不弃他。揪住他的头发,我将永远如此制住他。”
Verse 72
देवा ऊचुः । साधुसाधु महाभागे युक्तमुक्तं त्वया वचः । एतद्धि युज्यते कर्तुं कालेऽस्मिंस्त्रिदशेश्वरि
诸天说道:“善哉,善哉,福德广大者!你之言辞契理而周详。诚然就在此时,三十天之主母啊,此事正当如此而行。”
Verse 73
सांप्रतं मर्त्यलोके त्वं रूपमेतत्समाश्रिता । शस्त्रोद्यतकरा रौद्रा महिषोपरि संस्थिता
如今在凡世之中,你已取此形相——威烈而凛然,双手高举兵刃,端坐于水牛之上。
Verse 74
अवाप्स्यसि परां पूजां दुर्लभा ममरैरपि । यस्त्वामेतेन रूपेण संस्थितां पूजयिष्यति
当有人以你此刻所安住的这般形相来礼敬供奉你时,你将获得至上的崇拜——即便在不死者之中亦属罕有。
Verse 75
त्वमस्य संगतो भावि विख्याता विंध्यवासिनी । किं ते वा बहुनोक्तेन शृणु संक्षेपतो वचः
你将与此地相系,并以“住于温陀耶山的女神”(Vindhyavāsinī)之名而闻名。何必多言?且听我略说其要。
Verse 76
अस्मदीयं परं तथ्यं सर्वलोकहितावहम् । पार्थिवानां त्वदायत्तं बलं देवि भविष्यति
我等此至上真理,乃为一切世界之福祉:噢,天女(Devī),诸王之力将依赖于你。
Verse 77
युद्धकाले समुत्पन्ने भक्तानां नात्र संशयः । प्रस्थानं वा प्रवेशं च यः करिष्यति मानवः
当战时来临,对信奉者而言毫无疑虑。凡将启程远行之人——或将进入(某处/某事)之人……
Verse 78
त्वां स्मृत्वा प्रणिपत्याथ पूजयित्वा विशेषतः । तस्य संपत्स्यते सिद्धिः सर्वकृत्येषु सर्वदा । इह कापुरुषस्यापि किं पुनः सुभटस्य च
忆念于你,俯首顶礼,并以殊胜虔敬供奉礼拜者,必于一切事业、于一切时常得成就。若连怯弱之人尚且如此,何况勇猛战士!
Verse 79
आश्विनस्य सिते पक्षे नवम्यां चाष्टमीदिने । पूजयिष्यति यो मर्त्त्यस्त्वां सद्भक्तिसमन्वितः
于阿湿毗那月之白分(明半月),在第九日亦在第八日,凡人中以真诚虔信礼拜供奉你者……
Verse 80
तस्य संवत्सरं यावत्समग्रं सुरसुन्दरि । न भविष्यति वै रोगो न भयं न पराभवः । नापमृत्युर्न चौरादि समुद्भूत उपद्रवः
噢,天众中最美者,满一年之内将无疾病、无恐惧、无败北;亦无非时之死,亦无盗贼等所生诸般扰害。
Verse 82
तत्र गत्वा चिरात्प्राप्य स्वं राज्यं पाकशासनः । पालयामास संहृष्टस्त्रैलोक्यं हतकटकम्
他往彼处而去,久后复得自家王国;降伏魔军之帕迦沙萨那(因陀罗)欢喜统御三界,敌对之军已尽灭。
Verse 83
लोकाश्च सुखसंपन्नाः सर्वे जाता स्ततः परम् । यज्ञभागभुजो देवा भूयो जाता जगत्त्रये
此后,诸世界皆充满安乐与丰饶;而诸天——享受祭祀供分者——亦复在三界之中再度兴盛。
Verse 84
ततः परं च सा देवी त्रैलोक्ये ख्यातिमागता । सर्वक्षेत्रेषु तीर्थेषु स्थानेषु च विशेषतः
其后,那位女神在三界之中名闻远播,尤以诸圣域、诸朝圣渡口(提尔塔)与诸神圣住处为甚。
Verse 85
एतस्मिन्नंतरे जातः सुरथोनाम भूपतिः । आनर्तस्तेन सद्भक्त्या क्षेत्रेऽत्रैव विनिर्मिता
其间,诞生了一位名为苏罗他(Suratha)的国王。凭其真诚的奉爱,他就在此圣域之中建立了“阿那尔塔”(Ānarta,一处神圣的基址与聚落)。
Verse 86
यस्तां पश्यति सद्भक्त्या चैत्राष्टम्यां सितेऽहनि । स पुमान्वत्सरं यावत्कृतार्थः स्यान्न संशयः
凡于恰伊特罗月白分第八日,以至诚奉爱瞻礼圣母者,此人一年之内诸愿圆满、事事成就,毫无疑虑。
Verse 91
।सूत उवाच । एवमुक्त्वाथ ते देवास्तां देवीं हर्षसंयुताः । अनुज्ञातास्तया जग्मुः स्वां पुरीममरावतीम्
苏多说道:如是言毕,诸天满怀欢喜,蒙女神许可而辞别,遂往归其本城阿摩罗伐底。
Verse 121
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महिषासुरपराजय कात्यायनीमाहात्म्यवर्णनंनाम एकविंशत्युत्तरशततमोऽध्यायः
至此,《圣·斯坎达大往世书》八万一千颂本中,第六部《那伽罗分卷》之《哈塔凯湿伐罗圣域功德》内,名为“摩醯沙苏罗之败与迦底耶耶尼功德赞述”的第121章圆满终结。