Adhyaya 39
Brahma KhandaSetubandha MahatmyaAdhyaya 39

Adhyaya 39

本章分为两段。其一,苏多(Sūta)叙述甘陀摩达那山上的迦毗圣渡(Kapitīrtha)之由来与仪轨功德:罗波那(Rāvaṇa)及其相关势力败亡之后,众婆那罗(vānarā)为普利众生而建立此圣地,在此沐浴并得诸愿成就。罗摩(Rāma)又赐更广大之愿:于迦毗圣渡沐浴,其果报等同恒河沐浴与普罗耶伽(Prayāga)沐浴,等同一切圣渡功德总和,等同阿耆尼什托摩(Agniṣṭoma)等重大苏摩祭,等同持诵大咒(含伽耶特丽 Gāyatrī)、大施如施牛、诵读吠陀与供奉诸天。诸天与仙圣(ṛṣi)齐集赞叹,认定此处无与伦比,并简示求解脱者必当前往。 其二,应诸仙之问,苏多讲述天女蓝婆(Rambhā)受咒与解脱。毗湿瓦密多罗(Viśvāmitra)本为俱西迦(Kuśika)王族之王,因不敌婆悉吒(Vasiṣṭha)之灵力而发大苦行,求得婆罗门之位。诸天忧其成就,遣阿普萨拉(apsaras)蓝婆前去扰乱;毗湿瓦密多罗识破计谋,咒其化为石久远,唯赖婆罗门介入方得解脱。后有阿伽斯提耶(Agastya)弟子室吠多(Śveta)遭罗刹女(rākṣasī)侵扰;因一番天象般的作用,石块被推掷而坠于迦毗圣渡。触及圣渡之力,蓝婆复得本形,受诸天礼敬,返归天界,屡屡称扬迦毗圣渡,并礼敬罗摩那他(Rāmanātha)与商羯罗(Śaṅkara)。末后果报偈(phalaśruti)言:闻此章或诵此章者,得如在迦毗圣渡沐浴之功德。

Shlokas

Verse 1

श्रीसूत उवाच । अथातः संप्रवक्ष्यामि कपितीर्थस्य वैभवम् । तत्तीर्थं सकलैः पूर्वं गंधमादनपर्वते

圣苏多曰:今当详说迦毗圣渡(Kapitīrtha)之殊胜威德——此圣地在远古之时,于甘达摩陀那山上为众所共知。

Verse 2

सर्वेषामुपकाराय कपिभिर्निर्मितं द्विजाः । रावणादिषु रक्षःसु हतेषु तदनंतरम्

噢,二次生者,此处乃由婆那罗众为利益一切而建;就在罗波那等罗刹被诛灭之后不久。

Verse 3

तीर्थं निर्माय तत्रैव सस्नुस्ते कपयो मुदा । तीर्थाय च वरं प्रादुः कपयः कामरूपिणः

建成此圣地(tīrtha)后,婆那罗众就在彼处欢喜沐浴;而这些能随愿化形的婆那罗,又赐予此圣地本身一项恩赐。

Verse 4

अस्मिंस्तीर्थे निमग्ना ये भक्तिप्रवणचेतसः । ते सर्वे मुक्तिभाजः स्युर्महापातकमोचिताः

凡以虔敬之心沉入此圣地(tīrtha)者,皆得分沾解脱(mokṣa)之果,脱离重罪之缠缚。

Verse 5

अत्र तीर्थे निमग्नानां न स्यान्नरकजं भयम् । अत्र स्नाता नराः सर्वे दारिद्रयं नाप्नुवंति हि

凡沉入此圣地者,不生地狱之惧;诚然,一切在此沐浴之人,终不堕于贫困。

Verse 6

अत्र तीर्थे निमग्नानां यमपीडापि नो भवेत् । कपितीर्थं प्रयास्येऽहमिति यः सततं ब्रुवन्

凡沉入此圣地者,连阎摩(Yama)之刑苦亦不现前。又有那恒常宣言:“我将前往卡毗圣地(Kapitīrtha)……”

Verse 7

व्रजेच्छतपदं विप्राः स यायात्परमं पदम् । एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति

婆罗门啊,即便他只行百步,亦得至上之境。与此圣地等同之圣地,过去未有,未来亦无。

Verse 8

एवं वरं तु ते दत्त्वा तीर्थायास्मै कपीश्वराः । रामं दाशरथिं सर्वे प्रणम्याथ ययाचिरे

如是将此恩赐授予圣地之后,诸婆那罗(Vānara)之主皆向达沙罗陀之子罗摩(Rāma)顶礼,继而陈述所求。

Verse 9

स्वामिंस्त्वयास्मै तीर्थाय दीयतां वरमद्भुतम् । कपिभिः प्रार्थितो विप्रा रामचंद्रोऽतिहर्षितः

“主啊,愿由你赐予此圣地(tīrtha)奇妙的恩赐。”诸婆那罗如此祈求,婆罗门们啊,罗摩旃陀罗心中充满大欢喜。

Verse 10

तत्तीर्थाय वरं प्रादात्कपीनां प्रीतिकारणात् । अत्र तीर्थे निमग्नानां गंगास्नानफलं लभेत्

因怜爱群猴,罗摩赐福于那圣地(tīrtha):凡在此处沐浴沉浸者,得与恒河(Gaṅgā)沐浴同等功德。

Verse 11

प्रयागस्नानजं पुण्यं सर्वतीर्थफलं तथा । अग्निष्टोमादियागानां फलं भूयादनुत्तमम्

在此可得普拉亚伽(Prayāga)沐浴之功德、诸一切圣地之果报;并且如阿耆尼什多摩(Agniṣṭoma)等祭祀的无上成果亦更为圆满殊胜。

Verse 12

गायत्र्यादिमहामंत्रजपपुण्यं तथा भवेत् । गोसहस्रप्रदनृणां प्राप्नोत्यविकलं फलम्

在此处,诵持以伽耶特丽(Gāyatrī)为首的大咒之念诵(japa)功德自然生起;并能圆满获得布施千牛者所获之果报。

Verse 13

चतुर्णामपि वेदानां पारायणफलं लभेत् । ब्रह्मविष्णुमहेशादिदेवपूजाफलं लभेत्

亦可获得诵读四部吠陀之功德,并得礼敬以梵天(Brahmā)、毗湿奴(Viṣṇu)、大自在天(Maheśa)等诸神之果报。

Verse 14

कपितीर्थाय रामोयं प्रादादेवं वरं द्विजाः । एवं रामेण दत्ते तु वरे तत्र कुतूहलात्

诸婆罗门啊,如是罗摩赐予迦毗圣渡(Kapitīrtha)如此恩赐。当罗摩施与此愿时,众会之中便生起好奇与探问。

Verse 15

षडर्धनयनो ब्रह्मा सहस्राक्षो यमस्तथा । वरुणोग्निस्तथा वायुः कुबेरश्चंद्रमा अपि

多目之梵天、千眼之阎摩,亦有伐楼那、阿耆尼、伐由、俱毗罗,乃至月神,也都来到那里。

Verse 16

आदित्यो निरृतिश्चैव साध्याश्च वसवस्तथा । अन्येऽपि त्रिदशाः सर्वे विश्वेदेवादयस्तथा

阿底提耶、尼利提,以及萨陀耶众与婆苏众亦至;其余一切天众也都到来,包括毗湿毗提婆等。

Verse 17

अत्रिर्भृगुस्तथा कुत्सो गौतमश्च पराशरः । कण्वोऽगस्त्यः सुतीक्ष्णश्च विश्वामित्रादयोऽपरे

阿特利、婆利古、库察、乔多摩与波罗舍罗;迦ṇ婆、阿伽斯提耶与苏提克什那;以及其他诸圣——毗湿瓦密多罗等,也都来到。

Verse 18

योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः । रामदत्तवरं तीर्थं श्लाघंते बहुधा तदा

其时,诸如萨那迦等瑜伽行者,以及那罗陀等天界圣仙,便以种种辞赞颂那得受罗摩恩愿的圣渡(tīrtha)。

Verse 19

सस्नुश्च तत्र तीर्थे ते सर्वाभीष्टप्रदायिनि । कपिभिर्निर्मितं यस्मादेतत्तीर्थमनुत्तमम्

他们在那里于能赐予一切所愿的圣地(tīrtha)沐浴。由于此无上圣地由群猴建成,故被世人尊为至胜。

Verse 20

कपितीर्थमिति ख्यातिमतो लोके प्रयास्यति । इत्यप्यवोचंस्ते सर्वे देवाश्च मुनयस्तथा

“它将在世间以‘Kapitīrtha(猴之圣地)’之名而闻名。”众人如是宣告——诸天与圣仙皆同声。

Verse 21

तस्मादवश्यं गंतव्यं कपितीर्थं मुमुक्षुभिः । रंभा कौशिकशापेन शिलाभूता पुरा द्विजाः

因此,求解脱者必当前往Kapitīrtha。因为往昔,噢二次生者,天女Rambhā因Kauśika之诅咒而化为石。

Verse 22

तत्र स्नात्वा निजं रूपं प्रपेदे च दिवं ययौ । अस्य तीर्थस्य माहात्म्यं मया वक्तुं न शक्यते

她在那里沐浴后,复得本来真身,遂升往天界。此圣地的伟大功德,我实难尽述。

Verse 23

मुनय ऊचुः । रंभां किमर्थमशपत्कौशिकः सूतनंदन । कथं गता शिलाभूता कपितीर्थं सुरांगना । एतन्नः सर्वमाचक्ष्व विस्तरान्मुनिसत्तम

诸圣仙说道:“Kauśika为何诅咒Rambhā,噢苏多之子?那位化作石的天界女神如何到达Kapitīrtha?请将这一切详尽告知我们,噢最胜圣者。”

Verse 24

श्रीसूत उवाच । विश्वामित्राभिधो राजा प्रागभूत्कुशिकान्वये

圣者苏多说道:“往昔有一位名为毗湿瓦密多罗的国王,出自俱尸迦一族。”

Verse 25

स कदाचिन्महाराजः सेनापरिवृतो बली । मेदिनीं परिचक्राम राज्यवीक्षणकौतुकी

有一次,那位强盛的大王在军队簇拥之下巡行大地,渴望察看自己的国土。

Verse 26

अटित्वा स बहून्देशान्वसिष्ठस्याश्रमं ययौ । आतिथ्याय वृतः सोऽयं वसिष्ठेन महात्मना

他游历诸多国土之后,来到婆悉吒仙人的道场。大德婆悉吒请他受纳款待。

Verse 27

तथास्त्वित्यब्रवीत्सोयं दंडवत्प्रणतो नृपः । कामधेनुप्रभावेन विश्वामित्राय भूभुजे

国王俯伏顶礼说道:“愿如此。”凭借如意神牛迦摩提奴的奇妙威力,便为大地之主毗湿瓦密多罗备办了盛情款待。

Verse 28

आतिथ्यमकरोद्विप्रा वसिष्ठो ब्रह्मनंदनः । कामधेनुप्रभावं वै ज्ञात्वा कुशिकनंदनः

婆罗门们啊,婆悉吒——梵天所喜、至高的圣仙——行了款待之礼。俱尸迦之子毗湿瓦密多罗得知迦摩提奴非凡的威力之后……

Verse 29

वसिष्ठं प्रार्थयामास कामधेनुमभीष्टदाम् । प्रत्याख्यातो वसिष्ठेन प्रचकर्ष च तां बलात्

他向婆悉吒祈求赐予如意母牛迦摩提奴——能成就所愿之福。婆悉吒拒绝后,他仍以强力将她拖走。

Verse 30

कामधेनुविसृष्टैस्तु म्लेच्छाद्यैः स पराजितः । महादेवं समाराध्य तस्मादस्त्राण्यवाप्य च

他被迦摩提奴所放出的旃陀罗(mleccha)等诸军击败。于是他虔敬供奉大自在天(摩诃提婆),并从祂处获得诸般神圣兵器。

Verse 31

वसिष्ठस्याश्रमं गत्वा व्यसृजच्छरसंचयान् । सर्वाण्यस्त्राणि मुमुचे ब्रह्मास्त्रं च नृपोत्तमः

他前往婆悉吒的道场(阿湿罗摩),那位上乘之王倾泻箭雨;他施放一切兵器,甚至连梵天神兵(Brahmāstra)也不惜动用。

Verse 32

तानि सर्वाणि चास्त्राणि वसिष्ठो ब्रह्मनंदनः । एकेन ब्रह्मदंडेन निजघ्न स्वतपोबलात्

婆悉吒——婆罗门之道的欢喜者——以自身苦行力(tapobalā)持一根梵杖(Brahma-daṇḍa),便摧毁了那一切兵器。

Verse 33

ततः पराजितो विप्रा विश्वामित्रोऽतिलज्जितः । ब्राह्मण्यावाप्तये स्वस्य तपः कर्तुं वनं ययौ

于是,诸婆罗门啊,毗湿瓦密多战败而深感羞惭,便入林修行苦行(tapas),希求自身得证婆罗门之位。

Verse 34

पूर्वासु पश्चिमांतासु त्रिषु दिक्षु तपोऽचरत् । प्रादुर्भूतमहा विघ्नस्तत्तद्दिक्षु स कौशिकः

考希迦(毗湿瓦密多罗)在三方修行苦行——向东并至极西;然而在每一方,他面前都显现出巨大的障碍。

Verse 35

उत्तरां दिशमासाद्य हिमवत्पर्वतेऽमले । कौशिक्यास्सरितस्तीरे पुण्ये पापविनाशिनि

他抵达北方,在无垢的喜马拉雅山上,住于考希姬河的岸边——那河神圣,能灭除罪垢。

Verse 36

दिव्यं वर्षसहस्रं तु निराहारो जितेंद्रियः । निरालोको जितश्वासो जितक्रोधः सुनिश्चलः

他以无食之身、制伏诸根,度过一千天界之年:心无旁骛,调御气息,降伏嗔怒,安住不动。

Verse 37

ग्रीष्मे पंचाग्निमध्यस्थः शिशिरे वारिषु स्थितः । वर्षास्वाकाशगो नित्यमूर्ध्वबाहुर्निराश्रयः

夏时他立于五火之中;冬时他安住水里;雨季他恒常露处于天——双臂上举,无所依凭。

Verse 39

ब्राह्मण्यसिद्धयेऽत्युग्रं चचार सुमहत्तपः । उद्विग्नमनसस्तस्य त्रिदशास्त्रिदिवालयाः । जंभारिणा च सहिता रंभां प्रोचुरिदं वचः

为成就婆罗门之位,他修行极其严酷而宏大的苦行。居于天界的诸天因此心怀不安,便与阇婆利(因陀罗)一同对兰婆说出如下言辞。

Verse 40

विश्वामित्रं तपस्यंतं विलोभय विचेष्टितैः । यथा तत्तपसो विघ्नो भविष्यति तथा कुरु

“当毗湿瓦密多正在修行苦行(tapas)时,以你的姿态与技艺去诱动他;务必行事使他的苦行之力受到阻碍。”

Verse 41

एवमुक्ता तदा रंभा देवैरिंद्रपुरोगमैः । प्रत्युवाच सुरान्सर्वान्प्रांजलिः प्रणता तदा

当诸天以因陀罗为首如此吩咐时,蓝婆(Rambhā)合掌致敬、俯身礼拜,随即回答了诸位天神。

Verse 42

रंभोवाच । अतिक्रूरो महाक्रोधो विश्वामित्रो महामुनिः । स शप्स्यते मां क्रोधेन बिभेम्यस्मादहं सुराः

蓝婆说道:“大圣牟尼毗湿瓦密多极其严厉,怒火炽盛;他若动怒必将诅咒我。因此,诸天啊,我惧怕他。”

Verse 43

त्रायध्वं कृपया यूयं मां युष्मत्परिचारिकाम् । इत्युक्तो रंभया तत्र जंभारिस्ताम भाषत

“愿诸位以慈悲护佑我——你们的侍从,”她恳求道。蓝婆如此说罢,当下阎婆诃利(因陀罗)便对她开口。

Verse 44

इन्द्र उवाच । रंभे त्वया न भीः कार्या विश्वामित्रात्तपोधनात् । अहमप्यागमिष्यामि त्वत्सहायः समन्मथः

因陀罗说道:“蓝婆啊,不必畏惧那位以苦行(tapas)为财富的毗湿瓦密多。我也将前来作你的助力,并与摩摩他(爱神)同往。”

Verse 45

कोकिलालापमधुरो वसन्तोऽप्यागमिष्यति । अतिसुंदररूपा त्वं प्रलोभय महामुनिम्

春天也将到来,伴着杜鹃甜美的啼鸣。你容貌绝伦——去吧,去诱动那位大圣仙。

Verse 46

इतींद्रकथिता रंभा विश्वामित्राश्रमं ययौ । तद्दृष्टिगोचरा स्थित्वा ललितं रूपमास्थिता

因陀罗如此吩咐后,蓝婆前往毗湿瓦密多的道场。她立于其目光所及之处,化作娴雅动人的姿态。

Verse 47

सा मुनिं लोभयामास मनोहरविचेष्टितः । पिकोपि तस्मिन्समये चुकूजानंदयन्मनः

她以摄人心魄的举止试图诱惑圣仙。就在那时,杜鹃也啼唱起来,使人心欢悦。

Verse 48

श्रुत्वा पिकस्वरं रंभां दृष्ट्वा च मुनिपुंगवः । संशयाविष्टहृदयो विदित्वा शक्रकर्म तत् । शशाप रंभां क्रोधेन विश्वामित्रस्तपोधनः

听到杜鹃之声,又见蓝婆,那位最上圣仙—心中疑云顿起—便知这是释迦罗(因陀罗)的计谋。于是苦行力深厚的毗湿瓦密多盛怒之下诅咒了蓝婆。

Verse 49

विश्वामित्र उवाच । यस्मात्कोपयसे रंभे मां त्वं कोपजयैषिणम्

毗湿瓦密多说道:“既然你,蓝婆啊,来激起我的愤怒——我本求胜过嗔怒之人——”

Verse 50

शिला भवात्र तस्मात्त्वं रंभे वर्षशतायुतम् । तदंतरे ब्राह्मणेन रक्षिता मोक्षमाप्स्यसि

“因此,罗婆啊,你当在此化为石,历经一百万年。在此期间,蒙婆罗门护持,你将得解脱。”

Verse 51

विश्वामित्रस्य शापेन तदंते सा शिलाऽभवत् । बहुकालं शिलाभूता तस्थौ तस्याश्रमे द्विजाः

因毗湿瓦密多罗的诅咒,最终她化作石。久远以来,既成石身,她便停留在那座道场(āśrama)中,噢诸位二次生者。

Verse 52

विश्वामित्रोपि धर्मात्मा पुनस्तप्त्वा महत्तपः । लेभे वसिष्ठवाक्येन ब्राह्मण्यं दुर्लभं नृपैः

而毗湿瓦密多罗亦复如是,具正法之心,再行大苦行(tapas)。凭借婆悉吒之言,他得证婆罗门之位——此乃诸王难得之成就。

Verse 53

बहुकालं शिलाभूता रंभाप्यासीत्तदाश्रमे । तस्मिन्नेवाश्रमे पुण्ये शिष्योऽगस्त्यस्य संमतः

久远以来,罗婆亦在那座道场中化石而住。就在那同一清净圣地的道场里,还有阿伽斯提耶所器重的一位弟子。

Verse 54

श्वेतोनाम मुनिश्चक्रे मुमुक्षुः परमं तपः । चिरकालं तपस्तस्मिन्प्रकुर्वति महामुनौ

有一位名为白者(Śveta)的牟尼,希求解脱(mokṣa),遂修行至上的苦行(tapas)。这位大圣者长久不辍其行。

Verse 55

अंगारकेति विख्याता राक्षसी काचिदागता । तस्याश्रममतिक्रूरा मेघस्वनमहास्वना

有一位名为阿ṅ伽罗吉(Aṅgārakī)的罗刹女来到那里——极其残暴,发出如雷云般震天的咆哮——直逼那座隐修林。

Verse 56

मूत्ररक्तपुरीषाद्यैर्दूषयामास भीषणा । उपद्रवैस्तथा चान्यैर्बाधयामास तं मुनिम्

她令人胆寒,以尿、血、粪秽等污秽之物玷污其地;又以种种骚扰与别样折磨,苦逼那位牟尼圣者。

Verse 57

अथ क्रुद्धो मुनिः श्वेतो वायव्यास्त्रेण योजयन् । शप्तां कुशिकपुत्रेण राक्षस्यै प्राक्षिपच्छिलाम्

于是圣者湿吠多(Śveta)震怒,施用“风神之器”Vāyavya-astrā,将那块被俱尸迦之子(毗湿瓦密多罗)诅咒过的石头掷向罗刹女。

Verse 58

राक्षसी सा प्रदुद्राव वायव्यास्त्रेण योजिता । वायव्यास्त्रप्रयुक्तेन दृषदानुद्रुता च सा

那罗刹女被Vāyavya之器击中,便奔逃而去;又因Vāyavya-astrā的驱使,那块石头也紧追不舍。

Verse 59

दक्षिणांबुनिधेस्तीरं धावति स्म भयार्दिता । धावन्तीमनुधावन्ती सा शिलास्त्रप्रयोजिता

她被恐惧所逼,奔向南方大海之滨;她奔跑之时,那已发动的石质飞弹也紧随其后,穷追不舍。

Verse 60

पपातोपरि राक्षस्या मज्जंत्याः कपितीर्थके । मृता सा राक्षसी तत्र शिलापातात्स्वमूर्द्धनि

在迦毗提尔塔(Kapitīrthaka),当那罗刹女正下沉时,巨石坠落压在她身上;她当场死去,因石落击中自己的头颅。

Verse 61

विश्वामित्रेण शप्ता सा कपितीर्थे निमज्जनात् । शिलारूपं परित्यज्य रंभारूपमुपेयुषी

她曾被毗湿瓦密多(Viśvāmitra)诅咒;而今在迦毗提尔塔沐浴沉入水中,便舍弃石形,再度获得蓝婆(Rambhā)之身。

Verse 62

देवैः कुसुमधाराभिरभिवृष्टा मनोरमा । दिव्यं विमानमारूढा दिव्यांबरविराजिता

那位可爱者被诸天以花流倾洒;她登上天界飞车(vimāna),身披天衣,光辉灿然。

Verse 63

हारकेयूरकटकनासाभरणभूषिता । उर्वश्याद्यप्सरोभिश्च सखिभिः परिवारिता

她佩戴项链、臂钏、手镯与鼻饰;又有以乌尔瓦希(Urvaśī)为首的众天女(apsarā)作伴环绕。

Verse 64

कपितीर्थस्य माहात्म्यं प्रशंसन्ती पुनःपुनः । निषेव्य रामनाथं च शंकरं शशिभूषणम्

她一再称颂迦毗提尔塔的伟大功德;并礼敬罗摩那他(Rāmanātha)——月饰之主商羯罗(Śaṅkara)。

Verse 65

आखण्डलपुरीं रम्यां प्रययावमरावतीम् । राक्षसी सापि शापेन कुम्भजस्य महौजसः

她前往阿坎达拉(因陀罗)那可爱之城——阿摩罗伐底。然而她也因大力者瓶生仙人库姆巴迦(阿迦斯提耶)的诅咒而化为罗刹女。

Verse 66

घृताची देववेश्या हि राक्षसीरूपमागता । साप्यत्र कपितीर्थाप्सु स्नानात्स्वं रूपमाययौ

天界伎女吉利塔琪(Ghṛtācī)确已化作罗刹之形;她也在此于迦毗提尔塔(Kapitīrtha)之水中沐浴,复得本来真身。

Verse 67

एवं रंभाघृताच्यौ ते कपितीर्थे निमज्जनात् । अगस्त्यशिष्यश्वेतस्य प्रसादाद्द्विजसत्तमाः

如是,蓝芭与吉利塔琪二者,因在迦毗提尔塔沉浸沐浴而得解脱;此皆赖阿迦斯提耶弟子室吠多(Śveta)之恩,噢,最胜的再生者。

Verse 68

राक्षसीत्वं शिलात्वं च हित्वा स्वं रूपमागते । तस्मात्सर्वप्रयत्नेन स्नातव्यं कपितीर्थके

她们抛却罗刹之性与石化之身,复归本来形相。因此,当竭尽诸般努力,于迦毗提尔塔沐浴。

Verse 69

यः शृणोतीममध्यायं पठते वापि मानवः । प्राप्नोति कपितीर्थस्य स्नानजं फलमुत्तमम्

凡人若听闻此章,或甚至诵读之,便得迦毗提尔塔沐浴所生之最上功德果报。