Adhyaya 112
Nagara KhandaTirtha MahatmyaAdhyaya 112

Adhyaya 112

本章由苏多(Sūta)叙述铺陈,呈现一段结构严谨的伦理与神学论辩。六十八位婆罗门苦行者徒步归来,疲惫饥饿,却见妻子们忽然身着天衣、佩戴神妙珠宝。苦行者惊惧,以为违犯清修规矩而诘问;妇人们禀告:达摩延蒂王后(Damayantī)如同王家施主降临,赐予这些装饰。 苦行者谴责接受君王供养(rāja-pratigraha)对修苦行者尤为可咎,盛怒之下掬水在掌,欲诅咒国王与国土。妻子们随即以反论劝止:她们申明家住期(gṛhasthāśrama)亦为“至上”之道,能成就现世与来世之福;并诉说在苦行者家中久受贫困,要求国王赐地与生计,且以自伤相胁,指出其恶果将使圣贤背负沉重罪责。 闻此,诸贤将诅咒之水弃洒于地;所洒之水灼烧一方大地,遂生出恒久的盐碱荒瘠之地(ūṣara),五谷不生,甚至传言连生育亦不发生。章末宣说功德果报:若于该处在法尔古那月(Phālguna)逢星期日之满月日行施祖祭(śrāddha),则能拔济祖先,即便其因自业堕入极重地狱亦得超升。

Shlokas

Verse 1

सूत उवाच । ततः कतिपयाहस्य गते तस्मिन्महीपतौ । स्वगृहं प्रति दुःखार्ते परिवारसमन्विते

苏多说道:其后过了数日,那位国王心为忧苦所逼,率随从一同,启程返归自家宫邸。

Verse 2

पद्भ्यामेव समायाता ह्यष्टषष्टिर्द्विजोत्तमाः । परिश्रांताः कृशांगाश्च धूलिधूसरिताननाः

六十八位尊贵的婆罗门徒步而至——疲惫不堪,肢体消瘦,面容为尘土所染而灰暗。

Verse 3

यावत्पश्यति दाराः स्वा दिव्याभरण भूषिताः । दिव्यवस्त्रैः सुसंवीता राजपत्न्य इवापराः

当他们看见自己的妻子——佩戴华美宝饰,身着精妙衣裳,宛如诸王后一般——便惊愕不已。

Verse 4

ततश्च विस्मयाविष्टाः पप्रच्छुस्ते क्षुधान्विताः । किमिदं किमिदं पापा विरुद्धं विहितं वपुः

随后,他们惊异不已,又为饥饿所逼,便问道:“这是什么,这是什么?噫,罪人啊——这般形貌为何与应当之法如此相违?”

Verse 5

कथं प्राप्तानि वस्त्राणि भूषणानि वराणि च । नूनमस्मद्गतेर्भ्रंशः खे जातो नाऽन्यथा भवेत्

“你们如何得来这些华美衣裳与上等饰物?想必我们的行程已失其正道——在我们的境况中生起了过失;不可能另有他因。”

Verse 6

विकारमेनं संत्यक्त्वा युष्मदीयं सुगर्हिताः । अथ ताः सर्ववृत्तांतमूचुस्तापसयोषितः

他们既摒弃了这不相称的变异——对你们实为可责——那些苦行仙人的妻子便将所发生的一切始末尽数道来。

Verse 7

यथा राज्ञी समायाता दमयन्ती नृपप्रिया । भूषणानि च दत्तानि तया चैव यथा द्विजाः

他们叙述道:王所钟爱的王后达摩延提如何到来,又如何亲自赐下饰物,正如其事,噫,婆罗门诸位。

Verse 8

यथा शापश्च सञ्जातो ब्राह्मणानां महात्मनाम् । अथ ते मुनयः क्रुद्धास्तच्छ्रुत्वा गर्हितं वचः । राजप्रतिग्रहो निंद्यस्तापसानां विशेषतः

他们又说:那几位大德婆罗门如何发起了诅咒。诸牟尼听到那可憎之言便大怒,宣示道:“受王之赠,实为可讥——尤以苦行者为甚。”

Verse 9

ततो भूपस्य राष्ट्रस्य नाशार्थं जगृहुर्जलम् । क्रोधेन महताविष्टा वेपमाना निरर्गलम्

随后,为使国王的国土走向毁灭,他们取水以行诅咒之仪;被滔天怒火所摄,浑身战栗,难以自持。

Verse 10

अनेन पाप्मनाऽस्माकं कुभूपेन प्रणाशिता । खे गतिर्लोभयित्वा तु पत्न्योऽस्माकमकृत्रिमाः । सरलास्तद्गणाः सर्वे येनेदृग्व्यसनं स्थितम्

“因这罪业,那恶王使我们遭到覆灭。他迷惑了我们的行止与决意,又诱骗我们纯朴无伪的妻子;他那一群质直之人——皆因他——令这沉重灾厄生起。”

Verse 11

सूत उवाच । एवं ते मुनयो यावच्छापं तस्य महीपतेः । प्रयच्छंति च तास्तावदूचुर्भार्या रुषान्विताः

苏多说道:当诸位牟尼正要对那国王宣下诅咒之时,就在那一刻,诸位妻子满怀愤慨,开口说道。

Verse 12

न देयो भूपतेस्तस्य शापो ब्राह्मणसत्तमाः । अस्मदीयं वचस्तावच्छ्रोतव्यमविशंकितैः

“噢,最尊贵的婆罗门啊,切莫将诅咒加于那位国王。请先无疑无惧地聆听我们的话语。”

Verse 13

वयं सर्वा नरेन्द्रस्य भार्यया समलंकृताः । सुवस्त्रैर्भूषणैर्दिव्यैः श्रद्धापूतेन चेतसा

“我们众人都被装饰为君王的王后:身着华美衣裳,佩戴天赐宝饰,以信心净化其心。”

Verse 14

वयं दरिद्रदोषेण सदा युष्मद्गृहे स्थिताः । कर्शिता न च संप्राप्तं सुखं मर्त्यसमु द्भवम्

然而由于贫穷之过,我们常常寄居在你家,依赖于你。我们被困苦磨损,连人世间所生的寻常快乐也未曾获得。

Verse 15

एतेषां परलोकोऽत्र विद्यते ये तपोरताः । न च मर्त्यफलं किंचिदपि स्वल्पतरं भवेत्

对于专注苦行者而言,“彼世”才是此处真正要紧之事;对他们来说,人间的任何果报——哪怕最微小——也无足轻重。

Verse 16

अन्येषां विषयस्थानामिह लोकः प्रकीर्तितः । भोगप्रसक्तचित्तानां नीचानां सुदुरात्मनाम्

然而对另一些人——执著于诸感官境界者——唯此世被称为他们的“领域”:其心沉溺享乐,品性卑下,心性极其邪恶。

Verse 17

गृहस्थाश्रमिणां चैव स्वधर्मरतचेतसाम् । इह लोकः परश्चैव जायते नाऽत्र संशयः

然而对于安住家住期、心系自身本分法(svadharma)者,今世与来世两者皆可成就——对此毫无疑惑。

Verse 18

ता वयं नात्र सन्देहो गृहस्थाश्रममुत्तमम् । संसेव्य साधयिष्यामो लोकद्वयमनुत्तमम्

因此我们——毫无疑虑——将如法奉行殊胜的家住之道,并成就两世的无上利益。

Verse 19

तस्माद्गृहाणि रम्याणि प्रवदंति समाहिताः । भूपालाद्भूमिमादाय वृत्तिं चैवाभिवांछिताम्

因此,她们心神安定地说道:“请赐予我们美好的居所;并从国王那里获得土地,赐予我们渴望的生计。”

Verse 20

ततश्चैवाथ वीक्षध्वं पुत्रपौत्रसमुद्भवम् । सौख्यं चापि कुमारीणां बांधवानां विशेषतः

那时,你们必将目睹子孙的兴旺,以及女儿们的幸福,尤其是你们亲眷的安乐。

Verse 21

न करिष्यथ चेद्वाक्यमेतदस्मदुदीरितम् । सर्वाः प्राणपरित्यागं करिष्यामो न संशयः

如果你们不执行我们所说的这番话,那么我们所有人无疑都将舍弃生命。

Verse 22

यूयं स्त्रीवधपापेन युक्ताः सन्तस्ततः परम् । नरकं रौरवं दुर्गं गमिष्यथ सुनिश्चितम्

你们因身负杀害妇女的罪孽,此后必将堕入可怕的号叫地狱(Raurava),这是确定的。

Verse 23

एवं ते मुनयः श्रुत्वा तासां वाक्यानि तानि वै । भूपृष्ठे तत्यजुस्तोयं शापार्थं यत्करैर्धृतम्

仙人们听了妇女们的这些话,便将手中原本为了诅咒而持的水倒在了地上。

Verse 24

ततस्तत्तोयनिर्दग्धं तद्विभागं क्षितेस्तदा । ऊषरत्वमनुप्राप्तमद्यापि द्विजसत्तमाः

于是那片大地被那水灼烧,化为盐碱荒原;直到今日仍然如此,噢,最胜的二生者。

Verse 25

आस्तामन्नादिकं तत्र यदुत्पं न प्ररोहति । न जन्म चाप्नुयाद्भूयः पक्षी वा कीट एव वा

在那里,即使谷物等被播下,也不发芽;也不再于彼处得后生,无论为鸟,乃至为虫。

Verse 26

तृणं वाथ मृगस्तत्र किं पुनर्भक्तिमान्नरः । यस्तत्र कुरुते श्राद्धं श्रद्धया फाल्गुने नरः

若彼处连草与鹿尚受其影响,何况具信奉爱之人?凡人在彼地于法尔古那月(Phālguna)以信心行施罗陀(Śrāddha)者——

Verse 27

पौर्णमास्यां रवैर्वारे स पितॄनुद्धरेन्निजान् । अपि स्वकर्मणा प्राप्तान्नरके दारुणाकृतौ

在满月日(Paurṇamāsī)若适逢星期日,他将拔济自己的祖灵——即便那些因自业而堕入可怖地狱者亦然。

Verse 112

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दमयन्त्युपाख्यान ऊषरोत्पत्तिमाहात्म्यकथनंनाम द्वादशोत्तरशततमोऽध्यायः

至此,《圣·斯坎达大往世书》之《八万一千颂集》(Ekāśīti-sāhasrī Saṃhitā)第六部《那伽罗分卷》(Nāgara Khaṇḍa)中,《哈塔凯湿伐罗圣域功德》(Hāṭakeśvara-kṣetra Māhātmya)之达摩延蒂传说里,名为《述说盐碱荒原Ūṣara之起源功德》的第一百一十二章圆满。