Skanda Purana Adhyaya 35
Brahma KhandaSetubandha MahatmyaAdhyaya 35

Adhyaya 35

本章以多重对话的方式阐明:通过圣地(tīrtha)修持而行赎罪净化(prāyaścitta)。耶阇那提婆询问杜尔瓦萨:一位名为杜尔维尼塔的婆罗门,因迷妄与欲望而逾越对母亲应守的神圣界限,造下重罪;其后悔恨交加,求诸圣贤指引。杜尔瓦萨叙述其身世:出自般荼耶地区,因饥荒迁往戈迦尔那,经历道德堕落,终而生起忏悔之心。 部分仙人拒绝接纳,但毗耶娑出面开示,并规定与处所与时节相应的行法:与母同往罗摩之堤/达努什科蒂,于摩伽月且太阳入摩羯之时,持守自制,不害众生,不怀怨敌;并以持斋配合连续沐浴,历时一月。叙事称母子二人皆得清净。随后毗耶娑进一步教导重返居士(gṛhastha)之道:不杀生(ahimsa)、日常仪轨(sandhyā、nitya-karma)、调伏诸根、敬待宾客与长者、研习经典(śāstra)、敬信湿婆与毗湿奴、持诵真言、布施与守持仪洁。 又转入另一层叙述:信度洲之人讲述耶阇那提婆携子至达努什科蒂,以求脱离梵杀罪(brahmahatyā)及诸罪;无形之声(aśarīriṇī vāk)证成其解脱。末后的功德偈(phalaśruti)宣说:听闻或诵读此章,即得如同在达努什科蒂沐浴之果报,并迅速趋近近似解脱之境,此境连瑜伽众会亦难得至。

Shlokas

Verse 1

यज्ञदेव उवाच । दुर्वासर्षे महाप्राज्ञ परापरविचक्षण । दुर्विनीताभिधः कोऽयं योऽसौ गुर्वंगनामगात्

祭神耶阇那提婆说道:“噢,杜尔瓦萨仙人,大智者,洞察高下二谛者——这名叫杜尔维尼塔的是谁,竟去近师之妻?”

Verse 2

कस्य पुत्रो धनुष्कोटौ स्नानेन स कथं द्विजः । तत्क्षणान्मुमुचे पापाद्गुरुस्त्रीगमसंभवात् । एतन्मे श्रद्धधानस्य विस्तराद्वक्तुमर्हसि

“那位婆罗门是谁的儿子?他又如何因在达努什-科提(Dhanuṣ-koṭi)沐浴,便立刻从因亲近师尊之妻而生的罪业中解脱?请为我详尽开示,我以信心而问。”

Verse 3

दुर्वासा उवाच । पांड्यदेशे पुरा कश्चिद्ब्राह्मणोभूद्बहुश्रुतः

杜尔瓦萨说道:“从前在般地耶(Pāṇḍya)之国,有一位婆罗门,博学多闻。”

Verse 4

इध्मवाहाभिधो नाम्ना तस्य भार्या रुचिंस्तथा । बभूव तस्य तनयो दुर्विनीताभिधो द्विजः

“他的妻子名为鲁钦丝(Ruciṃs),而他名叫伊德摩瓦哈(Idhmavāha)。他得一子,为婆罗门,名杜尔维尼塔(Durvinīta)。”

Verse 5

दुर्विनीतः पितुस्तस्य स कृत्वा चौर्ध्वदैहिकम्

“杜尔维尼塔为其父举行了葬仪与后续的亡后祭礼之后——”

Verse 6

कंचित्कालं गृहेऽवात्सीन्मात्रा विधवया सह । ततो दुर्भिक्षमभवद्वादशाब्दमवर्षणात्

“他与守寡的母亲在家住了一段时日。随后发生饥荒,因为十二年未曾降雨。”

Verse 7

ततो देशांतरमगान्मात्रा साकं द्विजोत्तम । गोकर्णं स समासाद्य सुभिक्षं धान्यसंचयैः

随后,那位杰出的婆罗门带着母亲去了另一片土地。抵达戈卡纳(Gokarṇa)后,他发现那里物产丰富,粮仓充盈。

Verse 8

उवास सुचिरं कालं मात्रा विधवया सह । ततो बहुतिथे काले दुर्विनीतो गते सति

他和守寡的母亲在那里住了很长一段时间。后来,随着时光流逝,杜尔维尼塔(Durvinīta)渐渐长大,

Verse 9

पूर्वदुष्कर्मपाकेन मूढबुद्धिरहो बत । अनंगशरविद्धांगो रागाद्विकृतमानसः

由于往昔恶业的成熟,唉,他的理智变得迷乱。被爱神阿南格(Anaṅga)的箭射中,他的肢体如火焚烧,心灵因情欲而扭曲。

Verse 10

मामेति वादिनीमंबां बलादाकृष्य पातकी । बुभुजे काममोहात्मा मैथुनेन द्विजोत्तम

尽管他的母亲哭喊道:‘是我,你的母亲!’,那个罪人还是强行拖拽她,被情欲和妄想冲昏了头脑,强暴了她——噢,再生族中的佼佼者。

Verse 11

स खिन्नो दुर्विनीतोऽयं रेतःसेकादनंतरम् । मनसा चिंतयन्पापं रुरोदभृशदुःखितः

此后,杜尔维尼塔变得极其沮丧。事后立刻,他在心中反思自己的罪孽,痛哭流涕,悲痛欲绝。

Verse 12

अहोतिपापकृदहं महापातकिनां वरः । अगमं जननीं यस्मात्कामबाणवशानुगः

“唉!我犯下了极其沉重的罪——在大罪人中我竟为最甚;因为我受迦摩(Kāma)之箭所制,竟去亲近了自己的母亲。”

Verse 13

इति संचित्य मनसा स तत्र मुनिसन्निधौ । जुगुप्तमानश्चात्मानं तान्मुनीनिदमब्रवीत्

他如此在心中收摄思绪,立于诸圣贤之前;因羞惭而欲自隐,便对那些牟尼说道如下之言。

Verse 14

गुरुस्त्रीगमपापस्य प्रायश्चित्तं ममद्विजाः । वदध्वं शास्त्रतत्त्वज्ञाः कृपया मयि केवलम्

“噢,二次生的圣者们,请告诉我:亲近师尊之妻这一罪的赎罪法(prāyaścitta)为何?你们通达经论真义,唯愿以慈悲,只对我一人开示。”

Verse 15

मरणान्निष्कृतिः स्याच्चेन्मरिष्यामि न संशयः । भवद्भिरुच्यते यत्तु प्रायश्चित्तं ममाधुना

“若唯有以死亡方能脱离此过,我必无疑赴死。然而,你们如今为我所制定的任何赎罪法,我都愿意领受。”

Verse 16

करिष्ये तद्द्विजाः सत्यं मरणं वान्यदैव वा । तच्छ्रुत्वा वचनं तस्य केचित्तत्रमुनीश्वराः

“诸位圣者,我必真实奉行——无论是死亡,或是别的天命之法。”听到他的话,那里的几位大牟尼在心中作了裁断。

Verse 17

अनेन साकं वार्ता तु दोषायेति विनिश्चिताः । मौनित्वं भेजिरे केचिन्मुनयः केचिदा भृशम्

他们断定:“即便与此人交谈也会招致污秽。”于是有些牟尼守持沉默;另一些则大为激动不安。

Verse 18

दुष्टात्मा मातृगामी त्वं महापातकिनां वरः । गच्छगच्छेतिबहुशो वाचमूचुर्द्विजोत्तमाः

“恶心之人!你竟犯母之罪,乃大罪人之最!走!走!”——诸位最上等的二次生者一再如此呵斥他。

Verse 19

तान्निवार्य कृपाशीलः सर्वज्ञः करुणानिधिः । कृष्णद्वैपायनस्तत्र दुर्विनीतमभाषत

他制止了众人;那位慈悲、全知、怜悯如海的黑岛仙人迦利湿那·兑毗波耶那(毗耶娑),就在那儿对那无礼失教之人开口。

Verse 20

गच्छाशु रामसेतौ त्वं धनुष्कोटौ सहांबया । मकरस्थे रवौ माघे मासमेकं निरंतरम्

“速往罗摩之堤(Rāma-setu)与弓端(Dhanuṣkoṭi),携你之母同去。待太阳行至摩羯(Makara,摩羯座),于摩伽月(Māgha)中,连续住满整整一月。”

Verse 21

जितेंद्रियो जितक्रोधः परद्रोहविवर्जितः । एकमासं निराहारः कुरु स्नानं सहांबया

“当制伏诸根,降伏嗔怒,远离加害于人;一月断食无食——与母同修圣浴。”

Verse 22

पूतो भविष्यस्यद्धा गुरुस्त्री गमदोषतः । यत्पातकं न नश्येत सेतुस्नानेन तन्नहि

你必定能从亲近师母之过中得以净化;因为在塞图沐浴,没有任何罪业不能被消除。

Verse 23

श्रुतिस्मृतिपुराणेषु धनुष्कोटिप्रशंसनम् । बहुधा भण्यते पंचमहापातकनाशनम्

在《闻传》(Śruti)、《忆传》(Smṛti)与诸《往世书》(Purāṇa)中,多方称赞达努什科蒂,称其能灭除五大重罪。

Verse 24

तस्मात्त्वं त्वरया गच्छ धनुष्कोटिं सहांबया । प्रमाणं कुरु मद्वाक्यं वेदवाक्यमिव द्विज

因此,婆罗门啊,你当速往达努什科蒂,并携同你的母亲;使我之言成为明证,如同以吠陀之言为权威。

Verse 25

श्रीरामधनुषः कोटौ स्नातस्य द्विज पुत्रक । महापातककोट्योपि नैव लक्ष्या इतीव हि

婆罗门之子啊,凡在圣罗摩之弓尖——罗摩·达努什科蒂——沐浴者,即便无量大罪,也仿佛尽皆不复可见。

Verse 26

प्रायश्चित्तांतरं प्रोक्तं मन्वादिस्मृतिभिः स्मृतौ । तद्गच्छत्वं धनुष्कोटिं महापातक नाशिनीम्

在《忆传》(Smṛti)传统中,摩奴等诸法师宣说了种种忏悔法;因此你当往达努什科蒂——能灭除大罪之地。

Verse 27

इतीरितोऽथ व्यासेन दुर्विनीतोद्विजोत्तमाः । मात्रा साकं धनुष्कोटिं नत्वा व्यासं च निर्ययौ

蒙毗耶娑如是教诲后,杜尔维尼塔——最殊胜的婆罗门——便启程;礼拜毗耶娑,与母亲同往“弓端”(Dhanuṣkoṭi)。

Verse 28

मकरस्थे रवौ माघे मासमात्रं निरंतरम् । मात्रा सह निराहारो जितक्रोधो जितेंद्रियः

当太阳行至摩羯(Capricorn)之时,于摩伽月,他与母亲同住,连续整整一月不间断:断食修持,降伏嗔怒,摄持诸根。

Verse 29

श्रीरामधनुषः कोटौ सस्नौ संकल्पपूर्वकम् । रामनाथं नमस्कुर्वं स्त्रिकालं भक्तिपूर्वकम्

在圣罗摩之弓的弓端,他以庄严誓愿(saṅkalpa)沐浴;并以虔敬之心,每日三时礼拜罗摩那他。

Verse 30

मासांते पारणां कृत्वा मात्रा सह विशुद्धधीः । व्यासांतिकं पुनः प्रायात्तस्मै वृत्तं निवेदितुम्

至月末,他与母亲一同行毕破罗那(pāraṇā,结愿开斋),心智澄净,便再赴毗耶娑座前,禀告所经历的一切。

Verse 31

स प्रणम्य पुनर्व्यासं दुर्विनीतोऽब्रवीद्वचः

于是,杜尔维尼塔再次顶礼毗耶娑,开口说道如下之言。

Verse 32

दुर्विनीत उवाच । भगवन्करुणासिंधो द्वैपायन महत्तम । भवतः कृपया रामधनुष्कोटौ सहांबया । माघमासे निराहारो मासमात्रमतंद्रितः

杜尔维尼塔说道:噢圣者,慈悲之海——至伟的德外波耶那——承你恩德,我与母亲同在罗摩弓角(Rāma-dhanuṣkoṭi),于摩伽月整整一月断食精进,毫不懈怠。

Verse 33

अहं त्वकरवं स्नानं नमस्कुर्वन्महेश्वरम् । इतः परं मया व्यास भगवन्भक्तवत्सल

“我已行毕圣浴,恭敬顶礼大自在天(Maheśvara)。从今以后,噢毗耶娑——噢怜爱信众的主——(请指示我当行之道)。”

Verse 34

यत्कर्त्तव्यं मुने तत्त्वं ममोपदिश तत्त्वतः । इति तस्य वचः श्रुत्वा दुर्विनीतस्य वै मुनिः । बभाषे दुर्विनीतं तं व्यासो नारायणांशकः

“噢牟尼,请如实教诲我:依真实之理,我当作何事?”听到杜尔维尼塔这番话,圣者毗耶娑——那罗延(Nārāyaṇa)一分的化现——便对他说道。

Verse 35

व्यास उवाच । दुर्विनीत गतं तेऽद्य पातकं मातृसंगजम्

毗耶娑说道:“噢杜尔维尼塔,今日你那由与母亲非法结合而生的罪垢,已然离去。”

Verse 36

मातुश्च पातकं नष्टं त्वत्संगतिनिमि त्तजम् । संदेहो नात्र कर्तव्यः सत्यमुक्तं मया तव

“你母亲的罪亦已灭尽——那因与你相系而起之罪。对此不必疑惑;我对你所言皆为真实。”

Verse 37

बांधवाः स्वजनाः सर्वे तथान्ये ब्राह्मणाश्च ये । सर्वे त्वां संग्रहीष्यंति दुर्विनीतां बया सह

你的一切亲族眷属,以及其他婆罗门,也都会接纳你;他们将连同曾附着于你的恐惧与污名一并接纳你,哦杜尔维尼塔。

Verse 38

मत्प्रसादाद्धनुष्कोटौ विशुद्धस्त्वं निमज्जनात् । दारसंग्रहणं कृत्वा गार्हस्थ्यं धर्ममाचर

凭我的恩典,你在达努什科蒂沐浴沉浸而得清净。因此,当娶妻成家,奉行居家者之法(伽尔哈斯提亚)。

Verse 39

त्यज त्वं प्राणिहिंसां च धर्मं भज सनातनम् । सेवस्व सज्जनान्नित्यं भक्तियुक्तेन चेतसा

舍弃对众生的伤害,奉持永恒之法(达摩)。恒常侍奉善人,以与虔敬相应之心。

Verse 40

संध्योपासनमुख्यानि नित्यकर्माणि न त्यज । निगृहीष्वेन्द्रियग्राममर्चयस्व हरं हरिम्

切莫舍弃每日应行之业,其中以晨昏礼敬(sandhyā)为首。摄伏诸根之群,当礼拜哈拉(湿婆)与哈利(毗湿奴)。

Verse 41

परापवादं मा ब्रूया मासूयां भज कर्हिचित् । अन्यस्याभ्युदयं दृष्ट्वा संतापं कृणु मा वृथा

莫说他人过失,亦莫起嫉妒之心。见他人兴盛,不要徒然自生烦恼与苦恼。

Verse 42

मातृवत्परदा रांश्च त्वन्नित्यमवलोकय । अधीतवेदानखिलान्माविस्मर कदाचन

应恒常以母亲之心看待他人之妻;并且切莫忘却你已通习的全部吠陀。

Verse 43

अतिथीन्मावमन्यस्व श्राद्धं पितृदिने कुरु । पैशून्यं मा वदस्व त्वं स्वप्नेऽप्यन्स्य कर्हिचित्

勿轻慢宾客;当于祭祖之日为诸祖灵(Pitṛ)行施食祭(śrāddha)。切莫诽谤他人——无论何时,乃至梦中亦不可。

Verse 44

इतिहासपुराणानि धर्मशास्त्राणि संततम् । अवलोकय वेदांतं वेदांगानि तथा पुनः

当恒常研习《史诗传记》(Itihāsa)与《往世书》(Purāṇa)及诸《法论》(Dharmaśāstra);亦当考察《吠檀多》(Vedānta),并复习诸《吠陀支分》(Vedāṅga)。

Verse 45

हरिशंकरना मानि मुक्तलज्जोऽनुकीर्त्तय । जाबालोपनिषन्मंत्रैस्त्रिपुंड्रोद्धूलनं कुरु

当坦然无惭,反复称诵哈利(Hari)与商羯罗(Śaṅkara)之圣名;并依《阇婆罗奥义书》(Jābāla Upaniṣad)之真言,涂抹圣灰,作三横纹(tripuṇḍra)。

Verse 46

रुद्राक्षान्धारय सदा शौचाचारपरो भव । तुलस्या बिल्वपत्रैश्च नारायणहरावुभौ

当常佩鲁陀罗叉(rudrākṣa)念珠,专志于清净与正行;并以图拉西叶(tulasī)与毕尔瓦叶(bilva)供奉那罗延那(Nārāyaṇa)与哈罗(Hara)二尊。

Verse 47

एकं कालं द्विकालं वा त्रिकालं चार्चयस्य भोः । तुलसीदलसंमिश्रं सिक्तं पादोदकेन च

亲爱的啊,你当每日一次、两次,乃至三次礼拜主;以掺入圣罗勒(tulasī)叶的供品,并以足水(pādodaka,主足所洗之水)润湿而奉献。

Verse 48

नैवेद्यान्नं सदा भुंक्ष्व शंभुनारायणाग्रतः । कुरु त्वं वैश्वदेवाख्यं बलिमन्नविशुद्धये

你当常常先在商布(Śambhu)与那罗延(Nārāyaṇa)前将食物作供(naivedya),然后方可受用。并行名为毗湿瓦提婆(Vaiśvadeva)的供献——安置巴利(bali)分食——以净化你的饮食。

Verse 49

यतीश्वरान्ब्रह्मनिष्ठान्तर्पयान्नैर्गृहागतान् । वृद्धानन्याननाथांश्च रोगिणो ब्रह्मचारिणः

当以饮食使来至你家的尊贵出家者(yati)与安住于梵(Brahman)者得以满足;亦当施食于老人、无依者、病者,以及梵行者(brahmacārin)。

Verse 50

कुरु त्वं मातृशुश्रूषामौपासनपरो भव । पंचाक्षरं महामंत्रं प्रणवेन समन्वितम्

当奉事你的母亲,并专心于每日的奥帕萨那(aupāsana),即家中圣火之礼。又当诵持与圣音“唵”(praṇava, Oṃ)相应的五字大咒。

Verse 51

तथैवाष्टाक्षरं मंत्रमन्यमंत्रानपि द्विज । जप त्वं प्रयतो भूत्वा ध्यायन्मंत्राधिदेवताः

同样地,二次生者啊,当诵持八字真言,并诵诸余真言;当自律专注,且观想各咒之主宰神明。

Verse 52

एवमन्यांस्तथा धर्मान्स्मृत्युक्तान्त्सर्वदा कुरु । एवं कृतव्रतस्ते स्याद्देहांते मुक्तिरप्यलम्

同样地,应恒常奉行诸《忆念书》(Smṛti)所教的一切法度。如此持戒立誓,愿行圆满;至身终之时,解脱(mokṣa)亦必得成就。

Verse 53

इत्युक्तो व्यासमुनिना दुर्विनीतः प्रणम्य तम् । तदुक्तमखिलं कृत्वा देहांते मुक्तिमाप्तवान्

杜尔维尼塔既蒙圣贤毗耶娑教诲,便向其顶礼。依言尽行一切所嘱,至身终之际,遂得解脱(mokṣa)。

Verse 54

तन्मातापि मृता काले धनुष्कोटिनिमज्जनात । अवाप परमां मुक्तिमपुनर्भवदायिनीम्

其母亦然,及至命终之时,由在达努什科蒂(Dhanuṣkoṭi)沐浴沉浸而得至上解脱——赐予不复再生之自由。

Verse 55

दुर्वासा उवाच । एवं ते दुर्विनीतस्य तन्मातुश्च विमोक्षणम् । धनुष्कोट्यभिषेकेण यज्ञदेव मयेरितम्

杜尔婆娑说道:“如是,祭主(Yajñadeva)啊,我已向你宣说杜尔维尼塔及其母之解脱;此皆由达努什科蒂(Dhanuṣkoṭi)的神圣灌顶沐浴(abhiṣeka)而成。”

Verse 56

पुत्रमेनं त्वमप्याशु ब्रह्महत्याविशुद्धये । समादाय व्रज ब्रह्मन्धनुष्कोटिं विमुक्तिदाम्

“你亦然,婆罗门啊,速携此子,为净除弑婆罗门之罪;前往达努什科蒂(Dhanuṣkoṭi)——赐予解脱之地。”

Verse 57

सिंधुद्वीप उवाच । इति दुर्वाससा प्रोक्तो यज्ञदेवो निजं सुतम् । समादाय ययौ राम धनुष्कोटिं विमुक्तिदाम्

辛度德维帕说道:“如杜尔瓦萨所教,祭神耶阇那提婆携其亲子前往,噢罗摩,至于檀努什科提——赐予解脱之地。”

Verse 58

गत्वा निवासमकरोत्षण्मासं तत्र स द्विजः । पुत्रेण साकं नियतो हे सृगालप्लवंगमौ

到达那里后,那位婆罗门住了六个月;与其子同在,守持戒律而居——噢豺与猿。

Verse 59

स सस्नौ च धनुष्कोटौ षण्मासं वै स पुत्रकः । षण्मासांते यज्ञदेवं प्राह वागशरीरिणी

那儿子确实在檀努什科提沐浴六个月;六个月期满时,一道无形之声对耶阇那提婆说道。

Verse 60

विमुक्ता यज्ञदेवस्य ब्रह्महत्या सुतस्य ते । स्वर्णस्तेयात्सुरापानात्किरातीसंगमात्तथा

“耶阇那提婆啊,你儿子的梵杀罪(brahmahatyā)已被除去;同样也解脱了偷金、饮酒及与基罗蒂女子相交之罪。”

Verse 61

अन्येभ्योपि हि पापेभ्यो विमुक्तोयं सुतस्तव । संशयं मा कुरुष्व त्वं यज्ञदेव द्विजोत्तम

“确然,你的儿子也已从其他诸罪中解脱。耶阇那提婆啊,最胜的两生者,请勿起疑。”

Verse 62

इत्युक्त्वा विररामाथ सा तु वाग शरीरिणी । तदाऽशरीरिणीवाक्यं यज्ञदेवः स शुश्रुवान्

说罢,那无形之声便寂然止息。于是祭神耶阇那提婆听闻了那位无身说者的言语。

Verse 63

संतुष्टः पुत्रसहितो रामनाथं निषेव्य च । धनुष्कोटिं नमस्कृत्य पुत्रेण सहि तस्तदा

他心满意足,携子前往礼敬罗摩那他。随后又与其子一同向达努斯科蒂恭敬顶礼。

Verse 64

स्वदेशं प्रययौ हृष्टः स्वग्रामं स्वगृहं तथा । सपुत्रदारः सुचिरं सुखमास्ते सुनिर्वृतः

他欢喜地回到故土——回到自己的村落与家宅。与儿子和妻子同住,久享安乐,心中圆满宁静。

Verse 65

सिन्धुद्वीप उवाच । गोमायुवानरावेवं युवयोः कथितं मया । यज्ञदेवसुतस्यास्य सुमतेः परिमोक्षणम्

信度洲说道:“噢豺与猴啊,我已如是向你们讲述了祭神耶阇那提婆之子苏摩提获得圆满解脱的经过。”

Verse 66

पातकेभ्यो महद्भ्यश्च धनुष्कोटौ निमज्जनात् । युवामतो धनुष्कोटिं गच्छतं पापशुद्धये । नान्यथा पापशुद्धिः स्यात्प्रायश्चित्तायुतैरपि

在达努斯科蒂沐浴沉浸,连重罪亦得解脱。因此你们二人当往达努斯科蒂以净除罪垢;否则此等清净不可得,即便行十万种忏悔苦行亦难成就。

Verse 67

श्रीसूत उवाच । सिन्धुद्वीपस्य वचनमिति श्रुत्वा द्विजो त्तमाः

圣苏多曰:诸上等婆罗门闻信度洲之言,皆肃然专注而听。

Verse 68

सृगालवानरावाशु विलंघितमहापथौ । धनुष्कोटिं प्रयासेन गत्वा स्नात्वा च तज्जले

豺与猴迅速越过大道;费力抵达檀努斯科蒂,并在其水中沐浴。

Verse 69

विमुक्तौ सर्वपापेभ्यो विमानवरसंस्थितौ । देवैः कुसुमवर्षेण कीर्यमाणौ सुतेजसौ

二者脱离一切罪垢,光辉炽盛,登上殊胜天车;诸天以花雨纷纷洒落其上。

Verse 70

हारकेयूरमुकुटकटकादिविभूषितौ । देवस्त्रीधूयमानाभ्यां चामराभ्यां विराजितौ । गत्वा देवपुरीं रम्यामिंद्र स्यार्द्धासनं गतौ

他们佩戴花鬘、臂钏、宝冠、手镯等诸饰,天女执拂尘(cāmara)为之扇拂而更显辉耀;遂至可爱天城,在因陀罗近旁得尊荣之座。

Verse 71

श्रीसूत उवाच । युष्माकमेवं कथितं सृगालस्य कपेरपि

圣苏多曰:“我已如是为汝等叙述豺之事,亦及于猴之事。”

Verse 72

पापाद्विमोक्षणं विप्रा धनुष्कोटौ निमजनात् । भक्त्या य इममध्यायं शृणोति पठतेऽपि वा

婆罗门啊,在达努什科蒂沐浴沉浸,能解脱诸罪。凡以虔敬聆听此章,或甚至诵读者,亦同得其功德。

Verse 73

स्नानजं फलमाप्नोति धनुष्कोटौ स मानवः । योगिवृंदैरसुलभां मुक्तिमप्याशु विंदति

凡在达努什科蒂沐浴者,得由圣浴所生之果报;确然,他迅速获得连众多瑜伽行者亦难企及的解脱。

Read Skanda Purana in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App