Adhyaya 120
Avanti KhandaReva KhandaAdhyaya 120

Adhyaya 120

本章以“甘布凯湿伐罗/甘布”为中心,讲述甘布圣渡(Kambu Tīrtha)的起源与功德。圣者马尔坎德耶叙述从希兰尼亚迦湿布到普罗诃罗陀,再经毗罗遮那、婆利、婆那、商婆罗,直至甘布的谱系;甘布虽为阿修罗,却在毗湿奴的宇宙大能前生起深切的存在之惧,并领悟与哈利为敌不可能带来长久安稳。 甘布遂在那尔摩陀河水边修行苦行:守持默语(mauna)、依律沐浴、简朴衣着与严谨戒行,并长久礼敬大自在天(摩诃提婆、湿婆)。湿婆欢喜赐福,同时阐明教义之限:在宇宙冲突中,无有任何存在——即便是湿婆——能够抹消毗湿奴的至上权能;对哈利的敌意不会结出恒常的福乐。 湿婆离去后,甘布在此建立一尊安宁、除病的湿婆形相,此地遂名“甘布圣渡”,被赞为能灭重大过失。章末以果报偈式宣说:于此沐浴礼拜,尤其以《梨俱》《夜柔》《娑摩》赞颂而修日神供养,其功德可比吠陀大祭;为祖先行供并礼敬伊沙那,可得如阿耆尼什托摩祭之果;若于此地舍身,则得往鲁陀罗界。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । अतः परं प्रवक्ष्यामि कम्बुकेश्वरमुत्तमम् । हिरण्यकशिपुर्दैत्यो दानवो बलदर्पितः

圣者马尔坎德耶说道:“现在我将宣说至上的甘布凯湿伐罗(Kambukeśvara)。曾有达那婆魔王希兰尼亚迦湿布,身为大阿修罗,恃力而骄,沉醉于力量之傲。”

Verse 2

अवध्यः सर्वलोकानां त्रिषु लोकेषु विश्रुतः । तस्य पुत्रो महातेजाः प्रह्लादो नाम नामतः

他在三界中以“无人能杀、不可战胜”而闻名。其子具大光明与灵性威德,名为普罗诃罗陀(Prahlāda)。

Verse 3

विष्णुप्रसादाद्भक्त्या च तस्य राज्ये प्रतिष्ठितः । विरोचनस्तस्य सुतस्तस्यापि बलिरेव च

凭借毗湿奴(Viṣṇu)的恩典与虔敬之力,他得以安住并巩固其王国。其子为毗罗遮那(Virocana),而毗罗遮那之子确是婆利(Bali)。

Verse 4

बलिपुत्रोऽभवद्बाणस्तस्मादपि च शम्बरः । शम्बरस्यान्वये जातः कम्बुर्नाम महासुरः

婆利(Bali)之子为婆那(Bāṇa);由他而出的是商跋罗(Śambara)。在商跋罗的族系中,诞生了一位名为甘布(Kambu)的伟大阿修罗。

Verse 5

ज्ञात्वा विष्णुमयं घोरं महद्भयमुपस्थितम् । दानवानां विनाशाय नान्यो हेतुः कदाचन

他觉知到一种可怖而巨大的危难已现,且充满毗湿奴(Viṣṇu)之神力;他明白:达那婆(Dānava)之覆灭,从来无他因,唯此神圣威能而已。

Verse 6

स त्यक्त्वा पुत्रदारांश्च सुहृद्बन्धुपरिग्रहान् । चचार मौनमास्थाय तपः कम्बुर्महामतिः

他舍弃了儿子与妻子,以及对亲友宗族的一切执著;大智坚决的甘布奉持圣默之誓,修行苦行之业。

Verse 7

अक्षसूत्रकरो भूत्वा दण्डी मुण्डी च मेखली । शाकयावकभक्षश्च वल्कलाजिनसंवृतः

他手持念珠之绳,执杖而行,剃发束带;以蔬菜与大麦为食,身披树皮衣与羚羊皮。

Verse 8

स्नात्वा नित्यं धृतिपरो नर्मदाजलमाश्रितः । पूजयंस्तु महादेवमर्बुदं वर्षसंख्यया

他日日沐浴,坚守定志,依止那尔摩陀河之水;以“阿尔布达”——无量岁数——持续礼敬大天(摩诃提婆)。

Verse 9

ततस्तुतोष भगवान्देवदेवो महेश्वरः । उवाच दानवं काले मेघगम्भीरया गिरा

于是,至福的主宰——众神之神摩醯湿伐罗——心生欢喜;在适当之时,他以如雷云般深沉的声音对那达那婆说道。

Verse 10

भोभोः कम्बो महाभाग तुष्टोऽहं तव सुव्रत । इष्टं व्रतानां परमं मौनं सर्वार्थसाधनम्

“嗟乎,嗟乎,甘布,福德之人!我喜悦于你善妙的誓行。在诸誓之中,至上的乃是圣默(mauna),能成就一切所求。”

Verse 11

चरितं च त्वया लोके देवदानवदुश्चरम् । वरं वृणीष्व भद्रं ते यत्ते मनसि रोचते

而你在世间成就了连诸天(Deva)与达那婆(Dānava)都难以完成的壮举。请选择一项恩赐——愿对你吉祥——随你心之所愿。

Verse 12

कम्बुरुवाच । यदि प्रसन्नो देवेश यदि देयो वरो मम । अक्षय्यश्चाव्ययश्चैव स्वेच्छया विचराम्यहम्

甘布说道:“若你欢喜,诸神之主啊,若要赐我恩愿——愿我不朽不坏、永不衰败,并能随己意自在游行。”

Verse 13

दैत्यदानवसङ्घानां संयुगेष्वपलायिता । भयं चान्यन्न विद्येत मुक्त्वा देवं गदाधरम्

在与达底耶(Daitya)与达那婆(Dānava)诸军交战之时,愿我永不退逃。并愿我别无所惧——唯惧那执持神杵(钵罗)的持杖之神。

Verse 14

तस्याहं संयुगे साध्यो येनोपायेन शङ्कर । भवामि न सदा कालं तं वदस्व वरं मम

以何种方法,哦商羯罗(Śaṅkara),他才能在战斗中制伏我?请告诉我这点,使我不至于时时受制于他——这便是我所求之愿。

Verse 15

ईश्वर उवाच । मम संनिहितो यत्र त्वं भविष्यसि दानव । तत्र विष्णुभयं नास्ति वसात्र विगतज्वरः

自在天(Īśvara)说道:“达那婆啊,无论你居于何处,只要我临近相伴,彼处便无对毗湿奴(Viṣṇu)的恐惧。住在那里,远离忧恼。”

Verse 16

तस्य देवाधिदेवस्य वेदगर्भस्य संयुगे । शङ्खचक्रधरस्येशा नाहं सर्वे सुरासुराः

在与那位诸神之上的神交战时——毗湿奴,吠陀之胎,执螺与轮者——即便是我,乃至一切天神与阿修罗合力,也并非他的主宰。

Verse 17

किं पुनर्यो द्विषत्येनं लोकालोकप्रभुं हरिम् । स सुखी वर्तते कालं न निमेषं मतं मम

那么,憎恨哈利——显与不显诸界之主——的人又当如何?依我之见,此人连一瞬也不能安乐。

Verse 18

तस्मात्त्वं परया भक्त्या सर्वभूतहिते रतः । वसिष्यसि चिरं कालमित्युक्त्वादर्शनं गतः

“因此,你当以至上的奉爱(bhakti),恒常致力于一切众生之利,必得长寿。”言毕,神祇遂隐没不见。

Verse 19

गते चादर्शनं देवे तत्र तीर्थे महामतिः । स्थापयामास देवेशं शिवं शान्तमनामयम्

当神祇隐没不见后,那位大智者就在那处圣渡(tīrtha)安立湿婆——诸神之主——寂静安宁、无有病苦。

Verse 20

तस्मिंस्तीर्थे महादेवं स्थापयित्वा दिवं गतः । तदाप्रभृति तत्पार्थ कम्बुतीर्थमिति श्रुतम् । विख्यातं सर्वलोकेषु महापातकनाशनम्

在那圣渡安立大天(Mahādeva)之后,他便升往天界。自此以来,哦,帕尔塔,此处被称为“甘布圣渡(Kambu-tīrtha)”,名闻诸界,能灭除重罪。

Verse 21

कम्बुतीर्थे नरः स्नात्वा विधिनाभ्यर्च्य भास्करम् । ऋग्यजुःसाममन्त्रैश्च स्तूयमानो नृपोत्तम

大王中之最:凡人在甘布圣渡(Kambu-tīrtha)沐浴,并依正法仪轨礼敬日神婆娑迦罗(Bhāskara),又以《梨俱》《夜柔》《娑摩》诸咒赞颂者,必得广大功德。

Verse 22

तस्य पुण्यं समुद्दिष्टं ब्राह्मणैर्वेदपारगैः । तत्सर्वं तु शृणुष्वाद्य ममैव गदतो नृप

其功德已由通达吠陀的婆罗门诸贤宣说。大王啊,今日请听我亲自为你详述这一切。

Verse 23

ऋग्यजुःसामगीतेषु साङ्गोपाङ्गेषु यत्फलम् । तत्फलं समवाप्नोति गायत्रीमात्रमन्त्रवित्

凡诵持《梨俱》《夜柔》《娑摩》诸歌咏,并具其支分与附属法门所得之果报,知晓唯独伽雅特丽(Gāyatrī)一咒者,亦能获得同等之果。

Verse 24

तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । पूजयेद्देवमीशानं सोऽग्निष्टोमफलं लभेत्

凡在彼圣渡沐浴,向祖灵(Pitṛ)与诸天奉献塔尔帕那(tarpaṇa),并礼敬主宰伊沙那(Īśāna)者,即得阿耆尼什多摩(Agniṣṭoma)祭之果报。

Verse 25

अकामो वा सकामो वा तत्र तीर्थे कलेवरम् । यस्त्यजेन्नात्र सन्देहो रुद्रलोकं स गच्छति

无欲者亦好,有欲者亦然;凡在彼圣渡舍身者——对此毫无疑虑——必往鲁陀罗(Rudra)之界。

Verse 120

। अध्याय

“章”(卷末题记/段落标记,表示本章结束或转入下一章)。