Adhyaya 168
Avanti KhandaReva KhandaAdhyaya 168

Adhyaya 168

本章以对话展开:马尔坎ḍ耶指出那尔玛达河(Narmadā)南岸一处至胜圣地(tīrtha)——安库雷湿伐罗(Aṅkūreśvara),名闻三界。由提湿提罗请问与此地相关的罗刹之事,于是叙述其谱系:自普拉斯提耶(Pulastya)与毗湿罗婆(Viśravas)而至毗湿罗伐那(Vaiśravaṇa,俱毗罗 Kubera),继而至凯迦西(Kaikasī)之子——罗波那、昆婆迦罗那、毗毗沙那——再到昆婆迦罗那之后裔昆婆与毗昆婆,最终至昆婆之子安库罗(Aṅkūra)。 安库罗自知其出身,又见毗毗沙那趋向正法(dharma),遂于四方广修苦行,最后在那尔玛达河畔精进不懈。湿婆(Śiva)现身赐愿;安库罗祈求(1)难得之愿——不死,以及(2)愿湿婆以安库罗之名常住此圣地。湿婆以条件允诺亲近护持:只要安库罗保持与毗毗沙那之正法立场相应的行为。湿婆隐去后,安库罗依仪建立安库雷湿伐罗林伽(liṅga),并以供品、幡旗、华盖与吉祥赞颂举行隆重礼拜。 本章并制定朝圣法:沐浴、行三时礼(sandhyā)、持诵(japa)、向祖先/诸天/人众作供水礼(tarpaṇa),于第八日(Aṣṭamī)或第十四日(Caturdaśī)守斋,并持戒守默。其功德分明:礼拜之果等同马祭(Aśvamedha);如法布施(dāna)得无尽福;火供(homa)、持诵、斋戒与沐浴之果皆倍增。乃至非人众生若于此圣地命终亦得救度;末以果报偈(phalaśruti)宣示:信受聆听者将得往至湿婆之界。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । नर्मदादक्षिणे रोधस्यङ्कूरेश्वरमुत्तमम् । तीर्थं सर्वगुणोपेतं त्रिषु लोकेषु विश्रुतम्

圣者马尔坎德耶说道:在那尔摩陀河的南岸,有最胜的安库雷湿伐罗——具足一切功德的圣渡处(tīrtha),名闻三界。

Verse 2

यत्र सिद्धं महारक्ष आराध्य तु महेश्वरम् । शङ्करं जगतः प्राणं स्मृतिमात्रावहारिणम्

在那里,一位强大的罗刹以敬拜大自在天(Maheśvara)而得成就——圣者商羯罗(Śaṅkara),乃世间之生命气息;但凭忆念,便赐福佑。

Verse 3

युधिष्ठिर उवाच । किं तद्रक्षो द्विजश्रेष्ठ किंनाम कस्य वान्वये । एतद्विस्तरतः सर्वं कथयस्व ममानघ

尤提施提罗说道:噢,婆罗门中最尊者,那罗刹是谁——名为何,出自何族何系?请你详尽告知我,噢,无垢者。

Verse 4

अज्ञानतिमिरान्धा ये पुमांसः पापकारिणः । युष्मद्विधैर्दीपभूतैः पश्यन्ति सचराचरम्

那些被无明黑暗所蒙蔽、造作罪业的人,之所以能见遍此世界——动与不动——唯因如你们这般的圣贤,化作明灯而照耀。

Verse 5

धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः । स्मितं कृत्वा बभाषे तां कथां पापप्रणाशनीम्

听罢法之子(Dharmaputra)之言,牟尼之主摩尔迦ṇḍeya微微一笑,继而宣说那能灭罪的神圣故事。

Verse 6

मार्कण्डेय उवाच । मानसो ब्रह्मणः पुत्रः पुलस्त्यो नाम पार्थिव । वेदशास्त्रप्रवक्ता च साक्षाद्वेधा इवापरः

摩尔迦ṇḍeya说道:大王啊,有一位名为普罗罗斯底耶(Pulastya)者——乃梵天(Brahmā)意生之子,宣讲吠陀与论典(śāstra),宛如另一位造物主亲临。

Verse 7

तृणबिन्दुसुता तस्य भार्यासीत्परमेष्ठिनः । तस्य धर्मप्रसङ्गेन पुत्रो जातो महामनाः

大王啊,他的妻子是特里那宾杜之女。因其依正法的结合,诞生了一位大心之子。

Verse 8

यस्माद्वेदेतिहासैश्च सषडङ्गपदक्रमाः । विश्रान्ता ब्रह्मणा दत्ता नाम विश्रवसेति च

由于吠陀与诸《伊提哈萨》,连同六支与按序诵词之法,都在他处得以安住,并由梵天赐与他,因此他得名“毗湿罗婆斯”(Viśravas)。

Verse 9

कस्मिंश्चिदथ काले च भरद्वाजो महामुनिः । स्वसुतां प्रददौ राजन्मुदा विश्रवसे नृप

随后在某个时日,大圣者婆罗陀婆阇欢喜地将自己的女儿嫁与毗湿罗婆斯,大王啊。

Verse 10

स तया रमते सार्धं पौलोम्या मघवा इव । मुदा परमया राजन्ब्राह्मणो वेदवित्तमः

那位最通晓吠陀的婆罗门与她同享欢悦,大王啊;如同摩伽婆(因陀罗)与保罗弥同乐。

Verse 11

केनचित्त्वथ कालेन पुत्रः पुत्रगुणैर्युतः । जज्ञे विश्रवसो राजन्नाम्ना वैश्रवणः श्रुतः

过了一段时日,大王啊,毗湿罗婆斯生得一子,具足诸善德,名闻为“毗舍罗伐那”(Vaiśravaṇa)。

Verse 12

सोऽपि मौनव्रतं कृत्वा बालभावाद्युधिष्ठिर । सर्वभूताभयं दत्त्वा चचार परमं व्रतम्

他也如此,哦,犹提士提罗,自幼便受持默誓;并以赐予一切众生无畏之心,修行那至上的誓戒。

Verse 13

तस्य तुष्टो महादेवो ब्रह्मा ब्रह्मर्षिभिः सह । सखित्वं चेश्वरो दत्त्वा धनदत्वं जगाम ह

因他而欢喜的有大自在天摩诃提婆,以及与诸梵仙同在的梵天;主赐予他与神为友之恩,他遂得‘檀那达’之位——财富的施与者与主宰。

Verse 14

यमेन्द्रवरुणानां च चतुर्थस्त्वं भविष्यसि । ब्रह्माप्युक्त्वा जगामाशु लोकपालत्वमीप्सितम्

“在阎摩、因陀罗与伐楼那之中,你将成为第四位。”梵天说罢,便迅速离去,心向所愿的护世者(Lokapāla)之位。

Verse 15

ततस्त्वनन्तरे काले कैकसी नाम राक्षसी । पातालं भूतलं त्यक्त्वा विश्रवं चकमे पतिम्

其后不久,有一位名为凯迦西的罗刹女——离开了地下界(Pātāla)与人间——选择毗湿罗婆为夫。

Verse 16

पुत्रोऽथ रावणो जातस्तस्या भरतसत्तम । कुम्भकर्णो महारक्षो धर्मात्मा च विभीषणः

由她生下一子——罗波那,哦,婆罗多族之最胜者;又生出俱毗迦罗那,那强大的罗刹,以及毗毗沙那,天性正直。

Verse 17

कुम्भश्चैव विकुम्भश्च कुम्भकर्णसुतावुभौ । महाबलौ महावीर्यौ महान्तौ पुरुषोत्तम

俱婆与毗俱婆——皆为俱婆迦耳那之子——具大力与大威能,噢,至上之人(Puruṣottama)。

Verse 18

अङ्कूरो राक्षसश्रेष्ठः कुम्भस्य तनयो महान् । विभीषणं च गुणवद्दृष्ट्वैवं राक्षसोत्तमः

安库罗,杰出的罗刹,俱婆之显赫之子——见毗毗沙那具足德行——遂生省思,噢,罗刹中之最胜者。

Verse 19

ततः स यौवनं प्राप्य ज्ञात्वा रक्षः पितामहम् । परं निर्वेदमापन्नश्चचार सुमहत्तपः

其后,他至青春之时,知晓罗刹祖先之事,便生极深厌离,修行无比宏大的苦行(tapas)。

Verse 20

दक्षिणं पश्चिमं गत्वा सागरं पूर्वमुत्तरम् । नर्मदायां प्रसङ्गेन ह्यङ्कूरो राक्षसेश्वरः

他行至南与西,至大海,又遍及东与北;因缘所致,罗刹之主安库罗来到了那尔摩陀河(瑞瓦)。

Verse 21

तपश्चचार सुमहद्दिव्यं वर्षशतं किल । ततस्तुष्टो महादेवः साक्षात्परपुरंजयः

他修行极其宏大的神圣苦行,历经百个天年。于是大天(Mahādeva)——亲自征服敌城者——心生欢喜。

Verse 22

वरेण छन्दयामास राक्षसं वृषकेतनः । वरं वृणीष्व भद्रं ते तव दास्यामि सुव्रत

弗利沙计都(湿婆)以赐福来取悦那罗刹:“你当自择一愿——愿吉祥临汝;我必赐予你,善誓之守持者。”

Verse 23

प्रोवाच राक्षसो वाक्यं देवदेवं महेश्वरम् । वरदं सोऽग्रतो दृष्ट्वा प्रणम्य च पुनःपुनः

于是罗刹对摩诃湿伐罗——诸神之神——启言。见赐愿者在前,他一次又一次顶礼,然后陈述所求。

Verse 24

यदि तुष्टो महादेव वरदोऽसि सुरेश्वर । दुर्लभं सर्वभूतानाममरत्वं प्रयच्छ मे

“若你欢喜,摩诃提婆啊——诸天之主、赐愿者啊——请赐我不死之身;此于一切众生极为难得。”

Verse 25

मम नाम्ना स्थितोऽनेन वरेण त्रिपुरान्तक । सदा संनिहितोऽप्यत्र तीर्थे भवितुमर्हसि

“三城摧灭者啊,凭此以我之名所立之愿,愿你允诺常住于此,在这神圣的渡口(提尔塔)恒常显临。”

Verse 26

ईश्वर उवाच । यावद्विभीषणमतं यावद्धर्मनिषेवणम् । करिष्यसि दृढात्मा त्वं तावदेतद्भविष्यति

自在天说道:“只要你心志坚固,守持毗毗沙那之志——只要你奉行并事奉正法(Dharma)——此愿便将如是成就并长存。”

Verse 27

एवमुक्त्वा ययौ देवः सर्वदैवतपूजितः । विमानेनार्कवर्णेन कैलासं धरणीधरम्

说罢,那位为诸天所礼敬的神祇,乘坐日色辉映的天车(毗摩那)启程,前往支撑大地的凯拉萨圣山。

Verse 28

गते चादर्शनं देवे स्नात्वाचम्य विधानतः । स्थापयामास राजेन्द्र ह्यङ्कूरेश्वरमुत्तमम्

当主离去而不复可见时,他依仪轨沐浴并行阿遮摩那(啜水净礼);随后,王啊,他安立并奉献那最胜的安库雷湿伐罗(Aṅkūreśvara)。

Verse 29

गन्धपुष्पैस्तथा धूपैर्वस्त्रालङ्कारभूषणैः । पताकैश्चामरैश्छत्रैर्जयशब्दादिमंगलैः

以香料与花鬘,以熏香,以衣服与饰物;又以幢幡、牦牛尾拂与宝伞,并以“胜利”之呼声为首的诸般吉祥仪式——(他如法供奉)。

Verse 30

पूजयित्वा सुरेशानं स्तोत्रैर्हृद्यैः सुपुष्कलैः । जगाम भवनं रक्षो यत्र राजा विभीषणः

以悦心而丰盛的赞颂礼敬天主(Sureśāna)之后,那罗刹前往毗毗沙那王所在的居处。

Verse 31

पूजितः स यथान्यायं दानसन्मानगौरवैः । सौदर्ये स्थापितो भावे सोऽवात्सीत्परयामुदा

他依礼受到了供施、敬重与恭谨的礼遇;安住于亲如手足的情怀之中,便在彼处以大欢喜而居。

Verse 32

तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । अङ्कूरेश्वरनामानं सोऽश्वमेधफलं लभेत्

凡于彼圣地(tīrtha)沐浴,继而礼敬名为阿ṅ库雷湿伐罗(Aṅkūreśvara)的至上自在天(Parameśvara)者,得阿湿婆梅陀(Aśvamedha)大祭之果报。

Verse 33

माण्डव्यखातमारभ्य सङ्गमं वापि यच्छुभम् । रेवाया आमलक्याश्च देवक्षेत्रं महेश्वरम्

自曼陀毗耶(Māṇḍavya)之圣池起,直至瑞瓦河(Revā)与阿摩罗迦梨(Āmalakī)之吉祥汇合处,此一切境域皆为大自在天(Maheśvara)之神圣道场(devakṣetra)。

Verse 34

माण्डव्यखातात्पश्चिमतस्तीर्थं तदङ्कूरेश्वरम् । तत्र तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः

自曼陀毗耶(Māṇḍavya)圣沟之西,有名为阿ṅ库雷湿伐罗(Aṅkūreśvara)之圣渡(tīrtha)。人在彼处沐浴,身净心摄,即堪受后续之仪轨。

Verse 35

सन्ध्यामाचम्य यत्नेन जपं कृत्वाथ भारत । तर्पयित्वा पित्ःन्देवान्मनुष्यान् भरतर्षभ

婆罗多啊,勤谨行暮晨礼(sandhyā),复以净水行阿遮摩那(ācamana),继而圆满持诵(japa)之后,当以供养令其满足(tarpana)奉献于祖灵(Pitṛ)、诸天(Deva)及人众——婆罗多族之雄者。

Verse 36

सचैलः क्लिन्नवसनो मौनमास्थाय संयतः । अष्टम्यां वा चतुर्दश्यामुपोष्य विधिवन्नरः

身着衣服而令衣裳湿润,守默语而自制调伏;此人当依仪轨持斋,或于月八日(aṣṭamī),或于月十四日(caturdaśī)。

Verse 37

पूजां यः कुरुते राजंस्तस्य पुण्यफलं शृणु । साग्रं तु योजनशतं तीर्थान्यायतनानि च

大王啊,请听那行供奉礼拜者的圣福之果。对他而言,在一百由旬乃至更远之内,诸圣地(tīrtha)与神圣祠宇,皆如同亲临瞻礼、真实见到一般。

Verse 38

भवन्ति तानि दृष्टानि ततः पापैः प्रमुच्यते । तत्र तीर्थे तु यद्दानं देवमुद्दिश्य दीयते

那些圣地与祠宇皆被视为已亲见,由此众罪得解脱。并且,在那圣地所行的一切布施,若是奉献并回向于神明,

Verse 39

स्नात्वा तु विधिवत्पात्रे तदक्षयमुदाहृतम् । होमाद्दशगुणं प्रोक्तं फलं जाप्ये ततोऽधिकम्

沐浴之后,依仪轨施与贤善受者之物,被宣说为不竭之福。其果报据言为火供(homa)的十倍,而持诵(japa)之果更胜于此。

Verse 40

त्रिगुणं चोपवासेन स्नानेन च चतुर्गुणम् । संन्यासं कुरुते यस्तु प्राणत्यागं करोति वा

以斋戒,其果报增为三倍;以沐浴,其果报增为四倍。凡在彼处行出离之道者,或甚至于彼处舍身弃命者,

Verse 41

अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् । कृमिकीटपतङ्गानां तत्र तीर्थे युधिष्ठिर । अङ्कूरेश्वरनामाख्ये मृतानां सुगतिर्भवेत्

其行道遂成不可回转,必往鲁陀罗之界,毫无疑虑。尤提希提罗啊,即便是虫蚁、昆虫与飞鸟,若死于名为阿ṅ库雷湿伐罗(Aṅkūreśvara)的圣地,也将获得善趣与福归。

Verse 42

एतत्ते कथितं राजन्नङ्कूरेश्वरसम्भवम् । तीर्थं सर्वगुणोपेतं परमं पापनाशनम्

大王,此已为你宣说——与安库雷湿伐罗(Aṅkūreśvara)相连的起源与殊胜:此乃具足一切功德的圣地(tīrtha),最上能灭罪。

Verse 43

येऽपि शृण्वन्ति भक्त्येदं कीर्त्यमानं महाफलम् । लभन्ते नात्र सन्देहः शिवस्य भुवनं हि ते

即便是以虔敬聆听此宣说、具大果报之事者,也必定无疑得至湿婆(Śiva)之世界。

Verse 168

। अध्याय

章(标题)。​​​​​