
马尔坎ḍeya叙述一幕如同劫末的可怖异象:卡拉罗特丽(Kālarātri)被凶猛的母神众(Mātṛgaṇa)环绕,席卷诸界。诸母神被描绘为带有梵天–毗湿奴–湿婆之印记的神力,又与诸元素及十方守护神相应;她们执持兵器穿行十方,呼号与足踏之声灼烧三界。毁灭扩展至七大洲岛屿,伴随饮血与吞噬众生的意象,呈现宇宙消融的主题。 在破坏的高潮之后,叙事回归圣地:湿婆在那尔摩陀河岸显现,于名为阿摩罗昂卡塔(Amarāṅkaṭa)之处安住,并以“amarā”与“kaṭa”释其名义。商羯罗与优摩及随从(gaṇa、mātṛ)同在,连人格化的死神摩利提尤(Mṛtyu)亦参与狂喜之舞,显出鲁陀罗既为怖畏亦为归依。那尔摩陀亦被赞为世间敬仰的母亲之河,形态雄浑而奔涌。 章末呈现更高的神显:从鲁陀罗口中涌出的劫风“桑瓦尔塔”(Saṃvarta)吹干大海;湿婆以火葬场的标志与宇宙光辉示现,施行消融,却仍为卡拉罗特丽、诸母神与诸侍从众至上礼敬之所。结尾以护佑的赞颂(stuti)礼赞哈利–哈拉/湿婆为普遍之因,并劝人恒常忆念。
Verse 1
श्रीमार्कण्डेय उवाच । ततो मातृसहस्रैश्च रौद्रैश्च परिवारिता । कालरात्रिर्जगत्सर्वं हरते दीप्तलोचना
圣者摩尔甘德耶说道:随后,迦罗夜叉(Kālarātri)被成千上万凶猛的母神环绕,双目炽燃,开始攫取并卷走整个世界。
Verse 2
ततस्ता मातरो घोरा ब्रह्मविष्णुशिवात्मिकाः । वाय्विन्द्रानलकौबेरा यमतोयेशशक्तयः
随后,那些可怖的母神显现——具足梵天、毗湿奴与湿婆之力——并有风神伐由、天帝因陀罗、火神阿耆尼、财主俱毗罗、阎摩、主水的伐楼那以及伊沙之诸沙克蒂同来。
Verse 3
स्कन्दक्रोडनृसिंहानां विचरन्त्यो भयानकाः । चक्रशूलगदाखड्गवज्रशक्त्यृष्टिपट्टिशैः
她们游行时威怖非常——如同斯坎达、野猪化身婆罗诃与人狮那罗辛哈——手持轮、三叉戟、钉锤、剑、金刚雷、电矛、长枪与战斧。
Verse 4
खट्वाङ्गैरुल्मुकैर्दीप्तैर्व्यचरन्मातरः क्षये । उमासंनोदिता सर्वाः प्रधावन्त्यो दिशो दश
母神们挥舞着卡特万伽杖与炽燃的火炬,在毁灭之时奔走;受乌玛催动,她们齐齐冲出,疾驰向十方。
Verse 5
तासां चरणविक्षेपैर्हुङ्कारोद्गारनिस्वनैः । त्रैलोक्यमेतत्सकलं विप्रदग्धं समन्ततः
因她们踏足震地,又发出“吽迦罗”(huṃkāra)的咆哮与呼号,三界尽皆四面被灼烧。
Verse 6
हाहारवाक्रन्दितनिस्वनैश्च प्रभिन्नरथ्यागृहगोपुरैश्च । बभूव घोरा धरणी समन्तात्कपालकोशाकुलकर्बुराङ्गी
伴随“哈!哈!”的喧嚣与哀号,街巷、屋舍与门楼尽皆崩裂,大地四处变得可怖——地表斑驳,遍布成堆骷髅。
Verse 7
यदेतच्छतसाहस्रं जम्बूद्वीपं निगद्यते । सर्वमेव तदुच्छन्नं समाधृष्य नृपोत्तम
那被称为广达十万由旬的阎浮提(Jambūdvīpa),在四面受攻之时,尽皆被侵占而荒毁——噢,诸王之最。
Verse 8
जम्बुं शाकं कुशं क्रौञ्चं गोमेदं शाल्मलिस्तथा । पुष्करद्वीपसहिता ये च पर्वतवासिनः
瞻部、娑迦、俱舍、鸠槃遮、瞿摩陀、娑摩梨诸洲,连同补沙迦洲(Puṣkara-dvīpa),乃至山居之众,也都卷入那场劫难。
Verse 9
ते ग्रस्ता मृत्युना सर्वे भूतैर्मातृगणैस्तथा । महासुरकपालैश्च मांसमेदोवसोत्कटैः
他们全都被死亡攫住——被成群的部多(bhūta)与母神众(Mātṛgaṇa)所吞没;又有巨大的阿修罗骷髅,沾满血肉、脂膏与髓,令人战栗。
Verse 10
रुधिरोद्गारशोणाङ्गी महामाया सुभीषणा । पिबन्ती रुधिरं तत्र महामांसवसाप्रिया
在那里,至为可怖的大幻力女神摩诃摩耶——身躯因喷涌之血而殷红——饮啜鲜血,喜爱成堆的肉与脂膏。
Verse 11
कपालहस्ता विकटा भक्षयन्ती सुरासुरान् । नृत्यन्ती च हसन्ती च विपरीता महारवा
她手执骷髅,形貌狰狞,吞噬天神与阿修罗;又舞又笑,倒悬其身,发出震天的巨吼。
Verse 12
त्रैलोक्यसंत्रासकरी विद्युत्संस्फोटहासिनी । सप्तद्वीपसमुद्रान्तां भक्षयित्वा च मेदिनीम्
她令三界战栗,笑声如霹雳迸裂;纵然吞尽那由七洲与环绕大海所围的世界大地,仍未得满足。
Verse 13
ततः स्वस्थानमगमद्यत्र देवो महेश्वरः । नर्मदातीरमाश्रित्यावसन्मातृगणैः सह
随后她回到自己的安住之所——主大自在天摩诃伊湿伐罗所居之处——依止那尔摩陀河岸,与众母神同住。
Verse 14
अमराणां कटे तुङ्गे नृत्यन्ती हसितानना । अमरा देवताः प्रोक्ताः शरीरं कटमुच्यते
她在不死者的高耸“髋座”(kaṭa)之上起舞,面含微笑;所谓“阿摩罗”即诸天神,而“kaṭa”称为身体之髋部——由此以词源解释其名。
Verse 15
। अध्याय
章标题标记:“Adhyāya(章)”。
Verse 16
अमरंकट इत्येवं तेन प्रोक्तो मनीषिभिः । महापवित्रो लोकेषु शम्भुना स विनिर्मितः
因此,诸贤以此义理称其为“Amaraṃkaṭa(不死之峰)”。在诸世界中它最为净化,由圣主Śambhu亲自建立为圣地。
Verse 17
नित्यं संनिहितस्तत्र शङ्करो ह्युमया सह । ततोऽहं नियतस्तत्र तस्य पादाग्रसंस्थितः
圣主Śaṅkara恒常住于彼处,确与Umā同在。因此我亦安住其间,坚定守候,立于他双足之前端,恭敬侍奉。
Verse 18
प्रह्वः प्रणतभावेन स्तौमि तं नीललोहितम् । ततस्तालकसम्पातैर्गणैर्मातृगणैः सह
我俯伏以至诚恭顺之心,赞颂那位Nīlalohita(青赤之主,湿婆)。随后,与诸gaṇa及众母神(Mātṛ)之群相伴,喧腾汇聚而至。
Verse 19
संप्रनृत्यति संहृष्टो मृत्युना सह शङ्करः । खट्वाङ्गैरुल्मुकैश्चैव पट्टिशैः परिघैस्तथा
圣主Śaṅkara欢喜踊舞,与Mṛtyu(死神)同舞;其间又见khaṭvāṅga杖、燃烧火炬、战斧与铁棍等兵器。
Verse 20
मांसमेदोवसाहस्ता हृष्टा नृत्यन्ति संघशः । वामना जटिला मुण्डा लम्बग्रीवोष्ठमूर्द्धजाः
他们成群欢舞,双手涂满肉、脂与膏油——身形矮小,发结纠缠或剃光其首,颈项修长,唇突外露,头顶又生怪异的发簇。
Verse 21
महाशिश्नोदरभुजा नृत्यन्ति च हसन्ति च । विकृतैराननैर्घोरैरर्भुजोल्बणमुखादिभिः
他们具巨大的阳具、腹与臂,边舞边笑;面容扭曲而可怖,有的口如怪兽般巨大,另有种种骇人的形相。
Verse 22
अमरं कण्टकं चक्रुः प्राप्ते कालविपर्यये । तेषां मध्ये महाघोरं जगत्सन्त्रासकारणम्
当时序颠倒之际,诸天(阿摩罗)自身亦成荆棘,化为折磨之源;在他们中间显现出极其可怖之相,遂成遍世惊惧的根由。
Verse 23
मृत्युं पश्यामि नृत्यन्तं तडित्पिङ्गलमूर्द्धजम् । तस्य पार्श्वे स्थितां देवीं विमलाम्बरभूषिताम्
我见死亡自身起舞,发色如电光般黄褐;其旁立有一位女神,身披洁净无垢之衣而庄严。
Verse 24
कुण्डलोद्घुष्टगण्डां तां नागयज्ञोपवीतिनीम् । विचित्रैरुपहारैश्च पूजयन्तीं महेश्वरम्
那位女神——双颊因耳环而铿然作响,以蛇为祭线(圣绳)——正以奇妙多样的供品礼敬大自在天(摩诃伊湿伐罗)。
Verse 25
अपश्यं नर्मदां तत्र मातरं विश्ववन्दिताम् । नानातरङ्गां सावर्तां सुवेलार्णवसंनिभाम्
在那里,我见到那摩陀河——为普世所礼敬的圣母——波涛无量、旋涡纷起,宛如两岸高峻所环的浩瀚大海。
Verse 26
महासरःसरित्पातैरदृश्यां दृश्यरूपिणीम् । वन्द्यमानां सुरैः सिद्धैर्मुनिसङ्घैश्च भारत
婆罗多啊,她一时不可见——被大湖、诸河与飞瀑所遮蔽——却又以可见之相显现,因为诸天、悉达与众仙群起礼拜于她。
Verse 27
एतस्मिन्नन्तरे घोरां सप्तसप्तकसंज्ञिताम् । महावीच्यौघफेनाढ्यां कुर्वन्तीं सजलं जगत्
其间,忽起一可怖之相,名为“七七”:巨浪奔涌,泡沫翻腾,竟使整个世界化作一团汪洋。
Verse 28
दृष्टवान्नर्मदां देवीं मृगकृष्णाम्बरां पुनः । सधूमाशनिनिर्ह्रादैर्वहन्तीं सप्तधा तदा
我又见到女神那摩陀,披着幽黑的鹿皮;当时她分作七道洪流奔涌而出,伴随烟雾般的雷鸣与闪电的轰响。
Verse 29
इति संहारमतुलं दृष्टवान्राजसत्तम । नष्टचन्द्रार्ककिरणमभूदेतच्चराचरम्
于是,王中至上者啊,我目睹了无与伦比的毁灭:月与日的光芒尽皆消失,一切动与不动之物都沉入黑暗。
Verse 30
महोत्पातसमुद्भूतं नष्टनक्षत्रमण्डलम् । अलातचक्रवत्तूर्णमशेषं भ्रामयंस्ततः
巨大的凶兆骤然显现,群星之轮隐没无踪。随后万有无一遗漏,疾速旋转,如火炬之轮飞转不息。
Verse 31
विमानकोटिसंकीर्णः स किंनरमहोरगः । महावातः सनिर्घातो येनाकम्पच्चराचरम्
苍穹拥塞着无数天车(vimāna),其间有紧那罗与巨蛇环绕。狂风挟着雷霆轰响,震动一切有情与无情。
Verse 32
रुद्रवक्त्रात्समुद्भूतः संवर्तो नाम विश्रुतः । वायुः संशोषयामास विततन् सप्तसागरान्
自鲁陀罗之口生起那著名之风,名为“桑伐尔塔”(Saṃvarta)。它遍布四方,开始干涸七大海洋。
Verse 33
उद्धूलिताङ्गः कपिलाक्षमूर्द्धजो जटाकलापैरवबद्धमूर्द्धजः । महारवो दीप्तविशालशूलधृक्स पातु युष्मांश्च दिने दिने हरः
愿诃罗(Hara)日日护佑汝等:其身尘土飞覆,赤褐之发束成浓密髻缕;发出洪大咆哮,执持炽燃而巨大的三叉戟。
Verse 34
शूली धनुष्मान्कवची किरीटी श्मशानभस्मोक्षितसर्वगात्रः । कपालमालाकुलकण्ठनालो महाहिसूत्रैरवबद्धमौलिः
执三叉戟、持神弓,披甲戴冠;全身涂抹火葬场之灰。颈间缠绕骷髅花鬘,顶上以巨蛇为绳束缚其髻。
Verse 35
स गोनसौघैः परिवेष्टिताङ्गो विषाग्निचन्द्रामरसिन्धुमौलिः । पिनाकखण्टूवाङ्गकरालपाणिः स कृत्तिवासा डमरुप्रणादः
祂的肢体为群蛇所缠绕;其顶上具毒、火、月与天河圣流。祂可怖之手执持毗那迦弓与卡特瓦昂伽杖;身披兽皮,ḍamaru小鼓轰然作响。
Verse 36
स सप्तलोकान्तरनिःसृतात्मा महभुजावेष्टितसर्वगात्रः । नेत्रेण सूर्योदयसन्निभेन प्रवालकाङ्कूरनिभोदरेण
祂的本体仿佛穿越七界之间的空隙而奔涌而出;全身为伟力之臂所环覆。其一目如旭日初升,其腹如珊瑚新芽之萌发,显现于前。
Verse 37
सन्ध्याभ्ररक्तोत्पलपद्मरागसिन्दूरविद्युत्प्रकरारुणेन । ततेन लिङ्गेन च लोचनेन चिक्रीडमानः स युगान्तकाले
在劫末之时,祂嬉戏而行——其形体浸染如暮云、红莲、红宝、朱砂与电光之赤。并以其显现之林伽与其眼,纵情示现其神戏。
Verse 38
हिरण्मयेनैव समुत्सृजन् स दण्डेन यद्वद्भगवान् समेरुः । पादाग्रविक्षेपविशीर्णशैलः कुर्वञ्जगत्सोऽपि जगाम तत्र
祂挥舞金色之杖,宛如尊胜的须弥山自身而前行;其足尖一掷,群山崩裂。祂使世界震颤,亦就此迈步而往彼处。
Verse 39
संहर्तुकामस्त्रिदिवं त्वशेषं प्रमुञ्चमानो विकृताट्टहासम् । जहार सर्वं त्रिदिवं महात्मा संक्षोभयन्वै जगदीश एकः
欲尽灭诸天之界,祂放出可怖的大笑。那大灵之尊——宇宙唯一的主宰——攫取并震荡三重天界,使之动摇。
Verse 40
तं देवमीशानमजं वरेण्यं दृष्ट्वा जगत्संहरणं महेशम् । सा कालरात्रिः सह मातृभिश्च गणाश्च सर्वे शिवमर्चयन्ति
见到那位神——伊舍那,未生而最堪礼敬者;大自在天摩诃湿婆,能摄灭世界者——迦罗夜叉罗提与诸母神(Mātṛ)及一切侍从众(Gaṇa)同来礼拜湿婆。
Verse 41
नन्दी च भृङ्गी च गणादयश्च तं सर्वभूतं प्रणमन्ति देवम् । जागद्वरं सर्वजनस्य कारणं हरं स्मरारातिमहर्निशं ते
难提(Nandī)、婆陵祇(Bhṛṅgī)与诸侍从众(Gaṇa)向那位遍一切有情之神顶礼:哈罗(Hara),斯摩罗(Smara)之敌;为世间至上、为众生之因,你昼夜忆念于他。