Adhyaya 122
Avanti KhandaReva KhandaAdhyaya 122

Adhyaya 122

本章先由马尔坎ḍ耶指出一处名为“科-哈那斯瓦”(Ko-hanasva)的圣地(tīrtha),称其能涤罪除垢,并以救度之力“摧破死亡”的威势护佑信众。继而,尤提希提罗询问四姓(varṇa)的业责与起源,章中以宇宙生成之说回答:梵天(Brahmā)为本初因,由身体现喻而分职——婆罗门出于口,刹帝利出于臂,吠舍出于股,首陀罗出于足。 随后阐明伦理与人生轨范:居家者之法、学习与教授、守护祭火、行五大祭(pañca-yajña),以及晚年趋向林居与出离的理想;并对比刹帝利的治国护民之责与吠舍的农耕、营生及护畜之责。文中亦以其规范性口吻,呈现对首陀罗接触真言(mantra)与诸净礼(saṃskāra)的限制性说法。 后半以譬喻故事彰显无常与神护:一位博学婆罗门听见不祥之令“hanasva”,遭遇阎摩(Yama)及其随从,遂一边诵赞鲁陀罗的《百鲁陀罗赞》(Śatarudrīya)一边奔逃。其投奔一处林伽(liṅga)而力竭倒地,湿婆(Śiva)以护佑之语现身,驱散阎摩之众。此地遂以“科-哈那斯瓦”著名;章末宣说功德(phala):于此沐浴礼拜得如阿耆尼什多摩(Agniṣṭoma)之福;死于此处不见阎摩;并分别叙述火死、水死等之来世果报,终而复得富足归来。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । ततो गच्छेन्महीपाल कोहनस्वेति विश्रुतम् । सर्वपापहरं पुण्यं तीर्थं मृत्युविनाशनम्

圣马尔坎德亚(Śrī Mārkaṇḍeya)说道:“那么,国王啊,人们应该前往名为科哈纳斯瓦(Kohanasva)的圣地——它是神圣的,能消除一切罪恶,是能毁灭死亡的圣地。”

Verse 2

पुरा तत्र द्विजः कश्चिद्वेदवेदाङ्गपारगः । पत्नीपुत्रसुहृद्वर्गैः स्वकर्मनिरतोऽवसत्

从前,那里住着一位再生族,精通吠陀及其分支,与妻子、儿子和朋友圈住在一起,致力于履行自己的职责。

Verse 3

युधिष्ठिर उवाच । ब्राह्मणस्य तु यत्कर्म उत्पत्तिः क्षत्रियस्य तु । वैश्यस्यापि च शूद्रस्य तत्सर्वं कथयस्व मे

尤提希提罗说道:“请为我详尽宣说:婆罗门的本分,以及刹帝利的起源(与职责),并同样说明吠舍与首陀罗的一切。”

Verse 4

धर्मस्यार्हस्य कामस्य मोक्षस्य च परं विधिम् । निखिलं ज्ञातुमिच्छामि नान्यो वेत्ता मतिर्मम

“我愿彻底了知关于达摩、阿尔塔、迦摩与解脱(摩克沙)的至上法门;在我心中,别无他人如你这般通达,堪为我师。”

Verse 5

मार्कण्डेय उवाच । उत्पत्तिकारणं ब्रह्मा देवदेवः प्रकीर्तितः । प्रथमं सर्वभूतानां चराचरजगद्गुरुः

马尔坎德耶说道:“梵天被称颂为创生之因,为诸天之天;他是此动与不动世界中一切众生的最初导师。”

Verse 6

द्विजातयो मुखाज्जाताः क्षत्रिया बाहुयन्त्रतः । ऊरुप्रदेशाद्वैश्यास्तु शूद्राः पादेष्वथाभवन्

“二次生者(再生族)出自口;刹帝利出自臂;吠舍出自大腿之处;而首陀罗则由足而生。”

Verse 7

ततस्त्वन्ये पृथग्वर्णाः पृथग्धर्मान् समाचरन् । पर्यायेण समुत्पन्ना ह्यनुलोमविलोमतः

此后又有其他不同的阶类出现,各自奉行各自的法;他们依次而生,源于被称为顺序与逆序的结合(anuloma 与 viloma)。

Verse 8

तेषां धर्मं प्रवक्ष्यामि श्रुतिस्मृत्यर्थचोदितम् । येन सम्यक्कृतेनैव सर्वे यान्ति परां गतिम्

我将宣说他们的法(dharma),依《闻传》(Śruti)与《忆传》(Smṛti)之旨意所教;唯以如法奉行,众人皆得至上境界。

Verse 9

गतिर्ध्यानं विना भक्तैर्ब्राह्मणैः प्राप्यते नृप । अध्यापयन्यतो वेदान्वेदं वापि यथाविधि

大王啊,虔敬的婆罗门若无禅观(dhyāna)便不能得达高远之归趣;或以教授诸吠陀,或以如法研习吠陀而成就。

Verse 10

कुलजां रूपसम्पन्नां सर्वलक्षणलक्षिताम् । उद्वाहयेत्ततः पत्नीं गुरुणानुमते तदा

随后,在师长许可之下,应迎娶一位出自良族、容貌端丽、具足一切吉祥相的妻子。

Verse 11

ततः स्मार्तं विवाहाग्निं श्रौतं वा पूजयेत्क्रमात् । प्रतिग्रहधनो भूत्वा दम्भलोभविवर्जितः

其后,应依次恭敬供奉婚火:或依斯摩尔多(Smārta)之仪,或亦奉事施罗多(Śrauta)之火;以受施为生,而远离虚伪与贪欲。

Verse 12

पञ्चयज्ञविधानानि कारयेद्वै यथाविधि । वनं गच्छेत्ततः पश्चाद्द्वितीयाश्रमसेवनात्

应依规行持五大祭(pañca-yajña)之法;其后,圆满第二住期(āśrama)之后,当入林而行。

Verse 13

पुत्रेषु भार्यां निक्षिप्य सर्वसङ्गविवर्जितः । इष्टांल्लोकानवाप्नोति न चेह जायते पुनः

将妻子托付给儿子,远离一切执著者,得至所愿诸界,不再于此世复生。

Verse 14

क्षत्रियस्तु स्थितो राज्ये पालयित्वा वसुंधराम् । शश्वद्धर्ममनाश्चैव प्राप्नोति परमां गतिम्

然刹帝利安住王位,护持大地,恒以心住于法,便得至无上归趣。

Verse 15

वैश्यधर्मो न सन्देहः कृषिगोरक्षणे रतः । सत्यशौचसमोपेतो गच्छते स्वर्गमुत्तमम्

毗舍之法无疑在于勤于农耕与护牛;具足真实与清净者,得往至高天界。

Verse 16

न शूद्रस्य पृथग्धर्मो विहितः परमेष्ठिना । न मन्त्रो न च संस्कारो न विद्यापरिसेवनम्

对首陀罗而言,造物主帕拉梅什廷未另立别法:无吠陀真言诵持,无诸净礼(saṃskāra),亦无正式的圣学修习。

Verse 17

न शब्दविद्यासमयो देवताभ्यर्चनानि च । यथा जातेन सततं वर्तितव्यमहर्निशम्

亦无修习圣言之学的时机,亦无以吠陀仪轨礼敬诸神之事;唯当昼夜恒常,依其所生之位分而行。

Verse 18

स धर्मः सर्ववर्णानां पुरा सृष्टः स्वयम्भुवा । मन्त्रसंस्कारसम्पन्नास्त्रयो वर्णा द्विजातयः

那适用于一切种姓(varṇa)的法(dharma),早在古时即由自生者(Svayambhū)所制定。三种种姓因具足真言与诸般圣礼(saṃskāra),故称为“再生者”(dvija,二次生)。

Verse 19

तेषां मतमनादृत्य यदि वर्तेत कामतः । स मृतो जायते श्वा वै गतिरूर्ध्वा न विद्यते

若有人不敬其既定之法度,而随欲而行,则死后确会转生为犬;于彼无有上升之路,不能趋向更高境界。

Verse 20

न तेषां प्रेषणं नित्यं तेषां मतमनुस्मरन् । यशोभागी स्वधर्मस्थः स्वर्गभागी स जायते

不必常受其差遣;但能忆念其教诲,安住于自身之法(svadharma)者,便得共享美名,亦得共享天界之福。

Verse 21

एवं गुणगणाकीर्णोऽवसद्विप्रः स भारत । हनस्वेति हनस्वेति शृणोति वाक्यमीदृशम्

如是,噢婆罗多(Bhārata),那位婆罗门(brāhmaṇa)心为众多扰乱之相所充塞,便停留其处,听闻如此命令:“击之!击之!”

Verse 22

ततो निरीक्षते चोर्ध्वमधश्चैव दिशो दश । वेपमानः स भीतश्च प्रस्खलंश्च पदे पदे

于是他向上向下观望,又环顾十方。因恐惧而战栗,步步踉跄,处处失足。

Verse 23

शृङ्खलायुधहस्तैश्च पाशैश्चैव सुदारुणैः । वेष्टितं महिषारूढं नरं पश्यति मन्मुखम्

他在面前看见一人骑在水牛上,四周侍从手执锁链与兵刃,又持凶猛的套索;那不祥之影正面逼视着他。

Verse 24

कृष्णांजनचयप्रख्यं कृष्णाम्बरविभूषितम् । रक्ताक्षमायतभुजं सर्वलक्षणलक्षितम्

他黑如一堆黑色眼膏,身披黑衣;双目赤红,臂长而伸,具足一切可怖之相。

Verse 25

दृष्ट्वा तं तु समायान्तं निरीक्ष्यात्मानमात्मना । जपञ्जाप्यं च परमं शतरुद्रीयसंस्तवम्

见他逼近,婆罗门以内观自省,遂开始诵持至上真言——《沙多鲁德利耶》赞颂鲁陀罗之圣颂。

Verse 26

ततः प्रोवाच भगवान्यमः संयमनो महान् । शृणु वाक्यमतो ब्रह्मन्यमोऽहं सर्वजन्तुषु

随后,受敬的阎摩——伟大的制御之主——开口说道:“婆罗门啊,听我之言;于一切众生之中,我即阎摩,奉命而立的裁制者。”

Verse 27

संहरस्व महाभाग रुद्रजाप्यं सुदुर्भिदम् । येनाहं कालपाशैस्त्वां संयमामि गतव्यथः

“大福者啊,收摄那难以破除的鲁陀罗持诵吧;因其力你得离诸苦,而我以时之绳索将你制伏。”

Verse 28

तच्छ्रुत्वा निष्ठुरं वाक्यं यमस्य मुखनिर्गतम् । महाभयसमोपेतो ब्राह्मणः प्रपलायितः

听到阎摩口中吐出的严厉言辞,那位婆罗门被巨大恐惧所笼罩,转身逃离。

Verse 29

तस्य मार्गे गताः सर्वे यमेन सह किंकराः । तिष्ठ तिष्ठेति तं विप्रमूचुस्ते सोऽप्यधावत

阎摩与其众使者沿着他的路追赶而去;他们对那婆罗门喊道:“站住!站住!”可他仍疾奔不止。

Verse 30

त्वरमाणः परिश्रान्तो हा हतोऽहं दुरात्मभिः । रक्ष रक्ष महादेव शरणागतवत्सल

他急奔而疲惫,呼号道:“哀哉!我正被恶人所杀!护我,护我,哦摩诃提婆——怜爱归依者的慈悲主!”

Verse 31

एवमुक्त्वापतद्भूमौ लिङ्गमालिङ्ग्य भारत । गतसत्त्वः स विप्रेन्द्रः समाश्रित्य सुरेश्वरम्

说罢,婆罗多啊,那最尊贵的婆罗门倒伏于地,紧抱林伽;气力尽失之际,他归依于诸天之主。

Verse 32

तं दृष्ट्वा पतितं भूमौ देवदेवो महेश्वरः । को हनिष्यति माभैस्त्वं हुङ्कारमकरोत्तदा

见他倒在地上,摩诃湿伐罗——诸神之神——说道:“谁能伤你?莫要恐惧。”随即发出震彻的吽迦罗之声。

Verse 33

तेन ते किंकराः सर्वे यमेन सह भारत । हुङ्कारेण गताः सर्वे मेघा वातहता यथा

凭那一声“吽迦罗”(huṅkāra),噢婆罗多啊,所有随从连同阎摩都被驱散,如云被风吹散一般。

Verse 34

तदाप्रभृति तत्तीर्थं कोहनस्वेति विश्रुतम् । सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम्

自那时起,那处圣渡口便以“科哈那斯韦”(Kohanasve)闻名;它至圣,能除尽诸罪,于一切圣地(tīrtha)中无与伦比。

Verse 35

तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यनुत्तमम्

凡在那圣地(tīrtha)沐浴并礼敬至上主帕拉梅湿伐罗(Parameśvara)者,必得无上功德,即行阿耆尼什多摩(Agniṣṭoma)祭之果报。

Verse 36

तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । न पश्यति यमं देवमित्येवं शङ्करोऽब्रवीत्

噢诸王之王,凡在那圣地舍身者,不得见阎摩——死亡之神;这是商羯罗(Śaṅkara)所宣说的。

Verse 37

अग्निप्रवेशं यः कुर्याज्जले वा नृपसत्तम । अग्निलोके वसेत्तावद्यावत्कल्पशतत्रयम्

噢最胜之王,若有人投身于火,或投入水中,便将居于火神阿耆尼(Agni)之界,长达三百劫(kalpa)。

Verse 38

एवं वरुणलोकेऽपि वसित्वा कालमीप्सितम् । इह लोकमनुप्राप्तो महाधनपतिर्भवेत्

同样地,在伐楼那之界住满所愿之时日后,回到此世,便成为拥有巨财的大富主。

Verse 122

। अध्याय

本章终(章末题记标志)。