
马尔坎ḍ耶依次指出瑞瓦河(纳尔玛达)上的诸多圣渡处(tīrtha),如普什卡利(Puṣkalī)与克沙玛那塔(Kṣamānātha),继而讲述婆罗婆底圣地(Bhārabhūti tīrtha)的起源:湿婆以鲁陀罗—摩诃伊湿伐罗(Rudra-Maheśvara)之相安住其间。尤提施提罗请求说明“婆罗婆底”这一名称的由来。 第一则事例描绘德行具足的婆罗门毗湿奴沙尔曼(Viṣṇuśarman),以清净戒行与苦行简朴度日。大天(Mahādeva)化作学生(baṭu)前来从学;因备食之事与其他学生起争执,遂立赌约。湿婆显现无尽丰食;其后在河畔按赌约行事,诸学生被系以“重担”(bhāra)投入纳尔玛达,湿婆随即救拔,并建立名为“婆罗婆底”的林伽(liṅga),解除婆罗门对罪业的恐惧。 第二则事例叙述一商人背信杀害信任他的友人,死后受极重惩罚并多次轮回,终转生为负重之牛,居于一位正义国王之家。迦尔提迦月/湿婆夜(Śivarātri)在婆雷湿伐罗(Bhāreśvara),国王行沐浴(snāna)、供献,并于夜间四更对林伽作“四次充满供养”(pūraṇa),又行布施(黄金、芝麻、衣布、施牛)与守夜(jāgaraṇa);负重之牛因此得净化而升往善界。章末宣说功德:在婆罗婆底沐浴与守戒能灭除重大罪业;微小布施亦得不坏福德;若于此圣地命终,则不间断入湿婆界(Śiva-loka),或得吉祥再生,终复趋向解脱。
Verse 1
श्रीमार्कण्डेय उवाच । तस्यैवानन्तरं पार्थ पुष्कलीतीर्थमुत्तमम् । तत्र तीर्थे नरः स्नात्वा ह्यश्वमेधफलं लभेत्
斯里·马克德亚(Śrī Mārkaṇḍeya)说道:帕尔塔(Pārtha)啊,紧接着便是那殊胜的普什卡利圣地(Puṣkalī Tīrtha)。凡在此圣水沐浴者,必获阿什瓦梅达(Aśvamedha)大祭之果报。
Verse 2
क्षमानाथं ततो गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । दानवगन्धर्वैरप्सरोभिश्च सेवितम्
从那里,人们应前往名为克沙玛纳塔(Kṣamānātha)的圣地——它闻名于三界,受达纳瓦(Dānavas)、乾闼婆(Gandharvas)和阿普萨拉(Apsaras)的崇敬与供奉。
Verse 3
तत्र तिष्ठति देवेशः साक्षाद्रुद्रो महेश्वरः । भारेण महता जातो भारभूतिरिति स्मृतः
众神之主——大自在天(Maheśvara),即鲁德拉(Rudra)本人显现于此。因承受巨大的“重负”(bhāra),他被称为巴拉布提(Bhārabhūti)。
Verse 4
युधिष्ठिर उवाच । भारभूतीति विख्यातं तीर्थं सर्वगुणान्वितम् । श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलं हि मे
尤帝斯提拉(Yudhiṣṭhira)说道:“婆罗门中的佼佼者啊,我希望能聆听那名为巴拉布提(Bhārabhūti)的圣地之事,它具足一切功德,我对此充满了极大的好奇。”
Verse 5
श्रीमार्कण्डेय उवाच । भारभूतिसमुत्पत्तिं शृणु पाण्डवसत्तम । विस्तरेण यथा प्रोक्ता पुरा देवेन शम्भुना
圣者马尔坎德耶说道:“般度之中最殊胜者啊,请聆听婆罗婆提的起源;正如往昔天神商布亲自详尽开示的那样。”
Verse 6
आसीत्कृतयुगे विप्रो वेदवेदाङ्गपारगः । विष्णुशर्मेति विख्यातः सर्वशास्त्रार्थपारगः
在克利多时代,有一位婆罗门,通达吠陀与诸吠陀支分;名闻为毗湿奴沙尔曼,洞悉一切论典(śāstra)之义。
Verse 7
क्षमा दमो दया दानं सत्यं शौचं धृतिस्तथा । विद्या विज्ञानमास्तिक्यं सर्वं तस्मिन्प्रतिष्ठितम्
忍辱、克制、慈悲、布施、真实、清净与坚忍,以及学识、明辨与正信——这一切都稳固地安住于他身上。
Verse 8
ईदृग्गुणा हि ये विप्रा भवन्ति नृपसत्तम । पतितान्नरके घोरे तारयन्ति पित्ःंस्तु ते
王中最胜者啊,具此等德行的婆罗门,确能救度那些堕入可怖地狱的祖先,使其得以超脱。
Verse 9
इन्द्रियं लोलुपा विप्रा ये भवन्ति नृपोत्तम । पतन्ति नरके घोरे रौरवे पापमोहिताः
王中最胜者啊,那些贪恋诸根欲乐、为罪业所迷的婆罗门,将堕入名为“饶罗婆”(Raurava)的可怖地狱。
Verse 10
ये क्षान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः । प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः
凡能忍辱自制、耳满闻持《圣闻》(śruti)、降伏诸根、远离伤害众生,且于受施时收敛其手者——如是婆罗门,堪能度人越过生死之流。
Verse 11
एवं गुणगणाकीर्णो ब्राह्मणो नर्मदातटे । वसते ब्राह्मणैः सार्धं शिलोञ्छवृत्तिजीवनः
如是具足众德,那位婆罗门住在那尔摩陀河畔,与诸婆罗门同居,并以“拾穗式”(śiloñcha)的清净生计自养。
Verse 12
तादृशं ब्राह्मणं ज्ञात्वा देवदेवो महेश्वरः । द्विजरूपधरो भूत्वा तस्याश्रममगात्स्वयम्
大自在天摩诃湿伐罗——诸天之天——知此婆罗门如此殊胜,便亲自化作二次生者(dvija)之形,前往那位仙者的精舍。
Verse 13
दृष्ट्वा तं ब्राह्मणैः सार्धमुच्चरन्तं पदक्रमम् । अभिवादयते विप्रं स्वागतेन च पूजितः
见他与诸婆罗门相伴,循次第而诵诸句(pada),那位婆罗门便向来客致敬问安;来宾亦以相称的迎奉而受礼敬。
Verse 14
प्रोवाच तं मुहूर्तेन ब्राह्मणो विस्मयान्वितः । किमथ तद्बटो ब्रूहि किं करोमि तवेप्सितम्
过了片刻,那位婆罗门满怀惊异,对他说:“你为何而来,少年梵行者(brahmacārin)?请告知我:我当为你成办何种所愿之事?”
Verse 15
बटुरुवाच । विद्यार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम । ददासि यदि मे विद्यां ततः स्थास्यामि ते गृहे
学生说道:“最尊贵的两次生者啊,当知我乃为求学而来。若你赐我圣智(vidyā),我便住在你家中。”
Verse 16
ब्राह्मण उवाच । सर्वेषामेव विप्राणां बटो त्वं गोत्र उत्तमे । दानानां परमं दानं कथं विद्या च दीयते
婆罗门说道:“出身高贵氏族的学生啊,在一切婆罗门之中,知识乃最上之布施(dāna);如此圣智(vidyā)究竟当如何施与?”
Verse 17
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या भवतीह फलप्रदा
圣智(vidyā)可由恭敬侍奉上师而得,或由丰厚资财而求;又或以智得智——如是于此世间,方能结出果报。
Verse 18
बटुरुवाच । यथान्ये बालकाः स्नाताः शुश्रूषन्ति ह्यहर्निशम् । तथाहं बटुभिः सार्धं शुश्रूषामि न संशयः
学生说道:“正如其他少年弟子行毕日常仪轨后昼夜侍奉一般,我也必与诸同学一道侍奉,毫无疑虑。”
Verse 19
तथेति चोक्त्वा विप्रेन्द्रः पाठयंस्तं दिने दिने । वर्तते सह शिष्यैः स शिलोञ्छानुपहारयन्
婆罗门之首说道“如是”,便日复一日教导他;他也与诸弟子同住其处,以拾取的谷粒作供奉而献上。
Verse 20
ततः कतिपयाहोभिः प्रोक्तो बटुभिरीश्वरः । पचनाद्यं बटो कर्म कुरु क्रमत आगतम्
过了些日子,众学童对主说道:“噢,年轻的梵行学生啊,请依次履行诸务,从烹饪等事开始,按其应有的次第而行。”
Verse 21
तथेति चोक्तो देवेशो भारग्राममुपागतः । ध्यात्वा वनस्पतीः सर्वा इदं वचनमब्रवीत्
受此嘱咐后,诸天之主前往名为婆罗伽罗摩(Bhāragrāma)之地。观想林中一切树木后,他说出了如下言辞。
Verse 22
यावदागच्छते विप्रो बटुभिः सह मन्दिरम् । अदर्शनाभिः कर्तव्यं तावदन्नं सुसंस्कृतम्
“在那位婆罗门与诸少年学童一同来到神庙之前,你们应当隐而不现;其间要备办熟透而调味得当的食物。”
Verse 23
एवमुक्त्वा तु ताः सर्वा विश्वरूपो महेश्वरः । क्रीडनार्थं गतस्तत्र बटुवेषधरः पृथक्
对她们众皆如此吩咐后,具遍一切形相的大自在天(Maheśvara)为行神圣戏乐,独自前往彼处,化作少年梵行学生之相。
Verse 24
दृष्ट्वा समागतं तत्र बटुवेषधरं पृथक् । धिक्त्वां च परुषं वाक्यमूचुस्ते गिरिसन्निधौ
见有一人独自前来,身着少年学童之装,他们在山前厉声斥道:“可耻啊,你这人!”
Verse 25
क्षुत्क्षामकंठाः सर्वे च गत्वा तु किल मन्दिरम् । त्वया सिद्धेन चान्नेन तृप्तिं यास्यामहे वयम्
我们众人饥饿难耐,喉咙干渴。确已前往圣祠;本当由你烹制并备好的食物使我们得以饱足。
Verse 26
तद्वृथा चिन्तितं सव त्वयागत्य कृतं द्विज । मिथ्याप्रतिज्ञेन सता दुरनुष्ठितमद्य ते
这一切筹划都成了徒然,婆罗门啊,只因你前来。你以虚妄之诺,今日行事不善。
Verse 27
बटुरुवाच । सन्तापमनुतापं वा भोजनार्थं द्विजर्षभाः । मा कुरुध्वं यथान्यायं सिद्धेऽग्रे गृहमेष्यथा
童子说道:“诸位婆罗门之最胜者啊,莫为饮食而忧苦或懊悔。待其如法备妥,你们自当依次来到我家。”
Verse 28
बटुरुवाच । दिनशेषेण चास्माकं पञ्चतां च दिने दिने । निष्पत्तिं याति वा नेति तदसिद्धमशेषतः
童子说道:“今日所余时辰无多,而我等性命又日日无常;此事究竟能成与否,实在全然未定。”
Verse 29
असिद्धं सिद्धमस्माकं यत्त्वया समुदाहृतम् । दृष्ट्वानृतं गतास्तत्र त्वां बद्धाम्भसि निक्षिपे
你向我们宣称未备之物已然备妥。若我们到那里见其为虚,我必缚你,投入水中。
Verse 30
बटुरुवाच । भोभोः शृणुध्व सर्वेऽत्र सोपाध्याया द्विजोत्तमाः । प्रतिज्ञां मम दुर्धर्षां यां श्रुत्वा विस्मयो भवेत्
童子说道:“诸位在此,连同你们的师长,婆罗门中的最上者啊,请悉心聆听。听我这难以抗拒的誓愿;闻之必令人惊叹。”
Verse 31
यदि सिद्धमिदं सर्वमन्नं स्यादाश्रमे गुरोः । यूयं बद्ध्वा मया सर्वे क्षेप्तव्या नर्मदाम्भसि
“若这一切食物确已在我师的阿湿罗摩中备妥,那么我将把你们全都捆缚,投入那尔摩陀河的水中。”
Verse 32
अथवान्नं न सिद्धं स्याद्भवद्भिर्दृढबन्धनैः । गुरोस्तु पश्यतो बद्ध्वा क्षेप्तव्योऽहं नर्मदाह्रदे
“否则,若食物未成,你们便当以坚固绳索将我紧缚;在上师注视之下,把我投入那尔摩陀的水潭。”
Verse 33
तथेति कृत्वा ते सर्वे समयं गुरुसन्निधौ । स्नात्वा जाप्यविधानेन भूतग्रामं ततो ययुः
他们齐声道“如是”,在上师面前立定约誓;随后依仪沐浴,并按法修持诵念(japa),便前往名为“部多伽罗摩”(Bhūtagrāma)之地。
Verse 34
दृष्ट्वा ते विस्मयं जग्मुर्विस्तृते भक्ष्यभोजने । षड्रसेन नृपश्रेष्ठ भुक्त्वा हुत्वा पृथक्पृथक्
大王之最胜者啊,他们见那饮食肴馔铺陈广大,皆生惊异;继而享用具足六味之餐后,各自分别行供献火供之供物。
Verse 35
ततः प्रोवाच वचनं हृष्टपुष्टो द्विजोत्तमः । वरदोऽस्मि वरं वत्स वृणु यत्तव रोचते
于是,那位最上等的婆罗门欢喜而精神充盈地说道:“我乃赐福者,亲爱的孩子;你随心所愿,选择你所喜的恩赐吧。”
Verse 36
साङ्गोपाङ्गास्तु ते वेदाः शास्त्राणि विविधानि च । प्रतिभास्यन्ति ते विप्र मदीयोऽस्तु वरस्त्वयम्
“诸吠陀连同其支分与辅学,以及种种沙斯特拉的分支,都将在你的悟解中熠熠生辉,婆罗门啊——这便是我赐予你的恩赐。”
Verse 37
प्रणम्य बटुभिः सार्धं स चिक्रीड यथासुखम् । द्वितीये तु ततः प्राप्ते दिवसे नर्मदाजले
他礼拜致敬,并与诸少年学子一同自在嬉戏;随后第二日到来之时,在那尔摩陀河的水中……
Verse 38
क्रीडनार्थं गताः सर्वे सोपाध्याया युधिष्ठिर । ततः स्मृत्वा पणं सर्वे भाषयित्वा विधानतः
尤提士提罗啊,他们众人连同师长一同出去嬉戏;随后忆起赌约,众人依照应有的仪式与规矩,再次郑重陈述。
Verse 39
उपाध्यायमथोवाच नत्वा देवः कृताञ्जलिः । जले प्रक्षेपयाम्यद्य निष्प्रतिज्ञान् बटून् प्रभो
于是,提婆向师长顶礼,合掌说道:“主上,今日我将把那些背弃誓约的学子投入水中。”
Verse 40
तद्देवस्य वचः श्रुत्वा नष्टास्ते बटवो नृप । गुरोस्तु पश्यतो राजन्धावमाना दिशो दश
大王,听闻天神之言,那些少年弟子便倏然消失;在师长注视之下,君主啊,他们奔向十方。
Verse 41
वायुवेगेन देवेन लुञ्जितास्ते समन्ततः । भारं बद्ध्वा तु सर्वेषां बटूनां च नरेश्वर
人中王啊,天神以风之疾驱使他们,从四面将其擒住;随后又给所有少年弟子缚上重担。
Verse 42
शापानुग्रहको देवोऽक्षिपत्तोये यथा गृहे । ततो विषादमगमद्दृष्ट्वा तान्नर्मदाजले
那位既施惩戒亦赐恩泽的神明,将他们投入水中,仿佛把物件掷入屋内一般;继而见他们沉在那尔摩陀河水里,便悲恸满怀。
Verse 43
गुरुणा बटुरुक्तोऽथ किमेतत्साहसं कृतम् । एतेषां मातृपितरो बालकानां गृहेऽङ्गनाः
于是那少年弟子对师长说道:“这是做了何等鲁莽之事?这些孩子的父母都在家中,与内眷同在。”
Verse 44
यदि पृच्छन्ति ते बालान् क्व गतान् कथयाम्यहम् । एवं स्थिते महाभाग यदि कश्चिन्मरिष्यति
“若他们询问孩子:‘他们去了哪里?’我又该如何作答?在此情形之下,极有福德者啊,倘若有人因此而死……”
Verse 45
तदा स्वकीयजीवेन त्वं योजयितुमर्हसि । मृतेषु तेषु विप्रेषु न जीवे निश्चयो मृतः
那么你应该用你自己的生命使他们复活。如果那些婆罗门少年死去,我确信我无法苟活——我必死无疑。
Verse 46
ब्रह्महत्याश्च ते बह्व्यो भविष्यन्ति मृते मयि । द्विजबन्धनमात्रेण नरको भवति ध्रुवम्
如果我死了,许多杀害婆罗门的罪孽将归于你。仅仅因为捆绑了一位再生族(婆罗门),地狱便是必然的结果。
Verse 47
मरणाद्यां गतिं यासि न तां वेद्मि द्विजाधम । एवमुक्तः स्मितं कृत्वा देवदेवो महेश्वरः
死后你会遭遇什么样的命运——我不知道,噢,再生族中最卑劣的人!听到这话,众神之神大自在天(Maheśvara)露出了微笑。
Verse 48
भारभूतेश्वरे तीर्थ उज्जहार जलाद्द्विजान् । मुक्त्वा भारं तु देवेन छादयित्वा तु तान्द्विजान्
在婆罗布特湿伐罗(Bhārabhūteśvara)圣地,他将那些再生族(少年)从水中拉起。卸下重担后,神便庇护了那些婆罗门。
Verse 49
लिङ्गं प्रतिष्ठितं तत्र भारभूतेति विश्रुतम् । मृतांस्तान् वै द्विजान् दृष्ट्वा ब्रह्महत्या निराकृता
那里建立了一座林伽,名为‘婆罗布特’(Bhārabhūta)。看到那些(仿佛)死去的婆罗门,杀害婆罗门的罪孽便被驱除(消除)了。
Verse 50
गतानि पञ्च वै दृष्ट्वा ब्रह्महत्याशतानि वै । ततः स विस्मयाविष्टो दृष्ट्वा तान्बालकान् गुरुः
见到五百起梵杀(brahmahatyā)之罪业已然消散,师长凝望那些少年,顿时惊叹不已。
Verse 51
नान्यस्य कस्यचिच्छक्तिरेवं स्यादीश्वरं विना । ज्ञात्वा तं देवदेवेशं प्रणाममकरोद्द्विजः
“除祂之外无人有此神力;离开自在天(Īśvara),此事绝不可能。”知其为诸天之主,婆罗门便恭敬顶礼。
Verse 52
अज्ञानेन मया सव यदुक्तं परमेश्वर । अप्रियं यत्कृतं सर्वं क्षन्तव्यं तन्मम प्रभो
至上主帕拉梅湿伐罗啊,我因无明所说之言、所作令人生厌之事——主啊——愿你尽皆赦宥。
Verse 53
देव उवाच । भगवन्गुरुर्भवान्देवो भवान्मम पितामहः । वेदगर्भ नमस्तेऽस्तु नास्ति कश्चिद्व्यतिक्रमः
天神说道:“大德啊,你是我的上师,你是我的神明,你是我的祖父。吠陀之胎(Vedagarbha)、圣智之源,向你致敬——你的权威不可逾越。”
Verse 54
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः
生身之父、授予入门礼(upanayana)之师、传授学识者、施食者、护人免怖者——此五者皆被称念为“父”。
Verse 55
एवमुक्त्वा जगन्नाथो विष्णुशर्माणमानतः । तत्र तीर्थे जगामाशु कैलासं धरणीधरम्
说罢,世主阇甘那陀向毗湿奴沙尔摩恭敬礼拜,便迅速离开那圣渡口,前往支撑大地的凯拉萨山。
Verse 56
तदाप्रभृति तत्तीर्थं भारभूतीति विश्रुतम् । विख्यातं सर्वलोकेषु महापातकनाशनम्
自那时起,那处圣渡便以“婆罗婆底”(Bhārabhūti)之名闻名;在诸世界皆被称颂为能灭除重罪者。
Verse 57
तत्र तीर्थे पुनर्वृत्तमितिहासं ब्रवीमि ते । सर्वपापहरं दिव्यमेकाग्रस्त्वं शृणुष्व तत्
关于那处圣地,我将为你讲述一段后来又在彼处重现的古老传说。此事神圣,能除尽诸罪——请你一心谛听。
Verse 58
पुरा कृतयुगस्यादौ वैश्यः कश्चिन्महामनाः । सुकेश इति विख्यातस्तस्य पुत्रोऽतिधार्मिकः
久远以前,在克利多时代(Kṛtayuga)之初,有一位心怀高尚的吠舍(vaiśya),名叫苏给沙(Sukeśa)。他的儿子极其守持正法。
Verse 59
सोमशर्मेति विख्यातो मृतः पृथुललोचनः । स सखायं वणिक्पुत्रं कंचिच्चक्रे दरिद्रिणम्
他名为苏摩沙尔曼(Somaśarman);后来,噢广目者,他去世了。他曾结交一位商人之子为友,那人已陷于贫困。
Verse 60
सुदेवमिति ख्यातं सर्वकर्मसु कोविदम् । एकदा तु समं तेन व्यवहारमचिन्तयत्
他以“苏提婆”之名闻于世,诸事皆精。某日,他与那人商议筹划一桩合伙的商贸之举。
Verse 61
सखे समुद्रयानेन गच्छावोत्तरणैः शुभैः । भाण्डं बहु समादाय मदीये द्रव्यसाधने
“朋友,让我们乘海船而行,前往吉祥的港口与渡口。多载货物,以我的本钱求取财富。”
Verse 62
परं तीरं गमिष्याव उत्कर्षस्त्वावयोः समः । इति तौ मन्त्रयित्वा तु मन्त्रवत्समभीप्सितम्
“让我们去往更远的彼岸;你我所得之利当均等。”二人如此商议后,便如依既定谋略行事者一般,专心投向所愿之业。
Verse 63
सर्वं प्रयाणकं गृह्य ह्यारूढौ लवणोदधिम् । तौ गत्वा तु परं भाण्डं विक्रीय पुरतस्तदा
他们备齐行旅所需,登上咸海之舟。抵达彼岸之地后,便在前方城中售卖所载货物。
Verse 64
प्राप्तौ बहु सुवर्णं च रत्नानि विविधानि च । नावं तां संगतां कृत्वा पश्चात्तावारुरोहतुः
他们得了许多黄金与种种宝珠。随后整备船只,使之妥当,二人又登舟踏上归程。
Verse 65
नावमन्तर्जले दृष्ट्वा निशीथे स्वर्णसंभृताम् । दृष्ट्वा तु सोमशर्माणमुत्सङ्गे कृतमस्तकम्
他在半夜看见船停在水中央,满载黄金;又看见苏摩沙尔玛安卧,头枕在膝上,
Verse 66
शयानमतिविश्वस्तं सहदेवो व्यचिन्तयत् । एष निद्रावशं यातो मयि प्राणान्निधाय वै
萨哈德瓦见他熟睡、毫无戒心,心中思量:“他已被睡意所制,竟把性命也托付于我。”
Verse 67
अस्याधीनमिदं सर्वं द्रव्यरत्नमशेषतः । उत्कर्षार्द्धं तु मे दद्यात्तत्र गत्वेति वा न वा
“这一切财宝与珠玉,毫无遗漏,都在他掌控之中。待我们到了那里,他真会给我一半的收益吗——还是不会?”
Verse 68
इति निश्चित्य मनसा पापस्तं लवणोदधौ । चिक्षेप सोमशर्माणं पापध्यातेन चेतसा
他心中既已决断,那罪人便将苏摩沙尔玛抛入咸海,心念被恶意所蒙蔽。
Verse 69
उत्तीर्य तरणात्तस्माद्गत्वा संगृह्य तद्धनम् । ततः कतिपयाहोभिः संयुक्तः कालधर्मणा
他从那船上渡出,前去收拢那笔财富。随后不过数日,便遭逢时序所定——死亡不可违的法则。
Verse 70
गतो यमपुरं घोरं गृहीतो यमकिंकरैः । स नीतस्तेन मार्गेण यत्र संतपते रविः
他被阎摩的使者擒拿,来到可怖的阎摩之城。又被押着走上那条道路,在那里烈日以折磨般的热焰灼烧。
Verse 71
कृत्वा द्वादशधात्मानं सम्प्राप्ते प्रलये यथा । सुतीक्ष्णाः कण्टका यत्र यत्र श्वानः सुदारुणाः
仿佛他的身心被分裂为十二分,如同劫末溃散之时,他进入那片地域:刀锋般的荆棘遍地丛生,转瞬之间处处皆有凶猛可怖的恶犬。
Verse 72
तीक्ष्णदंष्ट्रा महाव्याला व्याघ्रा यत्र महावृकाः । सुतप्ता वालुका यत्र क्षुधा तृष्णा तमो महत्
那里有巨蛇,獠牙如刃;也有猛虎与巨狼。那里的沙地炽热灼烫,饥饿、干渴与深沉黑暗一并笼罩。
Verse 73
पानीयस्य कथा नास्ति न छाया नाश्रमः क्वचित् । अन्नं पानीयसहितं यावत्तद्दीयते विषम्
那里连饮水之事都无从谈起,处处无荫亦无歇息之所;而所给的一切食物与水,尽皆是毒。
Verse 74
छायां संप्रार्थमानानां भृशं ज्वलति पावकः । तैर्दह्यमाना बहुशो विलपन्ति मुहुर्मुहुः
凡乞求一丝阴凉者,火焰反而燃得更烈;被它一次又一次灼烧,他们反复哀号,声声不绝。
Verse 75
हा भ्रातर्मातः पुत्रेति पतन्ति पथि मूर्छिताः । इत्थंभूतेन मार्गेण स गीतो यमकिंकरैः
他们哭喊着“哀哉,兄弟!母亲!儿子!”,在路上昏厥倒下。沿着这般道路,他被阎摩的使者驱赶着前行。
Verse 76
यत्र तिष्ठति देवेशः प्रजासंयमनो यमः । ते द्वारदेशे तं मुक्त्वाचक्षुर्यमकिंकराः
在主宰——阎摩,众生的约束者与统御者——所居之处,阎摩的使者就在门前放开他,并禀告其事。
Verse 77
बद्ध्वा तं गलपाशेन ह्यासीनं मित्रघातिनम् । अवधारय देवेश बुध्यस्व यदनन्तरम्
他们以套索缚住那弑友者的咽喉,使其坐下,说道:“大主啊,请垂察,明了下文。”
Verse 78
यम उवाच । न तु पूर्वं मुखं दृष्टं मया विश्वासघातिनाम् । ये मित्रद्रोहिणः पापास्तेषां किं शासनं भवेत्
阎摩说道:“我从未见过那些背信之人的面目。对这些背叛朋友的罪人,应施以何等刑罚?”
Verse 79
ऋषयोऽत्र विचारार्थं नियुक्ता निपुणाः स्थिताः । ते यत्र ब्रुवते तत्र क्षिपध्वं मा विचार्यताम्
(阎摩说:)“此处有精通之圣贤,奉命裁断。无论他们指向何处,立刻将他投入其间——不必再议。”
Verse 80
इत्युक्तास्ते तमादाय किंकराः शीघ्रगामिनः । मुनीशांस्तत्र तानूचुस्तं निवेद्य यमाज्ञया
奉此吩咐,那些疾行的使者将他带走,来到那里的诸大牟尼前;把他呈上后,依阎摩之命而陈述。
Verse 81
द्विजा अनेन मित्रं स्वं प्रसुप्तं निशि घातितम् । विश्वस्तं धनलोभेन को दण्डोऽस्य भविष्यति
(他们说:)“噢,二次生的圣者们,此人因贪恋财物,在夜里杀害了自己信任他、熟睡的朋友。应受何等惩罚?”
Verse 82
मुनय ऊचुः । अदृष्टपूर्वमस्माभिर्वदनं मित्रघातिनाम् । कृत्वा पटान्तरे ह्येनं शृण्वन्तु गतिमस्य ताम्
牟尼们说:“我们从未见过弑友之人的面容。把此人置于帷幕后,让使者们听闻他将至的归宿。”
Verse 83
ते शास्त्राणि विचार्याथ ऋषयश्च परस्परम् । आहूय यमदूतांस्तानूचुर्ब्राह्मणपुंगवाः
随后,诸仙相互参详诸论典,那些最尊胜的婆罗门圣者召来阎摩使者,对他们开示。
Verse 84
आलोकितानि शास्त्राणि वेदाः साङ्गाः स्मृतीरपि । पुराणानि च मीमांसा दृष्टमस्माभिरत्र च
“我们已考察诸论典——具诸支分的吠陀、诸《忆念》(Smṛti)、诸《往世书》(Purāṇa),以及弥曼萨(Mīmāṃsā);于此事中,我们已判明当依之法则。”
Verse 85
ब्रह्मघ्ने च सुरापे च स्तेये गुर्वङ्गनागमे । निष्कृतिर्विहिता शास्त्रे कृतघ्ने नास्ति निष्कृतिः
对于杀害婆罗门者、饮酒者、盗窃者,以及侵犯上师之妻者,经典皆规定有赎罪之法;唯独对忘恩负义的背叛者,毫无赎罪可言。
Verse 86
ये स्त्रीघ्नाश्च गुरुघ्नाश्च ये बालब्रह्मघातिनः । विहिता निष्कृतिः शास्त्रे कृतघ्ने नास्ति निष्कृतिः
即便是杀害妇女者、弑师者,以及杀害年幼婆罗门者,经典也制定了赎罪之法;然而对忘恩负义的背叛者,却无赎罪可施。
Verse 87
वापीकूपतडागानां भेत्तारो ये च पापिनः । उद्यानवाटिकानां च छेत्तारो ये च दुर्जनाः
那些毁坏水井、阶井与池塘的罪人,以及砍伐果园与园圃的恶人——(即便对这等罪过,经典亦有其果报与分类之说)。
Verse 88
दावाग्निदाहका ये च सततं येऽसुहिंसकाः । न्यासापहारिणो ये च गरदाः स्वामिवञ्चकाः
纵火焚林者、恒常伤害众生者、侵吞托付之物者、施毒者,以及欺骗自己主人的人——(这些也都被列入罪人之中)。
Verse 89
मातापितृगुरूणां च त्यागिनो दोषदायिनः । स्वभर्तृवञ्चनपरा या स्त्री गर्भप्रघातिनी
那些抛弃母亲、父亲与上师,反而将过失归咎于他们的人;以及一心欺骗丈夫、毁坏胎藏(堕胎)的女子——(这些也都算作罪犯)。
Verse 90
विवेकरहिता या स्त्री यास्नाता भोजने रता । द्विकालभोजनरतास्तथा वैष्णववासरे
那缺乏明辨的女子,未沐浴却贪恋饮食;以及喜好一日两餐者——即便在毗湿奴派的圣日(Vaiṣṇava 日)亦然——同样受谴责。
Verse 91
तासां स्त्रीणां गतिर्दृष्टा न तु विश्वासघातिनाम् । विश्वासघातिनां पुंसां मित्रद्रोहकृतां तथा
那些女子的归宿尚可见而知;但背信之人的归宿却不可得见——那些男子毁坏信任,并对朋友行背叛之事。
Verse 92
तेषां गतिर्न वेदेषु पुराणेषु च का कथा । इति स्थितेषु पापेषु गतिरेषां न विद्यते
对这等人,连《吠陀》中也不曾教示其归依之所——更何况《往世书》?因此,当他们执著于罪业之时,便无有可救之途。
Verse 93
नान्या गतिर्मित्रहनने विश्वस्तघ्ने च नः श्रुतम् । इतो नीत्वा यमदूता एनं विश्वस्तघातिनम्
我们未曾听闻:杀害朋友者,或杀害信赖自己之人者,尚有别的归宿。因此,阎摩的使者将这背信之徒从此处带走……
Verse 94
कल्पकोटिशतं साग्रं पर्यायेण पृथक्पृथक् । नरकेषु च सर्वेषु त्रिंशत्कोटिषु संख्यया
历经百俱胝劫乃至更久——轮番而行,逐一又逐一——他被迫受尽一切地狱之苦,其数目计为三十俱胝。
Verse 95
क्षिप्यतामेष मित्रघ्नो विचारो मा विधीयताम् । इति ते वचनं श्रुत्वा किंकरास्तं निगृह्य च
“把这弑友之人投下去——不必再作思量!”侍从听罢此言,便将他擒住,牢牢制住。
Verse 96
यत्र ते नरका घोरास्तत्र क्षेप्तुं गतास्ततः । ते तमादाय हि नरके घोरे रौरवसंज्ञिते
于是他们前往那诸般可怖地狱之处,要将他投入其中。带着他,他们把他押到名为“劳罗婆”(Raurava)的恐怖地狱。
Verse 97
चिक्षिपुस्तत्र पापिष्ठं क्षिप्ते रावोऽभवन्महान् । नरकस्थितभूतेषु मोक्तव्यो नैष पापकृत्
他们在那里把最罪恶者掷入;他一落下,便爆发出巨大的哀号。在地狱中受拘的众生之间,此作恶者不可释放。
Verse 98
अस्य संस्पर्शनादेव पीडा शतगुणा भवेत् । यथा व्यथासिकाष्ठैश्च समिद्धैर्दहनात्मकैः
仅仅触及他,痛苦便会增至百倍——如同被猛烈燃起、令人剧痛的柴薪所灼烧一般。
Verse 99
भवति स्पर्शनात्तस्य किमेतेन कृतामलम् । यथा दुर्जनसंसर्गात्सुजनो याति लाघवम्
与他一接触便会如此——更何况他所造成的污秽呢?正如与恶人相交,连善人也会被拖累而卑下。
Verse 100
सन्निधानात्तथास्याशु क्षते क्षारावसेचनम् । प्रसादः क्रियतामाशु नीयतां नरकेऽन्यतः
仅因他靠近,仿佛有人迅速将碱液倾入伤口。请立刻施恩——把他带往另一处地狱。
Verse 101
एवमुक्तास्ततस्तैस्तु गतास्ते त्वशुचिं प्रति । तत्र ते नारकाः सन्ति पूर्ववत्तेऽपि चुक्रुशुः
他们如此吩咐后,那些差役便走向不净之处。那里也有地狱众生,仍如先前一般,他们也哀号呼喊。
Verse 102
एवं ते किंकराः सर्वे पर्यटन्नरकमण्डले । नरकेऽपि स्थितिस्तस्य नास्ति पापस्य दुर्मतेः
于是那些差役在地狱的轮域中四处奔走;因为那罪人心怀恶念,竟连在地狱里也没有一处固定的停留。
Verse 103
यदा तदा तु ते सर्वे तं गृह्य यमसन्निधौ । गत्वा निवेद्य तत्सर्वं यदुक्तं नारकैर्नरैः । नरके न स्थितिर्यस्य तस्य किं क्रियतां वद
随后在某一时刻,他们一齐擒住他,来到阎摩之前,将地狱之众所说的一切尽皆禀告:“连在地狱也无固定处所者,当如何处置?请告知我们。”
Verse 104
यम उवाच । पापिष्ठ एष वै यातु योनिं तिर्यङ्निषेविताम् । कालं मुनिभिरुद्दिष्टः तिर्यग्योनिं प्रवेश्यताम्
阎摩说道:“此极恶之罪人,确应投生于群兽所趋之胎。依诸圣贤所指示的期限,让他进入畜生之生。”
Verse 105
एवमुक्ते तु वचने प्रजासंयमनेन च । स गतः कृमितां पापो विष्ठासु च पृथक्पृथक्
当那位约束众生者说出这些话时,那罪人便堕为虫蛆之身——各自分散,落在不同的粪秽堆中。
Verse 106
ततोऽसौ दंशमशकान् पिपीलिकसमुद्भवान् । यूकामत्कुणकाढ्यांश्च गत्वा पक्षित्वमागतः
随后他又化作叮咬的蝇与蚊,生于蚁群之中;并且满身虱与臭虫,终而得成鸟身之态。
Verse 107
स्थावरत्वं गतः पश्चात्पाषाणत्वं ततः परम् । सरीसृपानजगरवराहमृगहस्तिनः
其后他堕入不动众生之境,复又更进一步成石之态;继而(又历经)爬行之类、巨蟒、野猪、鹿与大象等诸生。
Verse 108
वृकश्वानखरोष्ट्रांश्च सूकरीं ग्रामजातिकाम् । योनिमाश्वतरीं प्राप्य तथा महिषसम्भवाम्
他又成为狼、狗、驴与骆驼;并入于村中饲养的母猪之胎。又得为骡之生,亦复转生为水牛。
Verse 109
एताश्चान्याश्च बह्वीर्वै प्राप योनीः क्रमेण वै । स ता योनीरनुप्राप्य धुर्योऽभूद्भारवाहकः
如是诸胎及其他无数之胎,他依次受生。历经那些生门之后,他成了负轭之畜,专为驮载重担。
Verse 110
स गृहे पार्थिवेशस्य धार्मिकस्य यशस्विनः । स दृष्ट्वा कार्त्तिकीं प्राप्तामेकदा नृपसत्तमः
他出生在一位正法而有名望的国王之家。一次,那位最上之王见到神圣的迦尔提迦月(Kārttikī)已至,便留意起来。
Verse 111
पुरोहितं समाहूय ब्राह्मणांश्च तथा बहून् । न गृहे कार्त्तिकीं कुर्यादेतन्मे बहुशः श्रुतम्
他召来自己的祭司(purohita)以及许多婆罗门,说道:“迦尔提迦月的戒行不应在家中举行——此言我屡次听闻。”
Verse 112
समेताः कुत्र यास्याम इति ब्रूत द्विजोत्तमाः । यो गृहे कार्त्तिकीं कुर्यात्स्नानदानादिवर्जितः
“既已聚集,请告诉我——我们当往何处去,婆罗门中的至上者啊?因为若有人只在家中守持迦尔提迦月,而舍弃沐浴、布施等诸行……”
Verse 113
संवत्सरकृतात्पुण्यात्स बहिर्भवति श्रुतिः । तस्मात्सर्वप्रयत्नेन तीर्थं सर्वगुणान्वितम्
“依传统所闻之圣教,他将失去一年所积功德之果报。因此,应竭尽全力,寻求具足一切吉祥德相的圣地渡口(tīrtha)。”
Verse 114
सहितास्तत्र गच्छामः स्नातुं दातुं च शक्तितः । एवमुक्ते तु वचने पार्थिवेन द्विजोत्तमाः
“让我们一同前往那里——依各自之力沐浴并行布施。”国王说完这番话后,那些卓越的婆罗门……
Verse 115
ऊचुः श्रेष्ठं नृपथेष्ठ रेवाया उत्तरे तटे । भारेश्वरेति विख्यातं मुक्तितीर्थं नृपोत्तम
他们说:“噢,行王道而为人所敬的国王,最殊胜之处在瑞瓦河(Revā)北岸;此地名闻为婆雷湿伐罗(Bhāreśvara),乃赐解脱之圣渡处(tīrtha),噢,诸王之最。”
Verse 116
तत्र यामो वयं सर्वे सर्वपापक्षयावहम् । एवमुक्तः स नृपतिर्गृहीत्वा प्रचुरं वसु
“让我们众人都去那里;它能灭尽一切罪业。”国王闻言,便携取丰厚财物以作布施……
Verse 117
शकटं संभृतं कृत्वा तत्र युक्तः स धूर्वहः । यः कृत्वा मित्रहननं गोयोनिं समुपागतः
他将车乘备办周全,便启程上路,车已套好牵引之畜。其中有一头役畜,因曾杀害友人,遂堕得牛胎之生。
Verse 118
इत्थं स नर्मदातीरे सम्प्राप्तस्तीर्थमुत्तमम् । गत्वा चतुर्दशीदिने ह्युपवासकृतक्षणः
如是他抵达那尔摩陀河(Narmadā)岸边的最胜圣渡处(tīrtha)。他在月相第十四日(caturdaśī)到达,并于其时守持斋戒。
Verse 119
गत्वा स नर्मदातीरे नाम रुद्रेत्यनुस्मरन् । शुचिप्रदेशाच्च मृदं मन्त्रेणानेन गृह्यताम्
前往那尔摩陀河岸,忆念“鲁陀罗(Rudra)”之名,当以此真言从清净之处取土(泥土)。
Verse 120
उद्धृतासि वराहेण रुद्रेण शतबाहुना । अहमप्युद्धरिष्यामि प्रजया बन्धनेन च
“你曾被野猪化身婆罗诃所举起——被百臂的鲁陀罗所救拔。我亦将自救自拔,并与子嗣及系缚我的诸缚一同得度。”
Verse 121
स एवं तां मृदं नीत्वा मुक्त्वा तीरे तथोत्तरे । ददर्श भास्करं पश्चान्मन्त्रेणानेन चालभेत्
如是取了那圣土,复将其安置于河岸——北岸之上——随后瞻仰日神;其后当以此真言触礼并奉献敬拜。
Verse 122
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । मृत्तिके हर मे पापं जन्मकोटिशतार्जितम्
大地啊,因马蹄、车轮与毗湿奴之足迹而成圣;圣土啊,愿你除去我在亿万百千万生中所积聚的罪垢。
Verse 123
तत एवं विगाह्यापो मन्त्रमेतमुदीरयेत् । त्वं नर्मदे पुण्यजले तवाम्भः शङ्करोद्भवम्
随后如法入水,当诵此真言:“那尔摩达啊,你是圣水之流;你的水源出自商羯罗(湿婆)。”
Verse 124
स्नानं प्रकुर्वतो मेऽद्य पापं हरतु चार्जितम् । स स्नात्वानेन विधिना संतर्प्य पितृदेवताः
愿我今日行此沐浴时,所积诸罪悉皆消除。既依此法沐浴已,当以供献使祖灵(Pitṛ)与诸天神欢喜满足。
Verse 125
ययौ देवालयं पश्चादुपहारैः समन्वितः । भक्त्या संचिन्त्य सान्निध्ये शङ्करं लोकशङ्करम्
随后,他携带供品前往神庙;并以虔敬之心,在圣前观想商羯罗(Śaṅkara)——诸世界的护佑者。
Verse 126
पुराणोक्तविधानेन पूजां समुपचक्रमे । पूजाचतुष्टयं देवि शिवरात्र्यां निगद्यते
他依照《往世书》所说的仪轨开始礼拜。女神啊,在湿婆夜(Śivarātri)规定有四重供奉之法。
Verse 127
संस्नाप्य प्रथमे यामे पञ्चगव्येन शङ्करम् । घृतेन पूरणं पश्चात्कृतं नृपवरेण तु
在夜的第一更,他以五牛圣品(pañcagavya)为商羯罗沐浴;随后,这位杰出的国王又以酥油行涂抹灌顶。
Verse 128
धूपदीपनैवेद्याद्यं संकल्प्य च यथाविधि । अर्घेणानेन देवेशं मन्त्रेणानेन शङ्करम्
他如法立下誓愿(saṅkalpa),并依规陈设香、灯与供品;以此阿尔伽(arghya)礼敬诸神之主,并以此真言礼敬商羯罗。
Verse 129
नमस्ते देवदेवेश शम्भो परमकारण । गृहाणार्घमिमं देव संसाराघमपाकुरु
向你顶礼,诸神之神的主宰,商婆(Śambhu),至上的本因。愿你受纳此阿尔伽,天神啊,并除去由尘世生存所生之罪垢。
Verse 130
वित्तानुरूपतो दत्तं सुवर्णं मन्त्रकल्पितम् । अग्निर्हि देवाः सर्वे सुवर्णं च हुताशनात्
应随自身财力布施黄金,并以真言加持而成圣。因为阿耆尼实为诸天之总摄,而黄金亦由护供之火——胡塔沙那(火神)而生。
Verse 131
अतः सुवर्णदानेन प्रीताः स्युः सर्वदेवताः । तदर्घं सर्वदा दातुः प्रीतो भवतु शङ्करः
因此,以黄金之施,诸天皆得欢喜。愿以此阿尔吉亚(供水礼献),常令商羯罗悦纳施主。
Verse 132
अनेन विधिना तेन पूजितः प्रथमे शिवः । यामे द्वितीये तु पुनः पूर्वोक्तविधिना चरेत्
依此所定之法,于夜之初更礼拜湿婆。至第二更时,应再依前述仪轨而行。
Verse 133
स्नापयामास दुग्धेन गव्येन त्रिपुरान्तकम् । तंदुलैः पूरणं पश्चात्कृतं लिङ्गस्य शूलिनः
他以牛乳沐浴三城摧灭者(湿婆);随后以米粒作充满之供献,奉于持三叉戟之主的林伽。
Verse 134
कृत्वा विधानं पूर्वोक्तं दत्तं वस्त्रयुगं सितम् । श्वेतवस्त्रयुगं यस्माच्छङ्करस्यातिवल्लभम्
既依前述仪则行毕,便奉上一对洁白衣裳;因为一对白衣为商羯罗所极爱。
Verse 135
प्रीतो भवति वै शम्भुर्दत्तेन श्वेतवाससा । यामं तृतीयं सम्प्राप्तं दृष्ट्वा नृपतिसत्तमः
确实,施献白色衣裳能令商布(Śambhu)欢喜。见第三更已至,最胜之王便继续前行。
Verse 136
देवं संस्नाप्य मधुना पूरणं चक्रिवांस्तिलैः । तिलद्रोणप्रदानं च कुर्यान्मन्त्रमुदीरयन्
以蜂蜜为神明沐浴后,他以芝麻完成供献。并在诵持真言之时,还应布施一德罗那(droṇa)之量的芝麻。
Verse 137
तिलाः श्वेतास्तिलाः कृष्णाः सर्वपापहरास्तिलाः । तिलद्रोणप्रदानेनु संसारश्छिद्यतां मम
芝麻——白芝麻、黑芝麻——芝麻确能除灭一切罪垢。以布施一德罗那(droṇa)之量的芝麻,愿我对轮回(saṃsāra)的系缚得以断除。
Verse 138
अनेन विधिना राजा यामिनीयामपूजनम् । अतिवाह्य विनोदेन ब्रह्मघोषेण जागरम्
依此仪轨,国王在夜间各更次中行供养礼。以虔敬之喜度过守夜,并以梵音般的吠陀圣声诵唱相伴。
Verse 139
चकार पूजनं शम्भोर्बहुपुण्यप्रसाधकम् । ये जागरे त्रिनेत्रस्य शिवरात्र्यां शिवस्थिताः
他为商布(Śambhu)行供养礼,此行能成就无量福德。凡于湿婆夜(Śivarātri)为三眼主守夜者,安住于湿婆、心念专注于祂者,
Verse 140
ते यां गतिं गताः पार्थ न तां गच्छन्ति यज्विनः । पापानि यानि कानि स्युः कोटिजन्मार्जितान्यपि
噢,帕尔塔啊,那些守持湿婆夜(Śivarātri)通宵警醒者所证得的境界,连行祭祀之人也难以到达。无论有何罪业——即便累积于千万生之中——
Verse 141
हरकेशवयोः स्नान्ति जागरे यान्ति संक्षयम् । यावन्तो निमिषा नृणां भवन्ति निशि जाग्रताम्
在守夜之中,与哈拉(Hara)与凯沙瓦(Keśava)相关的罪垢被洗净而趋于灭尽。因为人们在夜里保持清醒的每一个刹那,
Verse 142
निमिषे निमिषे राजन्नश्वमेधफलं ध्रुवम् । उपवासपराणां च देवायतनवासिनाम्
大王啊,每一刹那都必得阿湿婆梅陀(Aśvamedha)之果报;这是赐予专心持斋、并居住于神庙圣域之中的人。
Verse 143
शृण्वतां धर्ममाख्यानं ध्यायतां हरकेशवौ । न तां बहुसुवर्णेन क्रतुना गतिमाप्नुयुः
凡聆听此法(dharma)之叙述,并观想哈拉与凯沙瓦者,即此等灵性成就,纵以大量黄金行诸祭仪亦不能及。
Verse 144
शिवरात्रिस्तिथिः पुण्या कार्त्तिकी च विशेषतः । रेवाया उत्तरं कूलं तीरं भारेश्वरेति च
湿婆夜(Śivarātri)之月日(tithi)至为神圣,尤以迦尔蒂迦月(Kārttika)为甚。瑞瓦河(Revā)北岸亦以婆雷湿伐罗(Bhāreśvara)圣渡(tīrtha)而闻名。
Verse 145
जागृतश्चातिदुःखेन कथं पापं न हास्यति । इत्थंस जागरं कृत्वा शिवरात्र्यां नरेश्वरः
若人即使在极大艰苦中仍能守夜,罪业又怎会不减?因此,噢人中之主,于湿婆夜(Śivarātri)如是守此夜间警醒……
Verse 146
प्रभाते विमले गत्वा नर्मदातीरमुत्तमम् । स्नापितास्तेन ते सर्वे वाहनानि गजादयः
在清净的黎明,他前往那尔摩陀河(Narmadā)殊胜的河岸;并由他使一切坐骑——大象等——都得以沐浴。
Verse 147
यैस्तु वाहैर्गतस्तीर्थं स्नातोऽहं स्नापयामि तान् । तत्र मध्यस्थितः स्नातस्तिर्यक्त्वान्निर्गतो वणिक्
“我凭借何等坐骑抵达圣渡处(tīrtha)并沐浴,也要以同样的坐骑一并沐浴。”他在水流中央站立而浴;随后一位商人显现,已脱离畜生之身。
Verse 148
दानं ददौ तानुद्दिश्य किंचिच्छक्त्यनुरूपतः । तेन वाहकृताद्दोषान्मुक्तो भवति मानवः
他念及它们而施行布施(dāna),随其能力多少而行。由此,人便能解脱因役使坐骑与乘载而生的过失。
Verse 149
अन्यथासौ कृतो लाभः कृतो व्रजति तान् प्रति । संस्नाप्य तं ततो राजा स्वयं स्नात्वा विधानतः
否则,所得之利将成虚妄,反而转为对他们的不利。于是国王先依仪轨为他沐浴,随后国王自己也按正法仪式而浴。
Verse 150
संतर्प्य पितृदेवांश्च कृत्वा श्राद्धं यथाविधि । कृत्वा पिण्डान्पितृभ्यश्च वृषमुत्सृज्य लक्षणम्
先令祖灵(Pitṛ)与诸天(Deva)得以满足,并依仪轨完成施食祭(śrāddha);又向先祖奉献团食(piṇḍa)之后,便按法度放生一头作了标记的公牛。
Verse 151
गत्वा देवालयं पश्चाद्देवं तीर्थोदकेन च । संस्नाप्य पञ्चगव्येन ततः पञ्चामृतेन च
随后他前往神庙,以圣地(tīrtha)之圣水为神像沐浴;继而以五牛圣品(pañcagavya)行灌沐,又以五甘露(pañcāmṛta)再行灌沐。
Verse 152
सर्वौषधिजलेनैव ततः शुद्धोदकेन च । चन्दनेन सुगन्धेन समालभ्य च शङ्करम्
应先以浸有诸般药草的水为主沐浴,继而以净水再浴;并以芬芳檀香膏涂抹圣者商羯罗(Śaṅkara)。
Verse 153
कुङ्कुमैश्च सकर्पूरैर्गन्धैश्च विविधैस्तथा । पुष्पौघैश्च सुगन्धाढ्यैश्चतुर्थं लिङ्गपूरणम्
以朱砂香粉(kuṅkuma)、以樟脑,并以种种香料;又以成簇浓郁芬芳的花鬘花堆——此即第四种礼敬并庄严林伽(liṅga)之法。
Verse 154
कृतं नृपवरेणात्र कुर्वता पूर्वकं विधिम् । गोदानं च कृतं पश्चाद्विधिदृष्टेन कर्मणा
在此,这位上等之王依先行仪轨完成了预备之礼;其后又按法度所定之行持,施行赠牛之供养(godāna)。
Verse 155
धेनुके रुद्ररूपासि रुद्रेण परिनिर्मिता । अस्मिन्नगाधे संसारे पतन्तं मां समुद्धर
圣牛啊,你即是鲁陀罗之真形,由鲁陀罗所造。在这无底的轮回大海中,我正沉坠之时,愿你拔济我、令我出离。
Verse 156
धेनुं स्वलंकृतां दद्यादनेन विधिना ततः । क्षमाप्य देवदेवेशं ब्राह्मणान् भोजयेद्बहून्
随后依此仪轨,当施与一头庄严装饰之母牛;并向诸天之主祈求宽恕,供养众多婆罗门,使其饱足。
Verse 157
षड्विधैर्भोजनैर्भक्ष्यैर्वासोभिस्तान् समर्चयेत् । दक्षिणाभिर्विचित्राभिः पूजयित्वा क्षमापयेत्
当以六种饮食、诸般美味与衣服恭敬供奉他们;并以种种布施之礼金(dakṣiṇā)礼敬之后,再次祈求宽恕。
Verse 158
स स्वयं बुभुजे पश्चात्परिवारसमन्वितः । तामेव रजनीं तत्र न्यवसज्जगतीपतिः
其后,他与随从一同进食;就在那一夜,国土之主亦在彼处安宿。
Verse 159
तस्य तत्रोषितस्यैवं निशीथेऽथ नरेश्वर । आकाशे सोऽति शुश्राव दिव्यवाणीसमीरितम्
他如是住于彼处之时,至于半夜,哦大王,他清晰地听见虚空中传来所宣说的天上神音。
Verse 160
वागुवाच । राजन्समं ततो लोके फलं भवति साम्प्रतम् । संसारसागरे ह्यत्र पतितानां दुरात्मनाम्
声音说道:“大王,如今在世间,由彼行而生同等之果,赐予那些沉沦于此轮回之海的苦恼之魂。”
Verse 161
यदि संनिधिमात्रेण फलं तत्रोच्यते कथम् । यदि शंतनुवंशस्य तत्रोन्मादकरं भवेत्
“若说彼处之果仅由亲近而生,怎能如此?若真如此,则对商坦努一族反成狂乱迷惑之因。”
Verse 162
य एष त्वद्गृहे वोढा ह्यतिभारधुरंधरः । अनेन मित्रहननं पापं विश्वासघातनम्
“你家中这头负重之畜,能担极重之荷;它昔日曾造罪:杀害友人,此乃背信之恶业。”
Verse 163
कृतं जन्मसहस्राणामतीते परिजन्मनि । गतेन पाप्मनात्मानं नरकेषु च संस्थितिः
“因那前生所作之罪,历经千生万生,其魂堕入诸地狱界而久住其中。”
Verse 164
ततो योनिसहस्रेषु गतिस्तिर्यक्षु चैव हि । गोयोनिं समनुप्राप्तस्त्वद्गृहे स सुदुर्मतिः
“继而他又历经千胎万胎,流转于畜生之生;那心念邪曲者终得牛身,遂来到你家中。”
Verse 165
स्नापितश्च त्वया तीर्थे ह्यस्मिन् पर्वसमागमे । दृष्ट्वा पूजां त्वया कॢप्तां कृता जागरणक्रिया
在这神圣的渡口、逢节会聚之时,你为他沐浴。见你所设的供奉礼拜,他也修持守夜的仪轨。
Verse 166
तेन निष्कल्मषो जातो मुक्त्वा देहं तवाग्रतः । स्वर्गं प्रति विमानस्थः सोऽद्य राजन्गमिष्यति
由此他得以清净无垢;就在你眼前舍离其身。乘坐天车之上,他今日将往天界而去,哦,大王。
Verse 167
श्रीमार्कण्डेय उवाच । एवमुक्ते निपतितो धुर्यः प्राणैर्व्ययुज्यत । विमानवरमारूढस्तत्क्षणात्समदृश्यत
圣者摩尔甘德耶说道:话音既落,那负重之兽倒地,生命之息遂离。就在那一刹那,他乘上殊胜天车,以神圣之形显现。
Verse 168
स तं प्रणम्य राजेन्द्रमुवाच प्रहसन्निव
他向那位诸王之主顶礼后,仿佛含笑般开口说道。
Verse 169
वृष उवाच । भोभो नृपवरश्रेष्ठ तीर्थमाहात्म्यमुत्तमम् । यत्र चास्मद्विधस्तीर्थे मुच्यते पातकैर्नरः । मया ज्ञातमशेषेण मत्समो नास्ति पातकी
弗利沙说道:噢,诸王中最胜者!此圣地渡口的功德至为殊胜——在此,连我这般之人也能解脱罪业。我已彻底明了:世间再无与我同等的罪人。
Verse 170
अतः परं किं तु कुर्यां परं तीर्थानुकीर्तनम् । भवान्माता भवन्भ्राता भवांश्चैव पितामहः
除此之外,我还能做什么呢?唯有称颂这神圣的渡口(tīrtha)。你于我如母,如兄,亦实为祖父般的长者。
Verse 171
क्षन्तव्यं प्रणतोऽस्म्यद्य यस्मिंस्तीर्थे हि मादृशाः । गतिमीदृग्विधां यान्ति न जाने तव का गतिः
请宽恕我——我今日俯首顶礼。在此tīrtha,像我这样的人尚能得此归趣;我实在不知你的归趣将是何等境界。
Verse 172
समाराध्य महेशानं सम्पूज्य च यथाविधि । का गतिस्तव संभाष्या देह्यनुज्ञां मम प्रभो
如法供养并礼拜大自在天(Maheśāna,湿婆)之后,他说道:“与你与我言谈之后,你将作何行止?赐我许可吧,主啊。”
Verse 173
त्वरयन्ति च मां ह्येते दिविस्थाः प्रणयाद्गणाः । स्वस्त्यस्तु ते गमिष्यामीत्युक्त्वा सोऽन्तर्दधे क्षणात्
“这些住于天界的随从因爱怜而催我速行。愿吉祥与你同在;我将启程。”言毕,他刹那间隐没不见。
Verse 174
श्रीमार्कण्डेय उवाच । गते चादर्शनं तत्र स राजा विस्मयान्वितः । तीर्थमाहात्म्यमतुलं वर्णयन्स्वपुरं गतः
圣者马尔坎德耶说道:“当他离去并在彼处隐而不现时,国王满怀惊叹,返回本城,宣说那tīrtha无与伦比的功德与伟大。”
Verse 175
इत्थंभूतं हि तत्तीर्थं नर्मदायां व्यवस्थितम् । सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम्
诚然,此等圣地(tīrtha)安立于那尔玛达河畔:至上殊胜,能灭尽诸苦,令一切罪业消尽。
Verse 176
उपपापानि नश्यन्ति स्नानमात्रेण भारत । कार्त्तिकस्य चतुर्दश्यामुपवासपरायणः
噢,婆罗多啊,仅仅在彼处沐浴,诸小罪便得消灭。又于迦尔提迦月第十四日,当专心持斋。
Verse 177
चतुर्धा पूरयेल्लिङ्गं तस्य पुण्यफलं शृणु । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
当以四种方式充奉于林伽(liṅga);且听其功德之果。四大重罪为:杀婆罗门、饮酒醉物、盗窃,以及染指师尊之妻。
Verse 178
महापापानि चत्वारि चतुर्भिर्यान्ति संक्षयम् । सोऽश्वमेधस्य यज्ञस्य लभते फलमुत्तमम्
此四大罪,由彼四种修持而归于灭尽;其人得获马祭(Aśvamedha)之至上果报。
Verse 179
कार्त्तिके शुक्लपक्षस्य चतुर्दश्यामुपोषितः । स्वर्णदानाच्च तत्तीर्थे यज्ञस्य लभते फलम्
若于迦尔提迦月白半第十四日持斋,并在该圣地布施黄金,即得大祭之果德。
Verse 180
अष्टम्यां वा चतुर्दश्यां वैशाखे मासि पूर्ववत् । दीपं पिष्टमयं कृत्वा पितॄन् सर्वान् विमोक्षयेत्
或者在毗舍佉月的初八或十四日,如前所述:以面团制成灯盏,便能解脱一切祖先。
Verse 181
तत्र यद्दीयते दानमपि वालाग्रमात्रकम् । तदक्षयफलं सर्वमेवमाह महेश्वरः
在彼处所施之布施——纵如一根毫毛之尖——皆成不坏之果;此乃大自在天(湿婆)所言。
Verse 182
भारभूत्यां मृतानां तु नराणां भावितात्मनाम् । अनिवर्तिका गती राजञ्छिवलोकान्निरन्तरम्
大王啊,凡在婆罗婆底耶(Bhārabhūtyā)舍身、心已调伏而常修观照之人,其去路不可回转:他们不断无间地趋入湿婆之界。
Verse 183
अथवा लोकवृत्त्यर्थं मर्त्यलोकं जिगीषति । साङ्गवेदज्ञविप्राणां जायते विमले कुले
又若其愿为世间法度与行持而再来人间,则将生于清净之婆罗门家族,通达吠陀并诸辅学。
Verse 184
धनधान्यसमायुक्तो वेदविद्यासमन्वितः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम्
具足财宝与谷粮,成就吠陀之学,远离一切疾病,得享百个秋季(百年)之寿。
Verse 185
पुनस्तत्तीर्थमासाद्य ह्यक्षयं पदमाप्नुयात्
随后再次抵达那处圣地(tīrtha),他必将确实证得不朽之境。
Verse 186
एतत्पुण्यं पापहरं कथितं ते नृपोत्तम । भारतेदं महाख्यानं शृणु चैव ततः परम्
噢,诸王之最,此功德之说、能灭罪业者,已为你宣说。如今请再聆听这部承载于《婆罗多》传统中的宏大叙事。