Adhyaya 125
Avanti KhandaReva KhandaAdhyaya 125

Adhyaya 125

本章以对话展开:尤提士提罗询问,太阳神在世间清晰可见、为诸天所敬奉,为何仍被称为行苦行者(tapasvin),又如何获得“阿底提耶/婆斯迦罗”(Āditya/Bhāskara)的地位与名号。马尔坎德耶答复时转入宇宙论叙述:先是原初的黑暗,继而显现出炽然的神圣光明原则,并被描绘为具人格的临在,由此阐明其后续的宇宙运行与职能。 随后叙事回到那尔摩陀河岸的“拉维提尔塔”(Ravītīrtha)这一仪式圣地,说明太阳崇拜如何通过净浴(snāna)、供奉(pūjā)、持诵真言(mantra-japa)与绕行礼敬(pradakṣiṇā)而落实。经文持续强调“真言”是使仪式生效的关键条件,并以譬喻指出无真言之行如同徒劳无功。 章末列出若干时令与程序细节:转入点(saṅkrānti)、vyatīpāta、ayana、昼夜平分(viṣuva)、日月食、以及摩伽月第七日(Māgha saptamī),并附太阳十二名号的赞诵。功德颂(phalaśruti)宣说其果报:净除垢业、增益安康,并带来吉祥的社会与家庭成就。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । ततो गच्छेन्महीपाल रवितीर्थमनुत्तमम् । यत्र देवः सहस्रांशुस्तपस्तप्त्वा दिवं गतः

圣者马尔坎德耶说道:随后,噢国王,应前往无与伦比的罗毗圣渡(Ravi-tīrtha);在那里,千光之神萨哈斯拉姆舒(太阳)修行苦行(tapas),而登天界。

Verse 2

युधिष्ठिर उवाच । कथं देवो जगद्धाता सर्वदेवनमस्कृतः । तपस्तपति देवेशस्तापसो भास्करो रविः

尤提士提罗说道:为何那位主宰——世界的创造者、为诸天所礼敬者——即日神拉维·婆斯迦罗,诸神之主,却以苦行者之身修行苦行?

Verse 3

आराध्यः सर्वभूतानां सर्वदेवैश्च पूजितः । प्रत्यक्षो दृश्यते लोके सृष्टिसंहारकारकः

他为一切众生所应礼拜,亦为诸天所供奉;他在世间显然可见,作为成就创造与毁灭之因者。

Verse 4

आदित्यत्वं कथं प्राप्तः कथं भास्कर उच्यते । सर्वमेतत्समासेन कथयस्व ममानघ

他如何获得阿底提耶(Āditya)之位?又为何称为婆斯迦罗(Bhāskara)?无罪者啊,请为我略要宣说这一切。

Verse 5

मार्कण्डेय उवाच । महाप्रश्नो महाराज यस्त्वया परिपृच्छितः । तत्सर्वं सम्प्रवक्ष्यामि नमस्कृत्य स्वयम्भुवम्

马尔坎德耶说道:大王啊,你所问者乃大疑问、极其深奥。我将先礼敬自生主(Svayambhū),然后为你尽皆宣说。

Verse 6

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः

起初,此一切皆为黑暗——未显现、无可辨之相;不可思议、不可知,如同四方沉睡一般。

Verse 7

ततस्तेजश्च दिव्यं च तप्तपिण्डमनुत्तमम् । आकाशात्तु यथैवोल्का सृष्टिहेतोरधोमुखी

随后显现出一团神圣无上的炽烈光辉——如同自天而降的流星,俯向下方,作为创生之因。

Verse 8

तत्तेजसोऽन्तः पुरुषः संजातः सर्वभूषितः । स शिवोऽपाणिपादश्च येन सर्वमिदं ततम्

在那光辉之中,一位“人身”显现,具足一切庄严。祂即是湿婆——无手无足——由祂遍满此一切宇宙。

Verse 9

तस्योत्पन्नस्य भूतस्य तेजो रूपस्य भारत । पश्चात्प्रजापतिर्भूयः कालः कालान्तरेण वै

婆罗多啊,在那光形之有情显现之后,生主(Prajāpati)又复生出“时间”——确然在适当的间隔与应时之际。

Verse 10

अग्निर्जातः स भूतानां मनुष्यासुररक्षसाम् । सर्वदेवाधिदेवश्च आदित्यस्तेन चोच्यते

祂成为一切众生之火——在人类、阿修罗与罗刹之中皆然;又因祂为诸天之上主,故称为阿底提耶(Āditya),即太阳。

Verse 11

आदौ तस्य नमस्कारोऽन्येषां च तदनन्तरम् । क्रियते दैवतैः सर्वैस्तेन सर्वैर्महर्षिभिः

首先向祂致敬礼拜,其后方礼敬诸者;此礼由一切天神奉行,亦为一切大圣仙(ṛṣi)所行。

Verse 12

तिस्रः सन्ध्यास्त्रयो देवाः सांनिध्याः सूर्यमण्डले । नमस्कृतेन सूर्येण सर्वे देवा नमस्कृताः

三次昏晓交会与三位神明皆住于太阳之轮;礼敬太阳,即等同礼敬一切诸神。

Verse 13

न दिवा न भवेद्रात्रिः षण्मासा दक्षिणायनम् । अयनं चोत्तरं चापि भास्करेण विना नृप

大王啊,若无婆迦罗(太阳),则无昼无夜,亦无南行六个月的行程;连北行之道也不会存在。

Verse 14

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । न वर्तते विना सूर्यं तेन पूज्यतमो रविः

沐浴、布施、持诵、火供、诵习吠陀与礼拜诸天,若无太阳便难以圆满;故罗毗(太阳)最堪供奉。

Verse 15

शब्दगाः श्रुतिमुख्याश्च ब्रह्मविष्णुमहेश्वराः । प्रत्यक्षो भगवान्देवो दृश्यते लोकपावनः

梵天、毗湿奴与大自在天,凭圣音而知,并在吠陀中被宣为至上;而主宰以可见之神显现,亲现于目,净化诸世。

Verse 16

उत्पत्तिः प्रलयस्थानं निधानं बीजमव्ययम् । हेतुरेको जगन्नाथो नान्यो विद्येत भास्करात्

他是生起之源、归灭之所、宝藏、不可坏的种子;唯一的因,宇宙之主——除婆迦罗(太阳)外,别无可知。

Verse 17

एवमात्मभवं कृत्वा जगत्स्थावरजङ्गमम् । लोकानां तु हितार्थाय स्थापयेद्धर्मपद्धतिम्

如是由自身化生不动与动的世界,为众生之利益而建立正法之道与法度。

Verse 18

नर्मदातटमाश्रित्य स्थापयित्वात्मनस्तनुम् । सहस्रांशुं निधिं धाम्नां जगामाकाशमव्ययम्

依止那摩陀河岸,安立自身之形体于彼;继而千光之日神Sahasrāṁśu,光辉之宝藏,升入不坏的虚空。

Verse 19

तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । सहस्रकिरणं देवं नाममन्त्रविधानतः

凡于彼圣渡处沐浴后,依名号与真言之正仪礼敬至上主——千光之神Sahasrakiraṇa者,实为圆满如法之供奉。

Verse 20

तेन तप्तं हुतं तेन तेन सर्वमनुष्ठितम् । तेन सम्यग्विधानेन सम्प्राप्तं परमं पदम्

由此,如同已行苦行;由此,如同已作火供;由此,一切修持皆如已圆成。凭此正当仪轨,得至无上境界。

Verse 21

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । स्नात्वा ये नर्मदातोये देवं पश्यन्ति भास्करम्

彼等大心者诚为有福,其生实不虚度:凡于那摩陀之水沐浴后,得见日神Bhāskara者。

Verse 22

तथा देवस्य राजेन्द्र ये कुर्वन्ति प्रदक्षिणम् । अनन्यभक्त्या सततं त्रिरक्षरसमन्विताः

同样啊,诸王之最,凡以专一虔敬恒常绕行神祇作右绕(pradakṣiṇā),并伴随三音节真言者,皆安住于净化而成圣的修持之中。

Verse 23

तेन पूतशरीरास्ते मन्त्रेण गतपातकाः । यत्पुण्यं च भवेत्तेषां तदिहैकमनाः शृणु

由此修持,他们的身躯得以清净;由此真言,他们的罪垢消散。如今请以一心谛听:他们在此所得的功德为何。

Verse 24

ससमुद्रगुहा तेन सशैलवनकानना । प्रदक्षिणीकृता सर्वा पृथिवी नात्र संशयः

凭此一举,整个大地——连同海洋与洞窟,山岳、森林与林苑——都如同已被作了右绕(pradakṣiṇā);对此毫无疑惑。

Verse 25

मन्त्रमूलमिदं सर्वं त्रैलोक्यं सचराचरम् । तेन मन्त्रविहीनं तु कार्यं लोके न सिध्यति

这一切——三界之中,凡动与不动——皆以真言为根本。因此,离开真言的行为,在世间不能成就。

Verse 26

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । कार्यार्थं नैव सिध्येत तथा कर्म ह्यमन्त्रकम्

正如木制之象、皮革之鹿,不能成就实际之用;同样,缺少真言的行为,也不能真正成就其果。

Verse 27

भस्महुतं पार्थ यथा तोयविवर्जितम् । निष्फलं जायते दानं तथा मन्त्रविवर्जितम्

噢,帕尔塔啊,正如以灰作供而无水则成徒然;同样,布施若离于真言(mantra),亦成无果。

Verse 28

काष्ठपाषाणलोष्टेषु मृन्मयेषु विशेषतः । मन्त्रेण लोके पूजां तु कुर्वन्ति न ह्यमन्त्रतः

尤其是木、石、土块与泥塑之像,世人行供奉(pūjā)皆凭真言;确乎从不无真言而礼拜。

Verse 29

द्वादशाब्दान्नमस्काराद्भक्त्या यल्लभते फलम् । मन्त्रयुक्तनमस्कारात्सकृत्तल्लभते फलम्

以虔敬礼拜十二年所得之果报,以真言相随的一次顶礼,亦能获得同等之果。

Verse 30

संक्रान्तौ च व्यतीपाते अयने विषुवे तथा । नर्मदाया जले स्नात्वा यस्तु पूजयते रविम्

于转日(Saṅkrānti)、于维亚提帕塔(Vyatīpāta)、于至日与分日之时,凡在那尔玛达河水中沐浴后而礼敬太阳者……

Verse 31

द्वादशाब्देन यत्पापमज्ञानज्ञानसंचितम् । तत्क्षणान्नश्यते सर्वं वह्निना तु तुषं यथा

十二年所积之罪——或因无明,或明知而作——刹那尽灭,如糠秕为火所焚。

Verse 32

चन्द्रसूर्यग्रहे स्नात्वा सोपवासो जितेन्द्रियः । तत्रादित्यमुखं दृष्ट्वा मुच्यते सर्वकिल्बिषैः

在月食或日食之时沐浴,持斋克制诸根,并于彼处瞻仰阿底提耶(太阳神)之圣颜者,得以解脱一切罪垢。

Verse 33

माघमासे तु सम्प्राप्ते सप्तम्यां नृपसत्तम । सोपवासो जितक्रोध उषित्वा सूर्यमन्दिरे

当摩伽月来临之时,噫,诸王之最,于第七月日——持斋,降伏嗔怒,并住于太阳神殿中……

Verse 34

प्रातः स्नात्वा विधानेन ददात्यर्घं दिवाकरे । विधिना मन्त्रयुक्तेन स लभेत्पुण्यमुत्तमम्

黎明时依仪轨沐浴,并以合乎法度、伴随真言之仪向造昼者(苏利耶)奉献阿尔伽者,得获无上福德。

Verse 35

पितृदेवमनुष्याणां कृत्वा ह्युदकतर्पणम् । मन्दिरे देवदेवस्य ततः पूजां समाचरेत्

既以清水作塔尔帕那供养祖先、诸天与人众之后,应于“天中之天”之神殿中如法修行礼拜。

Verse 36

गन्धैः पुष्पैस्तथा धूपैर्दीपनैवेद्यशोभनैः । पूजयित्वा जगन्नाथं ततो मन्त्रमुदीरयेत्

以香料、花鬘、熏香、明灯与甘美供食供养世主阇甘那他(宇宙之主)之后,继而诵持真言。

Verse 37

विष्णुः शक्रो यमो धाता मित्रोऽथ वरुणस्तथा । विवस्वान्सविता पूषा चण्डांशुर्भर्ग एव च

“毗湿奴、释迦罗(因陀罗)、阎摩、达特利、密多罗与伐楼那;又有毗婆斯梵、萨维特利、普善、旃陀阿ṃśu与婆伽(Bharga)”—

Verse 38

इति द्वादशनामानि जपन्कृत्वा प्रदक्षिणाम् । यत्फलं लभते पार्थ तदिहैकमनाः शृणु

如是诵念这十二圣名,并行绕行礼敬(pradakṣiṇā)——噢,帕尔塔啊,请以一心谛听由此所得之果报。

Verse 39

दरिद्रो व्याधितो मूको बधिरो जड एव च । न भवेत्सप्त जन्मानि इत्येवं शङ्करोऽब्रवीत्

商羯罗宣说:“历经七世,彼不致贫穷、不染疾病、不为哑、不为聋,亦不愚钝。”

Verse 40

एवं ज्ञात्वा विधानेन जपन्मन्त्रं विचक्षणः । आराधयेद्रविं भक्त्या य इच्छेत्पुण्यमुत्तमम्

既知此理并依正法仪轨,明达之人当持诵此咒,并以虔敬(bhakti)礼拜罗毗(太阳神),若欲求无上福德。

Verse 41

मन्त्रहीनां तु यः कुर्याद्भक्तिं देवस्य भारत । स विडम्बति चात्मानं पशुकीटपतङ्गवत्

然而,噢婆罗多啊,若有人离开真言而行对神的奉爱,不过是自取讥笑——如兽、如虫、如飞蛾之类。

Verse 42

तत्र तीर्थे तु यः कश्चित्त्यजते देहमुत्तमम् । स गतस्तत्र देवैस्तु पूज्यमानो महर्षिभिः

在那圣洁的渡口,凡舍离其殊胜之身者,便被引至神圣天界,受诸天(deva)礼敬,并为大圣仙(ṛṣi)所尊崇。

Verse 43

स्वेच्छया सुचिरं कालमिह लोके नृपो भवेत्

凭其自愿,在此世间历经长久岁月,他将成为国王。

Verse 44

पुत्रपौत्रसमायुक्तो हस्त्यश्वरथसङ्कुलः । दासीदासशतोपेतो जायते विपुले कुले

他将生于显赫大族——具足子孙,周围簇拥着大象、骏马与战车,并有成百侍女与仆从随侍。

Verse 125

। अध्याय

本章终(adhyāya)。