Adhyaya 117
Nagara KhandaTirtha MahatmyaAdhyaya 117

Adhyaya 117

第117章以问答体展开神学论述。诸仙人请苏多解释:为何毒蛇的毒牙会从婆提迦(Bhaṭṭikā)身上脱落,此事究竟源于苦行(tapas)还是咒力(mantra)。苏多叙述婆提迦早年守寡,长期在计达罗(Kedāra)修持奉爱,每日于神前歌咏赞颂。其歌声兼具审美与奉爱之力,引来多叉迦(Takṣaka)与婆苏吉(Vāsuki)化作婆罗门前来;其后多叉迦又现可怖那伽之形,将她掳至帕塔拉(Pātāla)。 婆提迦以明晰的伦理与正法之心抗拒胁迫,并发出带条件的诅咒,迫使多叉迦寻求和解。随后因嫉妒而起的那伽妻众冲突爆发;她诵持护身明咒(vidyā),当一位那伽女咬噬时,其毒牙脱落——这正是开篇疑问的因缘根由。婆提迦又诅咒施害者转为人身,并预示未来宿命:多叉迦将于娑罗湿吒罗(Saurāṣṭra)转生为王者,而婆提迦将以“克谢曼迦梨”(Kṣemaṃkarī)之名再为人身,与之重逢。 回到计达罗后,众人对她的清净生疑。她自愿入火受试;火化为水,天雨花雨,天使宣告她无垢无染。章末建立以她命名的圣渡处(tīrtha),并许诺在毗湿奴睡卧/觉醒(śayana/bodhana)斋期于此沐浴者可得高妙灵性成就。婆提迦继续苦行礼拜,安置三步神(Trivikrama)圣像,后又建立大自在天(Maheśvara)林伽并建寺。

Shlokas

Verse 1

ऋषय ऊचुः । भट्टिकाख्या पुरा प्रोक्ता या त्वया सूतनन्दन । कस्मात्तस्याः शरीरान्ताद्दंष्ट्रा नागसमुद्भवाः

诸仙人说道:“噢,苏多之子啊,你先前曾提到一位名为‘Bhaṭṭikā’者。为何从她身体的末端竟生出由那伽所出的獠牙?”

Verse 2

विशीर्णाः किं प्रभावश्च तपसः सूतनन्दन । किं वा मंत्रप्रभावश्च एतन्नः कौतुकं परम्

噢,苏多之子啊,它们因何种威力而被击碎——是苦行(tapas)的功德之力,还是咒语(mantra)的神力?此乃我等至深的好奇,请为我们开示。

Verse 3

यन्मानुषशरीरेऽपि विशीर्णास्ता विषोल्बणाः । नागानां तु विशेषेण तस्मात्सर्वं प्रकीर्तय

那些因毒而凶猛之物,连人身都能摧裂;何况对那伽更是如此。因此,请将此事始末详尽宣说。

Verse 4

।सूत उवाच । सा पुरा ब्राह्मणी बाल्ये वर्तमाना पितुर्गृहे । वैधव्येन समायुक्ता जाता कर्मविपाकतः

苏多说道:往昔有一位婆罗门女子,尚在幼年时住在父家;由于往昔业力的成熟,她竟成了寡妇。

Verse 5

ततो बाल्येऽपि शुश्राव शास्त्राणि विविधानि च । देवयात्रां प्रचक्रेऽथ तीर्थे स्नाति समाहिता

随后,即使在幼年,她也聆听了种种圣典;继而她启程朝礼诸天,心神摄持,沐浴于神圣的渡口(tīrtha)。

Verse 6

तत्र केदारदेवं च गत्वा नित्यं समाहिता । प्रातरुत्थाय गीतं च भक्त्या चक्रे तदग्रतः

在那里,她每日前往礼敬凯达拉主(Kedāra),心志安定;清晨早起,她以信心在主前唱诵奉爱之歌。

Verse 7

ततस्तद्गीतलौल्येन पातालात्समुपेत्य च । तक्षको वासुकिश्चैव द्विज रूपधरावुभौ

随后,因渴慕她的歌声,塔克沙卡(Takṣaka)与婆苏吉(Vāsuki)自帕塔拉(Pātāla)升起;二者皆化作婆罗门之形。

Verse 8

साऽपि तत्र महद्गीतं तानैः सर्वैरलंकृतम् । मूर्च्छनाभिः समोपेतं सप्तस्वरविराजितम्

她也在彼处唱起宏大的歌章,以一切旋律转折为饰,具足诸般音阶流转(mūrcchanā),并以七音(saptasvara)辉映生光。

Verse 9

यतिभिश्च तथा ग्रामैर्वर्णग्रामैः पृथ ग्विधैः । ततं च विततं चैव घनं सुषिरमेव च

又以有度之节拍(yati)与诸调式体系(grāma),以多种音与字的组合;并配以诸乐器——弦乐(tata)、膜鼓(vitata)、击奏之器(ghana)与管吹之器(suṣira)——她的演唱遂臻圆满。

Verse 10

तालकालक्रियामानवर्धमानादिकं च यत् । अविदग्धापि सा तेषां गीतांगानां द्विजांगना । केवलं कंठसंशुद्ध्या ताभ्यां तोषं समादधे

凡与节奏、时刻、演唱法度、分寸与润饰有关的一切——纵然她未受正规训练,那位婆罗门女子也仅凭喉音的清净纯澈,令那两位那伽心生欢喜。

Verse 12

ततस्तद्गीतलोभेन सर्वे तत्पुरवासिनः । प्रातरुत्थाय केदारं समागच्छंति कौतुकात् । कस्य चित्त्वथ कालस्य नागौ तौ स्वपुरं प्रति । निन्युर्बलात्समुद्यम्य सर्वलोकस्य पश्यतः

随后,因贪恋那歌声,城中居民皆清晨起身,怀着欣喜的惊奇来到计陀罗。然过些时日,那两位那伽当着众人之面,强行将她举起,携往他们自己的城邑。

Verse 13

नागरूपं समाधाय रौद्रं जनविभीषणम् । भोगाग्र्येण च संवेष्ट्य पातालतलमभ्ययुः

他化作凶猛的蛇身,令众人惊惧;又以身躯最强盛的盘绕将她紧紧缠住,遂下沉至钵多罗(地下界)的诸层。

Verse 14

अथ तां स्वगृहं नीत्वा प्रोचतुः कामपीडितौ । भवावाभ्यां विशालाक्षि भार्या धर्मपरायणा । एतदर्थं समानीता त्वं पाताले महीतलात्

随后,他将她带到自己的居所,那被欲火所逼者说道:“噢,大眼的女子,你将成为我二人的正妻,奉持达摩、以法为依。正为此故,你才从人间大地被带下至钵多罗。”

Verse 15

भट्टिकोवाच । यत्त्वं तक्षक मां शांतामनपेक्षां रतोत्सवे । आनैषीरपहृत्याशु ब्राह्मणान्वय संभवाम्

婆提迦说道:“只因你,噢,达叉迦,在欲乐的狂热中,竟迅疾掳走了我——我本安静而不愿——虽我出自婆罗门的清净族系。”

Verse 16

मानुषं रूपमास्थाय पुरा मां त्वं समाश्रितः । कामोपहृतचित्तात्मा तस्मान्मर्त्यो भविष्यसि

往昔,你化作人形接近我;你的心神被欲望所夺。因此,你将沦为凡人。

Verse 17

यदि मां त्वं दुराचार धर्षयिष्यसि वीर्यतः । शतधा तव मूर्धाऽयं सद्य एव भविष्यति

恶徒啊,若你企图强行侵犯我,你的头颅将在瞬间碎裂成百块。

Verse 18

तं श्रुत्वा सुमहाशापं तस्याः स भयविह्वलः । ततः प्रसादयामास कृतांजलिपुटः स्थितः

听到她那极可怕的诅咒,他因恐惧而颤抖;于是他双手合十伫立,试图平息她的怒火。

Verse 19

मया त्वं कामसक्तेन समानीता सुमोहतः । तस्मात्कुरु प्रसादं मे शापस्यांतो यथा भवेत्

我被欲望所奴役,完全受了迷惑,才把你带到这里。因此请施恩于我,让这诅咒得以终结。

Verse 20

सूत उवाच । एवं प्रसादिता तेन तक्षकेण द्विजात्मजा । ततः प्रोवाच तं नागं बाष्पव्याकुललोचना

苏塔说道:婆罗门之女受到德叉迦如此恳求,眼中含着泪水,随后对那龙王说道。

Verse 21

यदि मां मर्त्यलोके त्वं भूयो न यसि तक्षक । तत्र शापस्य पर्यंतं करिष्यामि न संशयः

“若你不再为我前往凡人之世,噢,Takṣaka,那么我必令那诅咒走到尽头——毫无疑虑。”

Verse 22

एतस्मिन्नंतरे ज्ञात्वा मानुषीं स्वगृहागताम् । तक्षकेण समानीतां कामोपहतचे तसा

其间,得知有一位人间女子来到他家中——由被欲望击倒心神的Takṣaka带来——(众人遂作相应反应)。

Verse 23

ततस्तस्य कलत्राणि महेर्ष्यासंश्रितानि च । तस्या नाशार्थमाजग्मुः कोपरक्तेक्षणानि च

随后,他的妻子们——因嫉妒而投靠大圣仙者——眼含怒红而来,一心要使她毁灭。

Verse 24

अथ तासां परिज्ञाय तक्षकः स विचेष्टितम् । वाञ्छञ्छापस्य पर्यंतं तत्पार्श्वाद्भयसंयुतः

Takṣaka察知她们的意图与躁动,心生恐惧,便寻求诅咒的界限(终结),退到她身旁以求庇护。

Verse 25

वज्रां नामास्मरद्विद्यां तस्या गात्रं ततस्तया । योजयामास रक्षार्थं प्राप्ता चाथ भुजंगमी

她忆起名为“金刚(Vajrā)”的真言明咒,以其威力护持自身;随后,女蛇灵(nāginī)走近。

Verse 26

अदशत्तां ततः क्रुद्धा ब्राह्मणस्य सुतां सतीम् । सपत्नीं मन्यमानोच्चैः शीर्णदंष्ट्रा व्यजायत

随后她怒火中烧,咬了那位清净梵志的贤女,误以为是争宠的对妻;她的毒牙因此折断,尽皆残毁。

Verse 27

अथ तामपि सा क्रुद्धा शशाप द्विजसंभवा । दृष्ट्वा सापत्न्यजैर्भावैर्वर्तमानां सहेर्ष्यया

于是那位出身梵门的女子也动怒,见她以妒火如同对妻般行事,便同样降下诅咒。

Verse 28

यस्मात्त्वं दोषहीनां मां सदोषामिव मन्यसे । तस्माद्भव द्रुतं पापे मानुषी दुःखभागिनी

“既然你把无过的我当作有罪之人,那么,罪者啊,你速速化为人间女子,成为分担苦难者。”

Verse 29

अथ तां संगृहीत्वा स तक्षको नागसत्तमः । केदारायतने तस्मिन्नर्धरात्रे मुमोच ह

随后,最尊胜的龙族——多叉迦(Takṣaka)将她携起,于半夜把她放在那座凯达罗圣处(Kedārāyatana)。

Verse 30

ततः प्रोवाच तां देवीं कृतां जलिपुटः स्थितः । शापांतं कुरु मे साध्वि स्वगृहं येन याम्यहम्

随后他合掌而立,对那位高贵的女神说道:“贤淑者啊,请令我的诅咒终止,使我得以回归自己的住处。”

Verse 31

भट्टिकोवाच । सौराष्ट्रविषये राजा त्वं भविष्यसि पन्नग । भूमौ रैवतको नाम भोगानां भाजनं सदा

跋提迦说道:“噢,龙蛇啊,你将于娑罗湿吒之境成为国王。世间名为‘罗伊伐多迦’之地,将恒为福乐与昌盛的容器。”

Verse 32

ततश्चैव तनुं त्यक्त्वा क्षेत्रेष्वाश्रममध्यतः । संप्राप्स्यसि निजं स्थानं तत्क्षेत्रस्य प्रभावतः

其后,你将在圣域之中、道林之央舍弃此身;凭借那圣地的威力,你将抵达自己本来的真实归处。

Verse 33

तक्षक उवाच । एषा मम प्रिया कांता त्वया शापेन योजिता । या सा भवतु मे भार्या मानुषत्वेऽपि वर्तिते

多叉迦说道:“此乃我所钟爱的妻子,因你的诅咒而被系缚。愿她纵处人身之境,仍得成为我的妻。”

Verse 34

एत त्कुरु प्रसादं मे दीनस्य परियाचतः । माऽस्या भवतु चान्येन पुरुषेण समागमः

“请赐我此恩——我困苦受迫、俯首哀求:愿她不与任何别的男子结合。”

Verse 35

भट्टिकोवाच । आनर्ताधिपतेरेषा भवित्री दुहिता शुभा । ततः पाणिग्रहं प्राप्य भार्या तव भविष्यति

跋提迦说道:“她将投生为阿那尔多之主那吉祥的女儿。其后,待行婚礼(执手成婚)之时,她便成为你的妻。”

Verse 36

क्षेमंकरीति विख्याता रूपयौवनशालिनी । त्वया सार्धं बहून्भोगान्भुक्त्वाऽथ पृथिवीतले । परलोके पुनस्त्वां वै चानुयास्यति शोभना

她名为“克舍曼迦丽”(Kṣemaṃkarī),具足美貌与青春;在大地之上将与你同享诸多世间乐受,而在来世,那位光辉灿然者亦将再度随你而行。

Verse 37

सूत उवाच । एवं च स तया प्रोक्तः क्षम्यतामिति सादरम् । प्रणिपत्य जगामाऽथ निजं स्थानं प्रहर्षितः

苏多说道:他被她如此告诫后,恭敬地说:“愿我得蒙宽恕。”随后他俯首顶礼,欢喜充满,回到自己的住处。

Verse 38

साऽपि प्राप्ते निशाशेषे केदारस्य पुरः स्थिता । पुनश्चक्रे च तद्गीतं श्रुतिसौख्यकरं परम्

当长夜完全消尽之时,她也立于凯达罗之前,再次唱起那支歌——至上而悦耳,令听者心神安乐。

Verse 39

अथ तस्य समायाताः केदारस्य दिदृक्षवः । पुनः केदारभक्त्याढ्या ब्राह्मणाः शतशः परम्

随后,渴望瞻仰凯达罗者纷纷到来;又有成百上千的婆罗门,满怀对凯达罗的虔敬之心,云集而至。

Verse 40

ते तां दृष्ट्वा समायातां भट्टिंकां तां द्विजोद्भवाम् । विस्मयेन समायुक्ताः पप्रच्छुस्तदनंत रम्

他们见到已至此处的婆罗门出身女子婆提因迦(Bhaṭṭiṃkā),皆惊异不已,随即便向她发问。

Verse 42

कस्मात्पुनः प्रमुक्ताऽसि सर्वं वद यथातथम् । अत्र नः कौतुकं जातं सुमहत्तव कारणात्

“你为何又得解脱?请如实详尽地说出一切。因你这非凡的缘故,我们在此生起了极大的好奇。”

Verse 43

सूत उवाच । ततः सा कथयामास सर्वं तक्षकसंभवम् । वृत्तांतं नागसंभूतं शापानुग्रहजं तथा

苏多说道:于是她叙述了因塔克沙迦而起的一切——那由那伽所生的经历,以及同样由诅咒与恩泽所引出的诸般因缘。

Verse 44

एतस्मिन्नंतरे प्राप्तं सर्वं तस्याः कुटुम्बकम् । रोरूयमाणं दुःखार्तं श्रुत्वा तां तत्र चागताम्

就在此时,她的全家都赶到了那里。听说她已来到此处——他们自己正哀号哭泣、为悲痛所压——便急忙奔向那地方。

Verse 45

अथ सा जननी तस्या वाष्प पर्याकुलेक्षणा । सस्वजे तां तथा चान्याः सख्यः स्निग्धेन चेतसा

随后,她的母亲泪眼朦胧,紧紧拥抱了她;其余女子——她的挚友们——也以深情之心拥抱她。

Verse 46

ततो निन्युर्गृहं स्वं च शृण्वंतश्च मुहुर्मुहुः । नागलोकोद्भवां वार्तां विस्य याविष्टचेतसः

随后他们把她带回自家,反复聆听那源自那伽世界的叙述;众人惊异不已,心神尽皆沉浸其中。

Verse 47

अथ तत्र पुरे पौराः सर्वे प्रोचुः परस्परम् । अयुक्तं कृतमेतेन ब्राह्मणेन दुरात्मना

于是,在那座城中,众人彼此说道:“这心怀邪恶的婆罗门做了不合正法之事。”

Verse 48

यदानीता सुतरुणी परहर्म्योषिता तया । अन्येषामपि विप्राणां संति नार्यो ह्यनेकशः

“因为她带回了一个极其年少的少女——她已成他人之妻。并且对其他婆罗门而言,也有许多女子(处于类似境况)。”

Verse 49

तरुण्यो रूपवत्यश्च वैधव्येन समन्विताः । तासामपि च सर्वासामेष न्यायो भविष्यति । योनिसंकरजो नूनं तस्मान्निर्वास्यतामिति

“还有年轻貌美而守寡的女子。对她们所有人,这同样的‘先例’也将成为规矩。此人必是出自杂染不净之族,因此当将他放逐。”——他们如此说道。

Verse 50

एकीभूय ततः सर्वे ब्राह्मणं तं द्विजोत्तमाः । सामपूर्वमिदं वाक्यं प्रोचुः शास्त्र समुद्भवम्

随后,诸位最尊贵的再生者齐心合一,前去对那婆罗门开口——先以和婉之辞——并宣说一段根植于《沙斯特拉》之言。

Verse 51

एषा तव सुता विप्र तरुणी रूपसंयुता । सानुरागेण नागेण पाताले च समाहृता

“这便是你的女儿,婆罗门啊——年少而具美貌。她被一位欲念炽盛的那伽带往了帕塔拉。”

Verse 52

तद्वक्ष्यति प्रमुक्ताहं निर्दोषा तेन रागिणा । न श्रद्धां याति लोकोऽयं शुद्धैषा समुदाहृता

她将说道:“我已被释放,我本无罪——纵然是被那被欲染所驱使之人所害。”然而此世不肯信她,即使她已被宣告为清净。

Verse 53

तस्माच्छुद्धिं द्विजेद्राणां प्रयच्छतु द्विजोत्तम । येनान्येषामपि प्राज्ञ विनश्यंति न योषितः

因此,噢最胜的二次生者,请赐予二次生者之首领以净化之法,使得——噢智者——其他女子也不致因疑谤与流言而毁灭。

Verse 54

बाढमित्येव स प्रोक्त्वा ततस्तां विजने सुताम् । पप्रच्छ यदि ते दोषः कश्चिदस्ति प्रकीर्तय

他说了声“如此便好”,随后在僻静处询问女儿:“若你身上有任何过失,就坦然明言。”

Verse 55

नो चेत्प्रयच्छ संशुद्धिं ब्राह्मणानां प्रतुष्टये

若非如此,便请赐下圆满的净化,使诸婆罗门得以完全满足。

Verse 56

भट्टिकोवाच । युक्तमुक्तं त्वया तात तथान्यैरपि च द्विजैः । युक्ता स्याद्योषितः शुद्धिर्द्वारातिक्रमणादपि

婆提迦说道:“父亲啊,你所言合乎道理,其他婆罗门亦如此说。确然,女子的净化在义理上甚至可因仅仅跨过门槛而被要求。”

Verse 57

किं पुनः परदेशं च गताया रागिणा सह । तस्मादहं न संदेहः प्रातः स्नाता हुताशनम्

“更何况,”她又说道,“那与被欲望驱使之人同往异乡者呢?因此我毫无疑虑:黎明沐浴之后,我将趋近圣火阿耆尼(Agni)。”

Verse 58

प्रविश्य सर्वविप्राणां शुद्धिं दास्याम्य संशयम् । अहमत्र च पानं च यच्चान्यदपि किंचन । प्राशयिष्यामि संप्राप्य शुद्धिं चैव हुताशनात्

“进入仪轨之处后,我必定为一切婆罗门施与净化,毫无疑虑。并且在此我将供奉饮品及其他一切;从圣火阿耆尼(Agni)得其清净之后,我也将供食款待他们。”

Verse 59

एवमुक्तस्तया सोऽथ हर्षेण महतान्वितः । प्रातरुत्थाय दारूणि पुरबाह्ये न्ययोजयत्

她如此说罢,他便充满了极大的欢喜;清晨起身后,他在城外安置并堆放柴薪。

Verse 60

भट्टिकाऽपि ततः स्नात्वा शुक्लांबरधरा शुचिः । सर्वैः परिजनैः सार्धं तथा निज कुटुंबकैः

随后,婆提迦(Bhaṭṭikā)亦沐浴自净,身着白衣,清净端严;她与所有随从以及自家眷属一同前往。

Verse 61

प्रसन्नवदना हृष्टा विष्णुध्यानपरायणा । जगाम तत्र यत्रास्ते सुमहान्दारुपर्वतः

她面容安然、心怀欢喜,专注于对毗湿奴(Viṣṇu)的禅观;她前往那处,只见柴薪堆积宏大,巍然如山。

Verse 62

ततो वह्निं समाधाय स्वयं तत्र द्विजोत्तमाः । प्रदक्षिणात्रयं कृत्वा प्राह चैव कृतांजलिः

于是,那位最尊贵的二次生者亲自在彼处燃起圣火;绕火三匝后,合掌恭敬而开口说道。

Verse 63

यदि मेऽस्ति क्वचिद्दोषः कामजोऽल्पोऽपि गात्रके । कृतो वाऽपि बलात्तेन तक्षकेण दुरात्मना

“若我身上在任何处尚有过失——由欲念所生,哪怕在此身上仅有丝毫——或即便是被那恶毒的塔克沙迦强加于我……”,

Verse 64

अन्येनापि च केनापि भविष्यत्यथवा परः । तस्मात्प्रदहतु क्षिप्रं समिद्धोऽयं हुताशनः

“若此事将由他人或以别的方式发生,便任其如此。因此,愿这已燃得炽盛的圣火迅速焚尽(此身)。”

Verse 65

एवमुक्त्वाऽथ सा साध्वी प्रविष्टा निजहर्म्यवत् । सुसमिद्धो हुतो वह्निर्जातो जलमयः क्षणात्

说罢,那位贞善的女子进入了自己的居所。那圣火虽已燃得旺盛、亦已受供,却在刹那之间立刻化作清水。

Verse 66

पपाताऽथ महावृष्टिः कुसुमानां नभस्तलात्

随后,自天穹降下盛大的花雨。

Verse 67

देवदूतो विमानस्थ इदं वाक्यमुवाच ह । शुद्धासि त्वं महाभागे चारित्रै र्निजगात्रजैः

一位天使坐在天车之上,说道:“噢,大福德者,你因自身行持所生的德行而清净无垢。”

Verse 68

न त्वया सदृशी चान्या काचिन्नारी भविष्यति । तिस्रः कोट्योर्धकोटी च यानि लोमानि मानुषे । प्रभवंति महाभागे सर्वगात्रेषु सर्वदा

“再没有别的女子能与你相等。噢,大福德者——在人身之中,遍于一切肢体、时时生起的毛发,总数为三俱胝又半俱胝。”

Verse 69

तेषां मध्ये न ते साध्वि पापमेकमपि क्वचित् । तस्माच्छीघ्रं ग्रहं गच्छ निजं बांधवसंयुता

“在其中,噢贞洁的善女,你的罪业连一丝一毫也无处可见。因此,速速回到你自己的家中,与亲族同归。”

Verse 70

कुरु कृत्यानि पुण्यानि समाराधय केशवम् । एतच्चैव चितेः स्थानं त्वदीयं जलपूरितम्

“当行诸功德之业,善加礼敬供奉凯沙瓦。并且,这火葬柴堆之处也已归于你——其中充满了水。”

Verse 71

तव नाम्ना सुविख्यातं तीर्थं लोके भविष्यति । येऽत्र स्नानं करिष्यंति शयने बोधने हरेः

“一处以你之名而闻名于世的圣地(tīrtha)将会出现。凡在哈利安卧与觉醒之仪之时,于此沐浴者……”

Verse 72

ते यास्यंति परां सिद्धिं दुष्प्राप्या याऽमरैरपि । उक्त्वैवं विरता वाणी देवदूतसमुद्भवा

“……他们将证得至上的成就(悉地),连诸天也难以获得。” 说罢,那从天使(神使)而起的声音便归于寂然。

Verse 73

भट्टिका तु ततो हृष्टा प्रणम्य जनकं निजम् । नाहं गृहं गमिष्यामि किं करिष्याम्यहं गृहे

这时,婆提迦欢喜踊跃,向自己的父亲顶礼说道:“我不回家了。在家宅之中,我又能做什么呢?”

Verse 74

अत्रैवाराधयिष्यामि निजतीर्थे सदाऽच्यु तम् । तथा तपः करिष्यामि भिक्षान्नकृतभोजना

“就在此处,在我自己的圣渡口(提尔塔)上,我将恒常礼敬阿周多(不堕者,毗湿奴)。并且就在此处修行苦行,以乞食为生——只以化缘所得为食。”

Verse 75

तस्मात्तात गृहं गच्छ स्थिताऽहं चाग्र संश्रये

“因此,慈父啊,请回家去吧。我将留在此地,归依这最胜的圣所。”

Verse 76

ततः स जनकस्तस्यास्ते वाऽपि पुरवासिनः । संप्रहृष्टा गृहं जग्मुः शंसतस्तां पृथक्पृथक्

随后,她的父亲以及城中居民也都心生欢喜,返回各自家中——人人各自称赞她的誓愿与行持。

Verse 77

तया त्रैविक्रमी तत्र प्रतिमा प्राग्विनिर्मिता । पश्चान्माहेश्वरं लिंगं कृत्वा प्रासादमुत्तमम्

由她先在彼处塑成圣像——三步化身特里维克拉玛。其后又安立摩诃伊湿伐罗之林伽,并建起一座殊胜的殿宇圣祠。

Verse 78

ततः परं तपश्चक्रे भिक्षान्नकृतभोजना । शस्यमाना जनैः सर्वैश्चमत्कारपुरोद्भवैः

其后,她修行苦行,以乞食之粮自持。众人因奇瑞异事而惊叹,皆大加称赞于她。

Verse 79

सूत उवाच । एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः । यथा तस्या दृढं कायमभेद्यं संस्थितं सदा

苏多说道:“诸位最胜婆罗门,我已将你们所问尽皆宣说——她的身躯如何坚固不坏、不可破毁、不可侵夺,恒常安住于彼等境。”

Verse 80

सा च पश्यति चात्मानं जलमध्यगतां शुभा

而那位吉祥的女子看见自己——安住于水中之中。