
本章以对话体展开:圣者摩尔坎德耶(Mārkaṇḍeya)教诲尤提施提罗(Yudhiṣṭhira),讲述那尔玛达河(Narmadā)北岸名为“计陀罗”(Kedāra)的圣地功德。开篇交代朝圣与仪轨次第:当往计陀罗处,行施罗达(śrāddha)祭祖,饮圣渡水(tīrtha),并礼敬诸天之主 Devadeveśa,由此获得计陀罗所生之福德。 尤提施提罗请求详述计陀罗为何建立于那尔玛达北岸。摩尔坎德耶讲述缘起传说:在初期克利多瑜伽(Kṛtayuga),因与莲华/吉祥女神(Padmā/Śrī)相关的诅咒,婆利古(Bhṛgu)之地变得不净,仿佛“失去吠陀”。婆利古苦行一千年,遂感得湿婆(Śiva)显现为林伽(liṅga),自地下诸层穿出。婆利古赞颂湿婆为常住者(Sthāṇu)、三目者(Tryambaka),祈求恢复圣域(kṣetra)清净。 湿婆宣告安立名为计陀罗的“本初林伽”(ādi-liṅga),继而又立十座林伽;中央更有第十一种不可见的临在,净化全境。又说十二阿底提耶(Āditya)、十八杜尔迦(Durgā)、十六护域神(Kṣetrapāla)及与毗罗跋陀罗(Vīrabhadra)相应的诸母神同住其处,形成护持圣地的神圣网络。 章末述果报:于Nāgha月守戒清晨沐浴,礼敬计陀罗,并在圣渡如法行施罗达,能令祖先欢喜,灭除罪垢,摧破忧苦。
Verse 1
श्रीमार्कण्डेय उवाच । अतः परं महाराज गच्छेत्केदारसंज्ञकम् । यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् । सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत्
圣者马尔坎德耶说道:其后,伟大的国王啊,当前往名为“凯达拉”的圣地。到达那里后,国王啊,行施祖祭(śrāddha),饮其圣水,并如法礼敬诸天之主、主中之主,便得凯达拉圣地所生之功德果报。
Verse 2
युधिष्ठिर उवाच । कथमत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् । उत्तरे नर्मदाकूले एतद्विस्तरतो वद
尤迪什提拉说道:噢,诸天中最殊胜者(尊者)啊,主宰为何亲自以“凯达拉”之名安住于此,在那尔玛达河的北岸?请为我详尽宣说。
Verse 3
श्रीमार्कण्डेय उवाच । पुरा कृतयुगस्यादौ शङ्करस्तु महेश्वरः । भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके
圣者马尔坎德耶说道:久远以前,在圆满时代(Kṛta Yuga)之初,商羯罗——大自在天(Maheśvara)——受婆利古(Bhṛgu)礼敬;而在婆利古迦叉(Bhṛgukaccha)之地,他亦为吉祥天女室利(Śrī)所诅咒。
Verse 4
अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् । भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया
“此圣域将变为不净,尽失一切吠陀之临在,王中最胜者啊。”说罢,哈利之爱者哈利普丽雅(即室利/拉克什米)便离去。
Verse 5
तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् । वायुभक्षो निराहारश्चिरं धमनिसंततः
于是婆利古修行广大苦行达千年之久:以风为食,绝断饮食,长久令身中诸脉紧摄,恒常安住于持戒之定。
Verse 6
ततः प्रत्यक्षतामागाल्लिङ्गीभूतो महेश्वरः । प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम्
随后,大自在天化为林伽而亲自显现;他忽然破穿七重地下界而现身。
Verse 7
ददर्शाथ भृगुर्देवमौत्पलीं केलिकामिव । स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च
于是婆利古见到那位神明,宛如嬉戏绽放的莲蔓;他向神献上赞颂,称其为“斯塔努”与“三目者”。
Verse 8
एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव । पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने
蒙此赞颂,世尊仿佛含笑而语:“圣仙啊,一再前来,你究竟要向我祈求什么,婆利古?”
Verse 9
भृगुरुवाच । पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो । उपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् । भविष्यतीति च प्रोच्य गता देवी विदं प्रति
婆利古说道:“主啊,此方圆五拘舍的圣域被莲华女神(Padmā)所诅咒。女神宣告:‘此地将成不净,远离诸吠陀。’她如此言及此处,便离去了。”
Verse 10
पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् । तथा कुरु महेशान प्रसन्नो यदि शङ्कर
“大自在天啊——若你垂怜,哦商羯罗——愿你施为,使这最胜圣域再度恢复清净。”
Verse 11
ईश्वर उवाच । केदाराख्यमिदं ब्रह्मंल्लिङ्गमाद्यं भविष्यति । कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि
自在天(Īśvara)说道:“婆罗门圣者啊,此灵伽将成为最初的本源灵伽,名为‘计达罗(Kedāra)’。立此之后,确有十座本初灵伽将相继出现。”
Verse 12
एकादशमदृश्यं हि क्षेत्रमध्ये भविष्यति । पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः
“第十一座(灵伽)将是不可见的,生起于圣域正中。那第十一位——即遍主Vibhu亲自——将净化整个刹特罗(kṣetra)。”
Verse 13
तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः । वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः
“同样地,凭我的恩典,十二阿底提耶(Āditya)将以具身之相住于婆利古圣域(Bhṛgu-kṣetra),摧除疾病与忧苦。”
Verse 14
दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश । भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः
“十八位杜尔迦(Durgā)与十六位刹特罗守护神(Kṣetrapāla)将于婆利古圣域出现;维罗跋陀罗(Vīrabhadra)与诸母神(Mātṛkā)亦将同在。”
Verse 15
पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति । नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः
“此地既已净化,便将永远成为清净圣域(kṣetra)。而在那伽月(Nāgha)之中,若有人于黎明沐浴,并以调伏诸根度过整月……”
Verse 16
यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् । तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत । श्राद्धं ददाति विधिवत्तस्य प्रीताः पितामहाः
凡礼敬凯达罗(Kedāra)者,得至湿婆之圣殿。婆罗多啊,若有人于彼圣渡(tīrtha)沐浴,并以此回向诸祖灵(Pitṛ),如法施行施罗陀(śrāddha),其先祖皆得欢喜。
Verse 17
इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् । सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम्
如是,我已为你如实详说名为凯达罗(Kedāra)者:至圣功德,能除一切罪垢,能灭一切忧苦。
Verse 183
अध्याय
章(Adhyāya)。