Adhyaya 194
Avanti KhandaReva KhandaAdhyaya 194

Adhyaya 194

马尔坎ḍ耶向尤提施提罗讲述一连串神圣事迹:诸天听闻毗湿奴的毗湿瓦鲁帕(宇宙大身、viśvarūpa)被宣示,又见乌尔瓦希显现,皆惊叹不已。出自婆利古族系的室利(吉祥天女、拉克希米)立誓以严峻苦行求得那罗延为夫主,衡量誓戒、布施、律仪与侍奉之道;她在海滨修持千个天年。 诸天不能自行显现宇宙大身,遂往告那罗延;毗湿奴亲临室利之前,允其所愿,并示现宇宙大身。随后宣说近于《五夜》(Pañcarātra)式的奉爱教法:日日礼拜可得富饶与尊荣;梵行(brahmacarya)被称为根本苦行。神祇亦以“穆拉室利主”(Mūlaśrīpati)之名受敬;以节制之行沐浴于瑞瓦河水,可成就所求,并令布施功德倍增。 室利请求确立合乎法(dharma)的居家住期取向;那罗延遂立地名“那罗延吉里”(Nārāyaṇagiri),并说明忆念此名具救度之力。继而描绘天界婚礼与祭祀:梵天与诸仙为主祭,诸海献出珍宝,俱毗罗供给财富,毗湿瓦羯摩建造如宝石般的居所。故事末了,为阿瓦婆利他(avabhṛtha)沐浴而生一处圣渡:由毗湿奴足水流出清净之流,汇入瑞瓦,名为“天圣渡”(Devatīrtha),被赞为极其净化,其功德据说胜过许多马祭(aśvamedha)后的阿瓦婆利他沐浴。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । तच्छ्रुत्वानान्तदेवेन विश्वरूपमुदाहृतम् । देवराजस्तथा देवाः परं विस्मयमागताः

圣者马尔坎德耶(Śrī Mārkaṇḍeya)说道:听闻无量之神宣说其宇宙之相,天帝因陀罗(Indra)——诸天之王——以及诸神皆生起无比惊叹。

Verse 2

दृष्ट्वा चाप्सरसं पुण्यामुर्वशीं कमलाननाम् । संत्रस्तो विस्मितश्चाभूदिन्द्रो राजश्रिया वृतः

见到圣洁的天女乌尔瓦希,莲华般的容颜;因陀罗虽被王者荣光环绕,却同时惊惧战栗,亦满怀惊叹。

Verse 3

न किंचिदुत्तरं वाक्यमुक्तवाञ्जोषमास्थितः । इति वृत्तान्तभूतं हि नारायणविचेष्टितम्

他一句答言也未说,只默然无声。此实乃那罗延神圣作为之奇妙行迹,如今已成可述之事。

Verse 4

भृगोः खात्यां समुत्पन्ना लक्ष्मीः श्रुत्वा तु वै नृप । वैश्वरूपं परं रूपं विस्मिताचिन्तयत्तदा

大王啊,吉祥天女拉克什米——生于婆利古之女卡蒂——听闻那至上、遍一切的大神形相,惊异不已,继而深深思惟。

Verse 5

केनोपायेन स स्यान्मे भर्ता नारायणः प्रभुः । व्रतेन तपसा वापि दानेन नियमेन च

“以何方便,令主宰那罗延成为我的夫君——是以誓愿、以苦行、以布施,或以诸般戒律行持?”

Verse 6

वृद्धानां सेवनेनाथ देवताराधनेन वा । इति चिन्तापरां कन्यां सती ज्ञात्वा युधिष्ठिर

“或以侍奉长者,或以礼敬诸天?”于是,优提士提罗啊,贤德的萨蒂知那少女沉溺于此忧思,便洞悉其情状。

Verse 7

प्राह प्राप्तो मया भर्ता शङ्करस्तपसा किल । प्रजापतिश्च गायत्र्या ह्यन्याभिरभिवाञ्छिताः

她说:“确实,我以苦行(tapas)得到了湿婆(Śaṅkara)为夫;而以《伽耶特丽》(Gāyatrī)则可得生主(Prajāpati);同样,其他所愿之果,也由其他修持而得。”

Verse 8

तपसैव हि ते प्राप्यस्तस्मात्तच्चर सुव्रते । तपस्त्वं हि महच्चोग्रं सर्ववाञ्छितदायकम्

“因此,唯以苦行方可得之;故当修此,善誓之女。苦行广大而猛烈,确能赐予一切所愿。”

Verse 9

मार्कण्डेय उवाच । सागरान्तं समासाद्य लक्ष्मीः परपुरंजय । चचार विपुलं कालं तपः परमदुश्चरम्

马尔坎德耶说道:抵达大海尽头的彼岸后,吉祥天女拉克希米——噢,征服敌城者——长久修行极其难行的至上苦行。

Verse 10

स्थाणुवत्संस्थिता साभूद्दिव्यं वर्षसहस्रकम् । तत इन्द्रादयो देवाः शङ्खचक्रगदाधराः

她如柱般不动,安住了一千个天界之年。随后,因陀罗等诸天,手持海螺、神轮与金刚杵(钉头槌),来到那里。

Verse 11

भूत्वा जग्मुस्तदर्थं ते सा तु पृष्टवती सुरान् । विश्वरूपं वैष्णवं यत्तद्दर्शयत माचिरम्

诸天为此目的化作那般形相而来。她却问诸天神:“请勿迟延,向我显现那毗湿奴的宇宙大身——毗湿瓦鲁帕(Viśvarūpa)。”

Verse 12

विलक्षा व्रीडिता देवा गत्वा नारायणं तदा । अब्रुवन् वैश्वरूपं नो शक्ता दर्शयितुं वयम्

诸天困惑而惭愧,遂往诣那罗延那而白言:“我等无力示现宇宙之相(毗湿瓦鲁帕,Vaiśvarūpa)。”

Verse 13

ततो यथेष्टं ते जग्मुः स च विष्णुरचिन्तयत् । उग्ररूपा स्थिता देवी देहं दहति भार्गवी

于是他们随意离去。毗湿奴沉思道:“婆伽毗女神以威猛之相立于彼处,以苦行之热(tapas)焚灼自身。”

Verse 14

तां तस्मात्तत्र गत्वाहं वरं दत्त्वा तु वाञ्छितम् । पुनस्तपः करिष्यामि दर्शयिष्यामि वा पुनः । वैष्णवं विश्वरूपं यद्दुर्दश्यं देवदानवैः

“因此我当往彼处至她前,赐与其所愿之恩。随后我将再行苦行,并再度显现那毗湿奴之宇宙大相——纵使诸天与达那婆亦难得一见。”

Verse 15

मार्कण्डेय उवाच । ततो गत्वा हृषीकेशः सागरान्तस्थितां श्रियम् । प्राह तुष्टोऽस्मि ते देवि वरं वृणु यथेप्सितम्

马尔坎德耶说道:于是赫利希凯沙前往住于海滨的室利,对她言:“女神啊,我已悦纳于你;随你所愿,择取一愿。”

Verse 16

श्रीरुवाच । यदि तुष्टोऽसि मे देव प्रपन्नाया जनार्दन । तदा दर्शय यद्दृष्टमप्सरोभिस्तवानघ

室利说道:“若你悦纳于我,主啊——我既已归依于你,阇那尔达那啊——愿你示我天女(阿普萨拉)所曾得见之相,清净无垢者啊。”

Verse 17

विश्वरूपमनन्तं च भूतभावन केशव । गन्धमादनमासाद्य कृतं यच्च तपस्त्वया

“请示现宇宙之身与无尽之身,噢克舍婆,众生的养育者——那与你抵达甘达摩达那后所修苦行相应的圣见。”

Verse 18

तद्वदस्व विभो विष्णो न मिथ्या यदि केशव । श्रद्दधामि न चैवाहं रूपस्यास्य कथंचन

“因此请告诉我吧,遍一切处的毗湿奴——若这并非虚妄,噢克舍婆。我虽怀信心,却终究无法以任何方式真正领会此形相。”

Verse 19

बहुभिर्यक्षरक्षोभिर्मायाचारिप्रचारिभिः । छन्दिता मम जानद्भिर्भावमन्तर्गतं हरौ

“我曾被许多夜叉与罗刹所欺诳——他们以幻术与妖法四处游行;然而他们明知我真实的虔敬在内心深处已安住于诃利(毗湿奴)。”

Verse 20

भूत्वा विष्णुस्वरूपास्ते चक्रिणश्च चतुर्भुजाः । सुव्रीडिता गताः सर्वे विश्वरूपो सहायतः

“他们化作毗湿奴之相——执轮、四臂——尽皆羞惭而退;而毗湿婆卢波(宇宙之身的主)作为护佑与援助者,安然在侧。”

Verse 21

मार्कण्डेय उवाच । नारायणोऽथ भगवाञ्छङ्खचक्रगदाभृतम् । तया तथोक्तस्तद्रूपं मुक्त्वा वै सुरपूजितम्

马尔坎德耶说道:“于是,具足福德的那罗延那——执螺、执轮、执杵者——被她如此陈说后,便收摄并放下那为诸天所礼敬的形相。”

Verse 22

रूपं परं यथोक्तं वै विश्वरूपमदर्शयत् । दर्शयित्वा वचः प्राह पञ्चरात्रविधानतः

他如所请示现至上之相——宇宙的毗湿瓦鲁帕(Viśvarūpa);示现之后,又依《般遮罗多》(Pañcarātra)之法度而宣说言教。

Verse 23

योऽर्चयिष्यति मां नित्यं स पूज्यः स च पूजितः । धनधान्यसमायुक्तः सर्वभोगसमन्वितः

凡日日礼拜我者——彼当受敬亦得敬;具足财宝与谷粮,圆满诸般正当受用与福祉。

Verse 24

मूलं हि सर्वधर्माणां ब्रह्मचर्यं परं तपः । तेनाहं तत्र स्थास्यामि मूलश्रीपतिसंज्ञितः

梵行(brahmacarya)实为一切法之根本,乃至上苦行。故我将安住于彼处,以“穆拉室利主”(Mūlaśrīpati)之名而著称。

Verse 25

मूलश्रीः प्रोच्यते ब्राह्मी ब्रह्मचर्यस्वरूपिणी । सर्वयोगमयी पुण्या सर्वपापहरी शुभा

所谓穆拉室利(Mūlaśrī),即称为梵天女(Brāhmī),乃梵行之体;具足一切瑜伽之力,清净吉祥,能除尽诸罪。

Verse 26

पतिस्तस्याः प्रभुरहं वरदः प्राणिनां प्रिये । रेवाजले नरः स्नात्वा योऽर्चयेन्मां यतव्रतः

我乃其主亦其夫,为众生赐愿施恩者,亲爱者啊。凡人在瑞瓦(Revā)之水中沐浴后,复以持戒自制之誓而礼拜我者——

Verse 27

मूलश्रीपतिनामानं वाञ्छिते प्राप्नुयात्फलम् । दानानि तत्र यो दद्यान्महादानानि च प्रिये

——凭诵持“穆拉室利帕提(Mūlaśrīpati)”之名,便得所愿之果。凡在彼处施与供养者——乃至广大布施,卿所爱者——

Verse 28

सहस्रगुणितं पुण्यमन्यस्थानादवाप्यते । दृष्टं त्वया तत्र देशे सम्यक्चैवावधारितम् । तदर्चित्वा परान् कामानाप्स्यसि त्वं न संशयः

在彼处所得功德,较他处所获增至千倍。你已亲见那方圣地,并已如实领会。于彼处礼拜祂,你必得至上所愿——毫无疑虑。

Verse 29

वरं वृणीष्व देवेशि वाञ्छितं दुर्लभं सुरैः । दुर्गसंसारकान्तारपतितैः परमेश्वरि

噢女神,诸天之主宰——请择取一愿,所欲之赐,纵使诸天亦难得者。噢至上圣母,为堕入险恶轮回荒野之众生,(赐予救度之恩)。

Verse 30

श्रीरुवाच । नारायण जगद्धातर्नारायण जगत्पते । नारायण परब्रह्म नारायणपरायण

室利(Śrī)曰:噢那罗延那(Nārāyaṇa),扶持世界者;噢那罗延那,宇宙之主;噢那罗延那,至上梵——我唯以那罗延那为归依。

Verse 31

प्रसीद पाहि मां भक्त्या सम्यक्सर्गे नियोजय । प्रियो ह्यसि प्रियाहं ते यथा स्यां तत्तथा कुरु

愿垂慈悯;以我之虔敬护佑于我,并使我恰当地安置于造化之序。因你于我为至爱,我于你亦为至爱——愿你成就,使我如其所当。

Verse 32

गृहं धर्मार्थकामानां कारणं देव संमतम् । तदास्थायाश्रमं पुण्यं मां श्रेयसि नियोजय

居家之道为主所认可,乃成就法(dharma)、利(artha)与欲(kāma)之因。故愿依止此清净圣住(āśrama),令我安置于通向至上善的道路。

Verse 33

नारायण उवाच । नारायणगिरा देवि विज्ञप्तोऽस्मि यतस्त्वया । नारायणगिरिर्नाम तेन मेऽत्र भविष्यति

那罗延(Nārāyaṇa)曰:女神啊,既然你以“那罗延”之名向我祈请,我已受你所请;因此此地将有一座以我为名的圣山——那罗延吉利(Nārāyaṇagiri)。

Verse 34

नारायणस्मृतौ याति दुरितं जन्मकोटिजम् । यस्माद्गिरति तस्माच्च गिरिरित्येव शब्दितम्

忆念那罗延(Nārāyaṇa),亿万生所积之罪业皆得消散。又因其能“吞噬”(girati)彼等恶业,故名为“吉利”(giri,山)。

Verse 35

तस्मात्सर्वाश्रयो देवि गिरिः पर्वतराङ्भवेत् । सुरासुरमनुष्याणां यथाहमपि चाश्रयः

因此,女神啊,此山将成为一切众生之所依归,诸山之中最为尊胜;正如我亦为天众(deva)、阿修罗(asura)与人类之依怙。

Verse 36

य एतत्पूजयिष्यन्ति मण्डलस्थं परं मम । नारायणगिरिर्नाम देवरूपं शुभेक्षणे

凡礼敬我至上之形、安住于神圣曼荼罗(maṇḍala)者——此名为那罗延吉利(Nārāyaṇagiri)、具天相之圣地,善目者啊——

Verse 37

ते दिव्यज्ञानसम्पन्ना दिव्यदेहविचेष्टिताः । दिव्यं लोकमवाप्स्यन्ति दिव्यभोगसमन्विताः

他们具足神圣智慧,具备天身之妙用,必将证得天界净土,并同享诸天妙乐。

Verse 38

मार्कण्डेय उवाच । तयोरेवं संवदतोर्देवा इन्द्रपुरोगमाः । समागता वनोद्देशं सागरान्ते महर्षयः

马尔坎德耶说道:当二人如是交谈之时,诸天神众以因陀罗为首,哦大圣仙们,来到海滨的一处林野。

Verse 39

ततो भृगुं देवराजो नारायणविचिन्तितम् । वव्रे ज्ञात्वा तु तत्कन्यां धर्मात्मा स ददौ च ताम्

于是天神之王拣选了婆利古——那位为那罗延所思念并认可者。知晓此事后,那位正法之人便将女儿许配于他。

Verse 40

धर्मोऽपि विधिवद्वत्स विवाहं समकारयत् । देवदेवस्य राजर्षे देवतार्थे समाहितः

而达摩亦然,亲爱的啊,依正仪成办婚礼;哦王族圣仙,他专注于诸天与天中之天的旨意。

Verse 41

युधिष्ठिर उवाच । धर्मो विवाहमकरोद्विधिवद्यत्त्वयोदितम् । को विधिस्तत्र का दत्ता दक्षिणा भृगुणापि च

由提施提罗说道:你说达摩依仪轨主持了婚礼。那么当时的仪式程序为何?婆利古又献上了何等达克希那(供养礼金)?

Verse 42

विवाहयज्ञे समभूत्स्रुक्स्रुवग्रहणे च कः । ऋत्विजः के सदस्याश्च तस्यासन् द्विजसत्तम

在那场婚姻祭(yajña)中,执持圣勺 sruk 与 sruva 的主祭是谁?哪些人担任 ṛtvij 祭官,哪些人是 sadasya 学识渊博的会众成员?噢,最胜的二次生者。

Verse 43

किं तस्यावभृथं त्वासीत्तत्सर्वं वद विस्तरात् । त्वद्वाक्यामृतपानेन तृप्तिर्मम न विद्यते

那仪式的 avabhṛtha(终浴)是怎样的?请将一切详尽道来。即使饮尽你言语的甘露,我的满足仍未圆满。

Verse 44

मार्कण्डेय उवाच । नारायणविवाहस्य यज्ञस्य च युधिष्ठिर । तपसस्तस्य देवस्य सम्यगाचरणस्य च

马尔坎ḍeya说道:噢,Yudhiṣṭhira,关于那罗延(Nārāyaṇa)的婚礼与那场祭祀(yajña)——以及那位神圣者的苦行(tapas)与圆满无瑕的奉行——

Verse 45

वक्तुं समर्थो न गुणान्ब्रह्मापि परमेश्वरः । तथाप्युद्देशतो वच्मि शृणु भूत्वा समाहितः

即便是至上的主宰梵天(Brahmā),也不能尽述其功德之全。然我仍将略举其要;请你摄心谛听。

Verse 46

ब्रह्मा सप्तर्षयस्तत्र स्रुक्स्रुवग्रहणे रताः । अग्नीञ्जुहुविरे राजन्वेदिर्धात्री ससागरा

在那里,梵天(Brahmā)与七圣仙(Saptarṣi)专注于执持 sruk 与 sruva 圣勺。噢,大王,他们向圣火中倾注供献;大地连同诸海,竟成为祭坛。

Verse 47

ददुः समुद्रा रत्नानि ब्रह्मर्षिभ्यो नृपोत्तम । धनदोऽपि ददौ वित्तं सर्वब्राह्मणवाञ्छितम्

噢,诸王之最,诸海将珍宝赐予诸婆罗门仙(brahmarṣi);财主天神达那达(俱毗罗,Kubera)亦赐财富——凡婆罗门所愿,悉皆具足。

Verse 48

विश्वकर्माऽपि देवानां ब्रह्मर्षीणां परंतप । वेश्मानि सुविचित्राणि सर्वरत्नमयानि च

又有毗湿瓦羯磨(Viśvakarmā),噢,降敌者,为诸天与诸婆罗门仙建造奇妙宫殿,皆由万种宝石所成。

Verse 49

कृत्वा प्रदर्शयामास देवेन्द्राय यशस्विने । शतक्रतुस्ततो विप्रान्कापिष्ठलपुरोगमान्

既成之后,他将其呈示于光辉的天帝因陀罗。随后,百祭主(Śatakratu,因陀罗)又将其示与以迦毗湿吒罗(Kāpiṣṭhala)为首的婆罗门圣贤。

Verse 50

शौनकादींश्च पप्रच्छ बष्कलाञ्छागलानपि । आत्रेयानपि राजेन्द्र वृणुध्वमभिवाञ्छितम्

他又询问商那迦(Śaunaka)等人,以及跋湿迦罗(Baṣkala)、遮伽罗(Chāgala)诸族;亦问阿特雷耶(Ātreya)诸贤,噢,王中之最:“随意选择你们所愿。”

Verse 51

दृष्ट्वा ते चित्ररत्नानि प्राहुः सर्वेश्वरेश्वरम् । देवानां च ऋषीणां च सङ्गमोऽयं सुपुण्यकृत्

见到那些奇妙珍宝,他们对万主之主说道:“诸天与圣仙(ṛṣi)在此会聚,乃至极殊胜、能生无上福德的圣会。”

Verse 52

अस्मिन्पुण्ये सुरेशान वस्तुं वाञ्छामहे सदा । शतक्रतुः प्राह पुनर्वासो वात्र भविष्यति । सत्यधर्मरता यूयं यावत्कालं भविष्यथ

“在这圣地中,诸天之主啊,我们愿永远居住于此。”释多迦图(因陀罗)答道:“诚然,只要你们恒常安住于真实与法(达摩),你们便将一次又一次在此得居所。”

Verse 53

मार्कण्डेय उवाच । पृष्टं यद्राजशार्दूल के मखे होत्रिणोऽभवन् । तत्प्रोच्यमानमधुना शृणु भूत्वा समाहितः

马尔坎德耶说道:“王中之虎啊,你问那场祭祀中担任祭官的婆罗门是谁。如今请你摄心专注,听我为你叙述。”

Verse 54

सनत्कुमारप्रमुखाः सदस्यास्तस्य चाभवन् । औद्गात्रमत्र्यङ्गिरसौ मरीचिश्च चकार ह

以善达库玛罗为首的诸圣者,皆为那次仪式的会众成员。此处的优歌多梨(Udgātṛ,诵唱《娑摩》者)之职,由阿特里与安吉罗娑担任,摩利支亦同作之。

Verse 55

हौत्रं धर्मवसिष्ठौ च ब्रह्मत्वं सनको मुनिः । षट्त्रिंशद्ग्रामसाहस्रं प्रादात्तेभ्यः शतक्रतुः

达摩与婆悉吒担任呼多梨(Hotṛ,诵《梨俱》者)之职;圣者萨那迦执掌梵祭师(Brahman),为仪轨之总监。释多迦图(因陀罗)赐予他们三万六千个村庄。

Verse 56

लक्ष्मीर्भर्त्रा च संयुक्ताभवत्तत्कृतवान्प्रभुः । ब्रह्मणो जुह्वतो वह्निं यावद्देशस्थितैः सुरैः

由此作为,主宰成就其事:吉祥天女拉克希米与其夫主得以合一。又当梵天倾注供献之时,遍布诸方、驻于各地的天众共同护持并见证那圣火。

Verse 57

दृष्टं ललाटं देशोऽसौ ललाट इति संज्ञितः । स देशः श्रीपतेः क्षेत्रपुण्यं देवर्षिसेवितम्

那一方地域被视作“额”(lalāṭa),因此得名“拉拉塔”(Lalāṭa)。此地乃圣主Śrīpati之福德圣域(kṣetra),为诸天与圣仙(ṛṣi)所常来礼敬侍奉。

Verse 58

सर्वाश्चर्यमयं दिव्यं दिव्यसिद्धिसमन्वितम् । ब्राह्मणानां ततः पङ्क्तिं निवेशयितुमुद्यता

彼处一切皆奇妙无比——神圣而具天界成就(siddhi)。随后他们准备将婆罗门(brāhmaṇa)按行列安坐,以行供养与敬礼。

Verse 59

लक्ष्मीः श्रीपतिनामानमाह देवं वचस्तदा श्रीरुवाच । य एते ब्राह्मणाः शिष्या भृग्वादीनां यतव्रताः

吉祥天女拉克什米(Lakṣmī)对名为Śrīpati的世尊说道:“此处这些婆罗门,乃婆利古(Bhṛgu)等诸圣仙之弟子,坚住于克制之誓戒。”

Verse 60

तान्निवेशयितुमिच्छामि त्वत्प्रसादादधोक्षज । मरीच्यादयः सुरेन्द्रेण स्थापिता गरुडध्वज

“凭你的恩德,哦超越感官之主(Adhokṣaja),我愿将他们安置于此。摩利支(Marīci)等诸圣仙,乃由天帝所安立;哦以迦楼罗为旌旗者(Garuḍadhvaja)。”

Verse 61

नैष्ठिकव्रतिनो विप्रा बहवोऽत्र यतव्रताः । प्राजापत्ये व्रते ब्राह्मे केचिदत्र व्यवस्थिताः । तानहं स्थापयिष्यामि त्वत्प्रसादादधोक्षज

“此处有许多婆罗门,坚守终身之誓与自制之行。有的安住于生主誓(Prajāpatya-vrata),有的安住于梵誓(Brahma-vrata)。凭你的恩德,哦阿多克沙阇(Adhokṣaja),我将使他们在此如法安立。”

Verse 62

मार्कण्डेय उवाच । ततः कौतूहलधरो भगवान्वृषभध्वजः । पप्रच्छ व्रतिनः सर्वान्वृत्तिभेदे व्यवस्थितान्

马尔坎德耶说道:随后,具牛旗之圣尊、福德自在的主,怀着好奇,询问一切持戒立誓者——他们各自安住于不同的生计与行持之别。

Verse 63

नारदोऽपि महादेवमुपेत्य च सतीपतिम् । प्राह कृष्णाजिनधरो नैष्ठिका ब्राह्मणा ह्यमी

那罗陀也走近大天(摩诃提婆)、萨蒂之主,并身披黑羚羊皮说道:“这些婆罗门确为naiṣṭhika——终身誓愿坚固不移者。”

Verse 64

अमी कार्याः सुवस्त्रेण छन्नगुह्या द्विजोत्तमाः । प्राजापत्याश्चतुर्विंशसहस्राणि नरेश्वर

“这些最胜的二生者当赐以善衣,使其隐处得以端正遮覆。遵行Prajāpatya戒律者,共二万四千,噢人中王。”

Verse 65

ब्रह्मचर्यव्रतस्थानां व्रतब्रह्मविचारिणाम् । द्वादशैषां सहस्राणि सन्ति वै वृषभध्वज

“又有安住于梵行誓(brahmacarya)者——思惟圣戒与梵(Brahman)者——实有一万二千,噢牛旗之主。”

Verse 66

नारदस्य वचः श्रुत्वा देवा देवर्षयोऽपि च । साधु साध्वित्यमन्यन्त नोचुः केचन किंचन

诸天与天仙闻那罗陀之言,也都称善,心念“善哉,善哉”,无一人提出丝毫异议。

Verse 67

समाह्वयत्ततो लक्ष्मीस्तान् विप्रान् भक्तिसंयुता । उवाच चरणान्गृह्य प्रसादः क्रियतां मयि

于是,充满虔敬的拉克什米召唤那些婆罗门,执其足而说道:“愿诸位垂怜于我,赐我慈恩与悦纳。”

Verse 68

षट्त्रिंशच्च सहस्राणि वेश्मनामत्र संस्थितिः । विश्वकर्मकृतानां तु तेषु तिष्ठन्तु वोऽखिलाः

“此处备有三万六千所居舍;愿诸位都住在毗湿瓦羯摩所造的房屋之中。”

Verse 69

ते तथेति प्रतिज्ञाय स्थिताः संप्रीतमानसाः । धनधान्यसमृद्धाश्च वाञ्छितप्राप्तिलक्षणाः । सर्वकामसमृद्धाश्च ह्यनारम्भेषु कर्मणाम्

他们答道:“如是。”遂应允而住下,心怀欢喜;财宝与谷粮丰盈,诸愿所求皆得其相,一切欲望悉皆圆满,甚至无需劳苦兴作。

Verse 70

इति संस्थाप्य तान् विप्रान् सा स्थिता पर्यपालयत् । चतुर्धा तु स्थितो विष्णुः श्रिया देव्याः प्रिये रतः

如是安置诸婆罗门之后,她便住下并持续护养他们。毗湿奴亦在彼处以四重形相安住,欢喜于圣母室利女神的挚爱临在。

Verse 71

एवं वैवाहिकमखे निवृत्ते ऋषयस्तु तम् । ऊचुश्चावभृथस्नानं कुत्र कुर्मो जनार्दन

婚礼祭祀既如是圆满,诸仙人对他说:“噢,阇那尔达那,我们当在何处行阿婆婆利他沐浴——那终结仪式的圣浴?”

Verse 72

इति श्रुत्वा तु वचनं श्रीपतिः पादपङ्कजात् । मुमोच जाह्नवीतोयं रेवामध्यगमं शुचि

听闻此言,圣主室利波提从其莲华足下放出阇诃那毗(恒河)清净圣水,水流奔涌,直入勒瓦河的中央。

Verse 73

हरेः पादोदकं दृष्ट्वा निःसृतं मुनयस्तु ते । विस्मिताः समपद्यन्त जानन्तस्तस्य गौरवम्

诸牟尼见那从哈利足下涌出的足水,皆惊叹不已——他们深知其威德与净化众生的圣力。

Verse 74

रुद्रेण सहिताः सर्वे देवता ऋषयस्तथा । संकथा विस्मिताश्चक्रुर्विधुन्वन्तः शिरांसि च

诸天神与诸仙人皆与鲁陀罗同在,彼此低语议论,惊异非常,连连摇首叹奇。

Verse 75

ऋषय ऊचुः । ब्रूहि शम्भो किमत्रायं अकस्माद्वारिसम्भवः । विष्णोः पादाम्बुजोत्थश्च सम्मोहकरणः परः

诸仙人曰:“请告我等,商婆啊,此处何以忽然涌现此水?又何以它竟出自毗湿奴莲华足下,使众皆惊异,心生圣妙迷醉?”

Verse 76

ईश्वर उवाच । पादोदकमिदं विष्णोरहं जानामि वै सुराः । दशाश्वमेधावभृथैः स्नानमत्रातिरिच्यते

自在天曰:“诸天啊,我确知此乃毗湿奴足水。于此沐浴,其功德胜过十次马祭(阿湿婆梅陀)终浴(avabhṛtha)之福。”

Verse 77

युष्माभिः श्रीपतिः पूज्यः स्नानं चावभृथं कुतः । भविष्यतीति तेनाशु इदं वोऽर्थे विनिर्मितम्

“既然你们当礼敬圣主Śrīpati,又何必另行作阿婆婆利他(avabhṛtha)沐浴?他知此必需,便迅速为你们的缘故使此显现。”

Verse 78

स्नात्वात्र त्रिदशेशाना यत्फलं सम्प्रपद्यते । वक्तुं न केनचिद्याति ततः किमुत्तरं वचः

“噢诸天之主,在此沐浴所得之果报,无人能尽言;既已超越言语,又还能说什么呢?”

Verse 79

मार्कण्डेय उवाच । एवमुक्त्वा तु ते सर्वे स्नानं कृत्वा यथागतम् । जग्मुर्देवा महेशानपुरोगा भरतर्षभ

马尔坎德耶说道:“如是言毕,众皆沐浴;随后——如其来时一般——复又离去。噢婆罗多族之最胜者,诸天由大自在天Maheśāna(湿婆)为前导。”

Verse 80

ब्राह्मणाश्च ततः सर्वे स्ववेश्मान्येव भेजिरे । देवतीर्थे महाराज सर्वपापप्रणाशने

“于是诸婆罗门也都回到各自的住处,噢大王——从天神圣渡Devātīrtha归来;此圣地能灭尽一切罪垢。”

Verse 194

अध्याय

“章。”(文本标题标记。)