
本章由圣贤摩尔坎德耶(Mārkaṇḍeya)宣说,将朝圣教诲置于兼具战阵与神学意味的起源叙事之中。听者被引往塞那补罗(Senāpura)的“轮圣渡口”Cakratīrtha,称其为无与伦比的净罪之地,能洗除诸过。 故事背景为摩诃塞那(Mahāsena)受军职灌顶、就任统帅(senāpatyābhiṣeka)之仪,因欲击败达那婆(dānava)而由因陀罗率诸天神共襄。达那婆鲁鲁(Ruru)闯入扰乱,遂爆发大规模战斗,按《往世书》惯例罗列兵器与阵形。转折在于毗湿奴施放苏达尔沙那神轮(Sudarśana-cakra),斩落鲁鲁之首,破除灌顶障碍;神轮继而裂其身躯,坠入清净之水,由此确立此渡口之名与神圣功用。 后半部分宣示功德:于此沐浴并礼敬阿周陀(Acyuta),得如举行“白莲祭”Puṇḍarīka-yajña之果;沐浴并供敬持戒有律的婆罗门,则获“俱胝倍”(koṭi-fold)之报。若以虔敬舍身于此,得往毗湿奴界(Viṣṇuloka),享受吉祥安乐,终复生于显贵家族。章末判定此tīrtha为蒙福、灭苦、除罪之所,并提示后续教诲将继续展开。
Verse 1
श्रीमार्कण्डेय उवाच । ततो गच्छेन्महीपाल चक्रतीर्थमनुत्तमम् । सेनापुरमितिख्यातं सर्वपापक्षयंकरम्
圣者马尔坎德耶说道:于是,噢大地的守护者,应前往无与伦比的恰克拉圣渡(Cakra-tīrtha),又名塞那补罗(Senāpura),能灭尽一切罪业。
Verse 2
सैनापत्याभिषेकाय देवदेवेन चक्रिणा । आनीतश्च महासेनो देवैः सेन्द्रपुरोगमैः
为举行天界统帅之灌顶加冕,持轮的天神之主亲自引领,偕同以因陀罗为首的诸天,将摩诃军(Mahāsena)迎来。
Verse 3
दानवानां वधार्थाय जयाय च दिवौकसाम् । भूमिदानेन विप्रेन्द्रांस्तर्पयित्वा यथाविधि
为诛灭达那婆(Dānava)并使天众得胜,先依仪轨以布施土地,恭敬满足诸婆罗门中的尊长。
Verse 4
शङ्खभेरीनिनादैश्च पटहानां च निस्वनैः । वीणावेणुमृदङ्गैश्च झल्लरीस्वरमङ्गलैः
伴随着海螺与贝里鼓(bheṛī)的轰鸣,战鼓(paṭaha)的回响,以及维那琴(vīṇā)、笛、姆利当伽鼓(mṛdaṅga)与铙钹清响所奏的吉祥乐音——
Verse 5
ततः कृत्वा स्वनं घोरं दानवो बलदर्पितः । रुरुर्नाम विघातार्थमभिषेकस्य चागतः
随后,他发出骇人的咆哮;那名自恃勇力的达那婆(Dānava)名叫鲁鲁(Ruru),前来意欲阻挠圣灌顶(abhiṣeka)之礼。
Verse 6
हस्त्यश्वरथपत्त्योघैः पूरयन्वै दिशो दश । तत्र तेन महद्युद्धं प्रवृत्तं किल भारत
他以成群的战象、战马、战车与步兵充塞十方;因他之故,那里果然爆发了一场大战,噢,婆罗多(Bhārata)。
Verse 7
शक्त्यृष्टिपाशमुशलैः खड्गैस्तोमरटङ्कनैः । भल्लैः कर्णिकनाराचैः कबन्धपटसंकुलैः
以长枪、投枪、套索与棍棒;以利剑、托摩罗枪与战斧;又以婆罗箭(bhalla)与倒刺之矢——战场拥塞着无首之躯与断裂的肢体——
Verse 8
ततस्तु तां शत्रुबलस्य सेनां क्षणेन चापन्च्युतबाणघातैः । विध्वस्तहस्त्यश्वरथान्महात्मा जग्राह चक्रं रिपुसङ्घनाशनः
于是,他以弓中不坠之箭在刹那间连连击中,粉碎了敌军之阵——战象、战马与战车尽皆毁坏;那位大魂者、灭敌众之主,遂执起神轮。
Verse 9
ज्वलच्च चक्रं निशितं भयंकरं सुरासुराणां च सुदर्शनं रणे । चकर्त दैत्यस्य शिरस्तदानीं करात्प्रमुक्तं मधुघातिनश्च तत्
那炽燃、锋利而可怖的神轮——战场上为诸天与阿修罗同惧的苏达尔沙那(Sudarśana)——自摩度苏陀那(Madhusūdana)之手掷出,当即斩落那达伊提耶(Daitya)之首。
Verse 10
तं दृष्ट्वा सहसा विघ्नमभिषेके षडाननः । त्यक्त्वा तु तत्र संस्थानं चचार विपुलं तपः
见到灌顶之礼忽遭障碍,六面圣主(Ṣaḍānana)即刻离开彼处,修行广大苦行(tapasyā)。
Verse 11
मुक्तं चक्रं विनाशाय हरिणा लोकधारिणा । द्विदलं दानवं कृत्वा पपात विमले जले
护持诸世的哈利(Hari)为灭除而放出神轮,神轮将那达那婆(Dānava)劈为两半,他遂坠入清净之水。
Verse 12
तदा प्रभृति तत्तीर्थं चक्रतीर्थमिति श्रुतम् । सर्वपापविनाशाय निर्मितं विश्वमूर्तिना
自此以后,那处圣渡口闻名为“恰克拉圣地”(Cakratīrtha)。它由具一切形相的主所建立,为灭尽诸罪。
Verse 13
चक्रतीर्थे तु यः स्नात्वा पूजयेद्देवमच्युतम् । पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः
凡于恰克拉圣地(Cakratīrtha)沐浴,并礼敬不失不败的阿周多(Acyuta)者,必得如同本陀利迦(Puṇḍarīka)祭祀之功德。
Verse 14
तत्र तीर्थे तु यः स्नात्वा पूजयेद्ब्राह्मणाञ्छुभान् । शान्तदान्तजितक्रोधान्स लभेत्कोटिजं फलम्
又凡在彼处圣地(tīrtha)沐浴,并供敬吉祥婆罗门——安宁、克己、降伏嗔怒者——便得亿倍(crore)增广之福德。
Verse 15
तत्र तीर्थे तु यो भक्त्या त्यजते देहमात्मनः । विष्णुलोकं मृतो याति जयशब्दादिमङ्गलैः
凡以虔敬之心在彼圣地(tīrtha)舍身者,命终即往毗湿奴之界,蒙吉祥的“胜利(Jaya)”呼声与祝福迎接。
Verse 16
क्रीडयित्वा यथाकामं देवगन्धर्वपूजितः । इहागत्य च भूयोऽपि जायते विपुले कुले
随心尽享其乐,受诸天与乾闼婆礼敬之后,他又再回此世,复生于富盛之家。
Verse 17
एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् । कथितं ते महाभाग भूयश्चान्यच्छृणुष्व मे
此等圣说,能生福德、灭罪垢、具吉祥、除忧苦,已为汝宣说,吉祥者啊;今且再听我更进一步之言。
Verse 109
। अध्याय
章——本段落的结语标记。