
本章以对话体展开:诸仙人发问,苏多(Sūta)阐明陀努什科蒂(Dhanuṣkoṭi)圣渡处(Tīrtha)隐秘而殊胜的“威光”(vaibhava)。故事围绕礼仪学者赖毗耶(Raibhya)之子两兄弟阿尔瓦瓦苏(Arvāvasu)与帕拉瓦苏(Parāvasu),他们以无可挑剔的仪轨技艺,辅佐布里哈德尤姆那王(Bṛhaddyumna)完成历时久长的萨特拉祭(sattra-yajña)。 危机发生在帕拉瓦苏夜归之时:他在林中误认父亲为鹿而失手杀害,此事被置于“梵杀”(brahmahatyā)等极重罪的语境中。兄弟二人商议罪责与赎罪(prāyaścitta):弟弟阿尔瓦瓦苏代兄承担长期誓戒,而哥哥则继续履行祭祀职责。 由于社会与王室的反应,阿尔瓦瓦苏虽自陈无辜仍被排斥;他遂行严峻苦行(tapas),得以觐见诸天。天神指示特定救法:在塞图(Setu)地区的陀努什科蒂沐浴,能除灭重过,乃至五大罪,并赐现世安乐与趋向解脱之果。帕拉瓦苏依正念与规制入浴,空中无形之声宣告重罪已灭,随后兄弟和解。章末功德偈(phalaśruti)言:诵读或聆听此章,并于彼处沐浴,可消弭深重苦厄。
Verse 1
श्रीसूत उवाच । भूयोऽप्यहं प्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् । अत्यद्भुततरं गुह्यं सर्वलोकैकपावनम्
圣苏多曰:我将再次宣说达努什科蒂的威德——至为奇妙,幽深而秘,且为诸世界唯一的净化者。
Verse 2
पुरा परावसुर्नाम ब्राह्मणो वेदवित्तमः । अज्ञानात्पितरं हत्वा ब्रह्महत्यामवाप्तवान् । सोऽपि स्नात्वा धनुष्कोटौ तद्दोषा न्मुमुचे क्षणात्
古时有一婆罗门名帕拉瓦苏,为吠陀通达之最。因无明而弑父,遂得“梵杀罪”(brahma-hatyā)。然彼亦于达努什科蒂沐浴,顷刻之间便脱离其过。
Verse 3
ऋषय ऊचुः । पितरं हतवान्पूर्वं कथं सूत परावसुः
诸仙人曰:苏多啊,帕拉瓦苏先前为何会杀害其父?
Verse 4
कथं वा धनुषः कोटौ मुक्तिस्तस्याप्यभून्मुने । एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि
又他在达努沙ḥ-科蒂如何得解脱,圣者啊?愿你为我等具信之人详尽宣说。
Verse 5
श्रीसूत उवाच । आसीद्राजा बृहद्द्युम्नश्चक्रवर्ती महाबलः । धर्मेण पालयामास सागरांतां वसुन्धराम्
圣苏多曰:曾有一王名布里哈德尤姆那,为大力转轮王。以达摩治世,统御四海环绕之大地。
Verse 6
अयजत्सत्रयागेन देवानिंद्रपुरोगमान् । याजकस्तस्य रैभ्योऽभूद्विद्वान्परमधार्मिकः
他以萨特拉祭(satra-yajña)礼敬诸天,由因陀罗为首。其主祭司为赖毗耶(Raibhya),博学而至诚奉持达摩。
Verse 7
आस्तां पुत्रावुभौ तस्याप्यर्वावसु परावसू । षडंगवेदविदुषौ श्रौतस्मार्तेषु कोविदौ
他又有二子,名阿尔瓦瓦苏(Arvāvasu)与帕拉瓦苏(Parāvasu);二人皆通晓吠陀及其六支(六辅学),并精于施罗多(Śrauta)仪轨与斯摩尔塔(Smārta)义务。
Verse 8
काणादे जैमिनीये च सांख्ये वैयासिके तथा । गौतमे योगशास्त्रे च पाणिनीये च कोवि दौ
他们亦精通迦那陀(Kaṇāda)与阇弥尼(Jaimini)之教,通达数论(Sāṃkhya)与毗耶娑(Vyāsa)传承,熟悉瞿昙(Gautama)体系、瑜伽论典(Yoga-śāstra),并善于波你尼(Pāṇini)语法。
Verse 9
मन्वादिस्मृतिनिष्णातौ सर्वशास्त्रविशारदौ । सत्रयागे सहायार्थं बृहद्द्युम्नेन याचितौ
二人深谙以摩奴(Manu)为首的诸《忆传》(Smṛti),又通达一切圣典学科;因此,婆利哈迪尤姆那王(Bṛhaddyumna)请他们协助举行萨特拉祭。
Verse 10
भ्रातरौ समनुज्ञातौ पित्रा रैभ्येण जग्मतुः । बृहद्द्युम्नस्य सत्रं तावश्विनाविव रूपिणौ
蒙父亲赖毗耶(Raibhya)允准后,两位兄弟前往婆利哈迪尤姆那王的萨特拉祭;其光彩仪容,宛如阿湿毗尼双神(Aśvin)降临。
Verse 11
अतिष्ठदाश्रमे रैभ्यः स्नुषया ज्येष्ठया सह । तौ गत्वा भ्रातरौ तत्र राज्ञः सत्रमनुत्तमम्
赖毗耶住在自己的修行林庵(āśrama)中,与长媳同居。两位兄弟前往彼处,抵达国王无与伦比的萨特拉祭(satra)。
Verse 12
याज यामासतुः सत्रे बृहद्द्युम्नं महीपतिम् । नाभवत्स्खलनं भ्रात्रोः सत्रे सांगेषु कर्मसु
在那场萨特拉祭中,他们为大地之主布里哈德丢摩那王主持祭祀;在祭献诸行及其一切辅行仪轨中,两位兄弟毫无差失。
Verse 13
सत्रे संतन्यमानेऽस्मिन्बृहद्द्युम्नस्य भूपतेः । मुनयो भ्यागमन्सर्वे राज्ञाहूता निरीक्षितुम्
当布里哈德丢摩那王的萨特拉祭持续展开之时,诸位牟尼圣贤皆应王之邀而来,为要亲见其盛。
Verse 14
वसिष्ठो गौतमश्चात्रिर्जाबालिरथ कश्यपः । क्रतुर्दक्षः पुलस्त्यश्च पुलहो नारदो मुनिः
婆悉吒、瞿昙与阿底利;阇婆利以及迦叶;克罗图、达叉、普罗娑底耶、普罗诃,并有圣仙那罗陀——
Verse 15
मार्कंडेयः शतानंदो विश्वामित्रः पराशरः । भृगुः कुत्सोऽथ वाल्मीकिर्व्यासधौम्यादयोऽपरे
摩罗迦ṇḍ耶、舍多难陀、毗湿瓦密多罗与波罗舍罗;婆利古、库察,继而伐罗弥基——并有毗耶娑、道弥耶等诸圣贤——
Verse 16
शिष्यैः प्रशिष्यैर्बहुभिरसंख्यातैः समावृताः । तानागतान्समालोक्य बृहद्द्युम्नो महीपतिः
他被无数弟子与再传弟子簇拥;当他看见那些牟尼圣者前来时,大地之主婆利陀优摩王,
Verse 17
अर्घ्यादिना मुनीन्सर्वान्पूजयामास सादरम् । नाना दिग्भ्यः समायाताश्चतुरंगबलैर्युताः
他以阿尔伽等供品为先,恭敬礼敬一切牟尼。众人自四方而来,并随行具足军队四部之众。
Verse 18
उपदासहिता भूपास्सत्रं वीक्षितुमादरात् । वैश्याः शूद्रास्तथा वर्णाश्चत्वरोऽपि समागताः
诸王亦与随从同来,殷切欲观此萨特拉祭。毗舍与首陀罗亦至;诚然四姓众人皆在彼处会集。
Verse 19
वर्णिनोऽथ गृहस्थाश्च वानप्रस्थाश्च भिक्षवः । सत्रं निरीक्षितुं तस्य बृहद्द्युम्नस्य चाययुः
随后,梵行学子、居家者、林栖者与行乞沙门也都前来,为了瞻礼婆利陀优摩王的萨特拉祭。
Verse 20
तान्सर्वान्पूजयामास यथार्हं राजसत्तमः । ददौ चान्नानि सर्वेभ्यो घृतसूपादिकांस्तथा
那位至上之王依其应得而礼敬众人,并赐与众人饮食,又施酥油、汤羹等诸般佐食。
Verse 21
वस्त्राणि च सुवर्णानि हाररत्नान्यनेकशः । एवं सत्कारयामास राजा सत्रे समागतान्
他施与衣服与黄金,又赐许多项链与宝石。国王就这样礼敬在萨特拉祭会中聚集的人们。
Verse 22
रैभ्यपुत्रो तदा विप्रा अर्वावसुपरावसू । अध्वरादीनि कर्माणि चक्रतुः स्खलितं विना
于是,赖毗耶的两位婆罗门之子——阿尔瓦瓦苏与帕拉瓦苏——自adhvara等祭仪起,皆无差失、无过咎而圆满奉行。
Verse 23
तद्दृष्ट्वा मुनयस्सर्वे कौशलं रैभ्यपुत्रयौः । श्लाघंते सशिरःकम्पं वसिष्ठप्रमुखास्तदा
诸牟尼见赖毗耶二子技艺精妙,便齐声称赞;以婆悉吒等为首,皆点首颔首以示嘉许。
Verse 24
कर्माणि कानि चित्तत्र कारयित्वा परावसुः । तृतीयसवनस्यांते गृहकृत्यं निरीक्षितुम्
帕拉瓦苏在彼处令若干仪轨完成之后,于第三次savana将毕之时,前去察看家中事务。
Verse 25
प्रययौ स्वाश्रमं सायं विनैवार्वावसुं द्विजाः । तस्मिन्नवसरे रैभ्यं कृष्णाजिनसमावृतम्
至傍晚,二次生的帕拉瓦苏回到自己的阿湿罗摩,独留阿尔瓦瓦苏在彼。正当其时,赖毗耶在那儿,身披黑羚羊皮。
Verse 26
वने चरंतं पितरं दृष्ट्वा स मृगशंकया । निद्राकलुषितो रात्रावंधे तमसि संकुले
他看见父亲在林中行走,却因昏沉困倦;在夜里浓密而令人目盲的黑暗中,疑心那是只鹿。
Verse 27
आत्मानं हंतुमायाति मृगोऽयमिति चिंतयन् । जघान पितरं सोऽयं महारण्ये परावसुः
他心想:“这只鹿要来杀我。”于是帕罗婆苏在大森林中击倒了自己的父亲。
Verse 28
रिरक्षुणा शरीरं स्वं तेनाकामनया पिता । रजन्यां हिंसितो विप्रा महापातककारिणा
他只求护住自身之躯,虽非本愿,却在夜间伤害了父亲;噢婆罗门们,因此成了造作大罪之人。
Verse 29
अंतिकं स समागत्य व्यलोकयत तं हतम् । ज्ञात्वा स्वपितरं रात्रौ शुशोच व्यथितेंद्रियः
他走近一看,见其已被杀;在夜色中认出那竟是自己的父亲,便悲恸哀号,诸根为痛苦所震。
Verse 30
प्रेतकार्यं ततः कृत्वा पितुः सर्वं परावसुः । भूयोपि नृपतेः सत्रं परावसुरुपाययौ
随后帕罗婆苏为父亲圆满行毕一切丧葬祭仪;此后他又前往国王的萨特拉祭会。
Verse 31
स्वचेष्टितं तु तत्सर्वमनुजाय ततोऽब्रवीत् । मृतं स्वपितरं श्रुत्वा सोऽपि शोकाकुलोऽभवत्
随后他将所发生的一切告诉了弟弟。弟弟听闻父亲已逝,也被悲痛所淹没。
Verse 32
ज्येष्ठोऽनुजं ततः प्राह वचनं द्विजसत्तमाः । महत्सत्रं समारब्धं बृहद्द्युम्नस्य भूपतेः
于是长兄对幼弟说道——噢,最胜的婆罗门们:“国王布里哈迪尤姆那已开启一场宏大的萨特拉祭(satra-yajña)。”
Verse 33
वोढुत्वशक्तिर्नास्त्यस्य कर्मणो बालकस्य ते । जनकश्च हतो रात्रौ मयापि मृगशंकया
“这孩子无力承担那祭仪之事的重担。父亲也在夜里被杀——我亦有份——只因误以为他是鹿。”
Verse 34
प्रायश्चित्तं च कर्त्तव्यं ब्रह्महत्या विशुद्धये । मदर्थं व्रतचर्यां त्वं चर तात कनिष्ठक
“为净除婆罗门杀罪(brahmahatyā),必须行赎罪法(prāyaścitta)。为我之故,亲爱的幼弟,你当修持誓戒之行(vrata)。”
Verse 35
एकाकी धुरमुद्वोढुं शक्तोऽहं सत्रकर्मणः । अर्वावसुरिति प्रोक्तो ज्येष्ठेन स तमभ्य धात्
他答道:“唯有我能独自承担萨特拉祭仪的重担。”长兄如此嘱托,他便回应,愿意承当其事。
Verse 36
तथा भवत्वहं ज्येष्ठ चरिष्ये व्रतमुत्तमम् । ब्रह्महत्याविशुद्ध्यर्थं त्वं सत्रधुरमावह
“就如此吧,长兄。我将奉行最上妙誓,以净除婆罗门杀罪(brahmahatyā);而你暂且承担萨特拉祭会(satra)的重任。”
Verse 37
इत्युक्त्वा सोनुऽजो ज्येष्ठं तस्मात्सत्राद्वि निर्ययौ । कारयामास कर्माणि ज्येष्ठस्तस्मिन्गते कतौ
他如此对长兄说罢,幼子便离开了那场萨特拉祭会(satra)。他走后,长兄仍令诸般祭仪之行与祭事职责继续进行。
Verse 38
द्वादशाब्दं कनिष्ठोपि ब्रह्महत्याव्रतं द्विजाः । चरित्वा सत्रयागेऽस्मिन्नाजगाम पुनर्मुदा
诸位二次生者啊,连那幼弟也在十二年间奉行了赎除婆罗门杀罪(brahmahatyā)的誓行,随后欢喜地再度回到此萨特拉祭(satra-yajña)。
Verse 39
तं दृष्ट्वा भ्रातरं ज्येष्ठो बृहद्द्युम्नमुवाच ह । अयं ते ब्रह्महा सत्रमर्वावसुरुपागतः
长兄见到弟弟,便对毗罗王布里哈迪尤姆那(Bṛhaddyumna)说道:“这位阿尔瓦瓦苏(Arvāvasu),带着婆罗门杀罪(brahmahatyā)之污,已来到你的萨特拉祭。”
Verse 40
एनमुत्सारयाशु त्वमस्मात्सत्रान्नृपो त्तम । अन्यथा सत्रयागस्य फलहानिर्भविष्यति
“大王中之最胜者啊,速将此人逐出此萨特拉祭会;否则,此祭将损失其功德之果。”
Verse 41
इतीरितः स स्वप्रेष्यैर्यागात्तमुदवासयत् । उद्वास्यमानो राजानमर्वावसुरथाब्रवीत्
王既闻此言,便命侍从将他逐出祭祀。正被驱逐之时,阿尔瓦瓦苏遂对国王开口说道。
Verse 42
न मया ब्रह्महत्येयं बृहद्द्युम्न कृतानघ । किन्तु ज्येष्ठेन मे सा हि ब्रह्महत्या कृता विभो
“无罪的毗罗陀优摩王啊,我并未犯下杀婆罗门之罪;主啊,犯下此婆罗门杀罪(brahmahatyā)的,乃是我的长兄。”
Verse 43
ब्रह्महत्याव्रतं चीर्णं तदर्थं च मया धुना । एवमुक्तोपि राजासौ वचसा स परावसोः
“正因如此,我如今已行持了为婆罗门杀罪而设的忏悔誓戒。”虽如此陈说,那位国王却因帕拉瓦苏之言而仍旧执意不改。
Verse 44
अर्वावसुं निजात्सत्रादुदवासयदाशु वै । धिक्कृतो ब्राह्मणैश्चायं ययौ तूष्णीं वनं तदा
国王确实迅速将阿尔瓦瓦苏逐出自己的萨特拉祭会。被婆罗门们呵责后,阿尔瓦瓦苏便默然走入森林。
Verse 45
मुनिवृन्दसमाकीर्णं तपोवनमुपेत्य सः । अर्वावसुस्तपश्चक्रे देवैरपि सुदुष्करम्
他进入那充满众多牟尼圣者的苦行林(tapo-vana),阿尔瓦瓦苏遂修行严峻的苦行(tapas),其艰难甚至诸天亦难为之。
Verse 46
तपः कुर्वंस्तथादित्यमुपतस्थे समा हितः । मूर्तिमांस्तपसा तस्य महताऽदुष्टधीः स्वयम्
他修行苦行,以坚定的专注礼敬阿底提耶(太阳神)。凭借他宏大的苦行之力,太阳神化现为有形之身,自然而然地向那位心地清净者显现。
Verse 47
आविरासीत्स्वया दीप्त्या भासयञ्जगतीतलम् । कर्मसाक्षी जगच्चक्षुर्भास्करो देवताग्रणीः
于是,太阳——诸神之首、世间之眼、万业之见证者——显现出来,以自身光辉照耀大地之面。
Verse 48
आविर्बभूवुर्देवाश्च पुरस्कृत्य शचीपतिम् । इन्द्रादयस्ततो देवाः प्रोचुरर्वावसुं द्विजाः
诸神也随之显现,推举舍契之主因陀罗为首。随后,以因陀罗为首的诸神对阿尔瓦瓦苏说道:婆罗门啊。
Verse 49
अर्वावसो त्वं प्रवरस्तपसा ब्रह्म चर्यतः । आचारेण श्रुतेनापि वेदशास्त्रादिशिक्षया
“阿尔瓦瓦苏,你最为卓越——以苦行、以梵行(持戒清净)、以正行、以圣典之学,并以对吠陀与论典(śāstra)的修习训练。”
Verse 50
निराकृतोवमानेन त्वं परावसुना बहु । तथापि क्षमया युक्तो न कुप्यति भवान्यतः
“纵然帕拉瓦苏屡次以侮辱将你拒斥,你仍具忍辱之德,不生嗔怒——这正是你的本性。”
Verse 51
यस्माज्ज्येष्ठोऽवधीत्तातं न हिंसीस्त्वं महामते । ब्रह्महत्याव्रतं यस्मात्तदर्थं चरितं त्वया
因为长兄弑父,你这位大心者并未以暴制暴;又因为正为此事,你修持了为赎“梵杀(brahma-hatyā)”之罪的忏悔誓行。
Verse 52
अतः स्वीकुर्म हे त्वां तु पराकुर्मः परावसुम् । उक्त्वैवं बलभिन्मुख्याः सर्वे च त्रिदिवालयाः
“因此我们接纳你,并放逐帕罗婆苏(Parāvasu)。”说罢,诸天众神以因陀罗——诛巴罗者——为首,齐声宣示此决断。
Verse 53
तं ते प्रवरयामासुर्निरासुश्च परावसुम् । पुनरिंद्रादयो देवाः पुरोधाय दिवाकरम्
于是他们推举他为最尊最上,并驱逐帕罗婆苏。其后,诸神以因陀罗为首,奉日神为向导,继续推进此事。
Verse 54
अर्वावसुं प्रोचुरिदं वरं त्वं वरयेति वै । स चापि प्रार्थयामास जनकस्योत्थितिं पुन
他们对阿尔瓦婆苏(Arvāvasu)说:“选择一项恩赐吧,随你所愿而求。”而他随即再次祈求使其父复生。
Verse 55
वधे चास्मरणं देवानात्मनो जनकस्य वै । तथास्त्विति सुराः प्रोचुः पुनरूचुरिदं वचः
“并愿诸神不再追忆那次杀戮,使我父亲亦得脱其重负。”诸神答曰:“如是。”随后又复述此言。
Verse 56
वरं चान्यं प्रदास्यामो वरय त्वं महामते । एवमुक्तः सुरैः सोयमर्वावसुरभाषत
诸天说道:“我们还要赐你另一项恩赐;大心者啊,请你自择。”诸天如此告之,阿尔瓦瓦苏便答曰。
Verse 57
मम भ्रातुरदुष्टत्वं भवतु त्रिदशालयाः । अर्वावसोर्वचः श्रुत्वा त्रिदशाः पुनरब्रुवन्
听到阿尔瓦瓦苏的话——“天界诸神啊,愿我兄弟离罪得净”——诸天又复答言。
Verse 58
ब्राह्मणस्य पितुर्घातान्महान्दोषः परावसोः । न ह्यन्यकृतपापस्य परेणानुष्ठितेन वै
“因他杀害了一位婆罗门之父,帕拉瓦苏负有极重之罪;盖一人所造之恶业,实非他人代行仪轨所能消除。”
Verse 59
प्रायश्चित्तेन शांतिः स्यान्महापातकपंचके । पितुर्ब्राह्मणहंतुस्तु सुतरां नास्ति निष्कृतिः
“以忏悔与赎罪之仪,可令五大重罪得以平息;然若杀害婆罗门之父者,更无真实的赎罪之道。”
Verse 60
आत्मनानुष्ठितेनापि व्रतेन न हि दुष्कृतिः । परावसोस्तव भ्रातुरतो नैवास्ति निष्कृतिः
“纵使亲自立誓修行,此恶行亦不能因此消除;故汝兄帕拉瓦苏,确无寻常方法可作赎罪。”
Verse 61
अतोऽस्माभिरदुष्टत्वमस्मै दातुं न शक्यते । अर्वावसुः पुनःप्राह देवानिंद्रपुरोगमान्
“因此,我们无法赐予他无罪之身。”随后,阿尔瓦瓦苏又向诸天开口,以因陀罗为首。
Verse 62
तथापि युष्मन्माहात्म्यात्प्रसादाद्भवतां तथा । पितुर्ब्राह्मणहंतुर्मे भ्रातुस्त्रिदशसत्तमाः
阿尔瓦瓦苏说:“即便如此,凭借诸位的伟大与慈恩,诸天之最啊——(请告知我)关于我的兄长,他杀害了一位婆罗门之父——”
Verse 63
यथा स्यान्निष्कृतिर्ब्रूत तथैव कृपया युताः । एवमर्वावसोः श्रुत्वा वचस्ते त्रिदशालयाः
“请以慈悲明示,究竟如何才能成就赎罪之法。”诸天听闻阿尔瓦瓦苏如此言辞,天界住众——
Verse 64
ध्यात्वा तु सुचिरं कालं विनिश्चित्येदमबुवन् । उपायं ते प्रवक्ष्यामस्तत्पातकनिवारणम्
他们沉思良久,作出决断后说道:“我们将为你宣说一法门,能遮止并消除那罪业。”
Verse 65
दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे । धनुष्कोटिरिति ख्यातं तीर्थमस्ति विमुक्तिदम्
“在神圣的南海之中,于赐解脱的罗摩塞图,有一处名为‘达努什科蒂’的圣地(tīrtha),能授予解脱。”
Verse 66
ब्रह्महत्यासुरापानस्वर्णस्तेयविनाशनम् । गुरुतल्पगसंसर्गदोषाणामपि नाशनम्
它能摧灭杀害婆罗门、饮酒醉物与盗取黄金之罪;亦能消除与师尊之床相关的邪淫过失。
Verse 67
अकामेनापि यः स्नायादपवर्गफलप्रदम् । दुःस्वप्ननाशनं धन्यं नरकक्लेशनाशनम्
即便无所求而在彼处沐浴者,也得解脱之果。它能灭除恶梦,吉祥而蒙福,并消除地狱的诸般苦恼。
Verse 68
कैलासादिपदप्राप्तिकारणं परमार्थदम् । सर्वकाममिदं पुंसामृणदारिद्र्यनाशनम्
它成为获得如凯拉萨(Kailāsa)等境界之因,并赐予至上之善。对世人而言,它成就一切愿求,摧除债累与贫困。
Verse 69
धनुष्कोटिर्धनु ष्कोटिर्धनुष्कोटिरितीरणात् । स्वर्गापवर्गदं पुंसां महापुण्यफलप्रदम्
只要称念“Dhanuṣkoṭi、Dhanuṣkoṭi、Dhanuṣkoṭi”,便赐予众生天界与解脱,并授以大功德之果报。
Verse 70
तत्र गत्वा तव भ्राता स्नायाद्यदि परावसुः । तत्क्षणादेव ते ज्येष्ठो मुच्यते ब्रह्महत्यया
若你的兄弟帕拉瓦苏(Parāvasu)前往彼处沐浴,就在那一刹那,你的长兄便从杀害婆罗门之罪中得解脱。
Verse 71
इदं रहस्यं सुमहत्प्रायश्चित्तमुदीरितम् । उक्त्वेत्यर्वावसुं देवाः प्रययुः स्वपुरीं प्रति
诸神如是向阿尔瓦瓦苏宣说此至大秘义——殊胜的忏悔赎罪法——便启程返回各自的天界住处。
Verse 72
तत अर्वावसुर्ज्येष्ठं समादाय परावसुम् । रामचन्द्रधनुष्कोटिं प्रययौ मुक्तिदायिनीम्
于是阿尔瓦瓦苏携其长兄帕拉瓦苏,前往罗摩旃陀罗之弓端圣地——达努什科蒂,乃赐解脱之处。
Verse 73
सेतौ संकल्पमुक्त्वा तु नियमेन परावसुः । सह भ्रात्रा धनुष्कोटौ सस्नौ पातकशुद्धये
在塞图圣堤上,帕拉瓦苏立下庄严誓愿,依戒律而行,与其兄弟同在达努什科蒂沐浴,为净除罪垢。
Verse 74
स्नात्वोत्थितं धनुष्कोटौ तं प्रोवाचाशरीरिणी । परावसो विनष्टा ते पितुर्ब्राह्मणघातजा
他在达努什科蒂沐浴毕而起身时,一道无形之声对他说:“帕拉瓦苏啊,你父亲因杀婆罗门而生之罪,已被灭除。”
Verse 75
ब्रह्महत्या महा घोरा नरकक्लेशकारिणी । इत्युक्त्वा विररामाथ सापि वागशरीरिणी
“杀害婆罗门之罪极其可怖,招致地狱诸苦。”言毕,那无形之声遂归寂然。
Verse 76
परावसुस्तदा विप्राः कनिष्ठेन समन्वितः । रामचन्द्रधनुष्कोटिं प्रणम्य च सभक्तिकम्
于是,帕拉瓦苏——诸婆罗门啊——与其幼弟相伴,虔诚顶礼罗摩旃陀罗的达努什科提(Dhanuṣkoṭi)。
Verse 77
रामनाथं महादेवं नत्वा भक्तिपुरःसरम् । विमुक्तपातको विप्राः प्रययौ पितुराश्रमम्
诸婆罗门啊,他先以虔敬为先,顶礼罗摩那他大自在天(Rāmanātha Mahādeva);罪垢既除,便启程前往其父的修行林(āśrama)。
Verse 78
मृत्वोत्थितस्तदा रैभ्यो दृष्ट्वा पुत्रौ समागतौ । संतुष्टहृदयो ह्यास्ते पुत्राभ्यां स्वाश्रमे तदा
于是,赖毗耶仿佛死而复生,见到两位儿子归来;心怀欢喜,便与他们同住于自己的修行林(āśrama)。
Verse 79
रामचन्द्रधनुष्कोटौ स्नानेन हतपातकम् । एनं परावसुं सर्वे स्वीचक्रुर्मुनयस्तदा
他在罗摩旃陀罗的达努什科提沐浴,罪业尽灭;于是诸位牟尼都接纳帕拉瓦苏,复归其众。
Verse 80
एवं परावसोरुक्तं ब्रह्महत्याविमोक्षणम् । स्नानमात्राद्धनुष्कोटौ युष्माकं मुनिपुंगवाः
因此已宣说帕拉瓦苏脱离“杀婆罗门之罪”(brahmahatyā)之法:在达努什科提,仅凭沐浴——诸位牟尼中之最胜者啊——便得如是解脱。
Verse 82
महापातकसंघाश्च नश्येयुर्मज्जनादिह । य इमं पठतेऽध्यायं ब्रह्महत्याविमोक्षणम्
在此处,凭借圣浴浸沐,纵然无数重罪亦得消灭;凡诵读此章——论解除“杀婆罗门罪”(梵杀罪)者——皆获清净之功德。
Verse 83
ब्रह्महत्या विनश्येत तत्क्षणान्नास्ति संशयः । सुरापानादयोऽप्यस्य शांतिं गच्छेयुरंजसा
梵杀罪(Brahmahatyā)于当下刹那即被摧灭,毫无疑虑;即便饮酒等诸罪,也会为他迅速得以平息。
Verse 91
सुरा पानादयो विप्रा नश्यंत्येवात्र मज्जनात् । सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते
婆罗门啊,饮酒等诸罪,确在此处因浸沐而灭尽。“真理,真理——再说真理!”——举臂而宣告如是。