Adhyaya 220
Avanti KhandaReva KhandaAdhyaya 220

Adhyaya 220

马尔坎ḍ耶指引王者听众前往洛塔内湿伐罗(Lotaneśvara),称其为那尔摩陀河(Revā)北岸至上的湿婆圣地(tīrtha);只要瞻礼(darśana)并供奉礼拜,便能消融累世积聚的罪业。尤提士提罗赞叹那尔摩陀的净化威德,遂请问:何处是一处最殊胜的圣地,能得一切圣地之果报。 答复以“瑞瓦—海洋合流处”(Revā–Sāgara saṅgama)为中心:大海被描绘为恭敬迎受河流,并说海中显现一尊林伽(liṅga),由此将那尔摩陀的神圣与林伽显现之教义相连。随后本章教授仪轨次第:迦尔提迦月守戒(尤重十四日斋戒 caturdaśī)、在那尔摩陀沐浴、行供水祭(tarpaṇa)与祖先祭(śrāddha)、夜间守夜(jāgaraṇa)并修洛塔内湿伐罗供养(pūjā),以及清晨包含迎请大海与沐浴之真言的程序。 并有一段独特的“省察—伦理”法:沐浴后行者作“翻滚/转身”(luth-),以辨自心业相为罪业(pāpa-karmā)或善业(dharma-karmā);继而在博学婆罗门与护世者(lokapāla)象征之前,如同忏悔般宣说往昔过失,再次沐浴并如法行祖先祭。果报偈(phalaśruti)宣示:于合流处沐浴并礼拜洛塔内湿伐罗,其功德等同马祭(Aśvamedha);以布施(dāna)与祖先祭得广大天福;虔诚听闻与诵持者,终得趋向解脱之果,往生鲁陀罗界(Rudra-loka)。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । ततो गच्छेद्धराधीश लोटणेश्वरमुत्तमम् । उत्तरे नर्मदाकूले सर्वपातकनाशनम्

圣者马尔坎德耶(Śrī Mārkaṇḍeya)曰:其后,大地之主啊,当往那尔摩陀河北岸之胜妙洛塔涅湿伐罗(Loṭaṇeśvara),能灭尽一切罪业。

Verse 2

तत्क्षणादेव तत्सर्वं सप्तजन्मार्जितं त्वघम् । नश्यते देवदेवस्य दर्शनादेव तन्नृप

就在那一瞬间,王啊,七世所积的一切罪业,仅凭得见“诸神之神”的圣观(darśana)便尽皆消灭。

Verse 3

बाल्यात्प्रभृति यत्पापं यौवने चापि यत्कृतम् । तत्सर्वं विलयं याति देवदेवस्य दर्शनात्

自幼年以来所作之罪,以及青年时所犯之过,一切皆因得见“诸神之神”的圣观(darśana)而归于消融。

Verse 4

युधिष्ठिर उवाच । आश्चर्यभूतं लोकेषु नर्मदाचरितं महत् । त्वया वै कथितं विप्र सकलं पापनाशनम्

尤提希提罗说道:在诸世界之中,纳尔玛达(Narmadā)的伟大圣行传说实为奇妙。婆罗门啊,你确已宣说它能尽灭诸罪。

Verse 5

यदेकं परमं तीर्थं सर्वतीर्थफलप्रदम् । श्रोतुमिच्छामि तत्सर्वं दयां कृत्वा वदाशु मे

那唯一至上的圣地(tīrtha),能赐予一切圣地之果报;我愿详尽聆听。愿你垂慈,速为我宣说。

Verse 6

ये केचिद्दुर्लभाः प्रश्नास्त्रिषु लोकेषु सत्तम । त्वत्प्रसादेन ते सर्वे श्रुता मे सह बान्धवैः

凡在三界之中难得闻得的诸般疑问,善中之最者啊,承你恩德,我与亲族已尽皆聆闻。

Verse 7

एतमेकं परं प्रश्नं सर्वप्रश्नविदां वर । श्रुत्वाहं त्वत्प्रसादेन यत्र यामि सबान्धवः

此乃唯一至上的问题,噢,诸问皆能解答者中之最胜者;蒙你恩德,我得闻此问,我将与亲族同往何处、归于何境?

Verse 8

श्रीमार्कण्डेय उवाच । साधुसाधु महाप्राज्ञ यस्य ते मतिरीदृशी । दुर्लभं त्रिषु लोकेषु तस्य ते नास्ति किंचन

圣者马尔坎德耶说道:善哉,善哉,大智者!既然你具此般悟解,三界之中便无一物对你不可得。

Verse 9

धर्ममर्थं च कामं च मोक्षं च भरतर्षभ । काले काले च यो वेत्ति कर्तव्यस्तेन धीमता

噢,婆罗多族之雄牛,智者乃是能于其时了知法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa),并依之行其所当行者。

Verse 10

तस्मात्ते सम्प्रवक्ष्यामि प्रश्नस्यास्योत्तरं शुभम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः

因此我今将为你宣说此问之吉祥答复;闻此者,世间之人皆得解脱一切罪垢。

Verse 11

नर्मदा सरितां श्रेष्ठा सर्वतीर्थमयी शुभा । विशेषः कथितस्तस्या रेवासागरसङ्गमे

纳尔玛达为诸河之最胜,吉祥而具一切圣地渡口(tīrtha)。其殊胜功德,宣说于瑞瓦(纳尔玛达)与大海交汇之处。

Verse 12

आगच्छन्तीं नृपश्रेष्ठ दृष्ट्वा रेवां महोदधिः । प्रणम्य च पुनर्देवीं सङ्गमे रेवया सह

大王之最胜者啊,伟大的海洋见到瑞瓦(纳尔玛达)前来,便恭敬顶礼;又在两水汇合之处,他再度与瑞瓦一同礼敬女神。

Verse 13

संचिन्त्य मनसा केयमिति मां वै सरिद्वरा । ज्ञात्वा संचिन्त्य मनसा रेवां लिङ्गोद्भवां पराम्

诸河之最胜者心中思惟:“此是谁耶?”继而再三观照,便知瑞瓦乃至上者——由(湿婆)林伽所生的尊胜。

Verse 14

लुठन्वै सम्मुखस्तात गतो रेवां महोदधिः । समुद्रे नर्मदा यत्र प्रविष्टास्ति महानदी

亲爱的啊,大海翻涌滚动,迎面前行,前去迎接瑞瓦——就在伟大之河纳尔玛达汇入海洋之处。

Verse 15

तत्र देवाधिदेवस्य समुद्रे लिङ्गमुत्थितम् । लिङ्गोद्भूता महाभागा नर्मदा सरितां वरा

彼处,在大海之中,诸神之主的林伽显现而起;由那林伽诞生了大福德的纳尔玛达——诸河之最胜。

Verse 16

लयं गता तत्र लिङ्गे तेन पुण्यतमा हि सा । नर्मदायां वसन्नित्यं नर्मदाम्बु पिबन्सदा । दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने

她在那里融入那林伽之中;因此她确为至圣。凡常住纳尔玛达河畔、恒常饮纳尔玛达之水者,即被视为已受一切祭祀(yajña)之灌顶,如同日日饮苏摩(Soma)般积聚功德。

Verse 17

सङ्गमे तत्र यः स्नात्वा लोटणेश्वरमर्चयेत् । सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः

凡在彼处两水汇合之地沐浴,并礼敬洛塔内湿伐罗(Loṭaṇeśvara)者,此人得阿湿婆梅陀(Aśvamedha)大祭之果报。

Verse 18

वाचिकं मानसं पापं कर्मणा यत्कृतं नृप । लोटणेश्वरमासाद्य सर्वं विलयतां व्रजेत्

大王啊,无论以言语、以心念、或以行为所造之罪,至洛塔内湿伐罗(Loṭaṇeśvara)前,皆悉消融归灭。

Verse 19

कार्त्तिक्यां तु विशेषेण कथितं शङ्करेण तु । तच्छृणुष्व नृपश्रेष्ठ सर्वपापापनोदनम्

此法由商羯罗(Śaṅkara)亲自为迦尔提迦月(Kārttikī)特别郑重宣说;故请聆听吧,最胜之王,此能除尽一切罪垢。

Verse 20

सम्प्राप्तां कार्त्तिकीं दृष्ट्वा गत्वा तत्र नृपोत्तम । चतुर्दश्यामुपोष्यैव स्नात्वा वै नर्मदाजले

见迦尔提迦月(Kārttikī)已至,最胜之王啊,当往彼处;于月之第十四日(四旬四日),守斋而浴于那尔摩陀河(Narmadā)之水。

Verse 21

संतर्प्य पितृदेवांश्च श्राद्धं कृत्वा यथाविधि । रात्रौ जागरणं कुर्यात्सम्पूज्य लोटणेश्वरम्

既已供养使祖灵与诸天欢喜,并依仪轨行施食祭(śrāddha),当于夜间守夜不眠,恭敬圆满礼拜洛塔内湿伐罗(Loṭaṇeśvara)。

Verse 22

सफलं जीवितं तस्य सफलं तस्य चेष्टितम् । पङ्गवस्ते न सन्देहो जन्म तेषां निरर्थकम्

此人之生命得其果报,其所作所为亦皆成就;然若在奉爱中仍如跛者般迟钝者,毫无疑问,其出生便成空虚无益。

Verse 23

एकाग्रमनसा यैस्तु न दृष्टो लोटणेश्वरः । पिशाचत्वं वियोनित्वं न भवेत्तस्य वै कुले

若有人不能以一心瞻礼洛塔内湿伐罗(Loṭaṇeśvara),则其家族中确会出现如毗舍遮般的境况与卑下的转生。

Verse 24

सङ्गमे तत्र यो गत्वा स्नानं कृत्वा यथाविधि । पुण्यैश्चैव तथा कुर्याद्गीतैर्नृत्यैः प्रबोधनम्

凡至彼处汇流之地,依仪轨沐浴,并行诸善功者,亦当以赞歌与舞蹈来唤醒(主神)。

Verse 25

ततः प्रभातां रजनीं दृष्ट्वा नत्वा महोदधिम् । आमन्त्र्य स्नानविधिना स्नानं तत्र तु कारयेत्

随后,见长夜转为黎明,先向大海顶礼;复加以启请,依沐浴之仪,于彼处行浴。

Verse 26

ॐ नमो विष्णुरूपाय तीर्थनाथाय ते नमः । सान्निध्यं कुरु मे देव समुद्र लवणाम्भसि । इत्यामन्त्रणमन्त्रः

“唵:敬礼具毗湿奴之形者;敬礼于你,诸圣地之主。天神啊,咸水之海,请赐我你的临在。”此即启请之真言。

Verse 27

अग्निश्च तेजो मृडया च देहो रेतोऽधा विष्णुरमृतस्य नाभिः । एवं ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् । इति स्नानमन्त्रः

“火即光辉;蒙湿婆之恩,身得维持;生殖精华安置于下;毗湿奴为不死之脐。”如是诵念——般度子真实之言——当复沉入诸河之主。此即沐浴真言。

Verse 28

आजन्मशतसाहस्रं यत्पापं कृतवान्नरः । सकृत्स्नानाद्व्यपोहेत पापौघं लवणाम्भसि

人于数十万次生中所造诸罪,但以一次入浴于咸水,便能遣除那罪业洪流。

Verse 29

अन्यथा हि कुरुश्रेष्ठ देवयोनिरसौ विभुः । कुशाग्रेणापि विबुधैर्न स्प्रष्टव्यो महार्णवः

若非如此,噫,俱卢之最!彼大能者,具天神之源,智者亦不可触之,纵以库沙草尖亦不可;盖其为广大难测之大海。

Verse 30

सर्वरत्नप्रधानस्त्वं सर्वरत्नाकराकर । सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते । इति अर्वमन्त्र

汝为诸宝之首,亦为一切珍藏之矿与源。噫,主宰,诸不死者之上首:受此阿尔伽供;敬礼于汝。此即阿尔伽真言。

Verse 31

पितृदेवमनुष्यांश्च संतर्प्य तदनन्तरम् । उत्तीर्य तीरे तस्यैव पञ्चभिर्द्विजपुंगवैः

既已供养慰悦诸祖灵(Pitṛ)、诸天与人众,随后出水登上彼岸,当与五位卓越婆罗门同往。

Verse 32

श्राद्धं समाचरेत्पश्चाल्लोकपालानुरूपिभिः । कृत्वाग्रे लोकपालांस्तु प्रतिष्ठाप्य यथाविधि

此后,应依仪如法行施祖祭(śrāddha),其方式当与护世神(Lokapāla)相应;并先按所规定的法则,将诸护世神安置于前。

Verse 33

सम्पूज्य च यथान्यायं तानेव ब्राह्मणैः सह । सुकृतं दुष्कृतं पश्चात्तेभ्यः सर्वं निवेदयेत्

既已依礼敬拜他们,并与婆罗门(brāhmaṇa)同受供养,随后应向他们陈明并奉献一切——自己的功德以及过失之业。

Verse 34

बाल्यात्प्रभृति यत्पापं कृतं वार्धकयौवने । प्रख्यापयित्वा तेभ्योऽग्रे लोकपालान्निमन्त्रयेत्

自幼以来所造之罪——无论在青年或老年——既已在他们面前忏陈明白,随后应在其前召请诸护世神(Lokapāla)。

Verse 35

बाल्यात्प्रभृति यत्किंचित्कृतमा जन्मतोऽशुभम् । विप्रेभ्यः कथितं सर्वं तत्सांनिध्यं स्थितेषु मे

自幼以来我所作的一切不祥之行——乃至自我出生起所生的一切过失——我已尽皆告白于婆罗门(brāhmaṇa),当他们在此于我前现前而立之时。

Verse 36

इत्युक्त्वा स लुठेत्पश्चात्तेभ्योऽग्रेण च सम्मुखम् । अनुमान्य च तान्पञ्च पश्चात्स्नानं समाचरेत्

如是言毕,随后应在他们面前、正对其身而俯伏翻滚以示敬礼;并得那五位许可之后,继而行如法沐浴之仪。

Verse 37

श्राद्धं च कार्यं विधिवत्पितृभ्यो नृपसत्तम । एवं कृते नृपश्रेष्ठ सर्वपापक्षयो भवेत्

应当依仪轨为祖灵(Pitṛ)如法行施食祭(śrāddha),大王中之最胜者啊。如此行之,至上君主啊,一切罪业皆得消灭。

Verse 38

जिज्ञासार्थं तु यः कश्चिदात्मानं ज्ञातुमिच्छति । शुभाशुभं च यत्कर्म तस्य निष्ठामिमां शृणु

若有人为求真实了悟而欲知自我,并分辨何业为吉、何业为凶,那么请听此为之确立的修持法门。

Verse 39

स्नात्वा तत्र महातीर्थे लुठमानो व्रजेन्नरः । पापकर्मान्यतो याति धर्मकर्मा व्रजेन्नदीम्

在那伟大圣渡(tīrtha)沐浴之后,行者当于彼处以滚行示敬而前行;其罪业自他处散去,他转而勤修正法之行,然后应前往河边。

Verse 40

पापकर्मा ततो ज्ञात्वा पापं मे पूर्वसंचितम् । स्नात्वा तीर्थवरे तस्मिन्दानं दद्याद्यथाविधि

随后了知:“我的罪从往昔积聚而来。”即便为罪业所累之人,既已在那最胜圣地(tīrtha)沐浴,也应依正法仪则于彼处行布施(dāna)。

Verse 41

लोटणेश्वरमभ्यर्च्य सर्वपापैः प्रमुच्यते । अवक्रगमनं गत्वा मुच्यते सर्वपातकैः

礼敬洛塔内湿伐罗(Loṭaṇeśvara)者,得脱一切罪;前往阿瓦克拉伽摩那(Avakragamana)者,亦得解脱一切重罪。

Verse 42

तस्मात्सर्वप्रयत्नेन ज्ञात्वैवं नृपसत्तम । स्नातव्यं मानवैस्तत्र यत्र संनिहितो हरः

因此,至善之王啊,既已知晓此理,众人当竭尽全力前往沐浴——在哈罗(湿婆)以殊胜方式临在之处。

Verse 43

एवं स्नात्वा विधानेन ब्राह्मणान् वेदपारगान् । पूजयेत्पृथिवीपाल सर्वपापोपशान्तये

如是依仪轨沐浴之后,大地之主啊,当礼敬通达吠陀的婆罗门,以令一切罪业悉皆止息。

Verse 44

एवं गुणविशिष्टं हि तत्तीर्थं नृपसत्तम । तस्य तीर्थस्य माहात्म्यं शृणुष्वैकमना नृप

诚然,至善之王啊,此圣渡(tīrtha)具足如是殊胜功德。今王当一心谛听此圣地之伟大。

Verse 45

तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः । श्राद्धं यः कुरुते तत्र पित्ःणां भक्तिभावितः

于彼圣渡,男子既沐浴,又以供品令祖灵诸神得以满足;若其怀敬爱之心为诸祖(Pitṛ)行施食祭(śrāddha),便得祖灵殊胜护佑。

Verse 46

दानं ददाति विप्रेभ्यो गोभूतिलहिरण्यकम् । षष्टिवर्षसहस्राणि कोटिर्वर्षशतानि च

他向婆罗门布施——牛、田地、芝麻与黄金——由此所得功德,计至六万年,乃至百亿百亿之年。

Verse 47

विमानवरमारूढः स्वर्गलोके महीयते । नर्मदासर्वतीर्थेभ्यः स्नाने दाने च यत्फलम्

乘坐殊胜的天界飞车(vimāna),他在天界之中受尊崇。凡于那尔摩陀河一切圣渡处(tīrtha)沐浴并行布施(dāna)所得之功德果报——

Verse 48

तत्फलं समवाप्नोति रेवासागरसङ्गमे । सुवर्णं रजतं ताम्रं मणिमौक्तिकभूषणम्

同样的果报,于瑞瓦(Revā)与大海的汇合处即可获得。(在那里可供奉)黄金、白银、赤铜,以及镶嵌宝石与珍珠的饰物。

Verse 49

गोवृषं च महीं धान्यं तत्र दत्त्वाक्षयं फलम् । शुभस्याप्यशुभस्यापि तत्र तीर्थे न संशयः

在那神圣的渡口,布施一头母牛、公牛、土地或谷粮,便得不坏之果。无论行善者或作恶者,于彼处圣渡(tīrtha)皆能得其效验——毫无疑问。

Verse 50

तत्र तीर्थे नरः कश्चित्प्राणत्यागं युधिष्ठिर । करोति भक्त्या विधिवत्तस्य पुण्यफलं शृणु

啊,坚战(Yudhiṣṭhira)啊,若有人在彼处圣渡(tīrtha),以虔敬之心并依正法仪轨舍弃此身——请听由此而生的功德之果。

Verse 51

कोटिवर्षं तु वर्षाणां क्रीडित्वा शिवमन्दिरे । वेदवेदाङ्गविद्विप्रो जायते विमले कुले

在湿婆(Śiva)神庙中欢游一千万年之后,他将生于清净之家,成为通达吠陀与吠陀支分(Vedāṅga)的婆罗门。

Verse 52

पुत्रपौत्रसमृद्धोऽसौ धनधान्यसमन्वितः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदांशतम्

他子孙昌盛,财宝与五谷丰足;远离一切疾病,得享百秋之寿,圆满一生。

Verse 53

अपि द्वादशयात्रासु सोमनाथे यदर्चिते । कार्त्तिक्यां कृत्तिकायोगे तत्पुण्यं लोटणेश्वरे

即便是在十二次朝圣中于娑摩那他(Somanātha)所作礼拜之功德——尤其在迦尔提迦月、克利提迦星宿相合之时——那同等功德亦在洛塔内湿伐罗(Loṭaṇeśvara)处可得。

Verse 54

गया गङ्गा कुरुक्षेत्रे नैमिषे पुष्करे तथा । तत्पुण्यं लभते पार्थ लोटणेश्वरदर्शनात्

婆尔他啊,仅以瞻礼(darśana)洛塔内湿伐罗,便可获得与朝圣伽耶、恒河、俱卢之野(Kurukṣetra)、奈弥沙(Naimiṣa)以及补湿迦罗(Puṣkara)同等的功德。

Verse 55

यः शृणोति नरो भक्त्या पठ्यमानमिदं शुभम् । सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति

凡人若以虔敬聆听此吉祥之事在诵读时宣说,便脱离一切罪垢,往至鲁陀罗之界。