Adhyaya 106
Avanti KhandaReva KhandaAdhyaya 106

Adhyaya 106

本章为马尔坎德耶所宣说的圣地功德(tīrtha-māhātmya)与仪轨教诫,劝一位君王前往摩希帕拉圣渡(Mahīpāla Tīrtha)。此地被赞为极其殊胜美丽,能成就吉祥福运(saubhāgya),对男女皆有利益,尤能救护遭逢厄运之人,并规定应专心礼敬乌玛与鲁陀罗。 文中详列修持次第:以戒行自持、调伏诸根,于月相第三日持斋;再以虔敬邀请一对德行具足的婆罗门夫妇。以香、花鬘、芬芳衣服等恭敬款待,并供养甜乳饭(pāyasa)与杂粮饭(kṛsara);随后绕行(pradakṣiṇā),口诵祈愿偈,求大自在天(Mahādeva)与其圣妃同垂恩佑,愿夫妇不相离散。 经文对比果报:若轻慢不修,则贫困、忧苦与多生不育等不幸绵延;若如法奉行,尤其在吉耶什塔月(Jyeṣṭha)明半月的第三日,则能灭罪增福,且以布施令功德倍增。又说当以婆罗门女与婆罗门男视作高丽(Gaurī)与湿婆(Śiva)之化身,涂抹朱砂(sindūra、kuṅkuma),并施与首饰、谷物、饮食等诸供。章末果报赞(phalaśruti)宣示世间与解脱之利:功德增长、与商羯罗(Śaṅkara)相应的胜乐、福运充盈;无子者得子、贫者得财,并称此纳尔玛达河畔圣渡为满愿之地。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । ततो गच्छेन्महीपाल तीर्थं परमशोभनम् । सौभाग्यकरणं दिव्यं नरनारीमनोरमम्

圣者马尔坎德耶说道:随后,大王当前往一处极其庄严殊胜的圣地(tīrtha)——神圣的渡口;此地灵妙,能成就吉祥,令男女皆心生欢喜。

Verse 2

तत्र या दुर्भगा नारी नरो वा नृपसत्तम । स्नात्वार्चयेदुमारुद्रौ सौभाग्यं तस्य जायते

在那里,王中最胜者啊,无论是不幸的女子或男子,沐浴之后应礼拜乌玛与鲁陀罗;于是此人便生起吉祥福运。

Verse 3

तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः । निमन्त्रयेद्द्विजं भक्त्या सपत्नीकं सुरूपिणम्

在第三更之时,整整一昼夜持斋、制御诸根,应以虔敬邀请一位相貌端正的婆罗门,并偕其妻同来。

Verse 4

गन्धमाल्यैरलंकृत्य वस्त्रधूपादिवासितम् । भोजयेत्पायसान्नेन कृसरेणाथ भक्तितः

以香料与花鬘庄严之,并奉上以熏香等薰染的衣物;复以恭敬之心供食甜乳饭与克里萨拉(杂粮饭)。

Verse 5

भोजयित्वा यथान्यायं प्रदक्षिणमुदाहरेत् । प्रीयतां मे महादेवः सपत्नीको वृषध्वजः

如法供养毕,当行右绕礼,并诵曰:“愿大天(摩诃提婆)——牛旗之湿婆,与其圣妃——垂悦于我。”

Verse 6

यथा ते देवदेवेश न वियोगः कदाचन । ममापि करुणां कृत्वा तथास्त्विति विचिन्तयेत्

“噢,诸天之主,正如你与圣妃永无离别;也请怜悯于我,愿亦如是。”当如是内心观想。

Verse 7

एवं कृते ततस्तस्य यत्पुण्यं समुदाहृतम् । तत्ते सर्वं प्रवक्ष्यामि यथा देवेन भाषितम्

当此事完成后,由此所宣说生起的功德(puṇya)——我将尽数告诉你,正如天主所亲口宣示的一般。

Verse 8

दौर्भाग्यं दुर्गतिश्चैव दारिद्र्यं शोकबन्धनम् । वन्ध्यत्वं सप्तजन्मानि जायते न युधिष्ठिर

不幸与恶途、贫困与忧苦之缚——乃至七生七世的无子之苦——都会生起(于违犯此法者),哦,坚战(Yudhiṣṭhira)。

Verse 9

ज्येष्ठमासे सिते पक्षे तृतीयायां विशेषतः । तत्र गत्वा तु यो भक्त्या पञ्चाग्निं साधयेत्ततः

尤其在耶什塔月(Jyeṣṭha)明半月的第三日(tṛtīyā),凡前往那圣地,并以虔敬修持五火苦行者——

Verse 10

सोऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः । गुग्गुलं दहते यस्तु द्विधा चित्तविवर्जितः

——他也必从一切罪垢中解脱;对此毫无疑虑。又凡焚烧古古卢香脂(guggulu),心念不二、不摇不散者,

Verse 11

शरीरं भेदयेद्यस्तु गौर्याश्चैव समीपतः । तस्मिन्कर्मप्रविष्टस्य उत्क्रान्तिर्जायते यदि

凡在高丽女神(Gaurī)近旁刺穿(苦修以折伏)其身者;若在行此仪轨之中发生“出离”(死亡)——

Verse 12

देहपाते व्रजेत्स्वर्गमित्येवं शङ्करोऽब्रवीत् । सितरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः

——当身躯陨落之时,彼将往生天界:这是圣者商羯罗(Śaṅkara)所宣说。以白、红以及黄等种种吉祥衣服——

Verse 13

ब्राह्मणीं ब्राह्मणं चैव पूजयित्वा यथाविधि । पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः

依照仪轨恭敬供养一位婆罗门女(brāhmaṇī)与一位婆罗门(brāhmaṇa),以种种花鬘,并以芬芳殊胜的香料与熏香,

Verse 14

कण्ठसूत्रकसिन्दूरैः कुङ्कुमेन विलेपयेत् । कल्पयेत स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम्

当以颈饰与颈线、以朱砂(sindūra)与藏红花粉(kuṅkuma)为其涂抹。应观想此女即是高丽(Gaurī),此婆罗门即具湿婆(Śiva)之真形。

Verse 15

तेषां तद्रूपकं कृत्वा दानमुत्सृज्यते ततः । कङ्कणं कर्णवेष्टं च कण्ठिकां मुद्रिकां तथा

既依其形貌制成象征之像,随后便施与供献:手镯、耳饰、项链,以及戒指等,

Verse 16

सप्तधान्यं तथा चैव भोजनं नृपसत्तम । अन्यान्यपि च दानानि तस्मिंस्तीर्थे ददाति यः

大王中之最胜者啊,凡于彼圣地(tīrtha)施舍七种谷粮,并施食物及其他诸般布施者——

Verse 17

सर्वदानैश्च यत्पुण्यं प्राप्नुयान्नात्र संशयः । सहस्रगुणितं सर्वं नात्र कार्या विचारणा

由一切布施所能获得的功德,在此处必定得之,毫无疑惑。诸善尽皆增至千倍;于此不必再作思量。

Verse 18

शङ्करेण समं तस्माद्भोगं भुङ्क्ते ह्यनुत्तमम् । सौभाग्यं तस्य विपुलं जायते नात्र संशयः

因此他得享无上安乐,与圣者商羯罗同等。其人福运广大,由此毫无疑惑。

Verse 19

अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । राजेन्द्र कामदं तीर्थं नर्मदायां व्यवस्थितम्

大王中之王啊,在那摩陀河上所安立的如意圣渡口,求子不得者得子,贫乏之人亦得财富。

Verse 106

। अध्याय

章终标记:本章(Adhyāya)。