
本章以问答式的神学对谈展开:由坚战(Yudhiṣṭhira)询问那摩陀河(Narmadā)南岸“因陀罗渡口”(Indratīrtha)的起源,圣者摩尔甘德耶(Mārkaṇḍeya)则讲述一则古老的史传(itihāsa)。故事聚焦于因陀罗在诛杀弗利陀罗(Vṛtra)之后的遭遇:沉重的“梵杀罪”(brahmahatyā)如影随形,纵使他遍历诸多圣水与朝圣地,也难以仅凭寻常的巡礼而得解脱,显明深重过失之果报非易消除。 因陀罗遂行严峻苦行(tapas)——斋戒、克己与长久修持——仍迟迟不得安宁,直至诸天集会,梵天(Brahmā)将其罪分为四分,分配于不同众类与社会职分(包括水、地、妇女及诸职业领域),以神话方式解释若干仪轨与禁忌的由来。在那摩陀河畔,因陀罗礼敬大自在天(Mahādeva,湿婆);湿婆欢喜赐愿。因陀罗祈求神圣常住于此,于是建立“因陀罗渡口”,使沐浴、施行祭祖供养(tarpaṇa)与礼拜至上主(Parameśvara)皆能得清净,并获如大祭(yajña)般的殊胜功德。章末以果报偈(phalaśruti)明示:即便重罪之人,亦可因在此沐浴礼拜而脱罪;聆听此“圣地功德”(māhātmya)本身亦具净化之力。
Verse 1
। श्रीमार्कण्डेय उवाच । ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । इन्द्रतीर्थेतिविख्यातं नर्मदादक्षिणे तटे
圣者马尔坎德耶说道:“于是,王中之王啊,应前往一处极其庄严殊胜的圣地(tīrtha),名闻为因陀罗圣地(Indratīrtha),在那尔摩达河(Narmadā)南岸。”
Verse 2
युधिष्ठिर उवाच । नर्मदादक्षिणे कूले इन्द्रतीर्थं कथं भवेत् । श्रोतुमिच्छामि विप्रेन्द्र ह्यादिमध्यान्तविस्तरैः
尤提希提罗说道:“那尔摩达河(Narmadā)南岸的因陀罗圣地(Indratīrtha)是如何形成的?婆罗门中最尊者啊,我愿详闻其事——自始至中,直至终末。”
Verse 3
एतच्छ्रुत्वा तु वचनं धर्मपुत्रस्य धीमतः । कथयामास तद्वत्तमितिहासं पुरातनम्
听罢这位智者、法之子(尤提希提罗)的话,他便如实叙述了一则古老的传说史诗(itihāsa),依其本来经过而说。
Verse 4
श्रीमार्कण्डेय उवाच । विश्वासयित्वा सुचिरं धर्मशत्रुं महाबलम् । वृत्रं जित्वाथ हत्वा तु गच्छमानं शचीपतिम्
圣者马尔坎德耶说道:“他久而久之取得了诸天强敌弗栗陀罗(Vṛtra)的信任;随后征服并将其诛灭。因陀罗——舍契之主(Śacīpati)——便踏上行程。”
Verse 5
निष्क्राममाणं मार्गेण ब्रह्महत्या दुरासदा । अहोरात्रमविश्रान्ता जगाम भुवनत्रयम्
当他沿路离去时,那可怖而难以摆脱的杀婆罗门之罪——梵杀罪(Brahmahatyā)——昼夜不息地追逐着他,穿行于三界之中。
Verse 6
यतोयतो ब्रह्महणं याति यानेन शोभनम् । दिशो भागं सुरैः सार्द्धं ततो हत्या न मुञ्चति
无论那杀婆罗门者乘着华美战车往何处去——与诸天同至十方界域——“婆罗门杀罪”(Brahmahatyā)都不从彼处离开他。
Verse 7
ब्रह्महत्या सुरापानं स्तेयं गुर्वगनागमः । पातकानां गतिर्दृष्टा न तु विश्वासघातिनाम्
对于婆罗门杀罪、饮酒、盗窃、侵犯师床等罪业,人们已见有赎罪之途;唯独背信弃义者,却不见其解脱之路。
Verse 8
पापकर्ममुखं दृष्ट्वा स्नानदानैर्विशुध्यति । नारी वा पुरुषो वापि नैव विश्वासघातिनः
见到罪业显现之“面”,人可由沐浴与布施而得清净;然而无论女子或男子,背信之人却不能因此而净化。
Verse 9
एवमादीनि चान्यानि श्रुत्वा वाक्यानि देवराट् । वचनं तद्विधैरुक्तं विषादमगमत्परम्
天帝听闻诸如此类的许多言辞,又被那些如此陈说者所告诫,便陷入极深的忧惘。
Verse 10
त्यक्त्वा राज्यं सुरैः सार्धं जगाम तप उत्तमम् । पुत्रदारगृहं राज्यं वसूनि विविधानि च
他舍弃王国——并与诸天同往——前去修行无上苦行(tapas),抛下儿子、妻室、家宅、王权与种种财宝。
Verse 11
फलान्येतानि धर्मस्य शोभयन्ति जनेश्वरम् । फलं धर्मस्य भुञ्जेति सुहृत्स्वजनबान्धवाः
这些是法(dharma)显现的果报,装点着人间的君王;人们说:“他享受法之果。”——他的朋友、亲族与眷属皆如此称赞他。
Verse 12
पश्यतां सर्वमेतेषां पापमेकेन भुज्यते । परं हि सुखमुत्सृज्य कर्शयन्वै कलेवरम्
纵使众人都在旁观,罪业却由一人独自承担;因为舍弃了至上的安乐,他确实在苦担之下消磨其身。
Verse 13
देवराजो जगामासौ तीर्थान्यायतनानि च । गङ्गातीर्थेषु सर्वेषु यामुनेषु तथैव च
天帝因陀罗出行,前往诸圣地渡口(tīrtha)与神圣的道场;他遍礼恒河的一切圣地,也同样遍礼亚穆纳河的诸圣地。
Verse 14
सारस्वतेषु सर्वेषु सामुद्रेषु पृथक्पृथक् । नदीषु देवखातेषु तडागेषु सरःसु च
他又遍至萨拉斯瓦蒂的一切圣地渡口,并逐一礼拜海滨的诸圣处;也到诸河流、天造的水渠与蓄水池,以及池塘与湖泊。
Verse 15
पापं न मुञ्चते सर्वे पश्चाद्देवसमागमे । रेवाप्रभवतीर्थेषु कूलयोरुभयोरपि
然而此后,那些圣地无一能使他脱离罪垢,即便在诸神集会之后亦然——直到(他来到)由瑞瓦河所生的诸圣地,在她两岸之上。
Verse 16
पूजयन्वै महादेवं स्कन्दतीर्थं समासदत् । तव स्थित्वोपवासैश्च कृच्छ्रचान्द्रायणादिभिः
他崇拜摩诃提婆(Mahadeva),来到了斯坎达圣地(Skanda-tirtha);并在那里停留,进行了克里查(Krichra)和钱德拉亚纳(Chandrayana)等苦行和禁食。
Verse 17
कर्शयन्वै स्वकं देहं न लेभे शर्म वै क्वचित् । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः
他折磨自己的肉体,从未寻得片刻安逸:夏日里他置身于五火之中,雨季时则卧于裸露的大地之上。
Verse 18
आर्द्रवासास्तु हेमन्ते चचार विपुलं तपः । एवं तु तपतस्तस्य इन्द्रस्य विदितात्मनः
冬日里,他身着湿衣,修习极大的苦行。就这样,深谙自性真知的因陀罗(Indra)持续着他的苦修,
Verse 19
वत्सराणां सहस्राणि गतानि दश भारत । ततस्त्वेकादशे प्राप्ते वर्षे तु नृपसत्तम
婆罗多(Bharata)啊,一万年过去了。接着,当第十一年到来时,众王之首啊,
Verse 20
सहसा भगवान्देवस्तु तुतोष परमेश्वरः । तथा ब्रह्मर्षयः सिद्धा ब्रह्मविष्णुपुरोगमाः
突然,世尊、至高无上的神感到喜悦;梵仙(Brahmarshis)和成就者(Siddhas)——以梵天和毗湿奴为首——也同样感到满意。
Verse 21
तत्राजग्मुः सुराः सर्वे यत्र देवः शतक्रतुः । दृष्ट्वा समागतान् देवानृषींश्चैव महामतिः
于是诸天众神都来到天神沙塔克拉图(因陀罗)所在之处。见诸神与诸圣仙(ṛṣi)齐集,那位大心者(因陀罗)
Verse 22
उवाच प्रणतो भूत्वा सर्वदेवपुरोहितः । विदितं सर्वमेतेषां यथा वृत्रवधः कृतः
于是诸天的总祭司俯首恭敬而说道:“这一切他们都已知晓——弗栗陀罗(Vṛtra)是如何被诛灭的。”
Verse 23
युष्माकं चाज्ञया पूर्वं ब्रह्मविष्णुमहेश्वराः । तथाप्येवं ब्रह्महणं मत्वा पापस्य कारिणम्
“纵然此事先前是奉你们之命而行——噢,梵天、毗湿奴与大自在天(Maheśvara)——世间仍视他为杀婆罗门者,认为他造下罪业。”
Verse 24
भ्रमन्तं सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति । न नन्दति जगत्सर्वं त्रैलोक्यं सचराचरम्
“纵使他遍游一切圣地渡口(tīrtha),婆罗门杀罪(brahmahatyā)亦不放过他;而整个世界——三界之中一切动与不动者——都不得欢喜(于他)。”
Verse 25
यथा विहीनचन्द्रार्कं तथा राज्यमनायकम् । तस्मात्सर्वे सुरश्रेष्ठा विज्ञाप्यं मम सम्प्रति
“正如世界若失月与日一般,国度若无领袖亦复如是。故而,噢诸天中最尊胜者,请此刻垂听我迫切的陈请。”
Verse 26
कुर्वन्तु शक्रं निर्दोषं तथा सर्वे महर्षयः । बृहस्पतिमुखोद्गीर्णं श्रुत्वा तद्वचनं शुभम्
诸大圣仙听闻从布里哈斯帕提口中所出之吉祥言辞,便同心决议:“当使释迦(因陀罗)无过无咎。”
Verse 27
ततः प्रोवाच भगवान्ब्रह्मा लोकपितामहः । एतत्पापं महाघोरं ब्रह्महत्यासमुद्भवम्
于是,世间之祖、圣者梵天开口说道:“此罪极其可怖,乃由梵杀(brahmahatyā)而生。”
Verse 28
दैवतेभ्योऽथ भूतेभ्यश्चतुर्भागं क्षिपाम्यहम् । एवं मुक्त्वा क्षिपच्चैनो जलोपरि महामतिः
“我将把此重担的四分之一投于诸天与众生。”如是宣告后,那位大智者便将罪垢抛向水界之上。
Verse 29
अवगाह्य ततः पेया आपो वै नान्यथा बुधैः । धरायामक्षिपद्भागं द्वितीयं पद्मसंभवः
因此智者宣说:水实应当用以沐浴与饮用,不可作他用。随后,莲华所生者将第二份投于大地。
Verse 30
अभक्ष्या तेन संजाता सदाकालं वसुंधरा । तदार्धमर्द्धं नारीणां द्वितीयेऽह्नि युधिष्ठिर
由此一份,大地自此恒常地使其出产并非全然可食、全然清净;而其中一半,又在第二日落于妇女之身,噢,坚战(Yudhiṣṭhira)。
Verse 31
निक्षिप्य भगवान्देवः पुनरन्यज्जगाद ह । असंग्राह्या त्वसंग्राह्या तेन जाता रजस्वला
将其掷下之后,至福的神又说道:“因此她成了不可触、不可受纳之人,实不可亲近;因为她成为 rajasvalā,处于月经之相。”
Verse 32
चतुर्दिनानि सा प्राज्ञैः पापस्य महतो महात् । चतुर्थं तु ततो भागं विभज्य परमेश्वरः
智者说,她在四日之中承受那巨大罪业的重大份额。随后,至上主将其分割,并且也分配了第四份。
Verse 33
कृषिगोरक्ष्यवाणिज्यैः शूद्रसेवाकरे द्विजे । ततोऽभिनन्दयामासुः सर्वे देवा महर्षयः
当一位“再生者”(两次出生者)从事农耕、护牛与贸易,并且也为首陀罗行役之时,诸天与大圣仙众皆欢然称许。
Verse 34
देवेन्द्रं वाग्भिरिष्टाभिर्नर्मदाजलसंस्थितम् । वरेण छन्दयामास ततस्तुष्टो महेश्वरः
因陀罗立于那尔摩陀河水之中,听闻挚爱的赞颂之辞而心生欢喜;于是大自在天摩醯首罗欣然赐予他一项恩愿。
Verse 35
वरं दास्यामि देवेश वरं वृणु यथेप्सितम्
“诸天之主啊,我将赐你一愿;随你所欲,择取所求之愿。”
Verse 36
इन्द्र उवाच । यदि तुष्टोऽसि देवेश यदि देयो वरो मम । अत्र संस्थापयिष्यामि सदा संनिहितो भव
因陀罗说道:“若你欢喜,噢诸天之主;若应赐我恩愿——我将在此安立你;愿你恒常住此,永远亲临不离。”
Verse 37
एवमस्त्विति चोक्त्वा तं ब्रह्मविष्णुमहेश्वराः । जग्मुराकाशमाविश्य स्तूयमाना महर्षिभिः
对他说“如是成就”之后,梵天、毗湿奴与大自在天进入虚空而离去;诸大圣仙仍不断赞颂他们。
Verse 38
गतेषु देवदेवेषु देवराजः शतक्रतुः । स्थापयित्वा महादेवं जगाम त्रिदशालयम्
诸神之神离去之后,天帝因陀罗——百祭之主(沙塔克拉图)——在彼处安立大天(摩诃提婆),遂往三十天众之居所。
Verse 39
इन्द्रतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः । महापातकयुक्तोऽपि मुच्यते सर्वपातकैः
凡在因陀罗圣渡(Indratīrtha)沐浴,并向祖灵(Pitṛ)与诸天奉献塔尔帕那(tarpaṇa)者——纵使负有重罪——亦得解脱一切罪垢。
Verse 40
इन्द्रतीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । सोऽश्वमेधस्य यज्ञस्य पुष्कलं फलमश्नुते
凡在因陀罗圣渡沐浴并礼敬至上自在主(Parameśvara)者,得获广大功德——圆满成就马祭(Aśvamedha)之果报。
Verse 41
एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । श्रुतमात्रेण येनैव मुच्यन्ते पातकैर्नराः
我已为你详尽宣说此圣地(tīrtha)至上的功德;仅仅听闻,众人便能从罪业中解脱。