
第182章以圣者摩尔甘ḍ耶(Mārkaṇḍeya)的叙述为框架,讲述瑞瓦河(Revā)北岸圣地婆利古迦遮(Bhṛgukaccha)的起源。仙人婆利古(Bhṛgu)偕同室利/拉克什米(Śrī/Lakṣmī)前往龟化身(Kūrma-avatāra),请求准许建立以“四吠陀学艺”(chāturvidya)为根基的聚落;龟神欣然允诺,并预言此城将长久兴盛,名号亦与其相系。经文又以历法与天象详定此刹(kṣetra)的吉时(如摩伽月 Māgha、吉祥月相与星宿),并标示地理特征(北岸、深水、与科提提尔塔 Koṭitīrtha 的关联),继而描绘新城中诸种姓(varṇa)各司其职的社会结构。 其后因拉克什米升往天界(devaloka),将“钥与锁”(kūñcikā-ṭṭāla)托付婆利古;归来时却引发归属之争。受请裁断的婆罗门因惧婆利古之怒而缄默,只提出程序性规则:以持锁者为有权者。拉克什米遂降诅咒,使二生族(dvija)的学识、安定与伦理明辨受损,并指其根由在贪欲与背离真实。婆利古忧惧悲恸,礼敬祈请商羯罗(Śaṅkara);湿婆(Śiva)将此地解释为“忿怒之处”(krodha-sthāna),却又以神恩保证后世婆罗门仍将复得学业,并尊此处为科提提尔塔(Koṭitīrtha),能灭除罪垢。 湿婆继而宣说诸仪轨与功德:沐浴(snāna)与供奉(pūjā)之果可比重大祭祀;作祭水供养(tarpaṇa)能利益祖先;以乳、酪、酥油(ghee)、蜜行灌顶(abhiṣeka)可得天界居处;日食等天象之际的布施与守戒尤受称赞;立誓、出离,乃至在此刹中舍身,皆与吉祥后报相连。湿婆宣告与安比迦(Ambikā,Soubhāgya-sundarī)常住于此,而婆利古终赴梵天界(Brahmaloka)。章末以果报偈(phalaśruti)重申聆听此事之净化功德。
Verse 1
श्रीमार्कण्डेय उवाच । ततो भृगुः श्रिया चैव समेतः कच्छपं गतः । अभिनन्द्य यथान्यायमुवाच वचनं शुभम्
圣者马尔坎德耶(Śrī Mārkaṇḍeya)说:于是婆利古与室利同往迦遮婆(Kacchapa)处;依礼致敬之后,他说出吉祥之语。
Verse 2
त्वया धृता धरा सर्वा तथा लोकाश्चराचराः । तथैव पुण्यभावत्वात्स्थितस्तत्र महामते
大地由你承持,诸世界亦然——动者与不动者皆在其中。因你具足清净圣德,伟大心者啊,你安住于彼,恒常不移。
Verse 3
चातुर्विद्यस्य संस्थानं करोमि रमया सह । यदि त्वं मन्यसे देव तदादेशय मां विभो
我愿与罗摩(Ramā)同在,为四种学问建立一处圣座。若你认可,天神啊,请你降命于我,主宰者。
Verse 4
कूर्म उवाच । एवमेव द्विजश्रेष्ठ मम नामाङ्कितं पुरम् । भविष्यति महत्कालं ममोपरि सुसंस्थितम्
龟说道:“正是如此,最胜的再生者啊:一座铭刻我名之城将会出现。于漫长岁月中,它将稳固地安立在我之上。”
Verse 5
अचलं सुस्थिरं तात न भीः कार्या सुलोचने । एतच्छ्रुत्वा शुभं वाक्यं कच्छपस्य मुखाच्च्युतम्
“它将不动而极其稳固,孩子啊——明眸的女士,你不必畏惧。”听闻这从龟之口流出的吉祥言语……
Verse 6
हृष्टस्तुष्टः श्रिया सार्द्धं पद्मयोनिसुतो भृगुः । अभीचि उदये प्राप्ते कृतकौतुकमङ्गलः
于是,婆利古(Bhṛgu)——莲华生者梵天之子——与吉祥天女室利(Śrī,Lakṣmī)同在,欢喜满足;当阿毗契(Abhīci)升起的吉时到来,他便举行了庆典的灌顶仪式与诸般吉祥法事。
Verse 7
नन्दने वत्सरे माघे पञ्चम्यां भरतर्षभ । शस्ते तु ह्युत्तरायोगे कुम्भस्थे शशिमण्डले
在“难陀那”之年,摩伽月,第五日月相——噢,婆罗多族之雄牛——于北行(uttarāyaṇa)吉时,月轮驻于宝瓶宫(Kumbha)……
Verse 8
रेवाया उत्तरे तीरे गम्भीरे चाभिवारुणि । प्रागुदक्प्रवणे देशे कोटितीर्थसमन्वितम्
在瑞瓦河(纳尔玛达)北岸,地势深邃而水泽丰饶;其地向东并向水势微倾——具足“亿万圣渡”(无量 tīrtha)。
Verse 9
क्रोशप्रमाणं तत्क्षेत्रं प्रासादशतसंकुलम् । अचिरेणैव कालेन तपोबलसमन्वितः । विचिन्त्य विश्वकर्माणं चकार भृगुसत्तमः
那圣域方圆一拘舍(krośa),殿宇成百。未久之间,婆利古圣仙具足苦行(tapas)之力,召请并观想毗湿瓦羯磨(Viśvakarman),令其建成此地。
Verse 10
ब्राह्मणा वेदविद्वांसः क्षत्रिया राज्यपालकाः । वैश्या वृत्तिरतास्तत्र शूद्राः शुश्रूषकास्त्रिषु
彼处,婆罗门通达吠陀;刹帝利守护国土;吠舍勤于生业;首陀罗则为三姓(上三阶)恭敬服侍。
Verse 11
एवं श्रिया वृतं क्षेत्रं परमानन्दनन्दितम् । निर्मितं भृगुणा तात सर्वपातकनाशनम् । इति भृगुकच्छोत्पत्तिः
如是,此圣域为室利(Śrī,吉祥与丰饶)所环绕,令至乐欢悦;乃婆利古所建立,亲爱的啊,能灭尽诸罪。此即“婆利古迦遮”(Bhṛgukaccha)起源之记。
Verse 12
मार्कण्डेय उवाच । ततः कालेन महता कस्मिंश्चित्कारणान्तरे । देवलोकं जगामाशु लक्ष्मीरृषिसमागमे
马尔坎德耶说道:“其后经久之时,因一段插入的缘由,吉祥天女拉克什米在诸仙集会之际,迅速前往天界诸神之域。”
Verse 13
समर्प्य कुञ्चिकाट्टालं भृगवे ब्रह्मवादिने । पालयस्व यथार्थं वै स्थानकं मम सुव्रत
她将钥匙与守门之职交付给宣说梵法的婆利古,说道:“善誓者啊,请依正法如实守护我的居处。”
Verse 14
देवकार्याण्यशेषाणि कृत्वा श्रीः पुनरागता । आजगाम रमा देवी भृगुकच्छं त्वरान्विता
吉祥天女室利(罗摩)无余完成诸神一切事务后,再次归来;女神罗摩怀着急切,迅速来到婆利古迦遮。
Verse 15
प्रार्थितं कुञ्चिकाट्टालं स्वगृहं सपरिग्रहम् । भृगुर्यदा तदा पार्थ मिथ्या नास्ति तदा वदत
“钥匙与门闩,以及连同一切所属的宅第——当婆利古如此断言之时,王啊,你便当宣告:‘此言不虚。’”
Verse 16
एव विवादः सुमहान्संजातश्च नरेश्वर । ममेति मम चैवेति परस्परसमागमे
于是,人中之主啊,当双方相遇之时,便生起极大的争讼,彼此呼喊:“我的!确是我的!”
Verse 17
ततः कालेन महता भृगुणा परमर्षिणा । चातुर्विद्यप्रमाणार्थं चकार महतीं स्थितिम्
随后,经过漫长岁月,至上圣仙婆利古(Bhṛgu)设立了一场庄严的裁断仪式,意在以“四种学识”作为证据的准绳。
Verse 18
अस्मदीयं यथा सर्वं नगरं मृगलोचने । चातुर्विद्या द्विजाः सर्वे तथा जानन्ति सुन्दरि
“鹿眼的佳人啊,正如人们说这整座城都属于我们一样,所有通晓‘四种学识’的二生者(dvija)也都如此认定,姝丽者啊。”
Verse 19
श्रीरुवाच । प्रमाणं मम विप्रेन्द्र चातुर्वण्या न संशयः । मदीयं वा त्वदीयं वा कथयन्तु द्विजोत्तमाः
圣吉(Śrī)说道:“婆罗门中的最胜者啊,四姓(varṇa)即为我的见证,毫无疑虑。愿诸位最尊贵的二生者宣告:此物究竟属我,还是属你。”
Verse 20
ततः समस्तैर्विबुधैः सम्प्रधार्य परस्परम् । द्विधा तैर्वाक्स्थलं दृष्ट्वा ब्राह्मणा नृपसंहितम्
于是众学者彼此商议;诸婆罗门将两方陈词悉心审察后,在王者的会座中宣示了裁决。
Verse 21
अष्टादशसहस्राणि नोचुर्वै किंचिदुत्तरम् । अष्टादशसहस्रेषु भृगुकोपभयान्नृप । उक्तं च तालकं हस्ते यस्य तस्येदमुत्तरम्
其中一万八千人竟无一作答。而在这“一万八千”之中,王啊,由于畏惧婆利古(Bhṛgu)的忿怒,他们宣称:“手中握有门闩者——裁决归于此人。”
Verse 22
एतच्छ्रुत्वा तु सा देवी निगमं नैगमैः कृतम् । क्रोधेन महताविष्टा शशाप द्विजपुंगवान्
女神听闻此事——那由博学者所制定的“权威裁断”——便被盛怒所攫,诅咒了那些卓越的婆罗门。
Verse 23
श्रीदेव्युवाच । यस्मात्सत्यं समुत्सृज्य लोभोपहतमानसैः । मदीयं लोपितं स्थानं तस्माच्छृण्वन्तु मे गिरम्
圣母吉祥天女(Śrī)说道:“因为你们舍弃真实,心为贪欲所伤,抹去了我应得的尊位;因此,让他们听我之言。”
Verse 24
त्रिपौरुषा भवेद्विद्या त्रिपुरुषं न भवेद्धनम् । न द्वितीयस्तु वो वेदः पठितो भवति द्विजाः
“学识只延续三代;财富却连三人都难以久存。诸位二次生者啊,你们也将不再诵习第二部吠陀。”
Verse 25
गृहाणि न द्विभौमानि न च भूतिः स्थिरा द्विजाः । पक्षपातेन वो धर्मो न च निःश्रेयभावतः
“你们的房舍不得稳固于两层之基,你们的兴盛也不恒常,二次生者啊。你们的法(dharma)将因偏袒与结党而行,并非以至上解脱之善(niḥśreyasa)为旨。”
Verse 26
इष्टो गोत्रजनः कश्चिल्लोभेनावृतमानसः । न च द्वैधं परित्यज्य ह्येकं सत्यं भविष्यति
“即便是所爱之族亲,心为贪欲所蔽,也将兴起。若不舍弃两面与分裂,唯一而坚定的真实便不会出现。”
Verse 27
अद्यप्रभृति सर्वेषामहङ्कारो द्विजन्मनाम् । न पिता पुत्रवाक्येन न पुत्रः पितृकर्मणि
自今日起,一切二次生者皆为我慢所系。父不听子之劝,子亦不循父之本分。
Verse 28
अहङ्कारकृताः सर्वे भविष्यन्ति न संशयः । इति शप्त्वा रमादेवी तदैव च दिवं ययौ
众人皆将为我执所驱,此无疑也。罗摩女神如是诅咒已,旋即升往天界。
Verse 29
ततो गतायां वै लक्ष्म्यां देवा ब्रह्मर्षयोऽमलाः । क्रोधलोभमिदं स्थानं तेऽपि चोक्त्वा दिवं ययुः
既而吉祥天女离去后,无垢诸天与梵仙言曰:“此处充满嗔怒与贪欲。”言毕,彼等亦往天界。
Verse 30
गतां दृष्ट्वा ततो देवीमृषींश्चैव तपोधनान् । भृगुश्च परमेष्ठी स विषादमगमत्परम् । प्रसादयामास पुनः शङ्करं त्रिपुरान्तकम्
见女神已去,诸具苦行之仙亦离,婆利古尊者陷入深沉忧苦。于是他复又求请商羯罗——摧灭三城者——垂赐欢喜。
Verse 31
तपसा महता पार्थ ततस्तुष्टो महेश्वरः । उवाच वचनं काले हर्षयन् भृगुसत्तमम्
婆尔他啊,因大苦行而欢喜的摩诃伊湿伐罗,于适时开口,说出令婆利古——诸仙之最——欣悦之言。
Verse 32
किं विषण्णोऽसि विप्रेन्द्र किं वा सन्तापकारणम् । मयि प्रसन्नेऽपि तव ह्येतत्कथय मेऽनघ
“为何你如此忧伤,婆罗门中的至上者?你苦恼的缘由是什么?纵然我已悦纳于你,也请告诉我吧,清净无瑕者。”
Verse 33
भृगुरुवाच । शापयित्वा द्विजान्सर्वान्पुरा लक्ष्मीर्विनिर्गता । अपवित्रमिदं चोक्त्वा ततो देवा विनिर्गताः
婆利古说道:“往昔,在诅咒了一切两次生者之后,吉祥天女拉克什弥离去。随后诸天也离去,并宣言:‘此处不净。’”
Verse 34
ईश्वर उवाच । पुरा मया यथा प्रोक्तं तत्तथा न तदन्यथा । क्रोधस्थानमसंदेहं तथान्यदपि तच्छृणु
自在天说道:“正如我在往昔所宣示的那样,事实即是如此,绝无他异。此地无疑是‘忿怒之座’;现在也请听我再说一事。”
Verse 35
तत्र स्थानसमुद्भूता महद्भयविवर्जिताः । ब्राह्मणा मत्प्रसादेन भविष्यन्ति न संशयः
在那里,由那圣地自身所生,婆罗门将因我的恩典而兴起,远离大怖畏;对此毫无疑惑。
Verse 36
वेदविद्याव्रतस्नाताः सर्वशास्त्रविशारदाः । येऽपि ते शतसाहस्रास्त्वरिता ह्यागतास्त्विह
那些通达吠陀与诸学、完成誓戒与圣浴、精通一切论典(śāstra)的人——即便多达十万之众——也确已匆匆来到此处。
Verse 37
अपठस्यापि मूर्खस्य सर्वावस्थां गतस्य च । उत्तरादुत्तरं शक्रो दातुं न तु भृगूत्तम
即使对未曾习学者、对愚昧者、乃至堕入诸般境况者,因陀罗也不能赐予愈加高胜的恩赐;唯有你,噢婆利古族中最殊胜者,能施与更为崇高之福。
Verse 38
कोटितीर्थमिदं स्थानं सर्वपापप्रणाशनम् । अद्यप्रभृति विप्रेन्द्र भविष्यति न संशयः
此处将名为“拘底提尔塔”(Koṭitīrtha),能灭尽一切罪业。从今日起,噢婆罗门中之最上者,必定如此,毫无疑惑。
Verse 39
मत्प्रसादाद्देवगणैः सेवितं च भविष्यति । भृगुक्षेत्रे मृता ये तु कृमिकीटपतंगकाः
凭借我的恩典,此地亦将为诸天众神所常来供奉侍奉。至于那些在婆利古圣域(Bhṛgukṣetra)死去的虫蚁与飞虫……
Verse 40
वासस्तेषां शिवे लोके मत्प्रसादाद्भविष्यति । वृषखाते नरः स्नात्वा पूजयित्वा महेश्वरम्
凭借我的恩典,他们的居处将得在湿婆之界。又有一人若在“弗利沙卡塔”(Vṛṣakhāta)沐浴,并礼敬大自在天(Maheśvara)……
Verse 41
सर्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् । भृगुतीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः
……必定获得“萨尔瓦梅陀”(Sarvamedha)大祭之果报。人在婆利古圣渡(Bhṛgutīrtha)沐浴后,应向祖灵(Pitṛ)与诸神行“塔尔帕那”(tarpaṇa)供献。
Verse 42
तस्य ते द्वादशाब्दानि शान्तिं गच्छन्ति तर्पिताः । दधिक्षीरेण तोयेन घृतेन मधुना सह
如此得以满足时,祖灵(Pitṛ)便得十二年安宁。(供养祭水 tarpaṇa 可用)掺入酸奶与牛奶之水,或以酥油,并可同蜜一起奉献。
Verse 43
ये स्नपन्ति विरूपाक्षं तेषां वासस्त्रिविष्टपे । मत्प्रसादाद्द्विजश्रेष्ठ सर्वदेवानुसेवितम्
凡为毗卢帕克沙(Virūpākṣa)沐浴并行灌沐之礼者,其居处在三十三天(Triviṣṭapa)。凭我恩典,噢最胜二生者,那是诸神皆来侍奉之境。
Verse 44
भविष्यति भृगुक्षेत्रं कुरुक्षेत्रादिभिः समम् । मार्तण्डग्रहणे प्राप्ते यवं कृत्वा हिरण्मयम्
婆利古圣地(Bhṛgukṣetra)将与俱卢圣地(Kurukṣetra)等著名圣域同等清净神圣。逢日食之时,应以黄金制成大麦作为供献。
Verse 45
दत्त्वा शिरसि यः स्नाति भृगुक्षेत्रे द्विजोत्तम । अविचारेण तं विद्धि संस्नातं कुरुजाङ्गले
噢最胜二生者,凡在婆利古圣地(Bhṛgukṣetra)先将应献之供物置于头顶而后沐浴者——当毫不犹豫地知晓:他确已在俱卢旷野(Kurujāṅgala,即 Kurukṣetra)沐浴。
Verse 46
अहं चैव वसिष्यामि अम्बिका च मम प्रिया । सर्वदुःखापहा देवी नाम्ना सौभाग्यसुन्दरी
我亦将居于此处——与我挚爱的安比迦(Ambikā)同住。此女神能除尽一切忧苦,世人称她为“吉祥美丽者”(Saubhāgyasundarī)。
Verse 47
वसिष्यामि तया देव्या सहितो भृगुकच्छके । एवमुक्त्वा स्थितो देवो भृगुकच्छेऽम्बिका तथा
“我将与那位女神同住于婆利古迦遮(Bhṛgukaccha)。”说罢,主神便安住于婆利古迦遮,安毗迦(Ambikā)亦同住其处。
Verse 48
भृगुस्तु स्वपुरं प्रायाद्ब्रह्मघोषनिनादितम् । ऋग्यजुःसामघोषेण ह्यथर्वणनिनादितम्
随后,婆利古(Bhṛgu)回到自己的城邑,城中回荡着吠陀诵声——《梨俱》《夜柔》《娑摩》的赞诵不绝,又有《阿闼婆》圣歌共鸣。
Verse 49
तत्र तीर्थे तु यः स्नात्वा वृषमुत्सृजते नरः । स याति शिवसायुज्यमित्येवं शङ्करोऽब्रवीत्
在那处圣渡(tīrtha),凡沐浴其间而后放生一头公牛作为圣施者,便得与湿婆合一——商羯罗(Śaṅkara)如是宣说。
Verse 50
तत्र तीर्थे तु यः स्नात्वा चैत्रे मासि समाचरेत् । दद्याच्च लवणं विप्रे पूज्य सौभाग्यसुन्दरीम्
在那处圣渡,凡于恰伊特罗月(Caitra)沐浴并如法修持者,当以盐施与婆罗门,并礼敬吉祥妙丽女神——娑乌婆吉耶孙达丽(Saubhāgyasundarī)。
Verse 51
गोभूहिरण्यं विप्रेभ्यः प्रीयेतां ललिताशिवौ । न दुःखं दुर्भगत्वं च वियोगं पतिना सह
以牛、土地与黄金布施诸婆罗门,愿拉利塔(Lalitā)与湿婆欢喜。于是无有忧苦,无有厄运,亦不与夫君离别。
Verse 52
प्राप्नोति नारी राजेन्द्र भृगुतीर्थाप्लवेन च । यस्तु नित्यं भृगुं देवं पश्येद्वै पाण्डुनन्दन
大王啊,女子亦可因沐浴于婆利古圣渡(Bhṛgu-tīrtha)而得此等福德。凡每日瞻礼神圣的婆利古(Bhṛgu)者——般度之子啊——
Verse 53
आ ब्रह्मसदनं यावत्तत्रस्थैर्दैवतैः सह । यत्फलं समवाप्नोति तच्छृणुष्व नृपोत्तम
直至梵天自居之所——与居于彼处的诸天同在——他所获得的一切果报,请你聆听吧,最胜之王。
Verse 54
सुवर्णशृङ्गीं कपिलां पयस्विनीं साध्वीं सुशीलां तरुणीं सवत्साम् । दत्त्वा द्विजे सर्वव्रतोपपन्ने फलं च यत्स्यात्तदिहैव नूनम्
若施与具足一切戒行的婆罗门:一头金角黄褐母牛,乳汁丰盈,性情温顺,品性端良,年少健美,并携其犊;由此布施所生之功德,必定就在此圣地当下获得。
Verse 55
समाः सहस्राणि तु सप्त वै जले म्रियेल्लभेद्द्वादशवह्निमध्ये । त्यजंस्तनुं शूरवृत्त्या नरेन्द्र शक्रातिथ्यं याति वै मर्त्यधर्मा
大王啊,凡人若依武士之法(战士之达摩)舍身——或在水中历七千年而死,或处于十二火焰之间而亡——便得成为释迦罗(因陀罗)座上宾的荣耀。
Verse 56
आख्यानमेतच्च सदा यशस्यं स्वर्ग्यं धन्यं पुत्र्यमायुष्यकारि । शृण्वंल्लभेत्सर्वमेतद्धि भक्त्या पर्वणि पर्वण्याजमीढस्सदैव
此圣传恒常赐予名声,导向天界,吉祥殊胜,能得子嗣,并增益寿命。若以虔敬聆听——尤在节庆与诸般圣日之时——必得此一切果报,阿阇弥荼之后裔啊。
Verse 57
संन्यासं कुरुते यस्तु भृगुतीर्थे विधानतः । स मृतः परमं स्थानं गच्छेद्वै यच्च दुर्लभम्
凡依正法仪轨于婆利古圣渡(Bhṛgutīrtha)受持出家(saṃnyāsa)者,命终必得至上归处,此境难得。
Verse 58
एतच्छ्रुत्वा भृगुश्रेष्ठो देवदेवेन भाषितम् । प्रहृष्टवदनो भूत्वा तत्रैव संस्थितो द्विजः
闻听诸神之神所宣说之言,婆利古族中最胜者面露欢光,就在彼处安住,那位再生圣者。
Verse 59
तिरोभावं गते देवे भृगुः श्रेष्ठो द्विजोत्तमः । स्वमूर्ति तत्र मुक्त्वा तु ब्रह्मलोकं जगाम ह
当神祇隐没不现时,最胜的婆利古、诸再生者之首,于彼处舍离其身形,往诣梵天界(Brahmaloka)。
Verse 60
भृगुकच्छस्य चोत्पत्तिः कथिता तव पाण्डव । संक्षेपेण महाराज सर्वपामप्रणाशनी
般度之裔啊,大王,我已略说婆利古迦叉(Bhṛgukaccha)之起源——此圣传能灭尽诸罪与诸苦恼。
Verse 61
एतत्पुण्यं पापहरं क्षेत्रं देवेन कीर्तितम् । चतुर्युगसहस्रेण पितामहदिनं स्मृतम्
此清净圣域(kṣetra)为天神所宣说,能除罪垢;又忆念“祖父梵天(Pitāmaha)之一日”乃由四劫一千轮回所成。
Verse 62
प्राप्ते ब्रह्मदिने विप्रा जायते युगसम्भवः । न पश्यामि त्विदं क्षेत्रमिति रुद्रः स्वयं जगौ
婆罗门们啊,当梵天之日到来,诸劫(yuga)复又兴起;然而鲁陀罗亲自宣说:“即便那时,此圣域(kṣetra)亦不离我之观照。”
Verse 63
यः शृणोति त्विदं भक्त्या नारी वा पुरुषोऽपि वा । स याति परमं लोकमिति रुद्रः स्वयं जगौ
凡以虔敬聆听此教者——无论女子或男子——皆得至于至上之界;此乃鲁陀罗亲口所宣。
Verse 64
देवखाते नरः स्नात्वा पिण्डदानादिसत्क्रियाम् । यां करोति नृपश्रेष्ठ तामक्षयफलां विदुः
大王中之最胜者啊,人于天神浴池(Devakhāta)沐浴之后,所行诸善仪轨——如施献团食(piṇḍa)等诸圣行——皆被知为得不坏、无尽之果。
Verse 65
य इमं शृणुयाद्भक्त्या भृगुकच्छस्य विस्तरम् । कोटितीर्थफलं तस्य भवेद्वै नात्र संशयः
凡以虔敬聆听此关于婆利古迦遮(Bhṛgukaccha)之详述者,必得等同千万圣地(tīrtha)之功德果报;对此毫无疑惑。
Verse 182
अध्याय
章(标题)。 章节标记。