
Verse 1
श्रीमार्कण्डेय उवाच । ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् । नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्
圣者马尔坎德耶曰:其后,王中之王啊,当往至殊胜的普提凯湿瓦罗(Pūtikeśvara),在纳尔玛达河之南岸——能灭尽一切罪业者。
Verse 2
स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना । राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान्मणौ
此处由阇姆布梵(Jāmbuvān)为诸世界之福祉而建立。曾有一位名为波罗塞那阇特(Prasenajit)的国王,其胸前佩有一颗宝珠——
Verse 3
समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः । तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत
当他亲自强行取下时,便生出一处溃疡,脓液流溢。然而在那同一圣渡处(tīrtha)修苦行后,他便痊愈无疮。
Verse 4
तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् । यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम
因此,他在彼处安立了那至上的林伽(liṅga),殊胜的普提凯湿瓦罗(Pūtikeśvara)。婆罗多族中最贤者啊,凡有人以虔敬在彼处沐浴——
Verse 5
सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् । कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप । येऽर्चयन्ति सदा देवं ते न यान्ति यमालयम्
如法礼敬至上主宰者,便能成就一切所愿。大王啊,无论在黑八日(Kṛṣṇāṣṭamī)、在第十四月日,或在任何时刻——恒常礼拜神者,终不至阎摩之界。
Verse 89
। अध्याय
本章终(adhyāya)。