Adhyaya 11
Avanti KhandaReva KhandaAdhyaya 11

Adhyaya 11

第十一章以对话展开:由提湿陀罗询问,何以在劫末般的动荡中,某些圣行与圣地仍具灵验之力;诸仙又如何依循尼耶摩(戒律与修持规约)而得解脱。马尔坎德耶答曰:首要在于“室罗陀”(śraddhā,信心与虔诚);无信则诸仪轨被说为无果,有信则凭多生累积之福德,方能成就对商羯罗(湿婆)的真挚奉爱。 继而本章着重赞叹那尔摩陀河岸(瑞瓦河畔)为速得悉地之处:礼敬湿婆,尤以林伽供奉为要;常行沐浴,并涂抹圣灰(bhasma),皆被称为迅速涤罪之法,纵使往昔德行有亏者亦能蒙净化。随后提出严正的伦理警示:不可依赖不当之食,尤其在“清净”规范话语中所称的“首陀罗之食”(śūdrānna)一类;饮食与业报相系,足致灵性退堕。 经文又对比与帕修帕塔(Pāśupata)精神相应的真诚持守,与伪善、贪欲、炫耀之行,指出此等过失足以消减乃至抵销圣地之利益。后段如训诫颂赞(语境中归于难陀因)劝人舍贪,恒住湿婆之奉爱,持诵五字真言(pañcākṣarī),并依凭瑞瓦之神圣。章末宣说持诵与诵读之功德:在那尔摩陀河畔诵《鲁陀罗章》、吠陀文句与《往世书》,并以纪律修行,可得清净与更高归趣;又以劫末大旱之事,描绘诸仙归依那尔摩陀河岸,重申瑞瓦为常住庇护之所、为“诸河之最”,应当奉事以求究竟安乐。

Shlokas

Verse 1

युधिष्ठिर उवाच । अहो महत्पुण्यतमा विशिष्टा क्षयं न याता इह या युगान्ते । तस्मात्सदा सेव्यतमा मुनीन्द्रैर्ध्यानार्चनस्नानपरायणैश्च

由提湿提罗说:啊!此处(此法)最具功德而殊胜,因为即使在劫末也不毁坏。因此,它恒为大牟尼所最应依止——专注于禅观、礼拜与圣浴者。

Verse 2

यामाश्रित्य गता मोक्षमृषयो धर्मवत्सलाः । ये त्वयोक्तास्तु नियमा ऋषीणां वेदनिर्मिताः

依止于此,爱护正法的诸仙得至解脱;而你所说的那些戒律——圣贤之“尼耶摩”,由吠陀所建立——

Verse 3

मोक्षावाप्तिर्भवेद्येषां नियमैश्च पृथग्विधैः । दशद्वादशभिर्वापि षड्भिरष्टाभिरेव वा

对奉行种种戒行者而言,得解脱便成为可能——或以十种,或以十二种,乃至以六种或八种(行持)。

Verse 4

त्रिभिस्तथा चतुर्भिर्वा वर्षैर्मासैस्तथैव च । मुच्यन्ते कलिदोषैस्ते देवेशानसमर्चनात्

或三年、或四年——乃至同样在数月之内——他们因礼敬伊舍那、诸天之主,而得脱离迦梨时代的过失与染污。

Verse 5

ब्रह्माणं वा सुरश्रेष्ठ केशवं वा जगद्गुरुम् । अर्चयन्पापमखिलं जहात्येव न संशयः

噢,诸天中最胜者:礼敬梵天,或礼敬世间之师凯沙瓦,必能尽弃一切罪垢;对此毫无疑惑。

Verse 6

एतद्विस्तरतः सर्वं कथयस्व ममानघ । यस्मिन्संसारगहने निमग्नाः सर्वजन्तवः । ते कथं त्रिदिवं प्राप्ता इति मे संशयो वद

请你为我详尽开示这一切,噢无垢者。众生皆沉没于轮回的稠密丛林之中,他们如何得至天界?请告知我——此乃我之疑惑。

Verse 7

श्रीमार्कण्डेय उवाच । जन्मान्तरैरनेकैस्तु मानुष्यमुपलभ्यते । भक्तिरुत्पद्यते चात्र कथंचिदपि शङ्करे

圣者马尔坎德耶说道:历经无数生死,方得人身;而在此世间,不知何故,对商羯罗(湿婆)的虔敬亦会生起。

Verse 8

तीर्थदानोपवासानां यज्ञैर्देवद्विजार्चनैः । अवाप्तिर्जायते पुंसां श्रद्धया परया नृप

大王啊,朝圣、布施、斋戒、祭祀(耶祭)以及礼敬诸天与婆罗门之真实功德与果报,唯由至上信心(室罗陀,śraddhā)方能在众人中生起。

Verse 9

तस्माच्छ्रद्धा प्रकर्तव्या मानवैर्धर्मवत्सलैः । ईशोऽपि श्रद्धया साध्यस्तेन श्रद्धा विशिष्यते

因此,爱护正法之人当修习信心;因为连主宰亦由信心而得——故信心最为殊胜。

Verse 10

अन्यथा निष्फलं सर्वं श्रद्धाहीनं तु भारत । तस्मात्समाश्रयेद्भक्तिं रुद्रस्य परमेष्ठिनः

否则,噢婆罗多啊,一切若无信心而行,皆成无果。因此应归依对鲁陀罗——至上主宰——的虔敬。

Verse 11

। अध्याय

章节标记:“Adhyāya”(章)。

Verse 12

तामसी सर्वलोकस्य त्रिविधं च फलं लभेत् । ते कर्मफलसंयोगादावर्तन्ते पुनःपुनः

由于昏暗(tāmasic)的性情,世间众生获得三重果报;又因与业果相系,便一再轮转、反复归来。

Verse 13

जन्मान्तरशतैस्तेषां ज्ञानिनां देवयाजिनाम् । देवत्रये भवेद्भक्तिः क्षयात्पापस्य कर्मणः

对于那些礼敬诸天的智者,历经百百生后,当罪业消尽之时,便生起对三神之组的虔敬。

Verse 14

ईशानात्तु पुनर्मोक्षो जायते छिन्नसंशयः । ये पुनर्नर्मदातीरमाश्रित्य द्विजपुंगवाः

然而,从伊沙那(湿婆)确能得解脱,此事无疑。至于那些依止那尔摩达河岸的最胜二次生者(婆罗门)……

Verse 15

त्रयीमार्गमसन्दिग्धास्ते यान्ति परमां गतिम् । एकाग्रमनसो ये तु शङ्करं शिवमव्ययम्

凡于三吠陀之道坚信不疑者,得至最高境界;而诸心念专一、凝注于商羯罗——不坏之湿婆者……

Verse 16

अर्चयन्तीह निरताः क्षिप्रं सिध्यन्ति ते जनाः । कालेन महता सिद्धिर्जायतेऽन्यत्र देहिनाम्

于此处专勤礼拜者,速得成就;在他方,具身众生唯经久时方能得成就。

Verse 17

नर्मदायाः पुनस्तीरे क्षिप्रं सिद्धिरवाप्यते । षड्भिर्वर्षैस्तु सिध्यन्ति ये तु सांख्यविदो जनाः

在那尔摩陀河的彼岸,成就迅速可得;即便通达数论(Sāṃkhya)之人,亦能于六年之内臻于圆满。

Verse 18

वैष्णवा ज्ञानसम्पन्नास्तेऽपि सिध्यन्ति चाग्रतः । सर्वयोगविदो ये च समुद्रमिव सिन्धवः

具足正知之毗湿奴信众(Vaiṣṇava),亦在彼处先得圆成;又诸通达一切瑜伽者,如众流归海,亦同证圆满。

Verse 19

एकीभवन्ति कल्पान्ते योगे माहेश्वरे गताः । सर्वेषामेव योगानां योगो माहेश्वरो वरः

入于摩醯湿伐罗瑜伽(Māheśvara Yoga)者,于劫尽之时与至上合一。于诸瑜伽之道中,摩醯湿伐罗瑜伽被宣说为最胜。

Verse 20

तमासाद्य विमुच्यन्ते येऽपि स्युः पापयोनयः । शिवमर्च्य नदीकूले जायन्ते ते न योनिषु

抵达那圣地(亲近湿婆)者,即便出自罪业之生,也得解脱。于河岸礼敬湿婆之后,便不再受寻常胎生之轮回。

Verse 21

गतिरेषा दुरारोहा सर्वपापक्षयंकरी । मुच्यन्ते मङ्क्षु संसाराद्रेवामाश्रित्य जन्तवः

此道虽难攀登,却能灭尽诸罪。众生依止瑞瓦(Revā)者,迅速脱离轮回(saṃsāra)。

Verse 22

तस्मात्स्नायी भवेन्नित्यं तथा भस्मविलेपनः । नर्मदातीरमासाद्य क्षिप्रं सिद्धिमवाप्नुयात्

因此当日日沐浴,并以圣灰涂身。抵达那尔玛达河岸,便可迅速获得成就与圆满。

Verse 23

त्रिकालं पूजयेच्छान्तो यो नरो लिङ्गमादरात् । सर्वरोगविनिर्मुक्तः स याति परमां गतिम्

若有人心境寂静,于昼夜三时恭敬礼拜林伽(Liṅga),便能远离诸病,抵达至上的归趣。

Verse 24

षड्भिः सिध्यति मसैस्तु यद्यपि स्यात्स पापकृत् । ये पुनः शुद्धमनसो मासैः शुध्यन्ति ते त्रिभिः

即便是造罪之人,也能在六个月内得成就;而心地清净者,则于三个月内便得净化。

Verse 25

यथा दिनकरस्पृष्टं हिमं शैलाद्विशीर्यन्ते । तद्वद्विलीयते पापं स्पृष्टं भस्मकणैः शुभैः

正如山巅之雪被日轮触及便消融,如是罪业一触吉祥圣灰之微尘,亦即消散。

Verse 26

वैनतेयभयत्रस्ता यथा नश्यन्ति पन्नगाः । तद्वत्पापानि नश्यन्ति भस्मनाभ्युक्षितानि ह

正如群蛇畏惧毗那帝耶(迦楼罗)而灭亡,如是诸罪被圣灰洒抹其身,亦皆消亡。

Verse 27

नर्मदातोयपूतेन भस्मनोद्धूलयन्ति ये । सद्यस्ते पापसङ्घाच्च मुच्यन्ते नात्र संशयः

凡以那尔摩达河水所净之圣灰涂身者,立刻从罪业之聚中解脱;对此毫无疑虑。

Verse 28

व्रतं पाशुपतं भक्तया यथोक्तं पालयन्ति ये । शूद्रान्नेन विहीनास्तु ते यान्ति परमां गतिम्

凡以虔敬依教奉行帕修帕塔誓戒者,且不以首陀罗所供之食为生者,得至无上归趣。

Verse 29

अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यान्नमन्नमेव स्याच्छूद्रान्नं रुधिरं स्मृतम्

婆罗门之食被视为甘露;刹帝利之食被称为乳;吠舍之食不过是食物;而首陀罗之食则被记作血。

Verse 30

शूद्रान्नरससंपुष्टा ये म्रियन्ते द्विजोत्तमाः । ते तपोज्ञानहीनास्तु काका गृध्रा भवन्ति ते

那些被称为“最上等的再生者”,若以首陀罗所供之食的滋味为养而死,便失却苦行与灵知;他们将转生为乌鸦与秃鹫。

Verse 31

दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम्

确然,人之恶业依附于其饮食;谁食他人之食,实则吞食那人的罪垢。

Verse 32

विशेषाद्यतिधर्मेण तपोलौल्यं समाश्रिताः । नरकं यान्त्यसन्दिग्धमित्येवं शङ्करोऽब्रवीत्

尤其是那些受持出家之戒律,却执著于对苦行的贪恋者,必定堕入地狱——这是商羯罗所言。

Verse 33

ईदृग्रूपाश्च ये विप्राः पाशुपत्ये व्यवस्थिताः । ते महत्पापसंघातं दहन्त्येव न संशयः

凡此等婆罗门,若坚定安住于帕修帕塔之道,必能焚尽重重罪聚——对此无有疑惑。

Verse 34

विडम्बेन च संयुक्ता लौलुप्येन च पीडिताः । असंग्राह्या इत्येवं श्रुतिनोदना

凡与虚伪相缠、为贪欲所逼者,皆为“不可受纳”——此乃《闻传》(Śruti)的告诫。

Verse 35

मातापितृकृतैर्दोषैरन्ये केचित्स्वकर्मजैः । नष्टा ज्ञानावलेपेन अहङ्कारेणऽपरे

有人因父母所造之过而败亡;有人因自身业行所生之过而沉沦。又有人为学识之傲慢所毁,亦有人为我执(我慢、我想)所灭。

Verse 36

शाङ्करे प्रस्थिता धर्मे ये स्मृत्यर्थबहिष्कृताः । क्लिश्यमानास्तु कलेन ते यान्ति परमां गतिम्

凡发心行于商羯罗(Śaṅkara)之正法之道者,纵因《忆念经》(Smṛti)之规制而被排斥,亦虽为迦梨时代所逼恼,终得至上归趣。

Verse 37

अश्रद्दधानाः पुरुषा मूर्खा दम्भविवर्धिताः । न सिध्यन्ति दुरात्मानः कुदृष्टान्तार्थकीर्तनाः

无信之人,愚昧而为矫饰所膨胀,终不成就。心性邪恶者,援引歪曲之事例、宣说乖谬之义理,永不得证悟之果。

Verse 38

महाभाग्येऽपि तीर्थस्य शाङ्करं व्रतमास्थिताः । वियोनिं यान्त्यसन्दिग्धं लौलुप्येन समन्विताः

纵在极其吉祥之圣地,若受持湿婆之誓戒而心怀贪欲者,必定堕入不净之胎,受卑下之再生,毫无疑问。

Verse 39

न तीर्थैर्न च दानैश्च दुष्कृतं हि विलुप्यते । अज्ञानाच्च प्रमादाच्च कृतं पापं विनश्यति

恶业并非仅凭朝圣诸渡口(tīrtha)或施舍(dāna)便能尽除;然因无明与放逸而造之罪,若能觉悟正见、修持自制,便可令其消灭。

Verse 40

एवं ज्ञात्वा तु विधिना वर्तितव्यं द्विजातिभिः । परं ब्रह्म जपद्भिश्च वार्तितव्यं मुहुर्मुहुः

既知此理,二次生者当依正法而行。凡以持诵(japa)称念至上梵者,应当反复再三地观照思惟。

Verse 41

ऊर्ध्वरूपं विरूपाक्षं योऽधीते रुद्रमेव च । ईशानं पश्यते साक्षात्षण्मासात्सङ्गवर्जितः

若有人诵习《Ūrdhvarūpa》与《Virūpākṣa》诸赞,并研读鲁陀罗圣文,且远离世间执著;不出六个月,便能亲见伊舍那(湿婆)。

Verse 42

संहिताया दशावृत्तीर्यः करोति सुसंयतः । नर्मदातटमाश्रित्य स मुच्येत्सर्वपातकैः

若有人自持严谨、身心调伏,依止那尔摩达河岸而诵《三希多》十遍,即得解脱一切重罪。

Verse 43

पुराणसंहितां वापि शैवीं वा वैष्णवीमपि । यः पठेन्नर्मदातीरे शिवाग्रे स शिवात्मकः

无论是《往世书》汇编,或是湿婆派经典,乃至毗湿奴派经典;凡在那尔摩达河岸、于湿婆之前诵读者,即成具湿婆之性。

Verse 44

आ भूतसंक्षयं यावत्स्वर्गलोके महीयते । संसाख्यसनं हातुं पुरा प्रोक्तं तु नन्दिना

他在天界受尊崇,直至众生坏灭之时。此所谓“计数之座”——舍离世缠之修持——乃昔日由难提所宣说。

Verse 45

देवर्षिसिद्धगन्धर्वसमवाये शिवालये । नन्दिगीतामिमां राजञ्छृणुष्वैकमनाः शुभाम्

在湿婆的神庙中,诸天仙圣者(天仙、成就者与乾闼婆)齐集之处:“大王啊,请以一心专注聆听这吉祥的难提(Nandī)之歌。”

Verse 46

स्वर्गमोक्षप्रदां पुण्यां संसारभयनाशिनीम्

此歌吉祥而具功德,能赐天界之福与解脱(mokṣa),并摧破对轮回世间(saṃsāra)之怖畏。

Verse 47

संसारगह्वरगुहां प्रविहातुमेतां चेदिच्छथ प्रतिपदं भवतापखिन्नाः । नानाविधैर्निजकृतैर्बहुकर्मपाशैर्बद्धाः सुखाय शृणुतैकहितं मयोक्तम्

若你们在轮回(saṃsāra)炽热的苦恼中步步疲惫,真心欲脱离这深邃如洞窟的生死之境——纵然被自己以种种方式所造诸业之绳索重重系缚——那么,为你们的安乐与利益,请聆听我所宣说的这一唯一有益之教。

Verse 48

शक्र वक्रगतिं मा गा मा कृथा यम यातनाम् । चेतः प्रचेतः शमय लौलुप्यं त्यज वित्तप

舍迦罗(Śakra)啊,莫行曲邪之途;莫自招阎摩(Yama)界之苦刑。心啊——当自警觉:令其寂静,舍弃贪欲,财富之主啊。

Verse 49

दीनानाथविशिष्टेभ्यो धनं सर्वं परित्यज । यदि संसारजलधेर्वीचीप्रेङ्खोल्लनातुरः

若你因在轮回(saṃsāra)大海的波涛中颠簸而苦恼,就当舍尽一切财物,布施于贫困无依者——尤其是那些失去庇护的困厄之人。

Verse 50

जन्मोद्विग्नं मृतेस्त्रस्तं ग्रस्तं कामादिभिर्नरम् । स्रस्तं यो न यमादिभ्यः पिनाकी पाति पावनः

清净的主Pinākī(湿婆)护佑那人——因出生而忧惧、因死亡而战栗、被欲望等诸烦恼所吞没——使他不致落入阎摩及其同类之手。

Verse 51

मा धेहि गर्वं कीनाश हास्यं यास्यसि पीडयन् । प्राणिनं सर्वशरणं तद्भावि शरणं तव

莫起傲慢,吝啬之人;你若折磨众生,终将成为笑柄。那位一切众生的归依处——到最后也将成为你的归依。

Verse 52

कालः करालको बालः को मृत्युः को यमाधमः । शिवविष्णुपराणां हि नराणां किं भयं भवेत्

凶猛之时亦如孩童;对奉依湿婆与毗湿奴之人而言,死亡算什么,卑劣的阎摩又算什么?他们又怎会生起恐惧?

Verse 53

भवभारार्तजन्तूनां रेवातीरनिवासिनाम् । भर्गश्च भगवांश्चैव भवभीतिविभेदनौ

对被世间生存重担所压迫的众生,尤其是居于Revā河岸者,Bharga(湿婆)与吉祥的主(毗湿奴)二者,能摧破对轮回(saṃsāra)的恐惧。

Verse 54

शिवं भज शिवं ध्याय शिवं स्तुहि शिवं यज । शिवं नम वराक त्वं ज्ञानं मोक्षं यदीच्छसि

礼敬湿婆,观想湿婆,赞颂湿婆,供祭于湿婆;向湿婆顶礼吧,卑微之人——若你渴求真实之智与解脱(mokṣa)。

Verse 55

पठ पञ्चाननं शास्त्रं मन्त्रं पञ्चाक्षरं जप । धेहि पञ्चात्मकं तत्त्वं यज पञ्चाननं परम्

研习五面主的圣教;持诵五字真言;观照五重本原之理;并礼敬至上的五面大自在天。

Verse 56

किं तैः कर्मगणैः शोच्यैर्नानाभावविशेषितैः । यदि पञ्चाननः श्रीमान् सेव्यते सर्वथा शिवः

若能以一切方式全心奉事吉祥的五面湿婆,又何必为那些可叹的仪轨与业行之堆——因无量意图而纷然差别——而劳神?

Verse 57

किं संसारगजोन्मत्तबृंहितैर्निभृतैरपि । यदि पञ्चाननो देवो भावगन्धोपसेवितः

若不以真诚内敬之芬芳礼拜五面天主,那么即便是克制而庄重的言辞——不过回响世间狂象的嘶鸣——又有何用?

Verse 58

रे मूढ किं विषादेन प्राप्य कर्मकदर्थनाम् । भवानीवल्लभं भीमं जप त्वं भयनाशनम्

愚人啊,既因自作之业而受辱,何必沉溺忧惧?当持诵“毗摩”——婆伐尼之爱侣,能摧灭恐怖者。

Verse 59

नर्मदातीरनिलयं दुःखौघविलयंकरम् । स्वर्गमोक्षप्रदं भर्गं भज मूढ सुरेश्वरम्

迷妄者啊,当礼敬诸天之主——婆伽(Bharga)——居于那尔摩陀河岸,能消融苦海洪流,并赐予天界与解脱。

Verse 60

विहाय रेवां सुरसिन्धुसेव्यां तत्तीरसंस्थं च हरं हरिं च । उन्मत्तवद्भावविवर्जितस्त्वं क्व यासि रे मूढ दिगन्तराणि

你竟舍弃连诸天都奉事的圣河瑞瓦,又离开住在她岸边的哈拉与哈里;如狂人般失却正念——愚者啊,你要往何方去,漂泊到遥远的四方?

Verse 61

भज रेवाजलं पुण्यं यज रुद्रं सनातनम् । जप पञ्चाक्षरीं विद्यां व्रज स्थानं च वाञ्छितम्

当敬奉瑞瓦的圣水;当礼拜永恒的鲁陀罗;当诵持五字真言之明咒——便能到达所愿之处。

Verse 62

क्लेशयित्वा निजं कायमुपायैर्बहुभिस्तु किम् । भज रेवां शिवं प्राप्य सुखसाध्यं परं पदम्

何必以种种造作之法折磨自身之躯?当礼敬瑞瓦与湿婆;由其恩力,轻易成就至上的境地。

Verse 63

एवं कैलासमासाद्य नदीं स शिवसन्निधौ । जगौ यल्लोकपालानां तन्मयोक्तं तवाधुना

于是他抵达凯拉萨,在湿婆面前对诸世界的守护者陈说;我如今已将那番经过如实告知于你。

Verse 64

मार्कण्डेय उवाच । स्नानदानपरो यस्तु नित्यं धर्ममनुव्रतः । नर्मदातीरमाश्रित्य मुच्यते सर्वपातकैः

马尔坎德耶说道:凡恒常勤于沐浴与布施、日日随顺达摩者——依止那尔摩达河岸——便能解脱一切罪垢。

Verse 65

विधिहीनो जपेन्नित्यं वेदान्सर्वाञ्छतं समाः । मृत्युलाङ्गलजाप्येन समो योऽप्यधिको गुणैः

纵使有人不具备如法仪轨,日日诵持一切吠陀满百年,其所得功德也至多仅与诵念“摩利提优-兰伽罗”(Mṛtyu-lāṅgala)真言之持诵功德相等;而此真言持诵实更为殊胜超越。

Verse 66

बीजयोन्यविशुद्धस्तु यथा रुद्रं न विन्दति । तथा लाङ्गलमन्त्रोऽपि न तिष्ठति गतायुषि

正如种姓与血脉不净者不能得见鲁陀罗(Rudra),同样,兰伽罗(Lāṅgala)真言也不在寿命已尽、灵力枯竭之人身上安住而显效。

Verse 67

गायत्रीजपसंयुक्तः संयमी ह्यधिको गुणैः । अग्निमीडे इषेत्वो वा अग्न आयाहि नित्यदा

持戒自制、恒常持诵伽耶特丽(Gāyatrī)者,德行更为超胜。或者,也应每日常诵如“agnim īḍe”“iṣetvo”以及“agna āyāhi”等吠陀祈请之句。

Verse 68

शन्नो देवीति कूलस्थो जपेन्मुच्येत किल्बिषैः

立于河岸之上,当诵念以“śaṃ no devī…”开头之真言;如是持诵,便能解脱诸罪垢。

Verse 69

साङ्गोपाङ्गांस्तथा वेदाञ्जपन्नित्यं समाहितः । न तत्फलमवाप्नोति गायत्र्या संयमी यथा

纵使有人日日专注诵持诸吠陀,连同其支分与附属经典,也仍不能获得与那位自制而专修伽耶特丽(Gāyatrī)者相等的果报。

Verse 70

रुद्राध्यायं सकृज्जप्त्वा विप्रो वेदसमन्वितः । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

具足吠陀正知的婆罗门,哪怕只诵念一次鲁陀罗章,亦能解脱一切罪业,往生毗湿奴之界。

Verse 71

अन्यद्वै जप्यसंस्थानं सूक्तमारण्यकं तथा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

同样地,诵持其他既定的持诵之文——吠陀的颂歌(sūkta)以及《阿兰若迦》诸段——亦能解脱一切罪业,前往毗湿奴之界。

Verse 72

यत्किंचित्क्रियते जाप्यं यच्च दानं प्रदीयते । नर्मदाजलमाश्रित्य तत्सर्वं चाक्षयं भवेत्

无论所行何种持诵,无论所施何种布施;若依止那尔摩达圣水而行,一切功德皆成不坏,福报无尽。

Verse 73

एवंविधैर्व्रतैर्नित्यं नर्मदां ये समाश्रिताः । ते मृता वैष्णवं यान्ति पदं वा शैवमव्ययम्

恒常依止那尔摩达,并日日奉行如是誓戒(vrata)者,命终之时得至不坏之境:或入毗湿奴之域,或入湿婆之域。

Verse 74

सत्यलोकं नराः केचित्सूर्यलोकं तथापरे । अप्सरोगणसंवीता यावदाभूतसम्प्लवम्

有些人得至真谛天(Satyaloka),另一些亦至日天(Sūryaloka);为众天女(apsarā)所侍从,直至众生世界的大劫坏灭之时。

Verse 75

एवं वै वर्तमानेऽस्मिंल्लोके तु नृपपुंगव । ऋषीणां दशकोट्यस्तु कुरुक्षेत्रनिवासिनाम्

如此,当此世间仍如常运转之时,噢诸王之最胜者,据说有十俱胝(十亿)圣仙(ṛṣi)居住于俱卢之野(Kurukṣetra)。

Verse 76

मया सह महाभाग नर्मदातटमाश्रिताः । फलमूलकृताहारा अर्चयन्तः स्थिताः शिवम्

噢有福者,他们与我一同依止于那尔玛达河岸;以果与根为食,安住其处,礼敬供奉湿婆(Śiva)。

Verse 77

तच्च वर्षशतं दिव्यं कालसंख्यानुमानतः । षड्विंशतिसहस्राणि तानि मानुषसंख्यया

那一百年的天界岁月——依神圣时量而计——在人的算法中,相当于二万六千年。

Verse 78

ततस्तस्यामतीतायां सन्ध्यायां नृपसत्तम । शेषं मानुष्यमेकं तु काले वर्षशतं स्थितम्

其后,噢诸王之最胜者,当那段黄昏般的过渡期已逝,只余一段人间寿量;然而随时间推移,它竟延续了一百年。

Verse 79

ततोऽभवदनावृष्टिर्लोकक्षयकरी तदा । यया यातं जगत्सर्वं क्षयं भूयो हि दारुणम्

此后,便兴起一场无雨大旱,足以招致诸世间的衰亡;由此,整个造化再次走向可怖的毁灭。

Verse 80

ये पूर्वमिह संसिद्धा ऋषयो वेदपारगाः । तेषां प्रभावाद्भगवान् ववर्ष बलवृत्रहा

由于那些昔日于此成就圆满、已渡吠陀彼岸的圣仙之威德,至福的主——强大神勇、诛灭弗利陀罗(Vṛtra)者——降下甘霖。

Verse 81

महती भूरिसलिला समन्ताद्वृष्टिराहिता । ततो वृष्ट्या तु तेषां वै वर्तनं समजायत

随即四方倾注大雨,处处水量丰沛;凭借这场降雨,他们的生计与延续得以恢复。

Verse 82

पुनर्युगान्ते सम्प्राप्ते किंचिच्छेषे कलौ युगे । निःशेषमभवत्सर्वं शुष्कं स्थावरजङ्गमम्

又当劫末将至、迦利时代仅余些许之时,一切——无论静止者与行走者——都彻底干枯。

Verse 83

निर्वृक्षौषधगुल्मं च तृणवीरुद्विवर्जितम् । अनावृष्टिहतं सर्वं भूमण्डलमभूद्भृशम्

整个大地界因无雨之灾而深受重创:树木、药草、灌木尽失,草类与藤蔓亦皆绝灭。

Verse 84

ततस्ते ऋषयः सर्वे क्षुत्तृषार्ताः सहस्रशः । युगस्वभावमाविष्टा हीनसत्त्वा अभवन्नृप

于是那些圣仙成千上万,饥渴所迫,被时代之性所笼罩;他们的精气衰微,哦,大王。

Verse 85

नष्टहोमस्वधाकारे युगान्ते समुपस्थिते । किं कार्यं क्व नु यास्यामः कोऽस्माकं शरणं भवेत्

当劫末来临,火供(homa)与祭祖的svadhā供献都已断绝,我们该作何事?我们究竟往何处去?谁能成为我们的归依?

Verse 86

तानहं प्रत्युवाचेदं मा भैष्टेति पुनःपुनः । ईदृग्विधा मया दृष्टा बहवः कालपर्ययाः

我一再回答他们:“莫要恐惧。”如此这般的时运轮转、世道翻覆,我已见过许多次。

Verse 87

नर्मदातीरमाश्रित्य ते सर्वे गमिता मया । एषा हि शरणं देवी सम्प्राप्ते हि युगक्षये

我依止那尔玛达河岸,引领他们众人来到此处;因为这位女神——那尔玛达——在劫尽、瑜伽终末之时,确是真正的庇护所。

Verse 88

नान्या गतिरिहास्माकं विद्यते द्विजसत्तमाः । जनित्री सर्वभूतानां विशेषेण द्विजोत्तमाः

噢,最殊胜的两次生者啊,在此我们别无他途、别无所依。她是万有众生之母——尤其是你们这些最上等的婆罗门啊。

Verse 89

पितामहा ये पितरो ये चान्ये प्रपितामहाः । ते समस्ता गताः स्वर्गं समाश्रित्य महानदीम्

祖父、父亲以及其他祖先——乃至曾祖——都因依止这条大河而同得升天。

Verse 90

भृग्वाद्याः सप्त ये त्वासन्मम पूर्वपितामहाः । धौमृणी च महाभागा मम भार्या शुचिस्मिता । मनस्वती च या मता भार्गवोऽङ्गिरसस्तथा

以婆利古(Bhṛgu)为首的七位,是我远古的祖先;又有多摩哩尼(Dhaumṛṇī)这位福德具足者——我那笑容清净的妻子;以及为传统所追念的摩那斯伐蒂(Manasvatī);同样还有婆伽婆(Bhārgava)与安吉罗萨(Āṅgirasa)——皆与此神圣成就相连。

Verse 91

पुलस्त्यः पुलहश्चैव वसिष्ठात्रेयकाश्यपाः । तथान्ये च महाभागा नियमव्रतचारिणः । अन्ये च शतसाहस्रा अत्र सिद्धिं समागताः

普罗娑底耶(Pulastya)、普罗诃(Pulaha)、婆悉吒(Vasiṣṭha)、阿底利(Atri)与迦叶(Kāśyapa);以及其他大福德者,奉持戒律与誓愿而行——确有成百上千万人在此证得成就(siddhi)。

Verse 92

तस्मादियं महाभागा न मोक्तव्या कदाचन । नान्या काचिन्नदी शक्ता लोकत्रयफलप्रदा

因此,这条大福德之河永不可舍弃。别无任何河流能赐予关乎三界的果报。

Verse 93

द्वन्द्वैरनेकैर्बहुभिः क्षुत्तृषाद्यैर्महाभयैः । मुच्यन्ते ते नराः सद्यो नर्मदातीरवासिनः

居住在讷尔摩陀河(Narmadā)岸边的人,立刻从种种对待与苦难中解脱——饥饿、口渴,以及其他巨大的恐惧。

Verse 94

तस्मात्सर्वप्रयत्नेन सेवितव्या सरिद्वरा । वाञ्छद्भिः परमं श्रेय इह लोके परत्र च

因此,凡求至上善者,当竭尽全力侍奉并礼敬这最胜之河——于此世与彼世皆然。