Adhyaya 9
Brahma KhandaSetubandha MahatmyaAdhyaya 9

Adhyaya 9

本章将伦理范例与圣地(tīrtha)显现紧密相连:悲恸的婆罗门 Govindasvāmin 得到慈悲商人 Samudradatta 的庇护;其子 Aśokadatta 兼修 śāstra 之学与武艺,卓然成才。迦尸国王 Pratāpamukuṭa 征召 Aśokadatta,令其击败南方强悍的摔跤王,由此确立英雄的声望与王恩。 其后,国王与 Aśokadatta 听见一名被钉刺悬挂之人因口渴而哀求;国王命 Aśokadatta 赐水,彰显仁慈为王者之要义。在充满 bhūta、vetāla、piśāca 的火葬地(śmaśāna),Aśokadatta 遇见一位惊艳女子,自称是那受刑者的爱侣,请求借其肩膀攀上前去。Aśokadatta 察觉其掠食之心,夺取其宝饰脚铃(nūpura),并将墓地异事禀告国王,遂受嘉奖并与 Madanalekhā 结成婚盟。 国王又欲得一只相配脚铃;Aśokadatta 再赴火葬地,以“厚肉”为饵引出 rākṣasī,取得第二只脚铃,并迎娶 Vidyutprabhā;又得金莲(hemāmbuja),牵引至一处神圣湖泊。前往与 vetāla 之王 Kapālavisphoṭa 相关的湖时,他与凶恶众类交战,幸得 Vidyādhara 之主 Vijñaptikautuka 介入,揭示诅咒因缘:其兄 Sukarṇa 因越界接触而堕为 vetāla,而 Aśokadatta 的境况亦与此咒业相系。 解脱之法被指为南海之滨、Chakratīrtha 附近的无上 tīrtha。抵达后,仅风携水滴触身,便令 Sukarṇa 脱离 vetāla 之态;Aśokadatta 以 saṅkalpa 沐浴,得成天界之形。章末为圣地命名 Vetalavaradā,宣说其不可思议功德,并规定如为祖先行 piṇḍadāna 等仪轨;phalaśruti 许诺读诵与听闻者皆得解脱。

Shlokas

Verse 1

ततः स विप्रः प्रत्यूषे पुत्रशोकेन पीडितः । अशोक दत्तसंयुक्तो भार्यया विललाप ह

随后在黎明时分,那位婆罗门因丧子之痛而备受煎熬,便与妻子同声哀号,阿首迦达多亦在旁相随。

Verse 2

विलपंतं समालोक्य गोविंदस्वामिनं द्विजाः । वणिक्समुद्रदत्ताख्यः समानिन्ये निजं गृहम्

众人见婆罗门乔文陀斯瓦明悲泣不已,便有一位名为三慕陀罗达多的商人将他迎至自家。

Verse 3

समानीय समाश्वास्य दयायुक्तो वणिग्वरः । स्वधनानां हि सर्वेषां रक्षितारमकल्पयत्

那位慈悲的商中翘楚将他迎入家中并加以安慰,遂立他为自己一切财物的守护者。

Verse 4

स्मरन्महायतिवचः पुत्रदर्शनलालसः । स तस्थौ वणिजो गेहे पुत्रभार्यासमन्वितः

他忆念那位大苦行者的言语,渴望见到儿子,便与妻子一同住在商人的家中。

Verse 5

अशोकदत्तनामा तु द्वितीयो विप्रनंदनः । शस्त्रे चैव तथा शास्त्रे बभूवातिविचक्षणः

婆罗门的次子名为阿输迦达多,在兵器之术与圣典之学两方面都极其精通。

Verse 6

तथान्यास्वपि विद्यासु नास्ति तत्सदृशो भुवि । कृतविद्यो द्विजसुतः प्रख्यातो नगरेऽभवत्

在其他诸般学艺上,世间亦无人可与他比肩;这位学成的婆罗门之子在城中声名远播。

Verse 7

अत्रांतरे नरपतिं प्रतापमुकुटाभिधम् । काशीदेशाधिपो मल्लः कश्चिदभ्याययौ बली

其间,一位强大的摔跤勇士——迦尸国的一位统治者——率军进逼名为普罗塔帕穆库塔的国王。

Verse 8

प्रतापमुकुटो राजा मल्लस्यास्य जयाय सः । बलिनं द्विजपुत्रं तमाह्वयामास भृत्यकैः

普罗塔帕穆库塔王为求战胜那位摔跤勇士,便命侍从召来那位强健的婆罗门之子。

Verse 9

तमागतं समालोक्य प्रतापमुकुटोऽब्रवीत् । अशोकदत्त सहसा मल्लमेनं बलोत्कटम्

见他走近,普拉塔帕穆库塔王立刻说道:“阿首迦达多!击倒这名摔跤手,他恃着蛮力甚强。”

Verse 10

दुर्जयं जहि संग्रामे त्वं वै वलवतां वरः । दाक्षिणात्यमहामल्लपतावस्मिञ्जिते त्वया

“在战场上诛灭这难以战胜的敌手——你确是强者中的最胜者。若这位南方大力士之主被你击败……”

Verse 11

यदिष्टं तव तत्सर्वं दास्याम्यहं न संशयः । इति तस्य वचः श्रुत्वा वलवान्द्विजनंदनः

“你所愿求的一切,我都将赐予,毫无疑虑。”听了他这番话,那位强健的婆罗门之子……

Verse 12

दाक्षिणात्यमहामल्लनृपतिं समताडयत् । ताडितो द्विजपुत्रेण मल्लः स बलिना बली

他击打那位统领南方大力士的国王。被婆罗门之子击中后,那摔跤手虽自恃强健,却为更强之力所制伏。

Verse 13

सद्यो विवृत्तनयनः परासुर्न्यपतद्भुवि । द्विज पुत्रस्य तत्कर्म देवैरपि सुदुष्करम्

顷刻间,他双目翻转,气息已绝,倒在地上。婆罗门之子此举,纵使诸天(deva)亦难成就。

Verse 14

प्रतापमुकुटो दृष्ट्वा प्रसन्नहृदयोऽभवत् । दत्त्वा वहुधनान्ग्रामान्समीपेऽस्थापयत्तदा

见此情景,普拉塔帕穆库塔心中欢喜。随后赐予许多富饶村庄,并使他安置在自己近旁。

Verse 15

स कदाचिन्महाराज सहितो द्विजसूनुना । संध्यायां विजने देशे चचार तुरगेण वै

有一次,那位大王与婆罗门之子相伴,于黄昏时分骑马穿行于荒寂之地。

Verse 16

द्विजसूनुसखस्तत्र दीनां वाणीमथाशृणोत् । राजन्नल्पापराधोऽहं शत्रुप्रेरणयासकृत्

在那里,婆罗门之子的同伴听见一声凄楚的呼喊:“大王啊,我的罪过甚微——只是一次,在仇敌的唆使下犯了错。”

Verse 17

दण्डपालेन निहितः शूले निर्घृणचेतसा । दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः

“一名心肠残忍的行刑者把我钉穿在木桩上。今日已是第四天,我仍活着,被固定在这桩上。”

Verse 18

प्राणाः सुखेन निर्यांति न हि दुष्कृतकर्मणाम् । भृशं मां बाधते तृष्णा तां निवारय भूपते

“作恶之人,气息不易安然离身。强烈的干渴折磨着我——大王啊,请为我止渴。”

Verse 19

इति दीनां समाकर्ण्य वाचं राजा द्विजा त्मजम् । अशोकदत्तनामानं धैर्यवंतमभाषत

国王听罢那哀苦之言,便对婆罗门之子——名为阿首迦达多者——这位坚忍勇毅之人说道。

Verse 20

अस्मै निरपराधाय शूलप्रोताय जंतवे । तृष्णार्दिताय दातव्यं द्विजसूनो त्वया जलम्

“此无辜之众生,被桩刺穿,渴苦所逼——婆罗门之子啊——你当赐与清水。”

Verse 21

इत्यादिष्टो नरेन्द्रेण सहसा द्विजनन्दनः । जलपूर्णं समादाय कलशं वेगवान्ययौ

奉王命而行,婆罗门之子立刻捧起盛满清水的水罐,疾步而去。

Verse 22

तच्छ्मशानं समासाद्य भूतवेतालसंकुलम् । शूलप्रोताय वै तस्मै जलं दातुं समुत्सुकः

他来到那火葬场,群灵与毗陀罗(vetāla)杂聚其间;他满怀急切,要把水施与那被桩贯穿之人。

Verse 23

ददर्शाथ स्थितां नारीं नवयौवनशालिनीम् । उदैक्षत महाकांतिं मूर्तामिव रतिं द्विजः

于是那婆罗门青年看见一位女子立于其处,青春新绽、光华照人;他凝望她的盛丽,宛如爱神之妃罗提(Rati)亲自化身。

Verse 24

तामालोक्य ततः प्राह धैर्यवान्द्विजनंदनः । कासि भद्रे वरारोहे श्मशाने विजने स्थिता

他见到她,便由那坚定的婆罗门之子说道:“你是谁,温婉而姿容殊胜的女子,竟独自立于这荒寂的火葬场?”

Verse 25

अस्याधस्तात्किमर्थं त्वं शूलप्रोतस्य तिष्ठसि । इति तस्य वचः श्रुत्वा सा प्राह रुचिरानना

“你为何站在这被钉穿在木桩上的人下方?”听了他的话,那位容颜秀美的女子答道。

Verse 26

पुरुषो वल्लभोऽयं मे शूले राज्ञा समर्पितः । धनं यथा च कृपणः पश्य प्राणान्न मुंचति

她说:“此人是我所钟爱。国王将他交付木桩;你看——如同吝者紧抱财物,他不肯放下自己的生命之息。”

Verse 27

आसन्नमरणं चैनमनुयातुमिह स्थिता । तृषितो याचते वारि मामयं व्यथते मुहुः

“我立于此,是要在死亡临近时随他而去。他渴得焦灼,求我给水,又一次次以他的痛苦折磨我。”

Verse 28

शूलप्रोतो द्धतग्रीवं मुमूर्षुं प्राणनायकम् । नास्मि पाययितुं शक्ता जलमेनमधःस्थिता

“他被木桩贯穿,颈项高昂,已在垂死——他是我生命的主宰。我站在下方,却无法让他饮下这水。”

Verse 29

अशोकदत्तस्तच्छ्रुत्वा करुणावरुणालयः । तत्कालसदृशं वाक्यं तां वधूमब्रवीत्तदा

听闻她的话语,阿输迦达多——慈悲之所——立刻以契合当下急迫之时的言辞,对那年轻的新娘开口说道。

Verse 30

अशोकदत्त उवाच । मातर्मत्स्कंधमारुह्य देह्यस्मै शीतलं जलम् । सा तथेति तमाभाष्य तरुणी त्वरयान्विता

阿输迦达多说道:“母亲,登上我的肩头,给他清凉之水。”那少女答道“如是”,便急忙照做。

Verse 31

आनम्रवपुषस्तस्य स्कंधं पद्भ्यां रुरोह वै । द्विजसूनुर्ददर्शाथ शोणितं नूतनं पतत्

他俯身之时,她以双足攀上他的肩。随后,那婆罗门之子看见新鲜的血滴落而下。

Verse 32

किमेतदिति सोपश्यदुन्नम्य सहसा मुखम् । भक्ष्यमाणं तया तत्स विज्ञाय द्विजनंदनः

他心想“这是怎么回事?”,便猛然抬起脸来,看见她正在吞食那血;于是婆罗门之子明白了真相。

Verse 33

अशोकदत्तो जग्राह तस्याः पादं सनूपुरम् । ततोऽगान्नूपुरं त्यक्त्वा बद्धरत्नं विहाय तत्

阿输迦达多抓住了她的脚,连同那只脚铃。她随即逃遁,弃下脚铃,也抛下那镶嵌宝石的饰物。

Verse 34

प्रत्युप्तानेकरत्नाढ्यं तदादायच नूपुरम् । अशोकदत्तः प्रययौ तच्छ्मशानान्नृपांतिकम्

他拾起那只镶嵌无数宝石、华贵非常的脚铃;阿输迦达多遂离开火葬场,前往王前觐见。

Verse 35

स्मशानवृत्तं तत्सर्वं स नृपाय निवेद्य वै । महार्घ्यरत्नप्रत्युप्तं नूपुरं च ददौ तदा

他将火葬场中所发生的一切如实禀告国王,随后献上那只镶嵌无价宝石的脚铃。

Verse 36

ज्ञात्वा तद्वीरचरितं वीरैरन्यैः सुदुष्करम् । ददौ मदनलेखाख्यां सुतां तस्मै महीपतिः

国王得知那般英勇之举——即使诸多英雄亦难成就——便将名为摩陀那勒迦的女儿赐与他。

Verse 37

कदाचिदथ ताद्दिव्यं नूपुरं वीक्ष्य भूपतिः । अस्य नूपुरवर्यस्य तुल्यं वै नूपुरांतरम्

有一次,国王观见那只神圣的脚铃,心中思量:“世间何处还有与这上妙足铃相等者?”

Verse 38

कुतो वा लभ्यत इति सादरं समचिंतयत् । अशोकदत्तस्तु तदा विज्ञाय नृपकांक्षितम्

他郑重思忖:“此物究竟从何处可得?”这时阿输迦达多明白了国王所求,便准备作答。

Verse 39

नृपुरांतरसि द्ध्यर्थं चिंतयामास चेतसा । श्मशाने नूपुरमिदं यतः प्राप्तं मया पुरा

为求得以进入王城内廷之法,他在心中沉思:“这只脚铃,我从前是在火葬场所得。”

Verse 40

तां नूपुरांतरप्राप्त्यै कुत्र द्रक्ष्यामि सांप्रतम् । इत्थं वितर्क्य बहुधा नि श्चिकाय महामतिः

“如今我当在何处见到她,才能取回那只脚铃?”他多方思量,那机敏之人终于下定决心。

Verse 41

विक्रेष्यामि महामांसं समेत्य पितृकाननम् । तत्र राक्षसवेतालपिशाचादिषु सर्वशः

“我将携大量肉食前往祖灵之林。彼处罗刹、吠陀罗、毗舍遮等诸类遍在,必将四方聚集。”

Verse 42

मंत्रैराहूयमानेषु साप्यायास्य ति राक्षसी । तामागतां बलाद्गृह्य तद्ग्रहीष्यामि नूपुरम्

“当以真言召唤之时,那罗刹女亦必前来;待她到来,我将强行擒住她,夺回那只脚铃。”

Verse 43

राक्षसानां सहस्रं वा पिशाचानां तथायुतम् । वेतालानां तथा कोटिर्न लक्ष्यं बलिनो मम

“纵有千名罗刹,或万名毗舍遮,乃至一俱胝吠陀罗,也无一能与我匹敌;我自强盛。”

Verse 44

इति निश्चित्य मनसा श्मशानं सहसा ययौ । विक्रीणानो महामांसं मंत्रैराहूय राक्षसान्

他心中既已决断,便立刻奔向火葬场。以大块肉作售卖之物,并以真言召唤罗刹众。

Verse 45

गृहाणेत्युच्चया वाचा चचार श्रावयन्दि शः । विक्रीयते महामांसं गृह्यतांगृह्यतामिति

他高声呼喊,四处游走,使四方回响:“拿去!大肉出售——拿去,拿去!”

Verse 46

तत्र राक्षसवेतालाः कंकालाश्च पिशाचकाः । अन्ये च भूतनिवहाः समाजग्मुः प्रहर्षिताः

在那里,罗刹与毗陀罗(vetāla)、骸骨之灵与毕舍遮(piśāca),以及其他众多鬼类,都欢喜地聚集而来。

Verse 47

भक्षयिष्यामहे सर्वे मांसमिष्टतमं त्विति । तत्रागच्छत्सु सर्वेषु रक्षःकन्यासमावृता

“我们都要吃这最为心爱的肉!”他们如此说道。众皆前来之时,她也到来,身旁簇拥着罗刹少女。

Verse 48

आययौ राक्षसी सापि मांसभक्षणलालसा । गवेषयंस्तदा विप्रस्तां समुद्वीक्ष्य राक्षसीम्

那罗刹女也来到,贪恋吞食血肉。彼时婆罗门正寻觅着她,便清楚地看见了那罗刹女。

Verse 49

सेयं दृष्टा पुरेत्येष प्रत्यभिज्ञानमाप्तवान् । तामाह द्विजपुत्रोऽन्यद्देहि मे नूपुरं त्विति

他一认出她,便忆起:“这正是我先前在城中见过的那位。”随即那婆罗门之子对她说道:“请再赐我一只脚铃(nūpura)。”

Verse 50

सा तस्य वचनं श्रुत्वा प्रीता वाक्यमथाऽब्रवीत् । ममैव च त्वया नीतं पुरा वीरेंद्र नूपुरम्

她听了他的话,心生欢喜,便答道:“那只脚铃确是我的,你先前将它带走了,噢,诸侯中的英雄。”

Verse 51

गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् । इत्युक्त्वा नूपुरं तस्मै स्वसुतां च ददौ प्रियाम्

“也请收下这第二只脚铃,宝光璀璨。”说罢,她把脚铃交给他,并将自己心爱的女儿也赐与他。

Verse 52

विद्युत्केश्या तदा दत्तां प्रियां विद्युत्प्रभाभिधाम् । विप्रः संप्राप्य मुमुदे रूपयौवनशालि नीम्

婆罗门得到了当时由Vidyutkeśī所赐的爱女,名为Vidyutprabhā,便欢喜不已;因她具足容色之美与青春之韵。

Verse 53

विद्युत्केशी तु जामात्रे हेमाब्जमपि सा ददौ । विद्युत्प्रभां नूपुरं च हेमाब्जमपिलभ्य सः

Vidyutkeśī又赐给女婿一朵金莲。于是他得到了Vidyutprabhā、脚铃,以及那金莲。

Verse 54

श्वश्रूमाभाष्य सहसा पुनः प्रायान्नृपांतिकम् । ततः प्रतापमुकुटो नूपुरप्राप्तिनंदितः

他匆匆与岳母说罢,便立刻再次启程前往王前。随后,普拉塔帕穆库塔因得到了脚铃而心生欢喜,

Verse 55

शौर्यधैर्यसमायुक्तं प्रशशंस द्विजात्मजम् । अथ विद्युत्प्रभां विप्रः सोऽब्रवीद्रहसि प्रियाम्

他称赞那婆罗门之子具足勇武与坚忍。随后,那婆罗门私下对他心爱的维迪尤特普拉芭说道:

Verse 56

मात्रा तव कुतो लब्धमेतद्धेमांबुज प्रिये । एतत्तुल्यानि चान्यानि यतः प्राप्स्ये वरानने

“爱人,你母亲从何处得来这金莲?又在何方我才能获得与此相等之物,啊,容颜姝丽者?”

Verse 57

द्विजात्मजं ततः प्राह पतिं विद्युत्प्रभा रहः । प्रभो कपालविस्फोटनाम्नो वेतालभूपतेः

于是,维迪尤特普拉芭私下对她的丈夫——那婆罗门之子——说道:“夫君啊,有一位名为迦波罗维斯佛塔的吠陀罗之王……”

Verse 58

अस्ति दिव्यं सरः किंचिद्धेमांबुजपरिष्कृतम् । तव श्वश्र्वा जलक्रीडां वितन्वं त्येदमाहृतम्

“有一处神圣的湖泊,遍饰金色莲华。你的岳母在水中嬉游时,便从那里带回了此物。”

Verse 59

इति श्रुत्वा वचस्तत्र मां नयेति जगाद सः । ततः सा सहसा विप्रं निन्ये तत्कांचनं सरः

听闻那些话后,他当即说道:“带我去那里。”于是她立刻引领那位婆罗门前往那金色的湖泊。

Verse 60

ततः स हेमपद्मानामाजिहीर्षुर्द्विजात्मजः । तद्विप्रकारिणः सर्वान्वेतालादींस्ततोऽवधीत्

随后,那位婆罗门之子欲取那些金莲,便诛灭一切与婆罗门为敌者——先从毗陀罗(vetāla)等开始。

Verse 61

स्वयं कपालविस्फोटं निहताशेषसैनिकम् । ददर्श वेतालपतिं तं च हंतुं प्रचक्रमे

他亲眼见到迦波罗·毗斯破吒(Kapāla-visphoṭa)——毗陀罗之主,其全军已被诛尽;他也随即着手要杀他。

Verse 62

अत्रांतरे महातेजा नाम्ना विज्ञप्तिकौतुकः । विद्याधरपतिः प्राप्य विमानेनैनमब्रवीत्

正当其时,威光赫奕的持明者之主,名为Vijñapti-kautuka者,乘天界飞车(vimāna)而至,对他说道。

Verse 63

अशोकदत्तं विप्रेंद्र साहसं मा कृथा इति । तदाकर्ण्य द्विजसुतो विमानवरसंस्थितम्

“阿首迦达多啊,婆罗门中的至上者——切莫鲁莽行事。”他如此说道。婆罗门之子闻言,便望向那端坐于殊胜飞车(vimāna)之人。

Verse 64

ददर्श प्रभया युक्तं विद्याधरपतिं दिवि । तस्य दर्शनमात्रेण शापामुक्तो द्विजा त्मजः

他在空中见到光辉具足的持明者(Vidyādhara)之主;仅凭一见,婆罗门之子便从诅咒中解脱。

Verse 65

संत्यज्य मानुषं रूपं दिव्यं रूपमवाप्तवान् । विमानवरमारूढं दिव्याभरणभूषितम्

他舍弃人身,得获天界之形——登上殊胜的天车(vimāna),并以天上宝饰庄严。

Verse 66

शापान्मुक्तं सुकर्णं तं प्राह विज्ञप्ति कौतुकः । अयं सुकर्ण ते भ्राता गालवस्य महामुनेः

随后,毗阇那钵底·拘都迦(Vijñapti-kautuka)对已脱诅咒的苏迦尔那(Sukarṇa)说道:“此苏迦尔那乃你之兄弟,出自大牟尼伽罗婆(Gālava)。”

Verse 67

शापाद्वेतालतां प्राप तत्कन्यास्पर्शपातकी । त्वं च शप्तः पुरा तेन तत्पापस्यानु मोदकः

“因诅咒他成了毗陀罗(vetāla),只因触碰那少女而堕罪;而你也曾被他咒诅,因为你赞同了那不义之行。”

Verse 68

तवायमल्पपापस्य शापो मद्दर्शनावधिः । कल्पिस्ततेन मुनिना शापांतो नास्य कल्पितः

“你罪业轻微,此咒仅至见我之时便止;而对他,那位牟尼并未为其诅咒设定终期。”

Verse 69

तदेहि मुक्तशापोसि सुकर्ण स्वर्गमारुह । ततः सुकर्णस्तं प्राह विद्याधरकुलाधिपम्

“来吧,苏迦尔那——你已脱离诅咒;登上天界(Svarga)。”于是苏迦尔那向持明族(Vidyādhara)之主开口说道。

Verse 70

विद्याधरपते भ्रात्रा विना ज्येष्ठेन सांप्रतम् । सर्वभोगयुतं स्वर्गं नैव गंतुं समुत्सहे

苏迦尔那说:“持明众之主啊,如今没有我的长兄在侧,我实难前往天界(Svarga),纵然那里具足一切享乐。”

Verse 71

शापस्यांतो यथा भूयान्मम भ्रातुस्तथा वद । तमुवाच महातेजास्तथा विज्ञप्तिकौतुकः

“请告诉我,我兄长所受的诅咒如何才能终止。”他如此恳请,那位光辉威严者因关切其所求而答复道。

Verse 72

दुर्निवारमिमं शापमन्यः को वा निवारयेत् । किं तु गुह्यतमं किंचित्तव वक्ष्यामि सांप्रतम्

“此诅咒难以阻止;除我之外,又有谁能遏止它?然而我如今将为你说出一则至秘的教诲。”

Verse 73

ब्रह्मणा सनकादिभ्यो मुनिभ्यः कथितं पुरा । सर्वतीर्थाश्रये पुण्ये दक्षिणस्यो दधेस्तटे

“久远之前,梵天(Brahmā)曾将此法教示于圣贤如萨那迦(Sanaka)等:在大海的南岸,有一处圣地,为一切渡口圣地(tīrtha)之所归依,功德无量。”

Verse 74

चक्रतीर्थसमीपे तु तीर्थमस्तिमहत्तरम् । महापातकसंघाश्च यस्य दर्शनमात्रतः

在恰克拉提尔塔(Cakratīrtha)附近,有一处更为殊胜的圣地(tīrtha);仅仅瞻礼一眼,成群的重罪便被消灭。

Verse 75

नश्यंति तत्क्षणादेव न जाने स्नानजं फलम् । तत्र गत्वा तव ज्येष्ठो यदि स्नायान्महत्तरे

它们当下即刻消亡——我甚至无法衡量在那儿沐浴所生的功德果报。若你长兄前往那最殊胜的圣地(tīrtha)沐浴……

Verse 76

वेतालत्वं त्यजेन्नूनं तदा गालवशापजम् । सुकर्णस्तद्वचः श्रुत्वा भ्रात्रा वेतालरूपिणा

那么他必定会舍弃由伽罗婆(Gālava)诅咒所致的毗陀罗(vetāla)之身。苏迦尔那(Sukarṇa)听了这些话,与那具毗陀罗形相的兄长……

Verse 77

सहितः सहसा प्रायाद्दक्षिणस्योदधेस्तटम् । दक्षिणं चक्रतीर्थाख्यादुत्तरं गंधमादनात्

……他们立刻一同疾行,来到大海的南岸——在名为恰克拉提尔塔(Cakratīrtha)之地以南、在甘达摩陀那(Gandhamādana)以北。

Verse 78

ब्रह्मणा सनकादिभ्यः कथितं तीर्थमभ्यगात् । तत्तीर्थकूलमासाद्य भ्रातरं चेदमब्रवीत्

他抵达了梵天(Brahmā)曾向萨那迦(Sanaka)等诸圣者讲述的那处圣地(tīrtha)。来到其岸边后,他对兄长说道:

Verse 79

भ्रातर्गालवशापस्य घोरस्यास्य निवृत्तये । तीर्थेऽस्मिन्नचिरात्स्नाहि सर्वतीर्थोत्तमोत्तमे

“兄弟,为了止息伽罗婆(Gālava)这可怖的诅咒,速速在此圣渡口沐浴——此处为至上之地,诸一切圣地(tīrtha)中最胜者。”

Verse 80

तस्मिन्न वसरे विप्रास्तस्य तीर्थस्य शीकराः । न्यपतंस्तस्य गात्रेषु वायुना वै समाहृताः

就在那一刻,噢婆罗门们,那圣地(tīrtha)的点点水珠——被风聚拢携来——落在他的肢体之上。

Verse 81

स तच्छीकरसंस्पर्शात्त्यक्त्वा वेतालतां तदा । तदेव मानुषं भावं द्विजपुत्रत्वमाप्तवान्

仅因触及那些水珠,他当即舍弃了作为吠陀罗(vetāla)的状态,复得人身——再度成为婆罗门之子。

Verse 82

ततः संकल्प्य सहसा तस्मिंस्तीर्थोत्तमोत्तमे । मनुष्यत्वनिवृत्त्यर्थं निममज्ज द्विजात्मजः

随后,他立刻发下誓愿,在那至胜的圣地(tīrtha)中潜入水中;那婆罗门之子求的是连人身之相亦得超脱。

Verse 83

उत्तिष्ठन्नेव सहसा दिव्यं रूपमवाप्तवान् । विमानवरमारूढो देवस्त्रीपरिवारितः

他一站起身,便立刻得获天妙之形;登上华美的天车(vimāna),为诸天女所环绕。

Verse 84

सर्वाभरणसंयुक्तः सह भ्रात्रा सुदर्शनः । श्लाघमानश्च तत्तीर्थं नमस्कत्य पुनःपुनः

他佩戴一切庄严饰物,与其兄弟同在;光辉的苏达尔沙那赞叹此圣地(tīrtha),并一次又一次顶礼致敬。

Verse 85

विज्ञप्तिकौतुकं चापि पुरस्कृत्य दिवं ययौ । तदाप्रभृति तत्तीर्थं वेतालवरदाभिधम्

他嘉许其感恩的祈请与惊奇之心,遂升往天界。自此以后,此圣地被称为“韦塔拉-瓦拉达”(Vetāla-varadā),即赐予解脱、解除韦塔拉之身者。

Verse 86

वेतालत्वं विनष्टं यच्छीकरस्पर्शमात्रतः । य इदं तीर्थमासाद्य चक्रतीर्थस्य दक्षिणे

仅以其水滴轻触,韦塔拉之身便被摧毁。凡抵达此圣地者——它位于恰克拉圣地(Cakratīrtha)之南——

Verse 87

स्नानं कदाचित्कुर्वंति जीवन्मुक्ता भवंति ते । एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति

在此沐浴者,哪怕仅一次,也成就“生前解脱”(jīvanmukta)。与此圣地等同的功德,过去未曾有,将来也不会有。

Verse 88

घोरां वेतालतां त्यक्त्वा दिव्यतां स यदाप्तवान्

舍弃那可怖的韦塔拉之态,他得证神圣的崇高境界。

Verse 89

अत्र संकल्प्य च स्नात्वा वेतालवरदे शुभे । पितृभ्यः पिंडदानं च कुर्याद्वै नियमान्वितः

在此,当先立下庄严誓愿,并于吉祥的“韦塔拉瓦拉达”圣渡处沐浴;随后应依戒律行持,向诸Pitṛ(祖灵)奉献皮ṇḍa祭团。

Verse 90

एवं वः कथितं विप्रास्तस्य तीर्थस्य वैभवम् । वेतालवरदाभिख्या यथा चास्य समागता

如是,诸婆罗门啊,我已向你们宣说那圣渡处的威德,并说明它如何亦以“韦塔拉瓦拉达”之名而闻名。

Verse 91

यः पठेदिममध्यायं शृणुयाद्वा स मुच्यते

凡诵读此章者,或但得闻者,皆得解脱。