Adhyaya 29
Brahma KhandaSetubandha MahatmyaAdhyaya 29

Adhyaya 29

本章开篇由苏多(Sūta)叙述一段净化次第:守戒有度的朝圣者,先在先前能导向解脱的圣地沐浴,继而前往“萨尔瓦提尔塔”(Sarvatīrtha,诸圣地之汇)。此处被赞为功德无上,甚至能摧灭重罪;道德污秽在沐浴者面前亦战栗退散。经文宣称,通常须凭长久诵读吠陀、举行大祭(yajña)、礼敬诸神、在圣日斋戒与持咒(japa)方得之福报,在此只需一入水沐浴便可获得。 诸仙(ṛṣi)问此地何以得名“萨尔瓦提尔塔”,苏多遂讲述婆利古(Bhṛgu)族系苦行者苏查丽塔(Sucaritā)的故事:他双目失明、年迈体弱,无法遍行印度诸提尔塔。为求等同之法,他在南海之滨的甘达玛达那(Gandhamādana)行严峻的湿婆派苦行:三时礼拜、敬奉宾客、随季节修苦行、涂圣灰、佩持鲁陀罗珠(rudrākṣa),并恒常守持清净戒行。 湿婆(Śiva)欢喜显现,赐他复明,并令其求愿。苏查丽塔祈求不必远行而得遍浴一切提尔塔之果。湿婆宣告将召请一切提尔塔汇入此处——此地又因罗摩之“塞图”(Setu)而得净化——于是建立为“萨尔瓦提尔塔”,亦称“摩那萨提尔塔”(Mānasa Tīrtha),能赐世间成就与解脱之利。苏查丽塔沐浴后立刻返老还童,受教当居此地,常以忆念湿婆而沐浴,不必再求远方朝圣。故事末了,他于寿终之际归至湿婆;功德偈(phalaśruti)说,读诵或聆听此事者,皆能脱离罪垢。

Shlokas

Verse 1

श्रीसूत उवाच । स्नात्वा साध्यामृते तीर्थे नृपशापविमोक्षणे । सर्वतीर्थं ततो गच्छेन्मनुजो नियमान्वितः

圣苏多说道:在萨迪亚姆利塔圣渡沐浴——此处能解除国王的诅咒——之后,守持戒律之人应当前往萨尔瓦提尔塔(诸圣渡)。

Verse 2

सर्वतीर्थं महापुण्यं महापातकनाशनम् । महापातकयुक्तो वा युक्तो वा सर्वपातकैः

萨尔瓦提尔塔功德无量,能摧灭大罪。无论是背负“摩诃波多迦”重罪者,或被种种罪业缠缚者——

Verse 3

शुद्ध्येत तत्क्षणादेव सवर्तीर्थनिमज्जनात् । तावत्सर्वाणि पापानि देहे तिष्ठंति सुव्रताः

只要在萨尔瓦提尔塔一沉入水,便于当下立刻得净。此前,一切罪垢都寄居于身,噢,善守誓戒者啊。

Verse 4

स्नानार्थं सर्वतीर्थेऽस्मिन्दृष्ट्वा यांतं द्विजा नरम्

当婆罗门们看见有人为沐浴之故走向此萨尔瓦提尔塔——

Verse 5

वेपंते सर्वपापानि नाशोऽस्माकं भवेदिति । गर्भवासादिदुःखानि तावद्याति नरो भुवि

诸罪皆战栗,心念:“我们的毁灭将至!”在此之前,世间之人仍要经历从胎中居住开始的种种苦楚。

Verse 6

न स्नायात्सर्वतीर्थेऽस्मिन्यावद्ब्राह्मणपुंगवाः । अनुष्ठितैर्महायागैस्तथा तीर्थनिषेवणैः

噢,婆罗门中的翘楚:在此一切圣地之渡(Sarvatīrtha)沐浴之前,当先以如法成就大祭(yajña),并恭敬奉事其他圣地(tīrtha),以此自律而后可入水。

Verse 7

गायत्र्यादिमहामंत्रजपैर्नियमपूर्वकम् । चतुर्णामपि वेदानामावृत्त्या शतसंख्यया

以持戒自律,诵念以伽耶特丽(Gāyatrī)为首的大神咒,并将四部吠陀(Veda)反复诵读百遍——此处所说功德,可与之相比。

Verse 8

शिवविष्ण्वादिदेवानां पूजया भक्ति पूर्वकम् । एकादश्यादितिथिषु तथैवानशनेन च । यत्फलं लभते मर्त्यस्तल्लभेदत्र मज्जनात्

凡人以虔敬供奉湿婆(Śiva)、毗湿奴(Viṣṇu)等诸天,或于以十一日斋(Ekādaśī)为首的诸圣月日守斋所获之果报——在此处一入水沐浴,亦能获得同等功德。

Verse 9

ऋषय ऊचुः । सर्वतीर्थमिति ख्यातिः सूतास्य कथमागता । ब्रूह्यस्माकमिदं पुण्यं विस्तराच्छृण्वतां मुने

诸仙人说道:“噢,苏多(Sūta),此地何以得名‘一切圣地之渡’(Sarvatīrtha),成为诸tīrtha之总汇?请为我等详说此功德,圣者啊,我们正恭听。”

Verse 10

श्रीसूत उवाच । पुरा सुचरितोनाम मुनिर्नियमसंयुतः

圣苏多(Śrī Sūta)说道:“往昔有一位名为苏迦利多(Sucarita)的牟尼,具足严谨的戒行与律仪。”

Verse 11

भृगुवंशसमुद्भूतो जात्यंधो जरयातुरः । अशक्तस्तीर्थयात्रायां नेत्राभावेन स द्विजाः

他出自婆利古(Bhṛgu)族系,生来失明,又为老迈所苦;诸位二次生者啊,由于无有眼见,他无法前往诸圣地(tīrtha)朝礼巡游。

Verse 12

सर्वेषामेव तीर्थानां स्नातुकामो महामु निः । दक्षिणांबुनिधौ पुण्यं गंधमादनपर्वतम्

那位大牟尼渴望在一切圣地(tīrtha)沐浴;因此他前往南海之畔的圣山——甘达摩陀那(Gandhamādana)。

Verse 13

गत्वा शंकरमुद्दिश्य तपस्तेपे सुदुष्करम् । त्रिकालमर्चयञ्छंभुमुपवासी जितेंद्रियः

他到达彼处,心中专念商羯罗(Śaṅkara),修行极其艰苦的苦行:于昼夜三时礼拜商婆(Śambhu),持斋断食,并制伏诸根。

Verse 14

तथा त्रिषवणस्नानात्तथैवातिथिपूजकः । शिशिरे जलमध्यस्थो ग्रीष्मे पंचाग्निमध्यगः

他于每日三时沐浴,并且敬奉来客。冬季他立于水中浸没其身;夏季他站在五火之间受炙。

Verse 15

वर्षास्वासारसहन अब्भक्षो वायुभोजनः । उद्धूलनं त्रिपुंड्रं च भस्मना धारयन्सदा

雨季之时,他忍受倾盆雨注;他以水为食,亦如以风为食。常以圣灰涂身,并佩持三道圣纹(tripuṇḍra),恒常承载神圣的婆斯摩(bhasma)。

Verse 16

जाबालोपनिषद्रीत्या तथा रुद्राक्षधारकः । एवमुग्रं तपश्चक्रे दशसंवत्सरं द्विजः

依《阇婆罗奥义书》之教诫,他亦佩戴鲁陀罗叉念珠。于是这位二次生者行极严苦行,历经十年。

Verse 17

तपसा तस्य संतुष्टः शंकरश्चंद्रशेखरः । प्रादुरासीन्मुनेस्तस्य द्विजाः सुचरितस्य वै

因其苦行而欢喜的商羯罗——月冠者旃陀罗舍迦罗——显现于那位牟尼之前。诸婆罗门啊,此人名为善行者苏遮利多,品行高洁。

Verse 18

समारुह्य महोक्षाणं भूतवृंदनिषेवितः । गिरिजार्ध वपुः शूली सूर्यकोटिसमप्रभः

他乘于大牛之上,为众生之群所侍从;执三叉戟之主——其身半为吉利迦(帕尔瓦蒂)——放光如千万日轮同辉。

Verse 19

स्वभासा भासयन्सर्वा दिशो वितिमिरास्तदा । भस्मपांडुरसर्वांगो जटामंडलमंडितः

以自身光明照耀四方,使诸方当时无有昏暗;其全身因圣灰而呈淡白,纠结之发如光轮般庄严。

Verse 20

अनंता दिमहानागविभूषणविभूषितः । प्रादुर्भूतस्ततः शंभुः प्रादात्तस्य विलोचने

于是商婆显现,佩戴大蛇阿难多之庄严饰物;并赐予他双眼——赐与见之力。

Verse 21

आत्मावलोकनार्थाय शंकरो गिरिजापतिः । ततः सुचरितो विप्राः शंभुना दत्तदृग्द्वयः । आलोक्य परमेशानं प्रतुष्टाव प्रसन्नधीः

为得亲见圣容,吉利迦之主商羯罗便赐予苏遮利多(诸婆罗门啊)一双眼目。得见至上自在天后,那心地澄明者欢喜赞颂。

Verse 22

सुचरित उवाच । जय देव महेशान जय शंकर धूर्जटे

苏遮利多说道:“胜利归于您,神圣的大自在天!胜利归于您,商羯罗啊,杜尔阇提——披垂结发者!”

Verse 23

जय ब्रह्मादिपूज्य त्वं त्रिपुरघ्न यमांतक । जयोमेश महादेव कामांतक जयामल

胜利归于您,连梵天等诸天亦敬拜者;三城(Tripura)之摧灭者,阎摩之终结者!胜利,乌玛之主,大天(Mahādeva);焚灭爱神迦摩者——胜利归于您,清净无垢者!

Verse 24

जय संसारवैद्य त्वं भूतपाल शिवाव्य य । त्रियंबक नमस्तुभ्यं भक्तरक्षणदीक्षित

胜利归于您,医治轮回系缚之大医王;众生之护持者,吉祥而不坏者。三眼自在天啊,向您顶礼——您誓愿守护诸信众。

Verse 25

व्योमकेश नमस्तुभ्यं जय कारुण्यविग्रह । नीलकण्ठ नमस्तुभ्यं जय संसारमोचक

向您顶礼,虚空发髻者(Vyomakeśa);胜利归于您,慈悲化身。向您顶礼,青颈者(Nīlakaṇṭha);胜利归于您,解脱轮回者。

Verse 26

महेश्वर नमस्तुभ्यं परमानंदविग्रह । गंगाधर नमस्तुभ्यं विश्वेश्वर मृडाव्यय

顶礼于您,摩诃伊湿伐罗,您的形体即至上安乐。顶礼于您,恒伽持者;宇宙之主,慈善而不朽者!

Verse 27

नमस्तुभ्यं भगवते वासुदेवाय शंभवे । शर्वायोग्राय गर्भाय कैलासपतये नमः

顶礼于您,世尊——如婆苏提婆般遍满荣光者;顶礼于商婆;于舍婆;于威猛者;于神秘之胎藏、万有之源;并顶礼于凯拉萨之主——我一次又一次致敬。

Verse 28

रक्ष मां करुणासिंधो कृपादष्ट्यवलोकनात् । मम वृत्तमनालोच्य त्राहि मां कृपया हर

护佑我吧,慈悲之海,以您怜悯的目光垂视。莫计较我往昔所行,唯以恩典救度我,哈罗啊。

Verse 29

श्रीसूत उवाच । इति स्तुतो महादेवस्तमेनमिदमभ्यधात् । मुनिं सुचरितं विप्रा दयोदन्वानुमापतिः

圣苏多说道:如此受赞颂后,摩诃提婆对那位圣贤苏遮利多说了这些话,婆罗门们啊——他是慈悲之海,亦是真正无量的主宰。

Verse 30

महादेव उवाच । मुने सुचरिताद्य त्वं वरं वरय कांक्षितम् । वरं दातुं तवायातः पुण्येस्मिन्नाश्रमे शुभे । इतीरितो मुनिः प्राह महादेवं दयानिधिम्

摩诃提婆说道:“圣者苏遮利多啊,今日你当选择所愿之恩赐。我来到这吉祥清净的道场(āśrama),为赐你一愿。”蒙此宣示,圣者便对摩诃提婆——慈悲宝藏——开口说道。

Verse 31

सुचरित उवाच । भगवंस्त्वं प्रसन्नो मे यदि स्याश्चंद्रशेखर

苏查丽塔说道:“噢吉祥的主啊,若你确实悦纳于我,噢月冠者旃陀罗舍迦罗——”

Verse 32

तर्हि त्वां प्रवृणोम्यद्धा वरं मदभिकांक्षितम् । जरापलितदेहोहं कुत्रचिद्गंतुमक्षमः

“那么,我确实要从你这里求取我所渴望的恩赐。我已衰老,形体枯槁、鬓发斑白,无法前往任何地方。”

Verse 33

सर्वतीर्थेषु च स्नातुमाकांक्षा मम विद्यते । तस्मात्सर्वेषु तीर्थेषु स्नानेन मनुजो हि यत् । फलं प्राप्नोति मे ब्रूहि तत्फला वाप्तिसाधनम्

“然而我心中仍有渴望——愿在一切圣地渡口(tīrtha)沐浴。因此请告诉我:人若在所有圣地沐浴,将得何等功德之果;又以何法能使我获得同样的成就。”

Verse 34

महादेव उवाच । अहमावाहयिष्यामि तीर्थान्यत्रैव कृत्स्नशः

摩诃提婆说道:“我将把一切圣地渡口(tīrtha)悉皆召请——就在此处,圆满无遗。”

Verse 35

रामस्य सेतुना पूते नगेऽस्मिन्गंधमादने । इत्युक्त्वा स महादेवः पर्वते गन्धमादने

在这座因罗摩之塞图而得净化的甘达摩达那山上,如此说罢,摩诃提婆便在那甘达摩达那之巅准备施行其事。

Verse 36

तीर्थान्यावाहयामास मुनिप्रीत्यर्थमुत्तमः । ततस्सुचरितं प्राह शंकरः करुणानिधिः

至上者为令圣仙欢喜而召请诸圣地(tīrtha)。随后,慈悲宝藏的商羯罗(Śaṅkara)对苏遮利多(Sucharita)开口说道。

Verse 37

मुने सुचरितेदं तु महापातकनाशनम् । सांनिध्यात्सर्वतीर्थानां सर्वतीर्थाभिधं स्मृतम्

圣仙苏遮利多啊,此处圣地能灭除最重罪业。因一切圣地(tīrtha)皆在此近旁同在,故被称为“萨尔瓦·提尔塔(Sarva-tīrtha)”,即含摄诸提尔塔之提尔塔。

Verse 38

मयात्र सर्वतीर्थानां मनसाकर्षणादिदम् । मानसं तीर्थमित्याख्यां लप्स्यते भुक्तिमुक्तिदम्

在此,我以心力摄引一切圣地(tīrtha),此处将得名“摩那萨·提尔塔(Mānasa Tīrtha)”;它赐予世间受用(bhukti)与解脱(mukti)。

Verse 39

अतः सुचरितात्र त्वं स्नाहि सद्यो विमुक्तये । महापातकसंघानां दावानलसमद्युतौ

因此,苏遮利多啊,你当即刻在此沐浴,以得立时解脱。此圣地如林野大火般辉耀,焚尽成群的重罪。

Verse 40

काममोहभयक्रोधलोभरोगादिनाशने । विना वेदांतविज्ञानं सद्योनिर्वाणकारणे

它能摧灭欲望、迷妄、恐惧、嗔怒、贪婪、疾病等;即便不具备正统的吠檀多(Vedānta)智识,也能成为立得涅槃(nirvāṇa)之因。

Verse 41

जन्ममृत्य्वादिनक्रौघसंसारार्णवतारणे । कुम्भीपाकादिसकलनरकाग्निविनाशने

它能使人渡过充满生、死等“鳄鱼”的轮回大海;并能摧灭一切地狱之火,首从“俱毗波迦”(Kumbhīpāka)起。

Verse 42

इतीरितः सुचरितः शम्भुना मदनारिणा । सस्नौ विप्राः सर्वतीर्थे महादेवस्य संनिधौ

就这样,在“摩檀之敌”商婆(Śambhu)的教诲下,苏遮利多(Sucarita)与诸婆罗门在一切圣地之汇——萨尔瓦提尔塔(Sarvatīrtha)沐浴,且在大天(Mahādeva)亲临之处。

Verse 43

स्नात्वोत्थितः सुचरितो ददृशेऽखिलमानवैः । जरापलितनिर्मुक्तस्तरुणोऽतीव सुन्दरः

沐浴起身之后,众人都看见苏遮利多——脱离衰老与白发,重现青春,容貌极其俊美。

Verse 44

दृष्ट्वा स्वदेहसौंदर्यं ततः सुचरितो मुनिः । श्लाघयामास तत्तीर्थं बहुधाऽन्ये च तापसाः

见到自身形体之美后,牟尼苏遮利多以多种方式赞叹那处圣地(tīrtha);其余苦行者亦同声称赞。

Verse 45

महादेवः सुचरितं बभाषे तदनंतरम् । अस्य तीर्थस्य तीरे त्वं वसन्सुचरित द्विज

随后,大天(Mahādeva)对苏遮利多说道:“婆罗门苏遮利多啊,你住在此圣地(tīrtha)之岸边……”

Verse 46

स्नानं कुरुष्व सततं स्मरन्मां मुक्तिदायकम् । देशांतरीयतीर्थेषु मा व्रज ब्राह्मणोत्तम

你当恒常行沐浴之净业,忆念我这赐解脱者。婆罗门中最胜者啊,莫往他方诸圣地(tīrtha)。

Verse 47

अस्य तीर्थस्य माहात्म्यान्मामंते प्राप्स्यसि ध्रुवम् । अन्येऽपि येऽत्र स्नास्यंति तेऽपि मां प्राप्नुयुर्द्विज

凭此圣地(tīrtha)之大威德,你在生命终了时必定得至于我。即便他人于此沐浴者,二次生者啊,也将同样到达我处。

Verse 48

इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत । तस्मिन्नंतर्हिते रुद्रे ततः सुचरितो मुनिः

如是说已,吉祥的主宰伊湿(Īśa)当处隐没。鲁陀罗既已消失,贤者苏遮利多(Sucarita)遂依言而行。

Verse 49

अनेककालं निवसन्सर्वतीर्थस्य तीरतः । स्नानं समाचरंस्तीर्थे मानसे नियमान्वितः

他久居于萨尔瓦提尔塔(Sarvatīrtha)之岸,在那圣处恒常沐浴修行,具足内在的戒律与自制。

Verse 50

देहांते शंकरं प्राप सर्वबन्धविमोचितः । सायुज्यं चापि संप्राप सर्वतीर्थस्य वैभवात्

至其身终之时,解脱一切系缚,他得至商羯罗(Śaṅkara);又因萨尔瓦提尔塔之威光,亦证得萨尤吉亚(sāyujya)——与主完全合一。

Verse 51

एवं वः कथितं विप्राः सर्वतीर्थस्य वैभवम् । एतत्पठन्वा शृण्वन्वा मुच्यते सर्व पातकैः

如是,婆罗门们啊,已向你们宣说了萨尔瓦提尔塔(Sarvatīrtha)的一切殊胜功德。诵读此文,或仅仅聆听,亦能解脱一切罪业。