Adhyaya 102
Avanti KhandaReva KhandaAdhyaya 102

Adhyaya 102

Shlokas

Verse 1

मार्कण्डेय उवाच । मन्मथेशं ततो गच्छेत्सर्वदेवनमस्कृतम् । स्नानमात्रान्नरो राजन्यमलोकं न पश्यति

马尔坎德耶(Mārkaṇḍeya)曰:其后当往曼摩提湿婆(Manmatheśa),为诸天所礼敬。大王啊,仅在彼处沐浴,人便不再见阎摩(Yama)之界。

Verse 2

अनपत्या या च नारी स्नायाद्वै पाण्डुनन्दन । पुत्रं सा लभते पार्थ सत्यसङ्घं दृढव्रतम्

凡无子之女于彼处沐浴者,般度之子啊——帕尔塔(Pārtha)——必得一子,守真不移,誓愿坚固。

Verse 3

तत्र स्नात्वा नरो राजञ्छुचिः प्रयतमानसः । उपोष्य रजनीमेकां गोसहस्रफलं लभेत्

大王啊,在那里沐浴之后,若人清净、心意调伏,当守一夜斋戒;便得如布施千牛之功德。

Verse 4

कामिकं तीर्थराजं तु तादृशं न भविष्यति । त्रिरात्रं कुरुते राजन्स गोलक्षफलं लभेत्

诚然,如此能成就所愿的“诸圣地之王”别处难得。大王啊,若有人在那里守三夜之誓戒,便得如布施十万牛之功德。

Verse 5

तत्र नृत्यं प्रकर्तव्यं तुष्यते परमेश्वरः । गीतवादित्रनिर्घोषै रात्रौ जागरणेन च

在那里应当行圣舞;至上主(湿婆)因此欢喜——因歌咏与乐器之声回荡,又因夜间守夜不眠。

Verse 6

एरण्ड्यां च महादेवो दृष्टो मे मन्मथेश्वरः । किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति

又在Ēraṇḍī,我得见大天(摩诃提婆)为爱神主(Manmatheśvara)。阎摩纵使震怒,那里又怎能逞威?因为吉祥之主所观所赐,唯是吉祥。

Verse 7

कामेन स्थापितः शम्भुरेतस्मात्कामदो नृप । सोपानः स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः

大王啊,商婆(Śambhu)因伽摩(Kāma)而安立于此,故能赐予所愿。此地上的爱神主(Manmatheśvara),乃通往天界之路的阶梯。

Verse 8

विशेषश्चात्र सन्ध्यायां श्राद्धदाने च भारत । अन्नदानेन राजेन्द्र कीर्तितं फलमुत्तमम्

噢,婆罗多啊,在此地,于暮时的沙暮耶(sandhyā,黄昏礼拜)以及为施罗陀(śrāddha)所作的供施之时,尤具殊胜功德。噢,诸王之最,此处宣说布施饮食所得的无上果报。

Verse 9

एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत । पृथिव्यां सागरान्तायां प्रख्यातो मन्मथेश्वरः

噢,婆罗多啊,因你虔敬之故,这一切都已向你宣说。曼摩提湿伐罗(Manmatheśvara)之名遍闻于四海环绕的大地之上。

Verse 10

गोदानं पाण्डवश्रेष्ठ त्रयोदश्यां प्रकारयेत् । चैत्रे मासि सिते पक्षे तत्र गत्वा जितेन्द्रियः

噢,般度族中最胜者,应在月之第十三日筹办“施牛”(go-dāna)。于恰特罗月(Caitra)白半月,前往彼处,调伏诸根而行此施。

Verse 11

रात्रौ जागरणं कृत्वा देवस्याग्रे नृपोत्तम । दीपं भक्त्या घृतेनैव देवस्याग्रे निवेदयेत्

噢,诸王之最,夜间在神前守夜之后,应以虔敬之心,在主尊之前奉献一盏酥油灯。

Verse 12

स्त्र्यथ वा पुरुषो वापि सममेतत्फलं स्मृतम्

无论是女子还是男子,此修持所得之果报,被宣说为同等无别。

Verse 102

। अध्याय

本章终了(adhyāya)。