Adhyaya 200
Avanti KhandaReva KhandaAdhyaya 200

Adhyaya 200

本章以对话体展开:圣者马尔坎德耶指出并赞颂“萨维特丽圣地”(Sāvitrī-tīrtha)为卓越的神圣渡口之地,继而回答尤提希提罗关于萨维特丽的请问——她的真实身份、观想其圣相的方法,以及礼敬供奉的途径。经文尊萨维特丽为“吠陀之母”(Veda-mātṛ),以莲华为象征,并依三次沙昙雅时分(黎明、正午、黄昏)规定相应的禅观与忆念,使修持与时间仪轨相契。 随后详述朝圣者的净化次第:沐浴与阿遮摩那(ācamana),以调息(prāṇāyāma)焚除积累之过失,以“Āpo hi ṣṭhā”真言洒净,并以阿伽摩尔沙那(Aghamarṣaṇa)及诸吠陀真言除垢灭罪。又强调在沙昙雅之后持诵伽雅特丽(Gāyatrī)之咒(japa)为核心法门,宣说其强大果报:罪业消除(pāpa-kṣaya)与得升高界。并进一步陈述在此圣地行祖先祭仪与临终守持之功德,终以死后尊胜境界与后续吉祥再生作结,语气严谨而具规范性。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । तस्यैवानन्तरं पार्थ सावित्रीतीर्थमुत्तमम् । यत्र सिद्धा महाभागा सावित्री वेदमातृका

圣者马尔坎德耶(Śrī Mārkaṇḍeya)说道:紧接其后,哦帕尔塔,便是至上的娑维特丽圣地(Sāvitrī Tīrtha);在那里,大福德的娑维特丽——吠陀之母——证得圆满成就。

Verse 2

युधिष्ठिर उवाच । सावित्री का द्विजश्रेष्ठ कथं वाराध्यते बुधैः । प्रसन्ना वा वरं कं च ददाति कथयस्व मे

玉提湿提罗说:尊贵的再生者之最啊,萨维特丽是谁?智者如何礼敬供奉她?她若欢喜,又赐何等恩愿?请为我宣说。

Verse 3

श्रीमार्कण्डेय उवाच । पद्मा पद्मासनस्थेनाधिष्ठिता पद्मयोगिनी । सावित्रतेजःसदृशी सावित्री तेन चोच्यते

圣者摩尔坎德耶说:她即莲华女神帕德玛——由莲座之主所安立,具莲华瑜伽女之主宰力。她的光辉与萨维特利(太阳神)相似,因此名为萨维特丽。

Verse 4

पद्मानना पद्मवर्णा पद्मपत्रनिभेक्षणा । ध्यातव्या ब्राह्मणैर्नित्यं क्षत्रवैश्यैर्यथाविधि

她面如莲华,色如莲华,目似莲瓣;婆罗门当日日观想于她,刹帝利与吠舍亦应依仪轨而修持。

Verse 5

ब्रह्महत्याभयात्सा हि न तु शूद्रैः कदाचन । उच्चारणाद्धारणाद्वा नरके पतति ध्रुवम्

因畏惧犯下“梵杀”(brahma-hatyā)之极重罪,此法不应为首陀罗所受持;若诵出或甚至携持,必定堕入地狱。

Verse 6

वेदोच्चारणमात्रेण क्षत्रियैर्धर्मपालकैः । जिह्वाछेदोऽस्य कर्तव्यः शूद्रस्येति विनिश्चयः

若首陀罗仅仅诵出吠陀,则由护持达摩的刹帝利割其舌;此为此处所下之定论。

Verse 7

बाला बालेन्दुसदृशी रक्तवस्त्रानुलेपना । उषःकाले तु ध्यातव्या सन्ध्या सन्धान उत्तमे

在黎明时分,应观想桑迪亚(Sandhyā)为一位少女,宛如初生的嫩月,身着红衣,涂抹香膏——此乃修持桑迪亚的最上法门。

Verse 8

उत्तुङ्गपीवरकुचा सुमुखी शुभदर्शना । सर्वाभरणसम्पन्ना श्वेतमाल्यानुलेपना

她胸脯高隆丰盈,面容端美,仪相吉祥;具足一切饰物,佩戴白色花鬘,并涂抹香膏。

Verse 9

श्वेतवस्त्रपरिच्छन्ना श्वेतयज्ञोपवीतिनी । मध्याह्नसन्ध्या ध्यातव्या तरुणा भुक्तिमुक्तिदा

她身披白衣,佩戴白色圣线;正午之时,应观想桑迪亚为青春之相,赐予世间受用与解脱(mokṣa)。

Verse 10

प्रदोषे तु पुनः पार्थ श्वेता पाण्डुरमूर्धजा । सुमृता तु दुर्गकान्तारे मातृवत्परिरक्षति

又在薄暮(pradoṣa)之时,哦帕尔塔(Pārtha),她洁白无瑕,发色淡雅。若能善念忆持,于艰险荒野之地,她如慈母般护佑。

Verse 11

विशेषेण तु राजेन्द्र सावित्रीतीर्थमुत्तमम् । स्नात्वाचम्य विधानेन मनोवाक्कायकर्मभिः

尤其是,哦诸王之最胜者,那至上的娑维特丽圣地(Sāvitrī-tīrtha):在彼处沐浴,并依仪轨行阿遮摩那(ācamana),以意、语、身之业而自净。

Verse 12

प्राणायामैर्दहेद्दोषान् सप्तजन्मार्जितान्बहून् । आपोहिष्ठेति मन्त्रेण प्रोक्षयेदात्मनस्तनुम्

应以调息(prāṇāyāma)焚尽七生所积诸多过失;并以起首为“Āpo hi ṣṭhā…”之真言,洒净自身之躯以求清净。

Verse 13

नवषट्च तथा तिस्रस्तत्र तीर्थे नृपोत्तम । आपोहिष्ठेति त्रिरावृत्य प्रतिग्राहैर्न लिप्यते

在那处圣地(tīrtha),大王之最胜者啊,当行九、六、三之数;若将“Āpo hi ṣṭhā…”诵三遍,则因受施(pratigraha)而不染。

Verse 14

अघमर्षणं त्र्यृचं तोयं यथावेदमथापि वा । उपपापैर्न लिप्येत पद्मपत्रमिवाम्भसा

无论依吠陀仪轨以三颂(三ṛc)行阿伽摩尔沙那(Aghamarṣaṇa)之法,或仅以清水简行之,亦不为小罪所染,如莲叶不为水所湿。

Verse 15

त्र्यापं हि कुरुते विप्र उल्लेखत्रयमाचरेत् । चतुर्थं कारयेद्यस्तु ब्रह्महत्यां व्यपोहति

婆罗门当行三重水仪,并修三次之“标记/诵持”法;而若再行第四次,则能遣除乃至梵杀(brahma-hatyā)之重罪。

Verse 16

द्रुपदाख्यश्च यो मन्त्रो वेदे वाजसनेयके । अन्तर्जले सकृज्जप्तः सर्वपापक्षयंकरः

《瓦加萨涅伊吠陀》中名为“Drupada”的真言,若于水中站立时哪怕诵念一次,亦能成就灭尽一切罪业。

Verse 17

उदुत्यमिति मन्त्रेण पूजयित्वा दिवाकरम् । गायत्रीं च जपेद्देवीं पवित्रां वेदमातरम्

以“Ud u tyam…”开头的真言礼敬太阳之后,应诵念女神伽雅特丽——净化者、诸吠陀之母。

Verse 18

गायत्रीं तु जपेद्देवीं यः सन्ध्यानन्तरं द्विजः । सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति

凡二次生者于三昧耶(Sandhyā)仪轨之后诵念女神伽雅特丽,便能脱离一切罪垢,得至梵天界(Brahma-loka)。

Verse 19

दशभिर्जन्मभिर्लब्धं शतेन तु पुराकृतम् । त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषम्

十生所积之罪,百量久远之前所作之过,乃至横亘三劫(yuga)之垢;伽雅特丽以充足的持诵,纵至千遍,亦能摧灭。

Verse 20

गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी

宁可为自律的婆罗门,纵仅知伽雅特丽之精髓;不如那不自持而通四吠陀者——无所不食,无所不卖。

Verse 21

सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते किंचिन्न तस्य फलभाग्भवेत्

弃置三昧耶(Sandhyā)者恒常不净,于一切仪式皆不堪任;其余所作诸事,亦不得分受其果报。

Verse 22

सन्ध्यां नोपासते यस्तु ब्राह्मणो मन्दबुद्धिमान् । स जीवन्नेव शूद्रः स्यान्मृतः श्वा सम्प्रजायते

那愚钝的婆罗门若不礼敬暮晨祈祷(Sandhyā),生时便堕如首陀罗;死后据说将转生为狗。

Verse 23

सावित्रीतीर्थमासाद्य सावित्रीं यो जपेद्द्विजः । त्रैविद्यं तु फलं तस्य जायते नात्र संशयः

到达娑毗特丽圣渡(Sāvitrī-tīrtha)后,二次生者若诵持娑毗特丽(伽雅特丽),必得三重吠陀学业之果;对此无疑。

Verse 24

पित्ःनुद्दिश्य यः स्नात्वा पिण्डनिर्वपणं नृप । कुरुते द्वादशाब्दानि तृप्यन्ति तत्पितामहाः

大王啊,凡在此圣地沐浴,并为祖先作意而献供食团(piṇḍa)者,若如此行满十二年,其先祖——尤指祖系之祖父辈——便得圆满满足。

Verse 25

सावित्रीतीर्थमासाद्य यः कुर्यात्प्राणसंक्षयम् । ब्रह्मलोकं वसेत्तावद्यावदाभूतसम्प्लवम्

凡至娑毗特丽圣渡(Sāvitrī Tīrtha)而于彼舍身者,将住于梵天界,直至终结众生轮回的宇宙大毁灭。

Verse 26

पूर्णे चैव ततः काल इह मानुष्यतां गतः । चतुर्वेदो द्विजो राजञ्जायते विमले कुले

当那(天界的)期限圆满,复归人间之时,大王啊,他将生于清净无瑕之家,成为通晓四部吠陀的二次生者。

Verse 27

धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

具足丰厚财宝与谷粮,得子孙满堂之福,远离疾病与忧苦,得享百个秋季之寿——圆满而长久的一生。

Verse 200

अध्याय

“章”(章末标记)。